नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 55, कुल 226 में से
संदर्भ में पढ़ेंसर्गः १ ] जीवातु-मदयन्तिकासहितम् । ३९ वनान्तपर्यन्तमुपैत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे । न्यवर्त्ति दृष्टिप्रकरैः पुरौकसामनुव्रजद्वन्धुसमाजबन्धुभिः ॥७५॥ वनान्तेति । अनुव्रजद्वन्धुसमाजबन्धुभिः = स्नेहादनुगच्छद्बन्धुसङ्घसदृशैरित्यर्थः । अत एवोपमालङ्कारः । पुरौकसां = नगरनिवासिनां दृष्टिप्रकरैः = दृष्टिसमूहैः कर्तृभिः । वनान्तपर्यन्तं = काननोपान्तसीमाम्; उदकप्रान्तपर्यन्तञ्चेति गम्यते । 'वने सलिलकानने' इत्यमरः । सस्पृहं = साभिलाषं यथा तथा उपेत्य = गत्वा; क्रमेण तस्मिन् = नले अवतीर्णदृक्पथे = अतिक्रान्तदृष्टिविषये सति । न्यवर्त्ति = निवृत्तं । भावे लुङ् । यथा बन्धुभिः 'उदकात् प्रियं पान्थमनुव्रजेत्' इत्यागमात् प्रवसन्त- मनुव्रज्य निवर्त्त्यते तद्वदित्यर्थः ॥७५॥ तब पीछे पीछे जानेवाले आत्मीयजनों के तुल्य नगर-निवासियों की आँखें— प्रेमपूर्वक वन की छोर तक जाकर, नल के नजरों से ओझल होने पर—क्रमशः लौटीं ॥ ७५ ॥ ततः प्रसूने च फले च मञ्जुले स सम्मुखीनाङ्गुलिना जनाधिपः । निवेद्यमानं वनपालपाणिना व्यलोकयत् काननरामणीयकम् ॥७६॥ तत इति । ततः = वनप्रवेशानन्तरं, स जनाधिपः = नलः, मञ्जुले = मनोज्ञे प्रसूने = कुसुमे च फले च विषये, [सम्मुखीनाङ्गुलिना] सम्मुखीना सन्दर्शिनी, सम्मुखावस्थितवस्तुप्रकाशिकेति यावत् । 'यथामुखसम्मुखस्य दर्शनः खः'इति खप्रत्य- यान्तो निपातः । तादृशी अङ्गुली यस्य तेन । वनपालपाणिना निवेद्यमानम् ; इदमिदमित्यङ्गुल्या पुष्पफलादिनिर्देशेन प्रदर्श्यमानमित्यर्थः । काननरामणीयकं = वनसौन्दर्यम् । 'योपधाद्गुरूपोत्तमद्वुञ्' इति वुञ्प्रत्ययः । व्यलोकयत् =अपश्यदिति स्वभावोक्तिः ॥७६॥ फिर नल ने सुन्दर फूलों और फलों से लदे हुए उपवन की शोभा देखी—जिसे माली ने सामने अंगुलि करके दिखाया ॥७६॥ फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवातवेपिते । स्थितैः समाधाय महर्षिवाङ्मुखाद्वने तदातिथ्यमशिक्षि शाखिभिः॥७७॥ फलानीति । [ वयोऽतिपातोद्गतवातवेपिते ] वयोऽतिपातेन पक्षिपातेन, बाल्याद्यपगमेन च, उद्गतेन उत्थितेन, वातेन वायुना वातदोषेण च, वेपिते कम्पिते । 'खगबाल्यादिनोर्वयः' इत्यमरः । पल्लवे एव करे इति समस्तं रूपकं । फलानि