मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 15, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ६ पान १५ ॥ श्रीगणेशाय नमः ॥ शौनक उवाच । पार्वतीशिवसंवादं कथयस्व महामते । पाराशर्यस्य सर्वज्ञ शिष्य सर्वार्थतत्त्ववित् ॥१॥ सूत उवाच । मुद्गलेन यथा प्रोक्तं दक्षे वै शांतिकारकम् । शिवयोस्तं च संजातं संवादं कथयामि भोः ॥२॥ श्रीशिव उवाच । धन्या देवि महाभागे त्वत्समान्या न विद्यते । महापुण्येन ते बुद्धिर्गणेशज्ञानलालसा ॥३॥ कारितोऽहं त्वया शक्ते सत् क्रिया नात्र संशयः । ममैवेदं महद्भाग्यं गाणपत्यप्रिया गृहे ॥४॥ गणेशाय नमः कृत्वा कथयामि कथानकम् । आदौ मायामयं विद्धि मायातीतं ततः परम् ॥५॥ स्वस्वरूपमयं सर्वं ज्ञातव्यं योगिना सदा । द्विविधं योगमार्गेण साधनेन विशेषतः ॥६॥ आदौ ब्रह्म स्थितं देवि एकानेकादिवर्जितम् । स्वतः परत उत्थानात्तदेव द्विविधं बभौ ॥७॥ स्वत उत्थानके नैव विकल्पः सहशः कृतः । अहमस्मीति भावेन बिम्बं भिन्नं विनिःसृतम् ॥८॥ सकलाभेदरूपं यन्निराकारं स्वभावतः । अहमस्मि सदा प्रोक्तं ब्रह्मरूपं च शाश्वतम् ॥९॥ तेनापि स्वस्वरूपं तद् दृष्टमात्मात्मकं परम् । कीदृशोऽहं विकल्पश्च कृतो मोहेन तत्क्षणात् ॥१०॥ चतुश्चतुः पदार्था ये योगरूपेण संस्थिताः । तेषामभेदरूपं च दृष्टं सर्वात्मकं परम् ॥११॥ मायया बिम्बरूपोऽयं जातः सद्यश्च नामतः । माया बिम्बं द्वितीयं तत्तत्र मोहप्रधारणात् ॥१२॥ मोहधारणमात्रेण विस्मृतं स्वस्वरूपकम् । मायासुखेप्सुना जाता तस्य देवस्य तत्क्षणात् ॥१३॥ सर्वाकारा निराकारा माया जाता द्विधापरा । बुद्धिरूपा महाभागा तया सर्वं प्रबुध्यते ॥१४॥ निराकारं च साकारं बुद्ध्या संबुध्यते जनैः । बुद्ध्या यद्बुध्यते क्षेत्रे बुद्धिरूपं तदेव च ॥१५॥ तत्र मोहो च साकारो निराकारः स्वयं प्रभुः । मोहहीन इति भ्रांतिर्द्विधा गुणसमुत्थिता ॥१६॥ सा सिद्धिर्मोहकर्त्री वै नानाभ्रांति- प्रकाशिका । एका बुद्धिश्च सर्वत्र तथा द्वैधे प्रवर्तिता ॥१७॥ सिद्ध्या संमोहिता बुद्धिर्भ्रान्ता जाता च पार्वती । साकार- मोहसंयुक्ता निराकारविमोहिता ॥१८॥ मोहधारकबुद्धिश्च सिद्धिर्मोहप्रदायिनी । तयोः प्रकाशदाता स गणेशानो- ऽभवत् स्वयम् ॥१९॥ स एव नामतस्तत्र न गतो निजरूपधृक् । बिम्बबिम्बिप्रभावत्वाद्भासते तादृशो वृथा ॥२०॥ सर्वात्मकं च बिम्बं यत्परं तत्रैव बिम्बितम् । आत्मरूपं निराकारं तयोः संयोगितां गतः ॥२१॥ स एव गणराजोऽयं मायाखेलकरः प्रभुः । तस्येच्छया तद् द्विविधं चलति प्रतिसूत्रवत् ॥२२॥ त्रिविधं चैकभावं च जातं मोहेन पार्वती । विकल्पः प्रकृतस्तेन एकोऽहं स्यां बहुस्त्विति ॥२३॥ विकल्पेन द्विधा भूतं देहदेहिस্বরূপकम् । सोऽहं ब्रह्मेति यत्प्रोक्तं वेद वै वेदवादिभिः ॥२४॥ तदेव देहि रूपं च देहमोहप्रधारणात् । देहरूपं तथा तत्र बिन्दुमात्रं प्रकीर्तितम् ॥२५॥ चतुर्विधानां देहानां ब्रह्मरूपं