पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 351, कुल 1267 में से
संदर्भ में पढ़ें( १२ ) यथेदानीं तथोपर्यपि देवा भविष्यन्तीतीतरेषामनु- मानाच्च ॥ २८ ॥ दृश्यन्ते तानि तान्येव तथा भावा युगादिषु ॥ इत्यादिरूपात् 'महतो' भारताचार्याणां 'प्रत्यक्षात्' प्रत्यक्षव- चनादित्यर्थः । अस्मिन् पक्षे 'प्रत्यक्षात्' निश्चितात्प्रत्यक्षादित्य- न्वयः ॥ ( १२ ) नन्वयोगिनां श्रुतिप्रत्यक्षयोरविश्वासेन तेषां देवप्रभवनिश्च- याभाव इत्यतः प्राप्तमनुमानेत्यंशं व्याचष्टे-यथेति । इदानीन्तनकाले यथा देवासन्ति तथोपरिभाविकालेऽपि देवा भविष्यन्तीतीतरेषां म- हद्भ्योऽन्येषामयोगिनामनुमानादित्यर्थः । अस्यापि प्रभवनियमादित्यने- नान्वयः । चशब्दः प्रभवनियमे, शब्दप्रत्यक्षानुमानाख्यप्रमाणत्रयसमु- च्चये वक्ष्यमाणयुक्त्यन्तरसमुच्चये च । अनुमानाकारस्तु—उपरितन- कालो देववान् अप्रलयकालत्वात् इदानीन्तनकालवदिति । अनेन— देवानामधिकारसिद्ध्यर्थं यद्याद्यन्तवत्त्वमभ्युपगम्यते, तर्हि पूर्वसूत्रे यद्वलात्पूर्वपूर्वदेवताप्रवाहस्यानादित्वमुक्तं, तस्मिन् 'शब्दे' 'वाचा विरूप नित्यया' इत्यादिश्रुतौ नित्यतया सिद्धे वेदे कर्मणि चोत्तरकल्पे वाच्योद्देश्यहीनत्वरूपाप्रामाण्याख्यो विरोधः स्यादिति चेत्-न, कुतः? 'प्रभवात्' देवानां सर्वकल्पेषु प्रभवनियमान्नियमेनोपपत्तेः । तेषां प्रवाह- तो नित्यत्वादिति यावत्। न चोत्पादकाभावः। 'अतो' विष्णोरेव प्रभ- वात्। न चासिद्धिः। 'अतो' 'धाता यथापूर्वम्' (महाना. १-३८.) इतिप्र- कृताच्छब्दाच्छ्रुतेः 'यथा' इति स्पष्टश्रुतेश्च । तथा महतामतीतानागत- कालविदां योगिनां 'प्रत्यक्षात्' 'यथर्तुषु' इति प्रत्यक्षवचनात् ज्ञापि- तात् महतामतीतानागतकालयोर्देवप्रभवनियमग्राहिप्रत्यक्षात् । तथा महद्भ्यः इतरेषामयोगिनामनुमानाच्च तत्सिद्धेरिति सूत्रार्थ उक्तो भ- वति । 'यथैव' इति स्मृत्यर्थस्तु—यथा पूर्वयुगात्यये कल्पात्यये वा पुनर्युगकल्पान्तरोत्पत्तिरिति काले प्रभवनियमः, तथा सुरादेर्देवोपदे- ष्टादेः पूर्वपूर्वकल्पात्यये पुनरन्यभावनियमोऽस्ति । यथोक्तम्— स हि विश्वसृजो विभुश्शम्भुपुरन्दरसूर्यमुखानपरानपरान् । सृजतीड्यतमोऽवति हन्ति निजं पदमापयति प्रणतान्सुधिया ॥ इति । प्रतिकल्पमिति शेषः । तस्मात्पूर्वकल्प इवोत्तरकल्पेऽपि पूर्वक- ल्पसदृशसर्वोत्पत्तिनियमादेव 'तस्मात्' विष्णोस्सकाशादेतद्विश्वं