BharatKosha
Back to the archive

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

by महर्षि मुद्गल

Source: निर्णय सागर प्रेस · निर्णय सागर प्रेस (origin)

DevanagariSanskritpublished1,023 pages

प्रारंभिक पृष्ठ व विषय-सूची

Page 1Permalink

खं. १ अ. १ पान १

॥ ॐ नमः श्रीस्वानंदेशगणेशाय पूर्णयोगात्मने ॥

॥ श्रीगणेशाय नमः ॥ अथ श्रीमन्मौद्गलपुराणप्रारंभः। ध्याये स्थिरेण चित्तेन गणेशं सर्वसिद्धिदम् । बुद्धिप्रकाशकं पूर्णं योगिनां हृदि संस्थितम् ॥१॥ जितं तेनाखिलं नानाब्रह्मवर्णनवर्णितम् । नानाजगत्समूहं वै गणेशेनोभयं कृतम् ॥२॥ भक्तसंरक्षणार्थाय निर्गुणः सगुणस्तु यः। नानावतारवान्सोऽपि नानाभेदधरो बभौ ॥३॥ तस्मै नमो गणेशाय नरकुंजररूपिणे। सगुणो नररूपो यो निर्गुणो गजवक्त्रकः ॥४॥ नमः शिवाय शांताय विष्णवे प्रभविष्णवे । सूर्याय शक्तये चैव चतुर्धा ते विभागिने ॥५॥ ब्रह्माणं शेषनागं च नरं नारायणं सदा । नमामि भावयुक्तोऽहं पुराणपुरुषं परम् ॥६॥ देवानां योगिनां चैव महर्षीणां महात्मनाम् । व्रजामि शरणं नित्यं पुराणज्ञानसिद्धये ॥७॥ पुराकल्पेऽभवन्विप्राः शौनकाद्याः सुसाधनाः । कलिदोषभयात्सर्वे नैमिषारण्यमाश्रिताः ॥८॥ तस्मिन्कलियुगावासं ज्ञात्वादौ ब्रह्मणो मुखात् । मुनिधर्मप्रसिद्धयर्थं कर्मज्ञान- प्रसिद्धये ॥९॥ अन्यच्च ब्रह्मणा प्रोक्तं पुराणश्रवणं सदा । कलिदोषहरं पुण्यं तदर्थमभवन्द्यताः ॥१०॥ कस्मिंश्चित्समये सूतो लोमहर्षण आययौ। मुनीनां दर्शनार्थाय पुराणज्ञो विचक्षणः ॥११॥ नैमिषारण्यशोभां च पश्यंस्तत्र सुविस्मितः । अहो धन्यं महारण्यं कलिदोषविवर्जितम् ॥१२॥ दृष्ट्वा वै मुनयस्तेन सुप्रसन्नाननाम्बुजाः । नित्यनैमित्तिककराः स्वधर्माचरणप्रियाः ॥१३॥ पंचयज्ञरतास्तत्र वेदाध्ययनकारिणः । ब्रह्मतेजःसमायुक्ता ज्वलन्तः पावका इव ॥१४॥ विनाऽस्तेन यथा सूर्यो योगिनो वेदवेदिनः । तारकाः सर्वजन्तूनां शौनकाद्या महर्षयः ॥१५॥ तत्रागत्य महाभागः स सूतो रोमहर्षणः । साष्टाङ्गं प्रणतः पूर्वं परमाह्लादसंयुतः ॥१६॥ अभिवाद्य मुनीन्सर्वान्भक्त्या नम्रात्मकन्धरः । प्राञ्जलिः प्रयतो भूत्वा प्रोवाच मधुरं वचः ॥१७॥ सूत उवाच । वंशो धन्यो मदीयोऽद्य पितरौ च कुलं वयः । विद्या व्रतं तपो ज्ञानं धन्यं सर्वं मुनीश्वराः ॥१८॥ भवतां पादपद्मं च सर्वाशुभविनाशनम् । काङ्क्षितं यत्सदा देवैर्मया दृष्टं सुपुण्यतः ॥१९॥ साक्षाद् ब्रह्मस्वरूपा वै ब्राह्मणा ब्रह्मवित्तमाः । येषां दर्शनमात्रेण कृतकृत्याश्च जन्तवः ॥२०॥ कृतार्थोऽहं कृतार्थोऽहं कृतार्थोऽहं न संशयः ।

Page 2Permalink

खं. १ अ. १ पान २ भवतां दर्शनेनैव मुक्तोऽहं भवसागरात् ॥२१॥ इति ब्रुवाणं साधुं तं सूतं वै रोमहर्षणम् । प्रत्युचुर्ब्राह्मणाः सर्वे भक्तियुक्तं तपोधनाः ॥२२॥ ब्राह्मणा ऊचुः । सूत सूत महाभाग स्थीयतां पुण्यवर्धन । तव दर्शनमात्रेण संतुष्टाः स्मो वयं खलु ॥२३॥ इत्युक्तस्तत्र सूतस्तु मुनिदत्ते शुभासने । समासीनो महाबुद्धिः साञ्जलिः सन्प्रतापवान् ॥२४॥ सुखासीनं च सूतं तं दृष्ट्वा तत्र महामुनिः । भृगुश्रेष्ठश्च मुख्योऽसौ मुनीनां प्रत्युवाच ह ॥२५॥ शौनक उवाच । सूत सूत महाभाग सर्वज्ञ सुखदायक । आराधितस्त्वया प्राज्ञः कृष्णद्वैपायनो महान् ॥२६॥ नारायणावतारो यः साक्षान्नारायणः स्वयम् । वेदस्य भागकारी स पुराणानां विभागकृत् ॥२७॥ त्वं वै तस्मात्पुराणानि सेतिहासानि वेत्सि च । तेन सर्वज्ञता जाता तवेयं पुण्यवर्धन ॥२८॥ वयं भीताश्च कालेन कलिकल्मषरूपिणा । नैमिषारण्यमास्थाय स्थिताज्ञाः स्वयंभुवा ॥२९॥ तत्र विश्रान्तिदाता वै त्वं प्राप्तोऽसि महाद्युतिः । पुराणानां प्रवक्ता च पुण्यवान्पुण्यवर्धनः ॥३०॥ यत्र पौराणिकी गाथा कलिस्तत्र न तिष्ठति । तस्मात्कारुण्यभावेन पुराणं ब्रूहि नः प्रभो ॥३१॥ तव यद्दर्शनं जातं महापुण्येन सत्तम । धन्यं धन्यं महाभाग साक्षात्संशयच्छित्स्वयम् ॥३२॥ छेदेन संशयानां वै सतां त्वं रोमहर्षणम् । करोषि तेन ते नाम रोमहर्षण इत्यहो ॥ ३३॥ इति पृष्टो महात्मा स शौनकेन महर्षिणा । संहृष्टः सन्नुवाचेदं वचनं धर्मसंस्कृतम् ॥३४॥ सूत उवाच । अद्याऽहं कृतकृत्यो वै कृतोऽनुग्रहकारिणा । सकलं कथयिष्यामि व्यासेन कथितं च यत् ॥३५॥ इत्युक्त्वा कथयामास पुराणानि स कृत्स्नशः । नानाख्यानविभक्तानि नानाधर्मयुतानि च ॥३६॥ सर्वार्थसाधनान्येव दुःखनाशकराणि च । ब्रह्मभूतप्रदान्येव नानामतयुतानि च ॥३७॥ पुराणोपपुराणानि सेतिहासानि भागशः । धर्मार्थकाममोक्षाणां दातृत्वात्पुण्यदानि च ॥३८॥ श्रुत्वा श्रुत्वा मुनीन्द्रास्ते हर्षयुक्ता बभूविरे । नित्यं प्रमुदितास्तेन प्रीताः संपूर्णभावतः ॥३९॥ युगस्योत्क्रमणं तस्य चक्रुस्ते मुनयोऽखिलाः ॥४०॥ पुराणेषु च सर्वेषु सेतिहासेषु सर्वतः । नानाभेदमतादीनि श्रुत्वा भ्रान्ता मुनीश्वराः ॥४१॥ निश्चयं नाधिगच्छन्ति परं किं सर्वसंमतम् । तदर्थं मुनिवर्यस्तं पर्यपृच्छत्स शौनकः ॥४२॥ शौनक उवाच । भो भो सूत महाभाग शृणु मे वचनं लघु । पुराणानि च संश्रुत्य भ्रान्ताः स्मो वै महाद्युते ॥४३॥ इदं परमिदं नेति त्वया सर्वत्र वर्णितम् । भिन्नं भिन्नं महाबुद्धे तेन नो निश्चयः कथम् ॥४४॥ कुत्राऽपि शंकरः श्रेष्ठः कुत्र विष्णुस्तथा रविः । शक्तिश्चैव गणेशश्च विराजः कुत्र रूपकम् ॥४५॥ कुत्र ब्रह्म च योगश्च ज्ञानं कर्म च कुत्र वै । आत्मा प्राणोऽन्नमित्युक्तं मनो वै परतः परम् ॥४६॥ कुत्र

