भारतकोश
पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

पारस्कर गृह्यसूत्र (मार्गदर्शिनी टीका व हिन्दी व्याख्या सहित)

Paraskara Grihyasutra Hindi

महर्षि पारस्कर (टीकाकार: कुलमणि मिश्र शर्मा) द्वारा

स्रोत: Paraskara Grihyasutram with Margadarshini Hindi Commentary (उद्गम)

DevanagariHindipublished263 पृष्ठ

पृष्ठ 184, कुल 263 में से

संदर्भ में पढ़ें
पृष्ठ 184

( १६२ )

दर्शनात् अष्टकाश्राद्धपरदिने एव अन्वष्टकाश्राद्धमिति नियमः । नात्र नवमी श्राद्धकालव्याप्तिर्दृष्टव्येति ।

स्त्रीभ्यश्च । ११

पिण्डपितृयज्ञवत् इत्यनेन पितृपितामहप्रपितामहानामेव पिण्डदानं प्राप्तम् । स्त्रीभ्यश्चेति मात्रादित्रयाणामधिकमुक्तम् । अत्र सामान्योऽपि स्त्रीशब्दः पित्रादिसान्निध्यात् मात्रादिपर एव ।

उपसेचनञ्च कर्षूषु सुरया तर्पणेन

चाञ्जनानुलेपनं स्रजश्च । १२

अत्र अन्वष्टकाकर्मणि न केवलं स्त्रीभ्यः पिण्डदानं विहितं किन्तु कर्षूषु—स्त्रीपिण्डसमीपखातगर्भेषु सुरया—विहितमद्येन काण्डहरीतकी—गुडरसेन इति विश्वनाथः, तर्पणेन— तर्पणसाधनेन सक्तवादिना च उपसेचनं तथा प्रतिस्त्रीपिण्डम् अञ्जनं—सौवीराञ्जनं तदभावे लौकिकं कज्जलम्, अनुलेपनं—चन्दनादि, स्रजः—पुष्पमालाश्च दद्यात् इति शेषः । अत्र प्रथमचकारः स्त्रीणां पिण्डेन सह उपसेचनस्य समुच्चयार्थः । द्वितीयः सुरातर्पणयोः तृतीयश्च अञ्जनादिदानानां समुच्चयार्थः ।

इत्यन्वष्टकानिरूपणम् ।

आचार्य्यान्तेवासिभ्यश्चानपत्येभ्य इच्छन् । १३

नियतश्राद्धदेवता उक्त्वा सम्प्रति काम्यविधिमाह । इच्छन् यदि कामना भवति, तदा आचार्य्याय अनपत्येभ्यः अन्तेवासिभ्यः, चकारात् अनपत्येभ्यः भ्रातृपितृव्यादिभ्यश्च अनुकम्प्येभ्यः पिण्डं दद्यात् । अत्र अनपत्यशब्दः आचार्यादीनां विशेषणमिति हरिहरः । मन्मते आचार्यस्य अनपत्यत्वमविवक्षितं विभक्तिभेदात् ।

मध्यावर्षे च तुरीया शाकाष्टका । १४

हेमन्तशिशिरयोः त्रयाणामपरपक्षाणामष्टकात्रयं निरूप्य (३-३-२