भारतकोश
पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

पृष्ठ 75, कुल 1267 में से

संदर्भ में पढ़ें
पृष्ठ 75

२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ५२ ) निर्वेदमायान्नास्त्यकृतः कृतेन । ( ५३ ) तद्विज्ञानार्थं स गुरुमेवाभिगच्छेत् ( ५४ ) समित्पाणिः श्रोत्रियं ब्रह्मनिष्ठम् ॥ ( मु.उ.१-२-१२. ) ( ५५ ) यमेवैष वृणुते तेन लभ्यः 'ब्राह्मणो' ब्रह्मज्ञानयोग्यः 'लोकान्' विष्णुलोकेतरान् 'कर्मचितान्' काम्यकर्मसम्पादितान् तत एवासारत्वेनानित्यत्वेन च 'परीक्ष्य' वि विच्य तेन विवेकेन 'निर्वेदं' काम्यकर्मणि तत्फले च वैराग्यं 'आयात्' प्राप्नुयात् । यस्मात्स्वरूपानन्दाविर्भावरूपत्वात् 'अकृतो' नित्यपुमर्थरू पो मोक्षः 'कृतेन' उत्पत्तिनाशवत्फलत्वेनावधृतकर्मणा 'नास्ति', किन्तु ज्ञानेन । ( ५३-५४ ) 'तत्' तस्मात् 'सः' मोक्षादितरत्र विरक्तः 'विज्ञानार्थं' ब्रह्मणो विशेषज्ञानाय । 'समित्पाणिः' समिद्युक्तौ पाणी यस्य । यद्वा-- सम्प्राप्तौ सम्पुटीकृतौ अरिक्तौ वा पाणी यस्य । स एवम्भूतस्सन् 'श्रोत्रि यं' छन्दोध्येतारं ब्रह्मनिष्ठमेव गुरुं 'अभिगच्छेत्' उपसीदेदित्यर्थः । गुरु मेव न त्वन्यमिति वा एवशब्दान्वयः । तत्त्वप्रदीपे तु-'कर्मचितान्' क र्मणा सञ्चितान् ऐहिकान् मन्दिरादीन् विनाशिनः 'परीक्ष्य' परितो वीक्ष्य पारलौकिकत्वेन तद्विपरीतानपि कर्मभिश्चितान् स्वर्गादिलो कान् विनाशिन एव परीक्ष्य तेभ्यो 'निर्वेदमायात्' । 'अकृतो' ज्ञा नप्रियो भगवान् 'कृतेन' कर्मणा 'न' लभ्यते । ततः 'तद्विज्ञानार्थं' तस्य ज्ञानप्रियस्य विष्णोर्विज्ञानार्थं 'गुरुमभिगच्छेत्' इति श्रुत्यर्थ उक्तः । अत्रापि विज्ञानपदेन ब्रह्मज्ञानिपरब्राह्मणपदेन च उत्तमाधिका री सूचितः, 'देवादीनां तु तज्ज्ञानं विज्ञानमिति कीर्तितम्' इति गी ताभाष्योक्तेः, 'नैव देवपदं प्राप्ताः ब्रह्मदर्शनवर्जिताः' इति तत्त्वा त्पर्योक्तेश्च । ( ५५ ) विष्णुभक्तिरपि ब्रह्मविद्यायामधिकार इत्येतत्कठश्रुत्या द र्शयति - 'यं' इति । आथर्वणेपीयँ पठ्यते । ( मुं-३-२-३ ) 'एषः' इच्छारूपः 'आत्मा' विष्णुः 'यं' अधिकारिणं 'वृणुते' परिगृह्णाति 'तेन' एव 'लभ्यः' प्राप्यः तस्य प्रसन्नो भवति ॥