पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 74, कुल 1267 में से
संदर्भ में पढ़ें[अधि - १. सू - १.] दीपिकासहितम् २७ (५०) “शान्तो दान्त उपरतस्तितिक्षुः समाहितो भूत्वा आत्मन्येवात्मानं पश्येत्” (बृ-उ. ४-४-२३.) (५१) परीक्ष्य लोकान् कर्मचितान्ब्राह्मणो रस्तारतम्येन वक्ष्यते, सूत्रकृतेति शेषः । तदभिप्रेतस्मृतौ 'वेदोक्तब्र- ह्मविद्यायाम्' इत्युक्तत्वात् तत्रोदाहृतश्रुतौ ज्ञानाधिकारित्रैविध्यस्या- प्युक्तत्वादुक्तशङ्कापरिहार इति भावः । चशब्दः 'अध्ययनवान्' इ- ति प्रमाणसमुच्चये । (५०) शमादिकमपि ब्रह्मविद्यायामधिकार इत्यत्र काण्वश्रुतिमा- ह (बृ-४-४-२३)—'शान्त' इति । अत्र 'आत्मनि' इत्युक्त्या मध्य- माधिकारी सूचितः, 'ऋषयोऽन्तःप्रकाशाः' इति श्रुतेः (चतुर्वेदशि- खा) 'मध्यमा ऋषिगन्धर्वाः' इत्युक्तेश्च । 'शान्तो' भगवन्निष्ठबुद्धिः “शमो मन्निष्ठता बुद्धेः” इति भागवतोक्तेः । तत्त्वप्रदीपे तु—वैष्णव- सिद्धान्तादचलनं शम इति पर्यवसितमुक्तम् । 'दान्तो' निगृहीतमदः, इन्द्रियनिग्रहवानिति यावत् । 'उपरतो' विषयालम्बुद्धिमान् । बृहद्भा- ष्यरीत्या—उप समीपे स्वहृदयस्थे विष्णौ सन्तोषवानिति वा । 'ति- तिक्षुः' शीतोष्णादिद्वन्द्वसहिष्णुः । 'समाहितः' समे सेन्दिरे हरौ चित्तवृत्तिमान् । यद्वा—'यथा वस्तु तथा ज्ञानं तत्साम्यात्सममीरि- तम्' इति वचनात् समं यथार्थमाहितमाधानं मनोवृत्तिरूपं ज्ञानं इच्छा च यस्य स तथोक्तः । तथा च यथावस्तुज्ञानादिमानित्यर्थः । भूत्वेत्यस्य प्रत्येकं सम्बन्धः। स्थितमिति शेषः । तथा च-पूर्वं 'एवं' विच्छब्देनोक्तो हरेः संसारमोचकत्वज्ञानी शान्त्यादिमान् 'भूत्वा' 'आत्मनि' स्वहृद- ये स्थितं 'आत्मानं' परमात्मानं 'पश्येत्' जानीयादित्यर्थः, विचारये- दिति लाक्षणिकार्थः । शान्तादिर्भूत्वात्मानं विद्यादित्यनेन उपनयन- स्य अध्ययनार्थत्ववत् शान्त्यादेर्ब्रह्मविद्यार्थत्वमुक्तं भवति । यद्यपि प- श्यतीति श्रुतिपाठः तथापि विष्णुत्तत्त्वनिर्णयटीकायां “स तथा चका- रेति क्वचित्पाठः ; स सदृशशाखान्तरगतो ज्ञातव्यः, एवमन्यत्रापि” इत्युक्तत्वात् तन्न्यायेनायमपि सदृशशाखान्तरगतो वा पश्यतीत्य- स्यार्थानुवादो वेत्यदोषः । (५१-५२) सारासारनित्यानित्यविवेकजन्यवैराग्याद्यपि ब्रह्मविद्याया- मेव अधिकार इत्यत्राथर्वणश्रुतिमाह (मुं-१-२-१२)—'परीक्ष्य' इति ।