मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
पृष्ठ 13, कुल 1023 में से
संदर्भ में पढ़ेंखं. १ अ. ५ पान १३ ॥ श्रीगणेशाय नमः। शौनक उवाच। श्रुतं दक्षस्य चरितं यज्ञध्वंसादिकं महत्। मुद्गलस्य च दक्षस्य संवादं कथयस्व भोः ॥१॥ सूत उवाच। शृणु शौनक संवादं दक्षमुद्गलसंभवम् । ब्रह्मभूयकरं पूर्णं भावेन च श्रुतं हृदि ॥२॥ दक्षप्रश्नं परं धृत्वा मुद्गलो गणपप्रियः। तं प्रत्युवाच भावेन महर्षियोंगिनां वरः ॥३॥ मुद्गल उवाच। सर्वेषां गणपो माता पिता चैव न संशयः। तेन सर्वादिपूज्योऽयं सर्वपूज्यः स देवराट् ॥४॥ ज्येष्ठराजेति यद्वाक्यं वेदेन प्रतिपादितम्। ज्येष्ठं भावाच्च तस्यापि ज्ञातव्यं सर्वसंमतम् ॥५॥ तस्य सर्वे कलांशा वै कलांशांशाश्च केचन। न कला तस्य संपूर्णा जगत्यां कुत्र दृश्यते ॥६॥ विनायको नाम तेन जातोऽसौ भगवान् खलु। विशेषेण च सर्वेषां नायकोऽयं गणाधिपः ॥७॥ विगतो नायको यस्य स्वेच्छाचारी विनायकः। स्वानंदलोकवासी च स्वसुखेन प्रभावतः ॥८॥ ब्रह्मविष्णुशिवाद्यैश्च वेदैर्योगिभिरेव च। सर्वैः संपूजितो देवो धर्मकामार्थमुक्तये ॥९॥ अहं ब्रह्मेति माहात्म्याद् गर्वी भवति शाश्वतः। शिवादीनां यदाधारादिदं सर्वं प्रवर्तते ॥१०॥ तदा मदहरोऽयं वै तेषां ज्ञानार्थसिद्धये। विघ्नकर्ता महाराजः स्वयं भवति विघ्नपः ॥११॥ पदभ्रष्टाः कृतास्तेन सर्वे देवादयो द्विजाः। किमाधारमिदं सर्वं विचिन्वंति समाधिना ॥१२॥ तेन पश्यन्ति योगेन चेतः पंचवृत्तिभिः। तासां प्रकाशकोऽयं वै चिंतामणिरिति स्मृतः ॥१३॥ वेदैः संपादितं ज्ञात्वा शरणं तं व्रजंति ते। ततो विघ्नहरो जातस्तेषां सर्वार्थदः स्मृतः ॥१४॥ सर्वसत्तात्मकोऽयं वै विघ्नराजः प्रकीर्तितः। अत एव गणेशाद्धि परं किंचिन्न विद्यते ॥१५॥ स- विघ्नस्त्वं प्रजातोऽसि तमेव शरणं व्रज। चिन्तामणिं विघ्नहरं गणेशं च विनायकम् ॥१६॥ सूत उवाच। प्रजापतिरिति श्रुत्वा दक्षो हृष्टमनाः पुनः। पप्रच्छ विनयेनैव कथां पापप्रणाशिनीम् ॥१७॥ दक्ष उवाच। कोऽयं स्वानंदवासी वै कथं ज्ञेयो भवेन्मया। वद तत्र विभो मार्गं तेन तं सततं भजे ॥१८॥ मुद्गल उवाच। अत्र ते कथयिष्यामि इतिहासं पुरातनम्। पार्वतीशिवसंवादं यथा जातं शृणुष्व भोः ॥१९॥ कैलासे गिरिवर्ये तु सुखासीनं महेश्वरम्। पार्वती प्रणता भूत्वा पृच्छति स्म मुदायुता ॥२०॥ पार्वत्युवाच। शिव त्वं सर्वदेवानां नागानां रक्षसां तथा। मानवानां च सर्वेषां पूज्यः स्वामी न संशयः ॥२१॥ तेभ्यः पदप्रदाता त्वं सर्वाधीशः पुरातनः। मायाविकारहीनश्च शिवस्तेन प्रकीर्तितः ॥२२॥ त्वं किं समाधिना देव ध्यायसे मां वद प्रभो। त्वत्तः परतरं किंचिन्न दृष्टं नैव संश्रुतम् ॥२३॥ इति पृष्टो महादेवस्तां प्रत्यूचे च सादरम्। सारं वेदादिमान्यं च ब्रह्मभूयकरं परम् ॥२४॥ श्रीमहादेव उवाच। शृणु प्रिये प्रवक्ष्यामि यं ध्यायामि दिवानिशम्।