मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
पृष्ठ 59, कुल 804 में से
संदर्भ में पढ़ें१ ] प्रथमाध्याये द्वितीयपादः ७ ननु समस्ताक्षेपवादिनामप्येकदेशाक्षेप इष्ट एवेति आशङ्कावधारणं विव- क्षितमिति दर्शयन्नाह—नेति । विध्युद्देशानां धर्मप्रमितिहेतुत्वस्य प्रतिपादित- त्वादिति भावः । तत्र वृत्तिकाराभिप्रेतं सर्वाक्षेप हेतुं निराकर्तुमाविष्करोति— नन्विति । एकदेशोऽर्थवादादिः पदसमूहो विध्युद्देशः स्वस्मै प्रयोजनाय—स्वीय- धर्मप्रमितिरूपकार्यसम्पादनायेत्यर्थः । अपर्याप्तौ हेतुः साकाङ्क्ष इति । अतस्त- दाक्षेपेणाक्षिप्ता एव पदसमूहरूपा विध्युद्देशा इत्यर्थः । निराकरोति—नैवमिति । न तावत्सर्वो विध्युद्देशः सार्थवादः, वसन्ताय कपिञ्जलानालभतेत्यादेश्चुद्धस्यापि दर्शनात्, यत्र तु 'वायव्यं श्वेतमालभेते' त्यादौ तद्वत्त्वम्, तत्रापि न तदाक्षेपेण सर्वाक्षेपनियम इत्याह—भवति हीति । कश्चिद्व्वायव्यं श्वेतमित्यादिः, कश्चिदर्थमिवान्तरवाक्यार्थं श्वेतालम्भनादिरूपम्, किमर्थानि तर्ह्यर्थवादपदानीति चेत् तत्राह—तैरिति । अर्थान्तरे—स्तुतिस्तुत्य- सम्बन्धात्मके महावाक्यार्थे तर्ह्येकदेशाक्षेपेण महावाक्यस्याक्षेपः स्यादित्या- शङ्क्य सिद्धसाधनतामाह—तानीति । अर्थवादपदैः संयुज्य महावाक्यार्थे वर्तमानान्येकदेशाक्षेपेणाक्षिप्यन्त इति अर्थवादाप्रामाण्येन महावाक्यार्थाविव- क्षायामप्यवान्तरवाक्यार्थविवक्षा दुर्निवारेति भावः ॥ १ ॥ तन्त्रवार्त्तिकम् सिद्धप्रमाणभावस्य धर्मे वेदस्य सर्वशः । विध्यर्थवादमन्त्राणामुपयोगोऽधुनोच्यते ॥ १ ॥ सामान्यतः प्रामाण्ये सिद्धेऽधुना विभज्य विनियोगः प्रतिपाद्यते । अवधूत- प्रामाण्यस्य वा वेदस्येदानीं समस्तस्य विध्यर्थवादमन्त्रनामधेयात्मकस्य यथा- विभागं धर्मं प्रत्युपयोगः प्रतिपाद्यते । तत्र पूर्वपक्षवाद्यभिप्रायः । 'चोदना- लक्षणोऽर्थो धर्म; वै० सू० १।१।१० इत्युपक्रमात्, 'तस्य ज्ञानमुपदेशः' इति परा- मर्शात्, तद्भूतानां क्रियार्थेन समाम्नाय इत्युपसंहाराद्विधिप्रतिषेधयोरेव प्रामाण्यं प्रतिपादितम्, न च तद्व्यतिरिक्तशब्दगम्यत्वं धर्माधर्मयोः, नाप्यनधिगतार्थबोधनं मुक्त्वाऽन्यः शब्दस्य व्यापारोऽस्तीत्युक्तमेव । अतश्च यावन्त्येव साध्यसाधनेति- कर्तव्यतावाचित्वेन विधिप्रतिषेधान्तर्गतानि, तेषां भवतु प्रामाण्यम्, यानि त्वतिरिक्तान्यर्थवादमन्त्रनामधेयानुपातीनि 'सोऽरोदीदिषे त्वोर्जे त्वोद्भ्रिदेत्ये- वमादीनि, तानि सत्यप्यपौरुषेयत्वे, अर्थाभिधानसामर्थ्ये च धर्माधर्मयोरप्रमाणम्, अतदर्थत्वात् । यथाश्रुतगृहीतानां तावत्प्रतीत्यनुपलब्धेः प्रसिद्धमेवातदर्थत्वम् । अथ कयाचिच्छब्दवृत्त्या तादर्थ्यं कल्प्येत, एवमपि व्यवस्थाहेत्वभावान्न धर्माधर्मयोरवधारणं स्यात् । यदेव हि वाक्यं गृहीतं तदेवाध्याहारविपरिणा- मादिभिर्यथेष्टं कल्पयितुं शक्यते । तद्यथा सोऽरोदीदित्येवमेव तावद्वाक्यं विशिष्ट-