पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 665, कुल 1267 में से
संदर्भ में पढ़ें३१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - २. पा - ३. ] स्यापि कश्चन' इत्यन्यथा च कौषारयणश्रुतिः । (६) 'ब्रह्म दाशा ब्रह्म कितवाः, ब्रह्मैवेमे दाशाः' इत्यभेदेना प्येकेऽधीयते । (७) तथा चाग्निवेश्यश्रुतिः—'अंशो ह्येष परस्य भिन्नं ह्ये तमधीयिरे अभिन्नं ह्येनमधीयिरे' इति । (८) वाराहे च— दापेक्षया परमात्मभिन्नत्वेनेति यावत् । श्रुतिरित्यनन्तरं एनं व्यप दिशतीति शेषः । चशब्दार्थः प्रागेवोक्तः । इयं च श्रुतिः नासावि त्यस्य वैय्यर्थ्यपरिहाराय भेदे असम्बन्धे च प्रमाणम् । अर्थस्तु प्रागे वोक्तः ॥ (६) भेदप्रतियोग्यभेदव्यपदेशं दर्शयति—ब्रह्मेति ॥ ब्रह्मैवेमे दाशा इत्युपसंहारस्थं वाक्यान्तरं शाखान्तरस्थं वा । यद्वा—ब्रह्मैवे मे दासा इत्यादिपदार्थपरश्रुतिवाक्योदाहरणम् । अत्र ये दाशाः नौ तारकाः कैवर्ताः ते, ये च 'कितवाः' द्यूतकृतः, ये चामी 'दासाः' स्वामिष्वात्मानं उपक्षिपन्तः ते सर्वेऽपि ब्रह्मैवेति दाशकितवायुद्दे शेन ब्रह्माभेदो विधीयत इत्यस्याभेदव्यपदेशोपपत्तिरिति भावेन दाश कितवादित्वमित्यस्य तात्पर्यार्थमाह—अभेदेनापीति । न केवलं 'अ न्यः परः' इति भेदेन, किन्त्वभेदेनापीत्यपिशब्दार्थः । अधीयत इत्यन न्तरं ब्रह्मसूक्ते आथर्वणिका इति शेषः। तथा चैतच्छ्रुतिद्वये जीवेशयो र्भेदाभेदोक्तेरन्यतरश्रुतिबाधस्य चायोगात् साक्षाद्भेदाभेदयोश्च विरो धादनुपपत्तेः श्रुतिद्वयान्यथानुपपत्त्या भेदमङ्गीकृत्याभेदस्थाने अंश त्वं च वक्तव्यमिति भावः ॥ (७) नानाव्यपदेशहेतुनांशत्वसाधनस्य यथा श्रुतिसमाख्योक्ता, तथा भेदाभेदोक्त्यन्यथानुपपत्त्याऽप्यंशो जीव इत्यत्रापि श्रुतिसमा ख्यामाह—तथाचेति ॥ अन्यथेत्यादिना यथा सूत्रकृदाह, तथा श्रुति रप्याहेत्यर्थः । तां श्रुतिमुदाहरति—अंश इति । आद्यो हिः प्रसिद्धौ । 'एषः' जीवः परस्य 'अंशः' ततोऽन्यूनत्वे सति तत्सदृशत्वरूपांशत्व वानिति प्रतिज्ञार्थः । द्वितीयतृतीयहिशब्दौ भेदाभेदव्यपदेशयोरुभ योरपि हेतुत्वज्ञापकौ । तथाचैनं जीवं परस्य सकाशाद्यतो भिन्नमभि न्नं चाधीयिरे शाखिनः अत इत्यर्थः ॥ (८) समस्तसूत्रार्थे स्मृतिं चाह—वाराहे चेति ॥ न केवलं सू