Page 3Permalink

खं. १ अ. २ पान ३ बुद्धिर्महाभाग सांख्यं स्वानंद एव च । इत्यादिमतभेदेन निश्चयो नैव जायते ॥४७॥ अतस्त्वं कृपया ब्रूहि वेदशास्त्रार्थ- संमतम् । सर्वेषां मान्यमेकं च सर्वसंशयनाशनम् ॥४८॥ इति पृष्टो महातेजाः शिष्यो व्यासस्य सत्तमः । एकं श्रुतिस्मृतीनां यत् सारं कथितुमारभत् ॥४९॥ सूत उवाच । शृणुध्वं मुनयः सर्वे सारं मुद्गलभाषितम् । सर्वश्रुतिस्मृतीनां च सर्वमान्यं विशेषतः ॥५०॥ पुरा दक्षाध्वरे जातं यज्ञविध्वंसनं महत् । रुद्रेणागत्य सहसा कृतो विघ्नो महत्तरः ॥५१॥ देवाः पराजिताः सर्वे रुद्रैः परमदारुणैः । दक्षमस्तकसंछेदो वीरभद्रेण वै कृतः ॥५२॥ ब्रह्मणागत्य तत्रासौ सान्त्वितो बहुलोक्तिभिः । शंकरो जीवयामास दक्षं योगेन तत्त्वतः ॥५३॥ यज्ञविध्वंसशोकार्तो दक्षः शापेन मोहितः । अज्ञाना- वरणेनापि न किञ्चिन्निश्चयं ययौ ॥५४॥ तत्राजगाम भगवान् साक्षात्सूर्य इवोदितः । वेदशास्त्रार्थतत्त्वज्ञो योगीन्द्रो मुद्गलो मुनिः ॥५५॥ गणेशभक्तप्रवरः सर्ववंद्यो महायशाः । तपसां कर्मणां साक्षान्निधिरेष सनातनः ॥५६॥ तं दृष्ट्वोत्थाय दक्षोऽसौ प्रणनाम महामुनिम् । आसनाद्यैः सुसंपूज्य वक्तुं समुपचक्रमे ॥५७॥ दक्ष उवाच । भो भो मुनीन्द्र वन्द्यस्त्वमांगिरस महाद्युते । यज्ञविध्वंसशोकार्तं मां पालय जडीकृतम् ॥५८॥ मुद्गल उवाच । मा चिन्तां कुरु भो दक्ष प्रजापालेन्द्रसत्तम । विघ्नराजं स्मर त्वं वै तेन सर्वं न दुर्लभम् ॥५९॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते शौनकसूत्तसंवादो नाम प्रथमोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । दक्षेण मुनिशार्दूलाः श्रुतं मुद्गलभाषितम् । प्रणिपत्य पुनः सोऽपि पप्रच्छ हितकारकम् ॥१॥ शौनक उवाच । दक्षमुद्गलसंवादं श्रोतुमिच्छामहे वयम् । विस्तरेण समाचक्ष्व सूत संतोषकारक ॥२॥ सूत उवाच । शृणुध्वं मुनयः सर्वे कथां लोकैकपावनीम् । यां श्रुत्वा पुरुषस्येह नान्यत्कृत्यं प्रविद्यते ॥३॥ दक्षमुद्गलसंवादं समासेन विवर्णये । सारं सर्वत्र संपूर्णं भवरोगविमोचनम् ॥४॥ मुद्गलोक्तं वचः श्रुत्वा दक्षः प्रोवाच धर्मवित् । प्राञ्जलिः प्रयतो भूत्वा हृष्टरोमा महायशाः ॥५॥ दक्ष उवाच । पुण्यं महन्मेऽस्ति पुरातनं यत्तेनैव जातं तव दर्शनं भोः । मोक्षप्रदं तत्परलोकदं च भोगप्रदं धर्म्म्यमनंतपुण्यम् ॥६॥ शापेन नष्टो मम सर्वबोधः प्रजापतित्वं प्रगतं मदीयम् । यज्ञस्य भङ्गो विविधं हि कष्टं तत्रैव ते

Page 4Permalink

खं. १ अ. २ पान ४


दर्शनमत्र चित्रम् ॥७॥ तव दर्शनमात्रेण किंचित् स्फूर्तिः समागता । धन्योऽसि योगिनां मध्ये पूतत्वं त्वीदृशं त्वयि ॥८॥ कोऽसौ विप्रपतिः पूर्णः कीदृशः किंस्वभाववान् । कति तस्यावताराश्च कस्यांशो वाऽपि किंस्तवः ॥९॥ पूजितो विधिवत्कैश्च किं फलं दत्तवान् परम् । किंविहारश्च कस्मिन्वै लोके वसति स प्रभुः ॥१०॥ एतत्सर्वं सुविस्तार्य पृच्छते ब्रूहि सादरम् । ज्ञात्वा तं देवदेवेशं भविष्यामि हितावहम् ॥११॥ इत्येवं कथयन्तं तं मुनयो विस्मयान्विताः । पप्रच्छुः सकलं तद्वै दक्षचेष्टितमादरात् ॥१२॥ शौनकाद्या ऊचुः । दक्षः प्रजापतिः साक्षात्कथं मूढत्वमागतः । प्रजापतित्वं तस्यापि कथं नष्टं महात्मनः ॥१३॥ यज्ञध्वंसः कथं प्राप्तः शंभुः प्रकुपितः कथम् । एतत्सर्वं सुविस्तार्य ब्रूहि सूत महामते ॥१४॥ श्रुत्वा मुनिवचो रम्यं कृष्णद्वैपायनस्य च । शिष्यः प्रोवाच मधुरं वचनं संप्रहर्षयन् ॥१५॥ सूत उवाच । शृणु शौनक यत्नेन कथां भुवनपावनीम् । कथयामि यथातथ्यं श्रुतां व्यासमुखेन याम् ॥१६॥ ब्रह्मणो दश पुत्रा ये तत्र दक्षो महान्प्रभुः । अतः प्रजापतिस्त्राता कृतस्तेन स वेधसा ॥१७॥ स राज्यं प्राप्य मत्तोऽभूद् गर्वेणैव परिप्लुतः । अहं प्रजापतीनां च श्रेष्ठो राजा न मत्समः ॥१८॥ एकदा गिरिवर्ये तु कैलासे शंकरस्य च । दर्शनार्थं गता देवा मुनयः सिद्धकिन्नराः ॥१९॥ गन्धर्वा नागमुख्याश्च विद्याधर्यप्सरोगणाः । ब्रह्मा विष्णुर्महेन्द्रश्च सर्वै तेन सुसत्कृताः ॥२०॥ सभामध्ये समासीनाः शंकरेण च पूजिताः । वामभागे स्थितो विष्णुर्दक्षिणांगे पितामहः ॥२१॥ क्रमेण सर्वे देवाश्च यथायोग्यं स्थिता मुने । गणा नंदिमुखास्तत्र समीपे संस्थिता बभुः ॥२२॥ तत्र ते मुनयो हृष्टा वसिष्ठाद्याः प्रतुष्टुवुः । नारदप्रमुखाः सर्वे गन्धर्वा ललितं जगुः ॥२३॥ नृत्यमप्सरसश्चकुरेवं सर्वे पुपूजिरे । शंकरं परिवाराढ्यमानंदेन समन्वितम् ॥२४॥ कथा नानाविधास्तत्र तेऽकुर्वन् भावपूर्वकम् । तत्राजगाम दक्षः स प्रजापतिपतिः स्वयम् ॥२५॥ शिवेन मानितस्तत्र वचसा चैव सत्कृतः । नमनं न कृतं तस्मा ईश्वरेण प्रभावतः ॥२६॥ तेन संकुपितोऽत्यन्तमूचिवान् गर्वमोहितः । शृणुध्वं ये सभाश्रेष्ठा याथातथ्यानुवर्तिनः ॥२७॥ रुद्रस्य श्वशुरोऽहं वै पुत्रतुल्यो ममाप्ययम् । नमनं न कृतं कस्मात् तस्मात्त्याज्यो महेश्वरः ॥२८॥ ऐश्वर्यगर्वयुक्तोऽयं स्वधर्मन्यूनतां गतः । देवपंक्तौ कथं योग्यः पिशाचानामधीश्वरः ॥२९॥ वर्णाश्रमविहीनोऽयं नग्नो भिक्षाशने रतः । सर्पभूषणसक्तश्च चिताभस्माङ्गलेपनः ॥३०॥ व्याघ्राजिनपरीतश्च मुण्डमालाधरः सदा । इत्यादिदोषयुक्तत्वान्न स्पृश्योऽयं महात्मभिः ॥३१॥ अशिवः शिवनामा वै वृथेशित्वाभिमानवान् । अतो न भाषणीयोऽयं दोषकारी पिशाचराट् ॥३२॥ इति

Page 5Permalink

खं. १ अ. ३ पान ५

ब्रुवन्तमप्यन्तं स्वयंभूस्तं निराकरोत् । न गृहीतं पितुर्वाक्यं क्रोधावेशेन तेन तत् ॥३३॥ नानानिंदायुतं वीक्ष्य भगवान्नन्दिकेश्वरः। उवाच सर्वसान्निध्ये क्रोधेनारक्तलोचनः ॥३४॥ नंदिकेश्वर उवाच। धिक्त्वां व्यर्थं प्रजापाल शिवनिन्दापरायण। शिवतत्त्वं न जानासि मदेनांसिक्त दुर्मते ॥३५॥ मायाखेलनवानेष तथा तद्दोषवर्जितः। तेनायं शिवतां प्राप्तः कथं निन्दां करोषि रे ॥३६॥ शिवनिन्दाकराः शास्त्रे नारका ज्ञानवर्जिताः । अतस्त्वं ज्ञानहीनस्तु भवितास्य- पवाक्यतः ॥३७॥ निंदा येनैव वक्त्रेण कृता शंभोर्महात्मनः । अजास्यो भवितासि त्वं भ्रष्टराज्यो भविष्यसि ॥३८॥ इति श्रुत्वा वचः सोऽपि तं पुनः प्रत्युवाच ह । न त्वं जानासि दुर्बुद्धे शंकरं कर्मदूषितम् ॥३९॥ वर्णाश्रमविहीनश्च यस्तिष्ठेत्पुरुषः कदा। पदे पदे महापापो नारकी मरणे भवेत् ॥४०॥ तस्माद्ययं महापापाः शैवाः स्पृश्या न कुत्रचित् । भुवि ये शांकरा नित्यं ज्ञानहीना भवन्तु ते ॥४१॥ कलौ प्राप्ते च पाखण्डा भविष्यन्ति जटाधराः । शूद्रा वेदं पठिष्यन्ति नग्ना भस्माङ्गलेपनाः ॥४२॥ स्त्रीमांसमदिरासक्ता नानाभोगकरास्तथा । नरके वै पतिष्यन्ति शंभुमार्गपरायणाः ॥४३॥ प्रजापतिं प्रभुः साक्षाद् ब्रह्मा तं निरभर्त्सयत् । ततो जगाम स्वगृहं दक्षः क्रोधपरिप्लुतः ॥४४॥ सर्वे ते स्वस्थलं जग्मुर्दुःखितास्तेन वै कृताः । शिवोऽपि दुःखसंयुक्तो म्लानतां परमां गतः ॥४५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते दखनंदिविवादे नाम द्वितीयोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ सूत उवाच । शृणुध्वं मुनयः सर्वे स्थिरीकृत्य मनश्चलम् । विघ्नेशभक्तिहीना ये विघ्नाक्रान्ता भवन्ति ते ॥१॥ दक्षोऽभूत् स्वगृहं गत्वा क्रोधामर्षसमन्वितः । न किंचित् सुखवान् विप्राः शूलयुक्तो यथा नरः ॥२॥ शिक्षां शिवस्य कर्तुं स हृदि व्यवसितोऽभवत् । न किंचित्प्राप्तवांस्तत्र विचारं भृशदुःखितः ॥३॥ एतस्मिन्नंतरे तत्र नारदो दिव्यदर्शनः । आजगाम महातेजा दक्षेणैव सुसत्कृतः ॥४॥ आसनं पाद्यमर्घ्यं च दत्वा सम्यक् प्रपूजितः । पृष्टः स कुशलं प्रश्नैः प्रसन्नो नारदोऽब्रवीत् ॥५॥ नारद उवाच । दक्ष किं दुःखितस्त्वं ते मुखं म्लानतया युतम् । कथयस्व महातेजाः प्रजापतिपतिर्भवान् ॥६॥ दक्ष उवाच । शृणु

