भारतकोश
पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र)

पण्डित विष्णु शर्मा द्वारा

स्रोत: पंचतन्त्रम् (सटीक - सम्पूर्ण पाँचों तन्त्र) · श्रीवेङ्कटेश्वर स्टीम प्रेस, बम्बई · 1910 (उद्गम)

DevanagariHindipublished536 पृष्ठ

पृष्ठ 431, कुल 536 में से

संदर्भ में पढ़ें
पृष्ठ 431

यायी परिचारकोऽस्ति । अथ कदाचित् तस्य हस्तिना सह युद्ध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाता येः पदमेकमपि चलितुं न शक्नोति तस्य अचलनात् च धूसरकः क्षुत्क्षामक- ण्ठो दौर्बल्यं गतः । अन्यस्मिन् अहनि तं अवोचत् - "स्वामि- न् ! बुभुक्षया पीडितोऽहं पदात् पदमपि चलितुं न शक्नोमि तत्कथं ते शुश्रूषां करोमि" । सिंह आह- "भो ! गच्छ अन्वे- षय किञ्चित् सत्त्वं येन इमां अवस्थां गतोऽपि व्यापादयामि" । तदाकर्ण्य शृगालोऽन्वेषयन् कञ्चित्समीपवर्त्तिनं ग्रामं आसा- दितवान् । तत्र लम्बकर्णो नाम गर्दभः तडागोपान्ते प्रविरल- दूर्वाङ्कुरान् कृच्छ्रादास्वादयन् दृष्टः । ततश्च समीपवर्त्तीना भूत्वा तेन अभिहितः - "माम!नमस्कारोऽयं मदीयः सम्भा- व्यतां चिरात् दृष्टोऽसितात कथय तत् किमेवं दुर्बलतां गतः?" स आह,-"भो भगिनीपुत्र ! किं कथयामि,रजकोऽतिनिर्दयो- ऽतिभारेण मां पीडयति,घासमुष्टिमाप न प्रयच्छति। केवलं दू- र्वाङ्कुरान् धूलिमिश्रितान् भक्षयामि।तत्कुतो मे शरीरे पुष्टिः?" शृगाल आह- "माम ! यदि एवं तदस्ति मरकतसदृशशष्प- प्रायो नदीसनाथो रमणीयतरः प्रदेशः। तत्र आगत्य मया सह सुभाषितगोष्ठीसुखमनुभवन् तिष्ठ । लम्बकर्ण आह- "भो भगिनीसुत ! युक्तमुक्तं भवता परं वयं ग्राम्याः पशवोऽरण्य- चारिणां वध्यास्तत् किं तेन भव्यप्रदेशेन " शृगाल आह- "माम ! मैवं वद, मद्भुजपञ्जरपरिरक्षितः स देशः । तन्नास्ति कस्यचित् अपरस्य तत्र प्रवेशः । परमेनैन एव दोषेण रजक- कदर्थिताः तत्र तिस्रो रासभ्योऽनाथाः सन्ति । ताश्च पुष्टिमा- पन्ना यौवनोत्कटा इदं मां ऊचुः-'यदि त्वं अस्माकं सत्यो मातुलः तदा किञ्चित् ग्रामान्तरं गत्वा अस्मद्योग्यं कञ्चित पतिमानय' । तदर्थे त्वामहं तत्र नयामि" । अथ शृगालवच- नानि श्रुत्वा कामपीडितांगः तमवोचत् । "भद्र ! यदि एवं तदग्रे भव, येन आगच्छामि । अथवा साधु इदमुच्यते-