पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 670, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १८. सू - ४७. ] दीपिकासहितम्. ६२३ इन्द्रारिव्याकुलं लोकं मृडयन्ति युगेयुगे ॥ ( १७ ) अतः परं यदव्यक्तमव्यूढगुणबृंहितम् । भागरूपत्वेनावतिष्ठन्ते तत्सामर्थ्यैकदेशेन जायन्ते चेत्यभिहिते, के ते अंशा इत्याकांक्षायां 'द्वितीये तु भवायास्य' इत्यारभ्य 'अथासौ युगस न्ध्यायाम्' इत्यन्तेन सविस्तरं वराहादीनां भगवदंशत्वमुक्त्वा, ऋषयो मनवो देवाः मनुपुत्रा महौजसः । कलाः सर्वे हरेरेव सप्रजापतयस्स्मृताः ॥ इत्यनेन ऋष्यादीनां प्रियव्रतादिमनुपुत्राणां दक्षादिप्रजेश्वराणां च जी वानामपि कला इत्यनेन भगवदंशत्वमुक्तम् । तत्र किमविशेषेण सर्वे अंशा इत्याशङ्कानिरासाय भगवदवतारेषु जीव इव कलात्वस्योपच रितत्वशङ्कावारणाय च 'एते' इत्यनेन वराहादीनां स्वरूपांशत्वमभि धीयते । 'एते' वराहाद्या अवताराः 'पुंसः' परमपुरुषस्य नारायण स्य 'स्वांशकलाः' कल्प्यन्त इति कलाः स्वरूपांशरूपा एव विभा गाः, न तु भिन्नांशाः, उपचारेण कला इव कला वा । भेदवद्भेदाभेदा वपि नेत्याह—कृष्ण इत्यादिना । कृष्णशब्दोऽयं 'कृष्णो मुक्तैरिज्यते वीतमोहैः' इत्यादाविव नारायणेऽस्ति । तुशब्दोऽवधारणे । तथा च एते न स्वांशकला इत्येतावन्मात्रं, किन्तु 'स्वयं' साक्षात् भगवान् कृ ष्णो मूलरूप्येव तदत्यन्ताभिन्नोऽपि । उक्तं हि प्रमेयदीपे—एते वरा हाद्याः पुंसः स्वांशकलाः । कोऽर्थः ? कृष्णः परमपुरुषो भगवान् स्वय मेव एत इति स्वांशकला इत्यस्यैव भेदाभेदशङ्कावारणार्थंक थने, कृष्ण इत्यादीत्यस्याभिप्रायः । आदिसृष्टाववतीर्णाः एते वराहाद य एव इन्द्रारिभिः दैत्यैर्व्याकुलं पीडितं जनं 'युगेयुगे' पुनरवतीर्य 'मृडयन्ति' रक्षन्ति सुखयन्ति चेत्यर्थः । यथोक्तं गीताभाष्ये—'रू पाण्यनेकान्यसृजत् प्रादुर्भावभवाय सः' इति । सः नारायणः 'असृ जत्' व्यभजत् । उत्तरत्रेति शेषः ॥ ( १७ ) एवं वराहादीनां स्वरूपांशत्वमुक्त्वा ऋषय इत्यादिना भग वदंशत्वेनोक्तानां जीवानां भिन्नांशत्वमुच्यते—अतः परमित्यादिना ॥ यत 'अतः' परमपुरुषात् जडाच्च 'परं' भिन्नं 'अव्यक्तं' अकार्यं सू क्ष्ममिति वा 'अव्यूढगुणबृंहितं' अनादिकालात्कदाचिदपि अनपगत सत्त्वादिगुणयुक्तं चैतन्यं यच्च 'अदृष्टाश्रुतवस्तुत्वात्' श्रुतपदं मनना देरप्युपलक्षणम् । तथा च अश्रुतामतानुपासितासाक्षात्कृतपरमात्मस्व