Page 6Permalink

[शीर्षक:] खं. १ अ. ३ | पान ६


नारद येनाहं दुःखितो म्लानतां गतः । शिवेनासत्कृतस्तत्र सभायां सर्वसन्निधौ ॥७॥ दर्पेणैवावृतः शंभुस्तस्य दर्पहृतिः कथम् । तादृशं ब्रूहि मे शीघ्रं सर्वार्थज्ञ विचक्षण ॥८॥ नारद उवाच । बृहस्पतिसवं दक्ष कुरु त्वं सर्वभावनः । यज्ञभागविहीनं तं तत्र शंभुं कुरुष्व भोः ॥९॥ यज्ञभागेन हीनोऽयं देवपंक्तिबहिष्कृतः । पिशाचेशो भवेच्छंभुर्देवत्वं तत्र संहृतम् ॥१०॥ प्रजापतिपतिः साक्षाद्भवान्सर्वत्र संमतः । करिष्यसि यथा पूर्वं पश्चाद्वै तादृशं भवेत् ॥११॥ एवं परम्पराप्राप्तं तस्यैश्वर्यं प्रकाशितम् । इति मे मनसि प्राप्तं यथेच्छसि तथा कुरु ॥१२॥ इत्युक्त्वा नारदस्तस्माद् गतो ब्रह्माण्डमण्डले । वीणागानरतो भूत्वा योगी ब्रह्मणि तत्परः ॥१३॥ दक्षोऽपि हर्षितो जातः सत्यं मानितवानभूत् । बृहस्पतिसवं कर्तुं समारेभे स तत्क्षणात् ॥१४॥ तत्राजगाम भगवान् विष्णुर्देववरः प्रभुः । आजग्मुर्देवगन्धर्वा नानावाहनशोभिताः ॥१५॥ तत्राजग्मु- र्द्विजाः सर्वे नानातत्त्वार्थकोविदाः । जामातरः सपत्नीकाः कश्यपप्रमुखास्तथा ॥१६॥ यथोद्दिष्टं चकारासौ दक्षः परमहर्षितः । गणनाथविहीनं तं यज्ञं शंकरवर्जितम् ॥१७॥ गणेशस्यास्मृतिर्जाता सर्वेषां भाविगौरवात् । दधीचिप्रमुखास्तत्र शैवाः क्रोधेन पूरिताः ॥१८॥ दधीचिस्तत्र तूवाच क्रोधावेशसमन्वितः । शृणु दक्ष महाप्राज्ञ हितं वचनमुत्तमम् ॥१९॥ शंकरेण विहीनोऽयं यज्ञो नैव प्रशोभते । प्राणहीनो यथा देहस्तथैवासौ न राजते ॥२०॥ इति श्रुत्वा वचस्तस्य दक्षो रोषसमन्वितः । उवाच गर्वमोहेन शापेनैव विमोहितः ॥२१॥ शिवोऽशिवरूपश्च पिशाचानामधीश्वरः । वर्णाश्रमविहीनत्वान्न योग्यो यज्ञ- कर्मणि ॥२२॥ यत्र लक्ष्मीपतिः साक्षाद् भगवान्मंगलालयः । तत्र किं न्यूनतां याति मिथ्यावाचं तु मा वद ॥२३॥ श्रुत्वा तस्य वचः क्रूरं दधीचिः पुनरब्रवीत् । शिवनिन्दां करोषि त्वमज्ञानेन विमोहितः ॥२४॥ यज्ञनाशो भवेद् दक्ष शंकर- द्वेषतस्तव । न सिद्धिं लभसे त्वं तु नष्टभाग्यो न संशयः ॥२५॥ अत्र ये ब्राह्मणाद्या वै वर्णा नाना समागताः । सर्वे कलि- युगे पापाः पाखण्डाश्च भवंतु ते ॥२६॥ स्वधर्महीनतां प्राप्य नरकेऽन्ते पचन्तु वै । विष्णुः प्रमोद्युक्तोऽत्र स वै पाखंड- कारकः ॥२७॥ कलौ देवो भवेन्नित्यं पाखंडानां सहायवान् । पाखंडप्रियवजन्तुः कलौ मलकरः सदा ॥२८॥ शिवहीने तथा यज्ञे मुख्यो जातो हि केशवः । वेदबाह्यं स्वयं कर्म कुरुते तेन शापितः ॥२९॥ सर्वे देवाश्च शीघ्रं हि भवितारः पराजिताः । मुनयो दुःखसंयुक्ता एवं शप्त्वा गतो मुनिः ॥३०॥ तमनुप्रययुः सर्वे शैवाः परमधार्मिकाः । गौतमो गालवश्चैव वामदेवो द्वितस्त्रितः ॥३१॥ मार्कण्डेयो ह्यगस्त्याद्याः क्रोधयुक्ता महर्षयः । यज्ञोऽयं नावलोक्यो वै वेदबाह्यक्रियात्मकः ॥३२॥

Page 7Permalink

खं. १ अ. ३ पान ७ विष्णुनान्ये ततः सर्वे सान्त्विताः संस्थिताः पदे। देवता मुनयो वर्णा द्रष्टुं यज्ञं प्रहर्षिताः ॥३३॥ भृग्वादिमुनिभिस्तत्र यज्ञारम्भः कृतोऽभवत् । यथाविधि यथाभागं देवास्तत्राश्रिता मखे ॥३४॥ दक्षो हृष्टोऽभवत् तत्र यजमानः सुमंदधीः । वेद- कल्पानुसारेण मुनयस्तन्विरे मखम् ॥३५॥ एतस्मिन्नन्तरे तत्र कैलासे नारदो गतः । शिवया सह शंभुं च प्रणतोऽभूत्स भाविकः ॥३६॥ सतीं प्रति प्रहस्याह नारदः कलहप्रियः । देवि दक्षाध्वरे कस्माद् गमनं न कृतं त्वया ॥३७॥ हृष्टपुष्टजनाः सर्वे महोत्सवसुमोदिताः । भगिन्यस्तत्र ते रेजुः पतिभिः सह मोदिताः ॥३८॥ पितृभर्तृगृहे स्त्रीणां मानामानं न विद्यते । इत्युक्त्वा नारदस्तस्मात्प्रययौ कौतुकी मुनिः ॥३९॥ गते मुनौ सती तत्र मानसे दुःखिता भृशम् । शंकरं प्रणिपत्याह हृदयेन विदूयता ॥४०॥ नीलकण्ठ नमस्तुभ्यं शंकराय शिवाय च । सगुणाय मृडायैव निर्गुणाय नमो नमः ॥४१॥ गन्तु- मिच्छा त्वया सार्धमस्ति मे दक्षमंदिरे । तत्र यज्ञोत्सवो नाथ प्रसीद प्रार्थये विभो ॥४२॥ एवं श्रुत्वा भारतीं तां सतीं शंभुः सुबोधयन् । स्मयमानश्च तामूचे किमिदं भाषसे प्रिये ॥४३॥ मद्द्वेषी जनको दक्षस्तव तेन निमन्त्रितः । नाहं तस्मान्न गन्तव्यं विपरीतं भविष्यति ॥४४॥ भवती च महामाया मायिकाऽहं न संशयः । सृज त्वं मुनिदेवांदीनश्च यज्ञं करोम्यहम् ॥४५॥ श्रुत्वा शंभुवचो रम्यं हृदयेन विदूयता । उवाच दुःखिता देवी ममाज्ञां देहि शंकर ॥४६॥ न किंचिदुक्तवान् शंभुस्तदा देवी पितुर्गृहे । न प्रयोजनमाज्ञाया विचार्यैवं जगाम च ॥४७॥ एतज्ज्ञात्वा महाऽऽश्चर्यं विस्मितेन शिवेन च । भावि यद्भवित्ता तद्वै विमानं प्रेषितं वरम् ॥४८॥ विमानमास्थाय शक्तिराजगाम विहायसा । पितुर्गृहं महाभागा मानिता सर्वबन्धुभिः ॥४९॥ मात्रा पित्रा स्वसृभिस्तु सत्कृता हर्षितात्मभिः । दक्षस्तत्र प्रमोदेन जगाद तनयां प्रति ॥५०॥ आगता त्वं महाभागे यज्ञोऽयं शोभितस्त्वया । श्रुत्वा पितृवचो रम्यं तं सा प्रोवाच दुःखिता ॥५१॥ सत्युवाच । शोभयामि कथं यज्ञं नाहूता भवतात्र भोः । अनाहूताऽगता चाहं त्वदीये यजनालये ॥५२॥ ततः स कुपितो दक्ष उवाच शृणु पुत्रिके । मदीयो बहुलो दोषस्तेन त्वां दत्तवान्भ्रमात् ॥५३॥ पिशाचभूतराजाय पित्रा मे कथितं कृतम् । वर्णाश्रमविहीनाय वृथेश्वर- पदाय च ॥५४॥ तस्य दोषेण देवि त्वं नाहूता यज्ञकर्मणि । स्वागतं ते तथाप्यद्य तिष्ठ त्वं मत्समीपगा ॥५५॥ सूत उवाच । पितुर्वचनमाकर्ण्य शिवनिंदायुतं महत् । क्रोधसंतप्तगात्रा सा पश्यन्ती यज्ञमन्दिरम् ॥५६॥ अरुद्रभागसंयुक्तं यज्ञं दृष्ट्वा चुकोप ह । उवाच किं कृतं तात वेदबाह्यक्रियात्मकः ॥५७॥ रुद्रभागविहीनोऽयं यज्ञो नैव फलप्रदः । शिवनिंदां करोषि त्वं

