भारतकोश
मुद्गल पुराण (अष्टावतार चरितम्)

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

पृष्ठ 14, कुल 1023 में से

संदर्भ में पढ़ें
पृष्ठ 14

खं. १ अ. ५ पान १४ गणेशं हृदि संस्थं मे स्वानंदवासिनं परम् ॥२५॥ साकारं च निराकारं तस्मिन्देवि न विद्यते । मनोवाणीविहीनं न मनोवाणीमयं न वै ॥२६॥ शिवस्य वचनं श्रुत्वा पार्वती प्रेमसंयुता । उवाच मधुरं वाक्यं वाक्यज्ञा भावपूर्वकम् ॥२७॥ पार्वत्युवाच । कोऽसौ गणेशनामा वै कथं स हृदि तिष्ठति । स्वानंदवसतिः का च यत्र तिष्ठति स प्रभुः ॥२८॥ साकारो न निराकारो कथं स ज्ञायते जनैः । मनोवाणीमयो नैव हीनस्ताभ्यां न च क्वचित् ॥२९॥ तस्य ध्यानं महेशापि कर्तुं नैव प्रशक्यते । ध्यायसे केन मार्गेण भव मे कथय प्रभो ॥३०॥ अहं दासी त्वदीया वै शिष्यभावेन संस्थिता । कथयस्व महादेव ध्यानं गाणेशकं मम ॥३१॥ तमहं साधयिष्यामि साक्षात्कारेण वै यथा । कृतकृत्या भविष्यामि प्रसादात्ते न संशयः ॥३२॥ मुद्गल उवाच । इति पृष्टो महादेवो देव्या भक्त्यादरेण च । पात्रं गणेशमार्गस्य दृष्ट्वा प्रेमयुतोऽब्रवीत् ॥३३॥ तत्तेऽहं शृणु वक्ष्यामि गुह्याद् गुह्यतमं महत् । रहस्यं वेदशास्त्राणां यस्मात्परतरं न च ॥३४॥ दक्ष उवाच । तव वाक्यामृतेनाऽहं प्रीतो मुद्गल सांप्रतम् । उमा- महेशसंवादं योगीन्द्र कथयस्व मे ॥३५॥ सूत उवाच । दक्षस्य भावयुक्तं तद्वचनं मुद्गलेन वै । श्रुतं तेन सुसंतुष्टो वक्तुं समुपचक्रमे ॥३६॥ मुद्गल उवाच । शम्भुः स्मृत्वा गणेशानं हृदि ध्यात्वा महायशाः । प्रत्युवाच महादेवीं गाणपत्यः प्रतापवान् ॥३७॥ श्रीशिव उवाच । सर्वं मायामयं विद्धि जायते यच्च चेतसा । चित्तप्रवेशहीनं च मायातीतं निगद्यते ॥३८॥ रचितं द्विविधं येन स एव गणनायकः । स्वसंवेदं महः प्रोक्तं वेदयेत्तद्विशेषतः ॥३९॥ तत्रैव दृश्यते देवो योगिभिर्योग- पारगैः । तेन स्वानंदवासी स कथ्यते वेदवादिभिः ॥४०॥ चित्तस्य पंचभूमीनां प्रकाशनकरः स्मृतः । चिंतामणिरिति ख्यातो हृदि संतिष्ठति प्रभुः ॥४१॥ समूहे गणधातुश्च तेषां स्वामी गणेश्वरः । अभेदयोगमार्गेण सदा ध्यातुं स शक्यते ॥४२॥ मुद्गल उवाच । श्रुत्वा शिववचो रम्यं पार्वती विनयान्विता । चकिता प्रत्युवाचेदं वचनं हितकारकम् ॥४३॥ पार्वत्युवाच । भगवन्कथितं कूटवचनं योगभावितम् । न बुद्धं तन्मया स्वामिंस्तस्माच्च सुलभं वद ॥४४॥ ब्रह्म मायामयं प्रोक्तं कीदृशं कथय प्रभो । मायाहीनं कथं ज्ञेयं विस्तरेण वदस्व मे ॥४५॥ मुद्गल उवाच । शक्तिप्रश्नं च संश्रुत्य हृष्टः शंभुः सुयोगवित् । साश्रुनेत्रः सरोमांचो भक्त्या जातो महायशाः ॥४६॥ आदिमायां प्रशंसन् सन् वक्तुं तामुपचक्रमे । योगमार्गस्य सिद्ध्यर्थं विस्तरेण महेश्वरः ॥४७॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे प्रथमे खण्डे वक्रतुंडचरिते पार्वतीप्रश्नविचारो नाम पंचमोऽध्यायः ॥