नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
पृष्ठ 56, कुल 226 में से
संदर्भ में पढ़ें४० नैषधचरितम्। [ प्रथमः Digitized by Sarayu Trust Foundation and eGangotri पुष्पाणि च समाधाय = निधाय स्थितैः = तिष्ठद्भिः वने शाखाभिः = वृक्षैः, वेदशाखाध्यायिभिश्च । ‘शाखाभेदे द्रुमे शाखा वेदेऽपि’ इति वैजयन्ती । तदातिथ्यं = तस्य नलस्यातिथ्यम् अतिथ्यर्थं कर्म । ‘अतिथेर्यः’ इति ण्यप्रत्ययः । [ महर्षि- वार्द्धकात् ] महर्षीणां वार्धकाद्वृद्धसमूहात्, तत्रत्यवृद्धमहर्षिसङ्घादित्यर्थः । शिवभाग- वतवत्समासः । ‘वृद्धसङ्घे तु वार्द्धकम्’ इत्यमरः । ‘वृद्धाच्चेति वक्तव्यम्’ इति समूहार्थे वुञ् प्रत्ययः । अशिक्षि=शिक्षितमभ्यस्तम्; अन्यथा कथमिदमाचरितमिति भावः । कर्मणि लुङ् । उत्प्रेक्षेयं, सा च व्यञ्जकप्रयोगाद्गम्या । पूर्वोक्तरूपकश्लेषाभ्यामुत्थापिता चेति सङ्करः ॥७७॥ वन में स्थित वृक्षों ने-(वन में स्थित) महर्षि-वृद्धों से, पक्षियों के उड़ने से उत्पन्न हुई वायु से हिले हुए (अवस्था ढलने के कारण वातरोग से काँपते हुए), पल्लव रूपी हाथ (पल्लव के समान दृढ हाथ) में फल और फूल रख कर, मानों उस नल का अतिथि सत्कार करना सीखा ॥७७॥ विनिद्रपत्रावलिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनाज्जितम् । दधानमाशासु चरिष्णु दुर्यशः स कौतुकी तत्र ददर्श केतकम्॥७८॥ विनिद्रेति । विनिद्रपत्रावलिगतालिकैतव त् = विकचदलावलिस्थितभृङ्ग- मिषात् । [ मृगाङ्कचूडामणिवर्जनाज्जितम् ] मृगाङ्कचूडामणेरीश्वरस्य कर्तुः, वर्ज- नेन परिहारेण, अर्जितं सम्पादितं । ‘न केतकया सदाशिवम्’ इति निषेधादिति भावः । आशासु, चरिष्णु=सञ्चरणशीलं । ‘अलङ्कृञ्’ इत्यादिना चरेरिष्णुच्प्रत्ययः । दुर्यशः = अपकीर्त्तिं, दधानं केतक = केतकीकुसुमं, तत्र = वने स = नलः कौतुकी सन् ददर्श । अर्हस्य महापुरुषस्य बहिष्कारो दुष्कीर्त्तिकर इति भावः । अत्राऽलिकैतवा- दित्यह्निवापह्नवेन तेषु दुर्यशस्त्वारोपादपह्नुत्यलङ्कारः । ‘निषेध्य विषये साम्यादन्या- रोपेऽपह्नुतिः’ इति लक्षणात् ॥ ७८ ॥ उपवन देखने की उत्कण्ठा वाले नल ने, वहाँ विकसित पत्तों की कतार पर बैठे हुए भौरों के बहाने, मृगाङ्कचूडामणि शिवजी के ऊपर न चढ़ने वाले और चारो दिशाओं में फैलने वाली अपनी बदनामी को धारण करने वाले, केतकी के फूल को देखा ॥७८॥ वियोगभाजां हृदि कण्टकैः कटैर्निधीयसे कर्णिकारः स्मरेण यत् । ततो दुराक्रपत्तया तदन्तकृद्दिगीयसे मन्मथदेहदाहिना ॥७९॥