Page 8Permalink

खं. १ अ. ४ | पान ८ ह्यशिवोऽसि न संशयः ॥५८॥ शिवेति द्व्यक्षरं ब्रह्म निर्गुणं गुणधारणम् । न जानासि यतस्त्वं भोस्तेनाहं दुःखिता भृशम् ॥५९॥ तव देहात् समुद्भूतो मम देहस्त्वयं पितः। न योग्यः शिवनिंदायाः कारणात् तं त्यजाम्यहम् ॥६०॥ इत्युक्त्वा सा हृदि ध्याने नीत्वा तं शंकरं प्रभुम् । योगाग्निना समुज्ज्वल्य देहं धाम्नि गताऽभवत् ॥६१॥ पुनः स्वमायया देवी हिमा- चलसुताऽभवत् । शिवध्यानपरा साक्षात्तं लेभे सा पुनः पतिम् ॥६२॥ तपस्तप्तं सुतीव्रं यत्नेन चात्मवशेन सा । लेभे मुदं शिवेनापि पार्वती प्रेमविह्वला ॥६३॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते पार्वतीदेहत्यागो नाम तृतीयोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ सत उवाच । कैलासशिखरे रम्ये शिवश्चिन्तापरोऽभवत् । अनाहूता गता देवी द्विद्गृहे किं भविष्यति ॥१॥ वटमूले समासीनो नंदिकेशादिभिर्वृतः । योगिभिः सेवितस्तत्र कथा नाना प्रवर्तयन् ॥२॥ नानाऽपशकुनं तत्र बभूवाति- भयानकम् । स्तुतिभिस्तेन सर्वे ते उत्पाताशंकया भृशम् ॥३॥ एतस्मिन्नन्तरे तत्र नारदो मुनिराययौ । तं प्रणम्य स्थितो योगी शिवं कल्याणदं परम् ॥४॥ कथावसरमासाद्य प्रोवाच कठिनं वचः । धन्या सती त्रिभुवने न समा कामिनी तया ॥५॥ सतीत्येव च यन्नाम कृतं तत्सार्थकं परम् । शिवनिन्दां समाकर्ण्य तृणवज्ज्वलितं वपुः ॥६॥ नारदस्य वचः श्रुत्वा वज्रसारमयोपमम् । उवाच तमृषिं शंभुः किं नु देवी मृता मुने ॥७॥ न किंचिदुक्तवांस्तत्र शंभुक्रोधभयाकुलः । शोकाग्निर्मां दहेत्किं वा ततो देवोऽन्वबुध्यत ॥८॥ शोकसागरमग्नोऽभूत्किं मां त्यक्त्वा गता शिवा। शक्तिहीनः कृतोऽहं वै ह्यशक्त सर्वकर्मणि ॥९॥ निःश्वासपरमोप्यासीदर्धमङ्गं गतं त्विति । जीवितेन च किं कार्यं देहत्यागं करोम्यहम् ॥१०॥ योगिभि सांत्वितो देवो न किंचित्सुखवानभूत् । शिवश्चिंतापरो भूत्वा विचारं कृतवान् हृदि ॥११॥ अहो विघ्नाकुलोऽहं वै कृतो विघ्नकरेण च। गर्वितः परमैश्वर्यात्कृतं गर्वस्य खण्डनम् ॥१२॥ अतुला शक्तिरर्धाङ्गे जगन्माताऽस्ति मे सदा । अर्धनारी श्वरोऽहं च न वियोगो मम क्वचित् ॥१३॥ शक्तियुक्ततया नित्यं शक्तोऽहं प्रचुरीश्वरः । अखण्डैश्वर्यमोहेन विघ्नराजं च

Page 9Permalink

खं. १ अ. ४ पान ९ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ नामस्मरम् ॥१४॥ इति गत्वा स्वयं शंभुर्मनसा गणपं भजन् । भक्त्यैकचेतसा चैव ध्यात्वा रूपमनुत्तमम् ॥१५॥ चतुर्भुजं महाकायं गजवक्त्रं महोदरम्। मुकुटेन विराजन्तं कर्णकुण्डलधारिणम् ॥१६॥ रत्नमालाधरं पूर्णं नाभिशेषविभूषितम्। किंकिणीकायुक्तपादं कणच्चरणनूपुरम् ॥१७॥ सिद्धिबुद्धियुतं चिन्तामणिभूषितवक्षसम्। एकचित्तेन च ध्यात्वाऽसाधयत्तं समाधिना ॥१८॥ तुष्टाव विविधैर्वाक्यैर्गणेशं ब्रह्मरूपिणम्। निराकारं च साकारं विघ्नराजं हृदि स्थितम् ॥१९॥ शिव उवाच। नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥२०॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे। त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥२१॥ नैर्गुण्येन च वै साक्षाद् ब्रह्मरूपधराय च। नमो नमो बंधहंत्रे भक्तानां पालकाय ते ॥२२॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च। हेरंबाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥२३॥ अनंताननरूपायोनंतबाह्रंघ्रिकाय ते। अनंतकरकर्णायीनंतोदरधराय ते ॥२४॥ नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे । अखंडलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥२५॥ आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव। सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखंडविक्रम ॥२६॥ अन्ते तमोरूपिणमेव सृष्ट्वा शंभुं स्वशक्त्या हरसि त्वमाद्य। एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥२७॥ मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ। स्वानंदसंज्ञे नगरे विभासि सिद्ध्या च बुद्ध्या सहितः परेश ॥२८॥ तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै। वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥२९॥ अर्ध- नारीश्वरत्वं यत्तद्धृतं मेऽधुना प्रभो। शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥३०॥ नानैश्वर्ययुता देवी सा गता गणप प्रभो। अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥३१॥ निर्गुणोऽहं सदा शंभुः सगुणः सर्वभाववित् । शक्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥३२॥ शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर। अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥३३॥ ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः। उवाच शंकरं तत्र हर्षयन् श्लक्ष्णया गिरा ॥३४॥ अहो पश्य च मां शंभो किं शोचसि महेश्वर। भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥३५॥ अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमंडले। तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥३६॥ अधुना ते गतो मोहो मदीया स्मृतिरागता। ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥३७॥ हिमाचलसुता देवी भविष्यति न संशयः । वृणोषि त्वं सतीं तां वै पार्वतीं च पुनः

Page 10Permalink

खं. १ अ. ४ पान १० ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ शिव ॥३८॥ रमसे च तया सार्धं मद्भक्त्या भावितो दृढम् । ईश्वरः सहशक्तिस्त्वं मत्प्रसादात्सदा भव ॥३९॥ स्मृत- मात्रस्तव्याग्रेऽहं प्रत्यक्षः स्यां सदाशिव । इति दत्त्वा वरं देवस्तत्रैवांतरधीयत ॥४०॥ ततश्च शंकरः क्षुब्धः शक्तो जातः स्वकर्मणि । जटामास्फालयामास गणेशं मनसा स्मरन् ॥४१॥ तस्माज्जातो महाबाहुर्वीरभद्रस्त्रिमस्तकः । त्रिपदः शूलवान् साक्षान्मृत्युरूपो महाद्युतिः ॥४२॥ शंकरं प्रणनामाथ प्रांजलिः सन्पुरः स्थितः । आज्ञां कुरु महादेव दासोऽहं ते वशे स्थितः ॥४३॥ वचनं तस्य संश्रुत्य प्रहृष्टः शंकरोऽब्रवीत् । सयज्ञस्य च दक्षस्य हरणं कुरु सांप्रतम् ॥४४॥ तदाज्ञां शिरसा धृत्वा अट्टहासमथाकरोत् । तेन त्रिभुवनं सर्वं कंपितं भयविह्वलम् ॥४५॥ ततो निर्गम्य वेगेन शरीराग्निर्नमे महान् । नानारुद्रानपारांश्च तैर्वृतः स गतो मखम् ॥४६॥ तमन्वयुर्गणाः शंभोर्नन्दिकेशादयोऽपरे । क्षुभिताः क्रोधसंयुक्ता ब्रह्मांडाशनसन्निभाः ॥४७॥ दुर्निमित्तानि सर्वाणि दक्षगेहेऽभवंस्तदा । शंकिता मुनयो देवाः किं भवेदिति विह्वलाः ॥४८॥ एतस्मिन्नंतरे तत्र दक्षयज्ञे महाबलः । आजगामावृतो रुद्रैर्वीरभद्रो भयानकः ॥४९॥ नंदी शृंगिरिटिर्भृंगी पुष्पदंतमुखास्तथा । आगताः क्रोधदीप्तास्या भक्षयन्तो यथान्तकाः ॥५०॥ सहसा वेगतः सर्वे मारयन्त इतस्ततः । पलायंत च दिक्प्रान्ते दक्षस्यानुचरास्तदा ॥५१॥ यज्ञमंडपमासाद्य बभंजुस्तत्क्षणेन च । देवान् सर्वान् मुनींश्चैव पीडयन्तः सुदारुणाः ॥५२॥ ऋषिपत्नीर्दधुस्तत्र देवपत्नीः सहस्रशः । अताडयन्महावीर्या हाहाकाराः प्रवर्तिताः ॥५३॥ कथं त्वसाधुपतयो भवती- भिर्वृताः खलु । शिवद्वेषकरा दुष्टास्तस्य प्राप्तं महत्फलम् ॥५४॥ एवमूचुर्हविर्द्रव्यं बभक्षुस्ते प्रहर्षिताः । वेदिकायां प्रचक्रुस्ते विट्सर्गं मूत्रणं तथा ॥५५॥ जगाम भगवांस्तत्र शंकरः क्रोधसंयुतः । धनुर्बाणधरः साक्षात्प्रलयाग्निरिवोत्थितः ॥५६॥ तत्र युद्धमभूद् घोरं देवानां रुद्रचारिणाम् । स्वयं च युयुधे शंभुः शस्त्रास्त्रैर्मर्मभेदिभिः ॥५७॥ पूष्णो दंतांश्च नाराचैर्भेदयामास शंकरः । भगस्य नेत्रमुन्मूल्य पाटयामास संयुगे ॥५८॥ धर्मं धृत्वा महावीरो नंदिकेशोऽब्रवीत्तदा । को धर्मो वद रे दुष्ट शिवहीने मखे खलु ॥५९॥ कश्यपं धृतवांस्तत्र भृंगी तेजस्विनां वरः । वरुणं ताडयामास पुष्पदन्तश्च वीर्यवान् ॥६०॥ भैरवेण धृतस्तत्र देवेन्द्रो मूर्च्छितः कृतः । वीरभद्रो बलाद्दक्षं पातयामास भूतले ॥६१॥ एवं प्रमथिते यज्ञे शंखचक्रगदाधरः । युयुधे विष्णुरुद्यग्रो महाबलसमन्वितः ॥६२॥ शस्त्रास्त्रैर्बहुभिस्तेन मर्दिता बलवत्तराः । रुद्रा भूतपिशाचाद्या हाहाकारं प्रचक्रिरे ॥६३॥ तं दृष्ट्वा सहसा शंभुर्हृदि ध्यात्वा गणाधिपम् । बाणैस्तं हृदि संविध्य पातयामास भूतले ॥६४॥ पुनः

