मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 9, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ४ पान ९ ☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸☸ नामस्मरम् ॥१४॥ इति गत्वा स्वयं शंभुर्मनसा गणपं भजन् । भक्त्यैकचेतसा चैव ध्यात्वा रूपमनुत्तमम् ॥१५॥ चतुर्भुजं महाकायं गजवक्त्रं महोदरम्। मुकुटेन विराजन्तं कर्णकुण्डलधारिणम् ॥१६॥ रत्नमालाधरं पूर्णं नाभिशेषविभूषितम्। किंकिणीकायुक्तपादं कणच्चरणनूपुरम् ॥१७॥ सिद्धिबुद्धियुतं चिन्तामणिभूषितवक्षसम्। एकचित्तेन च ध्यात्वाऽसाधयत्तं समाधिना ॥१८॥ तुष्टाव विविधैर्वाक्यैर्गणेशं ब्रह्मरूपिणम्। निराकारं च साकारं विघ्नराजं हृदि स्थितम् ॥१९॥ शिव उवाच। नमस्ते विघ्नराजाय नमस्ते विघ्नहारिणे । विघ्नकर्त्रे गणेशाय विघ्नानां पतये नमः ॥२०॥ लम्बोदराय सर्वाय वक्रतुण्डस्वरूपिणे। त्रैगुण्येन जगद्रूपनानाभेदप्रधारिणे ॥२१॥ नैर्गुण्येन च वै साक्षाद् ब्रह्मरूपधराय च। नमो नमो बंधहंत्रे भक्तानां पालकाय ते ॥२२॥ अभक्तेभ्यस्तमोदाय नानाभयकराय च। हेरंबाय नमस्तुभ्यं वेदवेद्याय शाश्वते ॥२३॥ अनंताननरूपायोनंतबाह्रंघ्रिकाय ते। अनंतकरकर्णायीनंतोदरधराय ते ॥२४॥ नमो नमस्ते गणनायकाय ते अनादिपूज्याय च सर्वरूपिणे । अखंडलीलाकरपूर्णमूर्तये महोत्कटायास्तु नमो महात्मने ॥२५॥ आदौ च निर्माय विधिं रजोमयं तेनैव सृष्टिं विदधासि देव। सत्त्वात्मकं विष्णुमथो हि मध्ये निर्माय पासि त्वमखंडविक्रम ॥२६॥ अन्ते तमोरूपिणमेव सृष्ट्वा शंभुं स्वशक्त्या हरसि त्वमाद्य। एवंविधं त्वां प्रवदन्ति वेदाः तं वै गणेशं शरणं प्रपद्ये ॥२७॥ मायामयं वै गुणपं तु सृष्ट्वा तस्मात्पुरस्त्वं गणराज चादौ। स्वानंदसंज्ञे नगरे विभासि सिद्ध्या च बुद्ध्या सहितः परेश ॥२८॥ तं त्वां गणेशं शरणं प्रपद्ये स्थितं सदा हृत्सु च योगिनां वै। वेदैर्न वेद्यं मनसा न लभ्यं तं वक्रतुण्डं हृदि चिन्तयामि ॥२९॥ अर्ध- नारीश्वरत्वं यत्तद्धृतं मेऽधुना प्रभो। शक्तिहीनत्वमापन्नो नष्टवत्कर्मणा कृतः ॥३०॥ नानैश्वर्ययुता देवी सा गता गणप प्रभो। अनीश्वरपदं प्राप्तं मम वै देवदेव भोः ॥३१॥ निर्गुणोऽहं सदा शंभुः सगुणः सर्वभाववित् । शक्त्या युक्तो यदा स्वामिन्नधुना किं करोम्यहम् ॥३२॥ शक्तिहीनः पदा गन्तुं न शक्नोमि गणेश्वर। अतस्त्वं कृपया देव शक्तं मां कुरु कर्मणि ॥३३॥ ततः प्रादुरभूत्तस्य पुरतः स गणाधिपः। उवाच शंकरं तत्र हर्षयन् श्लक्ष्णया गिरा ॥३४॥ अहो पश्य च मां शंभो किं शोचसि महेश्वर। भवितासि सशक्तिस्त्वं मद्वाक्यान्नात्र संशयः ॥३५॥ अहमेवेश्वरो देवो ह्येको ब्रह्माण्डमंडले। तेन गर्वेण युक्तस्त्वं स विघ्नः सहसा कृतः ॥३६॥ अधुना ते गतो मोहो मदीया स्मृतिरागता। ध्यातस्तुतश्च तेनाऽहं प्रसन्नोऽस्मि न संशयः ॥३७॥ हिमाचलसुता देवी भविष्यति न संशयः । वृणोषि त्वं सतीं तां वै पार्वतीं च पुनः