भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 67, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 67

२० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ३० ) स हि सर्वमनोवृत्तिप्रेरकस्समुदाहृतः ॥ ( ३१ ) सिसृक्षोः परमाद्विष्णोः प्रथमं द्वौ विनिस्सृतौ । ( ३२ ) ओंकारश्चाथशब्दश्च तस्मात्प्राथमिकौ क्रमात् ॥ ग्रहणेन । तत्स्थब्रह्मशब्दव्याख्यानाय परस्य ब्रह्मण इत्यनुवादेन वि- ष्णोरित्युक्तम् । प्रसादादित्यनन्तरं तज्जिज्ञासादिरूपं कार्यमिति शेषः । भवेदित्यस्य इत्यर्थेपि अतःशब्द इत्यन्वयः । अतःशब्दप्रकृत्यर्थस्य फ- लस्य यथा जिज्ञासाकर्तव्यत्वे लिङ्गत्वं, न तथा तदर्थप्रसादस्य, किन्तु कर्तव्यजिज्ञासायां ज्ञानमोक्षयोरथशब्दार्थाध्ययनादौ च कार- णत्वेनान्वय इत्याशयेन पृथगुक्तिः । यद्यपि 'हेत्वर्थे' इत्यनेनैवायमर्थो लभ्येत, हेतुशब्दस्य लिङ्गकारणोभयार्थत्वात्; तथापि असाधारणास- र्वनामप्रकृतिकशब्देन बोधनार्थमिदमित्यदोषः । ( ३० ) ननु जिज्ञासाद्यर्थे किं भगवत्प्रसादेन येनासाववश्यकवक्त- व्यार्थः स्यादित्यत आह-'स हि' इति । 'हि' यस्मात् 'सः' विष्णुप्र- सादः प्रसन्नो विष्णुरिति यावत् 'सर्वमनोवृत्तिप्रेरकः' सर्वेषां अधि- कारिणां सर्वस्मिन् पूर्णे विष्णौ मनोवृत्तेः प्रेरकः प्रावण्यहेतुः 'समुदा- हृतः' प्रामाणिकैरित्यर्थः । जिज्ञासापि साक्षात्प्रमाणद्वारा वा मनोवृत्तेः प्रावण्यमेव, "जिज्ञासाऽपि सैव" इति सुधोक्तेः । एवं सर्वासां मनो- वृत्तीनां तत्प्रभेदानां टीकास्थादिपदगृहीतानां ज्ञानाध्ययनादीनां मनो- वृत्तिसाध्यमोक्षादेश्च प्रेरकः सम्पादकः इत्यपि व्याख्येयम् । अस्य त- स्मात्तदर्थेप्यतश्शब्दो भवेदिति पूर्वेणान्वयः । ( ३१-३२ ) ननु मङ्गळाचरणादेः “मङ्गलं ततः” इति शब्दान्तरेणा- पि सम्भवात्किमेतत्प्रयोगनियत्येति कृतचोद्यस्य कः परिहार इत्यतो न केवलमवश्यकवक्तव्यार्थत्वादथातःशब्दयोः प्रथमप्रयोगः, किन्तु स्व- रूपाधिक्याच्चेत्याशयेन 'कथमुत्तमता'इत्यस्योत्तरत्वेन तयोः स्वरूपा- धिक्यमाह - 'सिसृक्षोः' इति । शब्दयोः समुच्चये आद्यः चशब्दः । निमित्तसमुच्चये द्वितीयः । 'स्वरूपोत्तमौ' इति शेषः । 'तस्मात्' इ- त्यावर्तते । तथा च—यस्मात् 'सिसृक्षोः' स्रष्टुमिच्छोः 'परमात्' स- र्वोत्तमात् 'विष्णोः' तन्मुखात् 'प्रथमं' स्वसमानजातीयशब्दान्तरो- त्पत्तेः पूर्वं ओंकारोथशब्दश्चेत्येतौ कण्ठं भित्त्वा 'विनिस्सृतौ' विनिर्या-