Page 11Permalink

संज्ञां समासाद्य स्वास्त्रं नारायणात्मकम्। मोचयामास गोविंदो जगत्संहारकारकम् ॥६५॥ ततः शंभुर्मुमोचापि स्वास्त्रं पाशुपतं महत्। ते उभे व्योम्नि चात्यन्तं युयुधाते परस्परम् ॥६६॥ तस्माज्जातो महानग्निर्र्ददाह पृथिवीमिमाम्। भयक्रान्तं त्रिभुवनं जातं तत्र मृतोपमम् ॥६७॥ एतस्मिन्समये तत्र वीरभद्रेण कल्पितम्। पशुरूपं शिरश्छित्वा दक्षस्याग्नौ हुतं ततः ॥६८॥ रुद्रैर्नानाविधैः कोलाहलस्तत्र प्रवर्तितः। छिन्नभिन्नाः सुरा जातास्त्रातारं लेभिरे न ते ॥६९॥ मुनयोऽपि भयोद्विग्ना व्यद्रवंस्तु दिशो दश। पिशाचादिभिराकृष्टाश्चक्रुश्चातिदारुणम् ॥७०॥ विष्णुना तत्र चक्रं वै भ्रामितं क्रोध- धारिणा। कृतान्तसदृशं मुक्तं शंभोः सन्निधिमागतम् ॥७१॥ चक्रं तच्छंकरं दृष्ट्वा तं नत्वा तत्र संस्थितम्। तेन क्रोध- परीतांगः शिवः शूलं समाददे ॥७२॥ शूलमुद्यम्य तं विष्णुं हन्तुं यावत्प्रवर्तते। तत्राकाशोद्भवा वाणी वारयामास शंकरम् ॥७३॥ न हन्तव्यो हरिः शंभो त्वया पाल्योऽयमच्युतः। जहि कोपं महादेव शिवाय सततं नमः ॥७४॥ तत्राजगाम सहसा स्वयंभूस्तं न्यषेधयत्। मा कुरुष्व वधं शंभो विष्णोः संहारकारक ॥७५॥ नमः शिवाय शांताय शूलिने शंभवे नमः। महादेवाय रुद्राय पशूनां पतये नमः ॥७६॥ संहाररूपी त्वं साक्षादकाले किं प्रवर्तसे। जहि कोपं महाबाहो नमस्ते परमेश्वर ॥७७॥ ब्रह्मणा संस्तुतो देवः प्रशांतोऽभून्महामुने। तस्मिन्काले स्वयं विष्णुर्ब्रह्मणा ज्ञापितः प्रभुः ॥७८॥ शिवाय नमनं कृत्वा स्थितः संलज्जितो भृशम्। प्रोवाच मधुरं ब्रह्मा शंकरं वृषभध्वजम् ॥७९॥ शांत उर्वरितं यज्ञे हविर्द्रव्यं च यत्प्रभो। रुद्रभागः स विज्ञेयो गृहाण त्वं सदाशिव ॥८०॥ विघ्नेशमायया भ्रान्ता दक्षाद्याः सततं शिव। मोहितानां विशेषेण द्रष्टव्यं न प्रचेष्टितम् ॥८१॥ अतस्त्वं कृपया देव प्रसन्नो भव शंकर। सर्वेभ्यः सुखदाता वै यज्ञं तं पुनरारभ ॥८२॥ देवानां च मुनीनां च स्त्रीणां दासादिजीविनाम्। यथापूर्वं स्थितं रूपं तादृशं कुरु शंकर ॥८३॥ भगः स नेत्रसंयुक्तः पूषा वै पिष्टभुक् कृतः। देवाश्च मुनयः सर्वे स्त्रियो दासादयस्तथा ॥८४॥ यथापूर्वं कृतास्तेन युक्ता रूपेण तेजसा। गतदुःखाश्च सर्वे ते ववंदुः शंकरं पुनः ॥८५॥ दक्षस्य मस्तकं तत्र दग्धं वै जातवेदसि। तज्ज्ञात्वा शंकरो देवो भृंगिणं प्रत्युवाच ह ॥८६॥ गच्छ चानय तं हत्वा य आदौ दृश्यते त्वया। तस्य मस्तकमेतत्तु भवेद् दक्षस्य मस्तकम् ॥८७॥ तदा तेन पुरो दृष्टो ह्यजः परमशोभितः। तं हत्वा तच्छिरस्तत्र समानीतं च भृंगिणा ॥८८॥ तदेव योजयित्वा तमजीवयत शंकरः। स सद्य उत्थितस्तत्र दक्षोऽजमुखतां गतः ॥८९॥ ब्रह्मणा प्रेरितो दक्षः पुनस्तुष्टाव शंकरम्। गतमानो महाबाहुः

Page 12Permalink

भक्त्या सर्वेश्वरं ततः ॥९०॥ दक्ष उवाच। नमामि शंकरं साक्षाद्यदाधारमिदं जगत्। कालरूपं यथाकालं बोधयामास तं शिवम् ॥९१॥ कालेन फलमूलानि जायंतेऽन्नादिकानि च। शीतोष्णसमभावश्च सदा कालेन जायते ॥९२॥ सूर्यस्तपति कालेन ज्योतिषां गण एव च। कालेन जायते वृष्टिरनावृष्टिस्तथा विभो ॥९३॥ कालेन सृज्यते सृष्टिर्ब्रह्मणा वै पुनः पुनः। कालेन पालनं तत्र कुरुते विष्णुरव्ययः ॥९४॥ कालेन स्वेच्छया शंभुः संहारं प्रकरोति च। यत्किंचिदिह तत्सर्वं कालाधीनं न संशयः ॥९५॥ स एव कालो भगवानीश्वरो ब्रह्मसंज्ञितः। शिवः साक्षाच्च वेदेषु कथ्यते वेदवादिभिः ॥९६॥ क्षमस्व मेऽपराधं त्वं त्वन्मायागर्वितस्य च। यत्कृतं तद्दयासिंधो नमस्ते परमेश्वर ॥९७॥ सगुणाय नमस्तुभ्यं निर्गुणाय नमो नमः। सृष्टिकर्त्रे च संहर्त्रे पात्रे नानास्वरूपिणे ॥९८॥ अनंतगुणराशिस्त्वं वर्णनीयं किमप्यहो। नान्तं ब्रह्मादयो जग्मु- र्महिशानां च का कथा ॥९९॥ नमो नमो ब्रह्ममयाय देवादये शिवायाथ च पूर्णमूर्ते। अनादिमध्यान्तविहीनभूम्ने नमो नमो भक्तभयापहन्त्रे ॥१००॥ इत्येवं स्तुवतस्तत्र प्रेमगद्गदया गिरा। अजवत्तस्य संजातं भाषणं लललल्ललम् ॥१०१॥ तेन तुष्टो महादेवस्तं पुनर्नरमस्तकम्। भगवान् कारयामास यथापूर्वं मुनीश्वराः ॥१०२॥ प्रोवाच मधुरं वाक्यं शिवस्तं सर्वसन्निधौ। प्रजापतिपतिर्दक्ष सर्वमान्यो भविष्यसि ॥१०३॥ त्वया यद्रचितं स्तोत्रं मदीयं मत्प्रियं भवेत्। यस्तोष्यति प्रदास्यामि तस्मै काममनेन माम् ॥१०४॥ इह भुक्त्वाऽखिलान्भोगानंते मल्लोकमाप्नुयात्। मम प्रीतिकरश्चासौ भविष्यति न संशयः ॥१०५॥ त्वया यदजवद्वाक्यं कृतं मे खलु सन्निधौ। तद्भूयो मत्समीपे वै करिष्यति नरः सकृत् ॥१०६॥ तेन हृष्टो भविष्यामि वांछितं पूरयामि च। एवं दत्त्वा वरं शंभुस्तत्रैवांतरधीयत ॥१०७॥ सर्वे स्वस्वस्थलं जग्मुर्हर्षिता धर्षितास्तथा। दक्षश्च स्वगृहे विप्रा दुःखितः स्थितवान् स्वयम् ॥१०८॥ तदादि शिवभक्ता ये ते कुर्वन्ति शिवालये। अजवन्निनादं तेन हृष्टो भवति शंकरः ॥१०९॥ इति सर्वं समाख्यातं दक्षशापादिकं च यत्। यज्ञभंगस्य हेतुं च पुनः किं श्रोतुमिच्छथ ॥११०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते दक्षचरितं नाम चतुर्थोऽध्यायः ॥

Page 13Permalink

खं. १ अ. ५ पान १३ ॥ श्रीगणेशाय नमः। शौनक उवाच। श्रुतं दक्षस्य चरितं यज्ञध्वंसादिकं महत्। मुद्गलस्य च दक्षस्य संवादं कथयस्व भोः ॥१॥ सूत उवाच। शृणु शौनक संवादं दक्षमुद्गलसंभवम् । ब्रह्मभूयकरं पूर्णं भावेन च श्रुतं हृदि ॥२॥ दक्षप्रश्नं परं धृत्वा मुद्गलो गणपप्रियः। तं प्रत्युवाच भावेन महर्षियोंगिनां वरः ॥३॥ मुद्गल उवाच। सर्वेषां गणपो माता पिता चैव न संशयः। तेन सर्वादिपूज्योऽयं सर्वपूज्यः स देवराट् ॥४॥ ज्येष्ठराजेति यद्वाक्यं वेदेन प्रतिपादितम्। ज्येष्ठं भावाच्च तस्यापि ज्ञातव्यं सर्वसंमतम् ॥५॥ तस्य सर्वे कलांशा वै कलांशांशाश्च केचन। न कला तस्य संपूर्णा जगत्यां कुत्र दृश्यते ॥६॥ विनायको नाम तेन जातोऽसौ भगवान् खलु। विशेषेण च सर्वेषां नायकोऽयं गणाधिपः ॥७॥ विगतो नायको यस्य स्वेच्छाचारी विनायकः। स्वानंदलोकवासी च स्वसुखेन प्रभावतः ॥८॥ ब्रह्मविष्णुशिवाद्यैश्च वेदैर्योगिभिरेव च। सर्वैः संपूजितो देवो धर्मकामार्थमुक्तये ॥९॥ अहं ब्रह्मेति माहात्म्याद् गर्वी भवति शाश्वतः। शिवादीनां यदाधारादिदं सर्वं प्रवर्तते ॥१०॥ तदा मदहरोऽयं वै तेषां ज्ञानार्थसिद्धये। विघ्नकर्ता महाराजः स्वयं भवति विघ्नपः ॥११॥ पदभ्रष्टाः कृतास्तेन सर्वे देवादयो द्विजाः। किमाधारमिदं सर्वं विचिन्वंति समाधिना ॥१२॥ तेन पश्यन्ति योगेन चेतः पंचवृत्तिभिः। तासां प्रकाशकोऽयं वै चिंतामणिरिति स्मृतः ॥१३॥ वेदैः संपादितं ज्ञात्वा शरणं तं व्रजंति ते। ततो विघ्नहरो जातस्तेषां सर्वार्थदः स्मृतः ॥१४॥ सर्वसत्तात्मकोऽयं वै विघ्नराजः प्रकीर्तितः। अत एव गणेशाद्धि परं किंचिन्न विद्यते ॥१५॥ स- विघ्नस्त्वं प्रजातोऽसि तमेव शरणं व्रज। चिन्तामणिं विघ्नहरं गणेशं च विनायकम् ॥१६॥ सूत उवाच। प्रजापतिरिति श्रुत्वा दक्षो हृष्टमनाः पुनः। पप्रच्छ विनयेनैव कथां पापप्रणाशिनीम् ॥१७॥ दक्ष उवाच। कोऽयं स्वानंदवासी वै कथं ज्ञेयो भवेन्मया। वद तत्र विभो मार्गं तेन तं सततं भजे ॥१८॥ मुद्गल उवाच। अत्र ते कथयिष्यामि इतिहासं पुरातनम्। पार्वतीशिवसंवादं यथा जातं शृणुष्व भोः ॥१९॥ कैलासे गिरिवर्ये तु सुखासीनं महेश्वरम्। पार्वती प्रणता भूत्वा पृच्छति स्म मुदायुता ॥२०॥ पार्वत्युवाच। शिव त्वं सर्वदेवानां नागानां रक्षसां तथा। मानवानां च सर्वेषां पूज्यः स्वामी न संशयः ॥२१॥ तेभ्यः पदप्रदाता त्वं सर्वाधीशः पुरातनः। मायाविकारहीनश्च शिवस्तेन प्रकीर्तितः ॥२२॥ त्वं किं समाधिना देव ध्यायसे मां वद प्रभो। त्वत्तः परतरं किंचिन्न दृष्टं नैव संश्रुतम् ॥२३॥ इति पृष्टो महादेवस्तां प्रत्यूचे च सादरम्। सारं वेदादिमान्यं च ब्रह्मभूयकरं परम् ॥२४॥ श्रीमहादेव उवाच। शृणु प्रिये प्रवक्ष्यामि यं ध्यायामि दिवानिशम्।

Page 14Permalink

खं. १ अ. ५ पान १४ गणेशं हृदि संस्थं मे स्वानंदवासिनं परम् ॥२५॥ साकारं च निराकारं तस्मिन्देवि न विद्यते । मनोवाणीविहीनं न मनोवाणीमयं न वै ॥२६॥ शिवस्य वचनं श्रुत्वा पार्वती प्रेमसंयुता । उवाच मधुरं वाक्यं वाक्यज्ञा भावपूर्वकम् ॥२७॥ पार्वत्युवाच । कोऽसौ गणेशनामा वै कथं स हृदि तिष्ठति । स्वानंदवसतिः का च यत्र तिष्ठति स प्रभुः ॥२८॥ साकारो न निराकारो कथं स ज्ञायते जनैः । मनोवाणीमयो नैव हीनस्ताभ्यां न च क्वचित् ॥२९॥ तस्य ध्यानं महेशापि कर्तुं नैव प्रशक्यते । ध्यायसे केन मार्गेण भव मे कथय प्रभो ॥३०॥ अहं दासी त्वदीया वै शिष्यभावेन संस्थिता । कथयस्व महादेव ध्यानं गाणेशकं मम ॥३१॥ तमहं साधयिष्यामि साक्षात्कारेण वै यथा । कृतकृत्या भविष्यामि प्रसादात्ते न संशयः ॥३२॥ मुद्गल उवाच । इति पृष्टो महादेवो देव्या भक्त्यादरेण च । पात्रं गणेशमार्गस्य दृष्ट्वा प्रेमयुतोऽब्रवीत् ॥३३॥ तत्तेऽहं शृणु वक्ष्यामि गुह्याद् गुह्यतमं महत् । रहस्यं वेदशास्त्राणां यस्मात्परतरं न च ॥३४॥ दक्ष उवाच । तव वाक्यामृतेनाऽहं प्रीतो मुद्गल सांप्रतम् । उमा- महेशसंवादं योगीन्द्र कथयस्व मे ॥३५॥ सूत उवाच । दक्षस्य भावयुक्तं तद्वचनं मुद्गलेन वै । श्रुतं तेन सुसंतुष्टो वक्तुं समुपचक्रमे ॥३६॥ मुद्गल उवाच । शम्भुः स्मृत्वा गणेशानं हृदि ध्यात्वा महायशाः । प्रत्युवाच महादेवीं गाणपत्यः प्रतापवान् ॥३७॥ श्रीशिव उवाच । सर्वं मायामयं विद्धि जायते यच्च चेतसा । चित्तप्रवेशहीनं च मायातीतं निगद्यते ॥३८॥ रचितं द्विविधं येन स एव गणनायकः । स्वसंवेदं महः प्रोक्तं वेदयेत्तद्विशेषतः ॥३९॥ तत्रैव दृश्यते देवो योगिभिर्योग- पारगैः । तेन स्वानंदवासी स कथ्यते वेदवादिभिः ॥४०॥ चित्तस्य पंचभूमीनां प्रकाशनकरः स्मृतः । चिंतामणिरिति ख्यातो हृदि संतिष्ठति प्रभुः ॥४१॥ समूहे गणधातुश्च तेषां स्वामी गणेश्वरः । अभेदयोगमार्गेण सदा ध्यातुं स शक्यते ॥४२॥ मुद्गल उवाच । श्रुत्वा शिववचो रम्यं पार्वती विनयान्विता । चकिता प्रत्युवाचेदं वचनं हितकारकम् ॥४३॥ पार्वत्युवाच । भगवन्कथितं कूटवचनं योगभावितम् । न बुद्धं तन्मया स्वामिंस्तस्माच्च सुलभं वद ॥४४॥ ब्रह्म मायामयं प्रोक्तं कीदृशं कथय प्रभो । मायाहीनं कथं ज्ञेयं विस्तरेण वदस्व मे ॥४५॥ मुद्गल उवाच । शक्तिप्रश्नं च संश्रुत्य हृष्टः शंभुः सुयोगवित् । साश्रुनेत्रः सरोमांचो भक्त्या जातो महायशाः ॥४६॥ आदिमायां प्रशंसन् सन् वक्तुं तामुपचक्रमे । योगमार्गस्य सिद्ध्यर्थं विस्तरेण महेश्वरः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते पार्वतीप्रश्नविचारो नाम पंचमोऽध्यायः ॥

Page 15Permalink

खं. १ अ. ६ पान १५ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । पार्वतीशिवसंवादं कथयस्व महामते । पाराशर्यस्य सर्वज्ञ शिष्य सर्वार्थतत्त्ववित् ॥१॥ सूत उवाच । मुद्गलेन यथा प्रोक्तं दक्षे वै शांतिकारकम् । शिवयोस्तं च संजातं संवादं कथयामि भोः ॥२॥ श्रीशिव उवाच । धन्या देवि महाभागे त्वत्समान्या न विद्यते । महापुण्येन ते बुद्धिर्गणेशज्ञानलालसा ॥३॥ कारितोऽहं त्वया शक्ते सत् क्रिया नात्र संशयः । ममैवेदं महद्भाग्यं गाणपत्यप्रिया गृहे ॥४॥ गणेशाय नमः कृत्वा कथयामि कथानकम् । आदौ मायामयं विद्धि मायातीतं ततः परम् ॥५॥ स्वस्वरूपमयं सर्वं ज्ञातव्यं योगिना सदा । द्विविधं योगमार्गेण साधनेन विशेषतः ॥६॥ आदौ ब्रह्म स्थितं देवि एकानेकादिवर्जितम् । स्वतः परत उत्थानात्तदेव द्विविधं बभौ ॥७॥ स्वत उत्थानके नैव विकल्पः सहशः कृतः । अहमस्मीति भावेन बिम्बं भिन्नं विनिःसृतम् ॥८॥ सकलाभेदरूपं यन्निराकारं स्वभावतः । अहमस्मि सदा प्रोक्तं ब्रह्मरूपं च शाश्वतम् ॥९॥ तेनापि स्वस्वरूपं तद् दृष्टमात्मात्मकं परम् । कीदृशोऽहं विकल्पश्च कृतो मोहेन तत्क्षणात् ॥१०॥ चतुश्चतुः पदार्था ये योगरूपेण संस्थिताः । तेषामभेदरूपं च दृष्टं सर्वात्मकं परम् ॥११॥ मायया बिम्बरूपोऽयं जातः सद्यश्च नामतः । माया बिम्बं द्वितीयं तत्तत्र मोहप्रधारणात् ॥१२॥ मोहधारणमात्रेण विस्मृतं स्वस्वरूपकम् । मायासुखेप्सुना जाता तस्य देवस्य तत्क्षणात् ॥१३॥ सर्वाकारा निराकारा माया जाता द्विधापरा । बुद्धिरूपा महाभागा तया सर्वं प्रबुध्यते ॥१४॥ निराकारं च साकारं बुद्ध्या संबुध्यते जनैः । बुद्ध्या यद्बुध्यते क्षेत्रे बुद्धिरूपं तदेव च ॥१५॥ तत्र मोहो च साकारो निराकारः स्वयं प्रभुः । मोहहीन इति भ्रांतिर्द्विधा गुणसमुत्थिता ॥१६॥ सा सिद्धिर्मोहकर्त्री वै नानाभ्रांति- प्रकाशिका । एका बुद्धिश्च सर्वत्र तथा द्वैधे प्रवर्तिता ॥१७॥ सिद्ध्या संमोहिता बुद्धिर्भ्रान्ता जाता च पार्वती । साकार- मोहसंयुक्ता निराकारविमोहिता ॥१८॥ मोहधारकबुद्धिश्च सिद्धिर्मोहप्रदायिनी । तयोः प्रकाशदाता स गणेशानो- ऽभवत् स्वयम् ॥१९॥ स एव नामतस्तत्र न गतो निजरूपधृक् । बिम्बबिम्बिप्रभावत्वाद्भासते तादृशो वृथा ॥२०॥ सर्वात्मकं च बिम्बं यत्परं तत्रैव बिम्बितम् । आत्मरूपं निराकारं तयोः संयोगितां गतः ॥२१॥ स एव गणराजोऽयं मायाखेलकरः प्रभुः । तस्येच्छया तद् द्विविधं चलति प्रतिसूत्रवत् ॥२२॥ त्रिविधं चैकभावं च जातं मोहेन पार्वती । विकल्पः प्रकृतस्तेन एकोऽहं स्यां बहुस्त्विति ॥२३॥ विकल्पेन द्विधा भूतं देहदेहिस্বরূপकम् । सोऽहं ब्रह्मेति यत्प्रोक्तं वेद वै वेदवादिभिः ॥२४॥ तदेव देहि रूपं च देहमोहप्रधारणात् । देहरूपं तथा तत्र बिन्दुमात्रं प्रकीर्तितम् ॥२५॥ चतुर्विधानां देहानां ब्रह्मरूपं

Page 16Permalink

खं. १ अ. ६ पान १६ पुरातनम् । बहुरूपं च तद्विद्धि देहकैवल्यसंज्ञितम् ॥२६॥ सोऽहं ब्रह्मैकरूपं यद्वहुरूपं च बिंदुमत् । स्वस्वकार्येषु नो शक्तं सत्ताहीनतया शिवे ॥२७॥ ताभ्यां तपः कृतं घोरं स्वस्वरूपस्य सुंदरि । दिव्यवर्षसहस्रान्ते प्रसन्नोऽभूद् गजाननः ॥२८॥ प्रत्यक्षतां ययौ तत्र शुंडादंडविराजितः। लंबोदरो महाकर्णश्चतुर्बाहुस्त्रिनेत्रभृत् ॥२९॥ तस्य दर्शनमात्रेण स्फूर्तिर्जाता तयोस्तदा । तया तं तौ समाबुध्य नतौ स्तोत्रं प्रचक्रतुः ॥३०॥ प्रकृतिपुरुषावूचतुः । नमस्ते गणनाधाय स्वसंवेद्यमयाय ते । निराकारस्वरूपा वै शुंडा यस्य विराजते ॥३१॥ यस्य देहश्च साकारः कंठाधः परिकथ्यते । अभेद एतयोर्जातस्तेन त्वं वै गजानन ॥३२॥ चतुर्विधं निजानंदाद्देहेषु कथितं भवेत् । एकमेव्यक्तत्पं च द्वितीयं समरूपकम् ॥३३॥ तृतीयं सत्स्वरूपं च चतुर्थं यत्सदा ह्यसत् । चतुर्हस्तस्वरूपं ते तेन त्वं वै चतुर्भुजः ॥३४॥ तवोदरे स्थितं सर्वं तेन लंबोदरः स्मृतः । माया- मायिकरूपं च द्वौ पादौ द्विविधं च ते ॥३५॥ एते सर्वे गणा ढुंढे त्वदीया नात्र संशयः । गणनाथोऽसि तेन त्वं नाम्ना ख्यातश्च सर्वदा ॥३६॥ एतादृशो निजात्मासावावयोर्ध्यान आबभौ । स्वसंवेद्यतया ध्यातो भक्तानुग्रहकारकः ॥३७॥ भक्ताभिमानभावेन देहधारी स्वयं ह्यभूत् । एतैश्च लक्षणैर्युक्तो गणेशो नामधारकः ॥३८॥ धन्यं सर्वं कृतं स्वामिन् येन त्वं देहवानभूः । स्वानंदवासभृत् साक्षाद् हृदि नित्यं स्थिरो भव ॥३९॥ नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । भक्तानां वै ह्यभक्तानां विघ्नकर्त्रे नमोऽस्तु ते ॥४०॥ कर्मणां फलदात्रे च ज्ञानानां सिद्धिदायिने । अमेयशक्तये तुभ्यं सर्वाधाराय ते नमः ॥४१॥ किं कर्तव्यं दयासिंधो तदेवाज्ञापय प्रभो । तव भक्तिं महातीव्रां देहि नौ गणनायक ॥४२॥ एवं स्तुतिं समाकर्ण्य परितुष्टो गणाधिपः । मेघगंभीरया वाचा हर्षयन्नब्रवीत्तदा ॥४३॥ श्रीगणेश उवाच । साधु साधु महाभागौ यदुक्तं स्तोत्रमुत्तमम् । मम प्रीतिकरं सर्वकामदं प्रभविष्यति ॥४४॥ धर्मार्थकाममोक्षाणां दायकं पुष्टिवर्धनम् । कारागृहस्थितानां च मोचकं लक्षपाठतः ॥४५॥ मारणोच्चाटनादीनां नाशकं तत्तथैव च । एकविंशतिवारं यः एकविंशदिनावधि ॥४६॥ पठेत्तु यदि वै भक्त्या स ईप्सितफलं लभेत् । ब्रह्मभूयकरं चैतन्निष्कामपठनाद्भवेत् ॥४७॥ भवतोस्तपसा तुष्टः स्तोत्रेणानेन भावतः । प्रीतो दास्यामि संपूर्णं भवद्भयामीप्सितं च यत् ॥४८॥ बिंदुमात्रस्वरूपेण यत्स्थितं ब्रह्म शाश्वतम् । तस्माच्चतु- र्विधं विश्वं प्रकटं संभविष्यति ॥४९॥ प्रकर्षेण च सर्वेषां कृतिस्तस्माद्विनिःसृता । प्रकृतिस्तेन ते नाम भविष्यति जने- ष्विदम् ॥५०॥ सृष्ट्वा चतुर्विधं विश्वं बंधहीना भविष्यसि । मदीयां भक्तिमचलां प्रकृते प्राप्स्यसि ध्रुवम् ॥५१॥ जनास्त्व-

Page 17Permalink

खं. १ अ. ७ पान १७ दीयभक्तिं ये करिष्यंति सकामतः। निष्कामतश्च तेभ्यस्त्वं सर्वं दास्यसि शोभने ॥५२॥ चतुर्विधेप्ययं शेते पुरे तेनैव पूरुषः। सोऽहंमात्रात्मको भावी नाम्ना सर्वत्र तिष्ठतु ॥५३॥ सर्वाकारविहीनोऽयं तत्र भ्रान्तो भविष्यति। बिंबबिंबित- भावेन प्रकृतौ मोहितः सदा ॥५४॥ स्वयं मोहविहीनः स सोऽहंमात्रात्मकः सदा। मत्प्रसादाद्भवेन्नित्यं ब्रह्म सोऽहं सुखात्मकः ॥५५॥ मदीया भक्तिरचला भविष्यति तवापि च। तया बंधविहीनस्त्वं तथा मान्यो भविष्यसि ॥५६॥ तव भक्तिं करिष्यन्ति जना भावेन संयुताः। तेभ्यस्तदीप्सितं सर्वं दास्यसि त्वं न संशयः ॥५७॥ ब्रह्मभूयपदं चैव दास्यसे योगसेवया। साक्षात्पुरुषरूपस्त्वं सर्वसत्तात्मको भव ॥५८॥ प्रकृतौ वीर्यमाधत्स्व सर्वसत्तात्मकं विभो। तेनेयं सर्व- सूर्विश्वं सृजिष्यति न संशयः ॥५९॥ सृष्ट्वा चतुर्विधं सर्वं पालनं हरणं तथा। कर्तव्यं कालयोगेन करणीयमिदं स्मृतम् ॥६०॥ सर्वेषां प्रकृतिर्माता पिता पुरुष उच्यते। नानारूपाणि नामानि कल्पयिष्यन्ति वै जनाः ॥६१॥ इत्युक्त्वा गणराजस्तु तत्रैवांतरधीयत। प्रकृतिः पुरुषश्चैव यथाज्ञप्तौ प्रचक्रतुः ॥६२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते प्रकृतिपुरुषवरप्रदानं नाम षष्ठोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ पार्वत्युवाच। श्रुत्वेदं त्वन्मुखांभोजाद्धर्षश्चेतस्यजायत। पुनर्वदस्व मे स्वामिन् गणराजकथामृतम् ॥१॥ कथानां च रहस्यं यत्तद्देवैतन्न संशयः। पुनाति प्राश्निकं श्रोतॄन् वक्तारं भक्तितः श्रुतम् ॥२॥ प्रकृतिः पुरुषश्चोभौ कथं सृष्टिं प्रचक्रतुः। अंतर्हिते निजानंदे गणेशे स्वेच्छया विभौ ॥३॥ मुद्गल उवाच। पार्वतीवचनं श्रुत्वा प्रहृष्टः शंकरोऽब्रवीत्। कथां रसयुतां रम्यां पावनानां च पावनीम् ॥४॥ शंकर उवाच। शृणु देवि प्रवक्ष्यामि गणनाथकथां शुभाम्। धन्यासि सादरा जाता सप्रेमा विघ्ननाशिनी ॥५॥ अन्तर्हिते गणेशे च प्रकृतिः पुरुषस्तथा। सामर्थ्येन युतौ जातौ परस्परमनोनुगौ ॥६॥ तपसा वरदानेन मोहयामास तत्क्षणात्। पुरुषं प्रकृतिः सा वै नानाभावार्थदर्शिनी ॥७॥ नानाविभवयुक्तां तां दृष्ट्वा

Page 18Permalink

[header] खं. १ अ. ७ पान १८ [/header]

पुरुषसत्तमः । मोहितः पूर्णभावेन तदधीनोऽभवत्सदा ॥८॥ संवीक्षिता महामाया पुरुषेण महात्मना । हावभावयुता तत्र संस्थिता भक्तिभावतः ॥९॥ तस्यां सत्तात्मकं वीर्यं पुरुषेण प्रकाशकम् । निक्षिप्तं सहसा देवि तेन सा गर्भवतीभूत् ॥१०॥ स गर्भो ववृधे तत्र तेजसा स्वेन संवृतः । महता कालयोंगेन पूर्णो जातः प्रतापवान् ॥११॥ समये सुषुवे सा तं पुत्रं तेजो- मयं परम् । तस्य नामाऽभवल्लोके महानित्यभिविश्रुतम् ॥१२॥ अंतस्तु यत्स्थितं देवि सर्वांतर्यामि तत्परम् । लोकेषु च महत्तत्वं ज्ञातव्यं तत्समाविना ॥१३॥ सर्वेषामादिभूतोऽयं महानात्माऽभवत्प्रभुः । ज्येष्ठोऽयं तत्त्वजातीनां हृदि तेषां समास्थितः ॥१४॥ महता च ततः सृष्टं यदहंकाररूपकम् । स एव त्रिविधो जातो भिन्नमूर्तिः प्रतापवान् ॥१५॥ अहं सर्वत्र तिष्ठामि सदाधारमिदं स्मृतम् । तेनाहंकारनामा स सदाहंकरणात् शिवे ॥१६॥ स एव बाह्यभावेन स्थितः सर्वत्र सर्वराट् । इच्छितं महता यद्वै तत् कर्तुं सुसमाहितः ॥१७॥ त्रिविधोऽसौ गुणैस्तत्र तन्निबोध जगन्मयि । सात्त्विको राजसश्चैव तामसः कथ्यते बुधैः ॥१८॥ तेनाहंकरणस्यापि त्रिशक्तित्वं समागतम् । सात्त्विकी ज्ञानशक्तिश्च तया भावः प्रबुध्यते ॥१९॥ राजसी या क्रियाशक्तिस्तया कार्यं प्रवर्तते । तामसी द्रव्यशक्तिर्या देहरूपा प्रकथ्यते ॥२०॥ तत्रादौ तामसी शक्तिः प्रेरिता विश्वयोनिना । निर्ममे शब्दरूपं सा तेनाकाशं विनिर्मितम् ॥२१॥ आकाशेन स्पर्श एवं निर्मितः सर्वसिद्धये । स्पर्शेन निर्मितो वायुर्महाबलयुतः प्रभुः ॥२२॥ वायुना निर्मितं रूपं तेजोरूपेण निर्मितम् । तेजसश्च रसोत्पत्ती रसादापो विनिःसृताः ॥२३॥ अद्भिश्च निर्मितो गंधो गंधाद्भूभिरजायत । तमोगुणमयी सृष्टिरेषा जाता महाद्भुता ॥२४॥ तन्मात्रा भूतसर्गश्च पंचपंचात्मकः स्वराट् । पंचभूतात्मको देहः सर्वत्रैव प्रदृश्यते ॥२५॥ ततो राजसशक्त्या च पंचभूतमयानि वै । इंद्रियाणि प्रसृष्टानि क्रियारूपाणि तानि वै ॥२६॥ पंच ज्ञानेंद्रियाण्याहुर्ज्ञानरूपधराणि च । जिह्वा चक्षुस्त्वचा नासा कर्णश्चैवाऽत्र पंचमः ॥२७॥ कर्मेंद्रियाणि पंचैव हस्तौ पादौ गुदं च वाक् । लिंगं पंचममत्रैव एभिः संजायते क्रिया ॥२८॥ पंच प्राणास्तथा ज्ञेयाः प्राणो व्यानस्त्वपानकः । उदानश्च समानो वै राजसाः पंच वायवः ॥२९॥ सप्तधातुविभागार्थं क्रिया- रूपा उदाहृताः । एषां क्रियात्मिका सृष्टी राजसी कथिता प्रिये ॥३०॥ सात्त्विक्या मायया देवा इंद्रियाणां विनिर्मिताः । दिशो वायुश्च वरुणोऽश्विनौ सूर्यः प्रकीर्तितः ॥३१॥ एता ज्ञानेंद्रियाणां च देवताः परिकीर्तिताः । अग्निविष्णुः प्रजापाल इंद्रो मित्रश्च पंचमः ॥३२॥ एताः कर्मेंद्रियाणां वै देवताः परिकीर्तिताः । सात्त्विकी सृष्टिरित्युक्ता दशदेवस्वरूपिणी ॥३३॥

Page 19Permalink

खं. १ अ. ७ पान १९

एते तत्त्वस्वरूपाख्या आदिदेवाः प्रकीर्तिताः। यथाविधि तथा जाता ज्ञानहीना बभूविरे ॥३४॥ ज्ञानहीनत्वदोषेण सृष्टिं कर्तुं न च क्षमाः। तेभ्यो ज्ञानप्रदानार्थमुपदेशं प्रचक्रतुः ॥३५॥ प्रकृतिः पुरुषश्चोभौ मंत्रमेकाक्षरं परम्। अनुष्ठानविधायुक्तं ददतुर्गणपस्य तौ ॥३६॥ ते तत्रैव स्थिताः सर्वे तपश्चक्रुर्महद् भृशम्। तेन संतुष्टतां यातो गणेशो गणवल्लभः ॥३७॥ प्रत्य- क्षतां ययौ तेषां समीपे संस्थितो महान्। तं दृष्ट्वा हर्षिताः सर्वे देवाः स्तोत्रं प्रचक्रिरे ॥३८॥ तत्त्वान्यूचुः। नमस्ते वक्रतुण्डाय भक्तसंरक्षकाय च। सर्वाधीशाय सर्वाय गणानां पतये नमः ॥३९॥ अव्यक्ताव्यक्तरूपाय सत्यासत्याय ते नमः। समाय विषमायैव विघ्नेशाय नमो नमः ॥४०॥ आत्मनेऽनात्मने तुभ्यं निर्गुणाय गुणात्मने। नामरूपधरायैव द्वाभ्यां हीनाय ते नमः ॥४१॥ अनंतोदरसंस्थाय नानाभोगकराय च। भोगहीनाय सर्वत्र स्वानंदपतये नमः ॥४२॥ मायाधाराय वै तुभ्यं मायाहीनाय ते नमः। मायिनां मोहकाराय सर्वज्ञाय च ते नमः ॥४३॥ सर्वसिद्धिधरायैव सिद्धीनां पतये नमः। सिद्धिहीनाय सिद्धाय सिद्धानां पतये नमः ॥४४॥ जगन्मयाय वै तुभ्यं जगद्धीनाय ते नमः। कर्मणां फलदात्रे च कर्मरूपाय ते नमः ॥४५॥ कर्महीनाय तेऽज्ञानज्ञानदात्रे नमो नमः। ज्ञानिनां ज्ञानकर्त्रे च ज्ञानहीनाथ ते नमः ॥४६॥ चतुर्विधधरायैव चतुर्विधमयाय च। चतुर्विधविहीनाय स्वसंवेद्याय ते नमः ॥४७॥ पाशाङ्कुशधरायैव दंताभयधराय च। चतुर्भुजाय वै शूर्पश्रुतये तुंदिलाय च ॥४८॥ महते चैकदंताय महतां च महीयसे। लघवे लघुरूपाय लघूनां लाघवे नमः ॥४९॥ गजवक्त्राय देवाय ब्रह्मणे ब्रह्मरूपिणे। ब्रह्मणस्पतये चैव ब्रह्मदात्रे नमो नमः ॥५०॥ किमस्माभिः स्तुतिः कार्या ह्यपारगुणराशये। नमो नमो गणेशाय त्वं तुष्टो भव सर्वदा ॥५१॥ कृतांजलिपुटाः सर्वे ऋषयश्च स्थिताः पुरः। तान् दृष्ट्वा गणराजस्तु हृष्टः सन् प्रत्युवाच ह ॥५२॥

॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुण्डचरिते तत्त्वकृतस्तुतिवर्णनं नाम सप्तमोऽध्यायः ॥

Page 20Permalink

[शीर्षक: खं. १ अ. ८ | पान २०]

॥ श्रीगणेशाय नमः॥ श्रीशिव उवाच। शृणु देवि गणेशस्य चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं चैव स्मरणेन सुसिद्धिदम् ॥१॥ गजाननः प्रसन्नात्मा परमात्मा परात्परः । भक्तानंदकरः साक्षादूचिवान् भक्तिभावितः ॥२॥ श्रीगजानन उवाच। भो भोस्तत्त्वानि सर्वाणि वरं ब्रूत हृदीप्सितम् । तपसाऽहं प्रसंतुष्टो भक्त्या स्तोत्रेण भावतः ॥३॥ भवत्कृतमिदं स्तोत्रमतिप्रीतिकरं मम । सर्वसिद्धिप्रदं चैव पठते शृण्वते भवेत् ॥४॥ विद्याकामो लभेद्विद्यां धनकामो धनं लभेत् । स्त्रीकामः स्त्रियमाप्नोति पुत्रकामः सुपुत्रकान् ॥५॥ मुक्तिकामो लभेन्मुक्तिं जयकामो जयं लभेत् । अस्य स्तोत्रस्य पठनात् वांछितं लभते परम् ॥६॥ श्रीशिव उवाच। गणेशवचनं श्रुत्वा भक्तिनम्रात्मकन्धराः । ऋषयस्तं प्रणम्यादावूचुस्ते हृष्ट- मानसाः ॥७॥ आदिऋषय ऊचुः। प्रसन्नो भगवंश्चद्य यदि देयो वरो महान् । त्वदीयामचलां भक्तिं देहि नो गणनायक ॥८॥ सृष्टिसामर्थ्यमत्यंतमस्माकं त्वत्प्रसादतः । अस्तु वै भजतां सर्वसिद्धिदाश्च वयं तथा ॥९॥ यद्यत् हृदीप्सितं देव तत्तत् सिध्यतु सर्वदा । बंधहीनत्वमनिशं देहि त्वं विघ्ननाशन ॥१०॥ तत्त्वानां वचनं सर्वे श्रुत्वा गणपतिः स्वयम् । ददौ तेषामभीष्टं स महादेवि महप्रदः ॥११॥ श्रीगजानन उवाच । दत्ता वरा मया देवा ये भवद्भिर्वृताः पराः । इत्युक्त्वान्तर्दधे ढुंढिः ऋषीणां पश्यतां खलु ॥१२॥ स्वानंदॆ च गते देवे गणेशे परमात्मनि । खिन्ना इवाऽभवन् देवाः परस्परमुखेक्षणाः ॥१३॥ गणेशवरदानेन ज्ञानं प्राप्य महाद्भुतम् । बुद्धियुक्ता महादेवाः सृष्टिं चक्रुः प्रभावतः ॥१४॥ परस्परप्रवेशं च चक्रुस्त ऋषयस्तदा । तेनैक- भावतां प्राप्तास्तस्मादण्डं बभूव वै ॥१५॥ तस्मिन्नंडे पुमानादिरेकः सर्वात्मशक्तिमान् । जातो वै भगवान् साक्षाद् गुणेशो गुणवल्लभः ॥१६॥ महता कालयोगेन देहात्तस्य विनिःसृताः । आपस्तत्र स्थितं ह्यण्डं तत्र वृद्धिं ययौ च सः ॥१७॥ कालेनावयवी जातस्ततः संपूर्णदेहवान् । तस्य तेजःप्रभावेण तदण्डं स्फुटितं महत् ॥१८॥ स एव निःसृतः साक्षादसंख्यातार्कसन्निभः । अपारमहिमा यस्य सर्वादिः सर्वभावनः ॥१९॥ सर्वतो हस्तपादो वै सर्वतो नासिकोदरः । सर्वतोऽक्षिमुखोऽनंतः सर्वतः श्रुतिमान् बभौ ॥२०॥ असंख्यावयवो देवो ह्यसंख्योदारविक्रमः । असंख्यलीलया युक्तः परमात्मस्वभाववान् ॥२१॥ आदिमध्यान्तहीनः स सर्वत्र व्याप्य संस्थितः । महतां च महीयान् यो यस्य पारो न दृश्यते ॥२२॥ अणुभ्योऽणुतरो देवो रोमरन्ध्रेषु यस्य वै । ब्रह्माण्डानि भ्रमन्ति स्म परागा इव चांबरे ॥२३॥ महाकारणनामा वै तुरीयो देहधारकः । आत्मप्रतीतिरूपं यत्कथ्यतेऽसौ महाद्युतिः ॥२४॥ गुणानामधिपोऽयं वै गुणेशस्तेन कथ्यते । सर्वात्मा सर्वरूपश्च नाददेहधरः