पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 76, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १. सू - १० ] दीपिकासहितम्. २९ ( ५६ ) तस्यैष आत्मा वृणुते तनूं स्वाम् ॥ (कठोप. २-२३.) ( ५७ ) यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ । ( ५८ ) तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ ( श्वे. उ. ६-२३. ) ( ५९ ) इत्यादिश्रुतिभ्यश्च । व्योमसंहितायां च — ( ५६ ) ततश्च 'तस्य' अधिकारिणः 'एषः' प्रसन्नः 'आत्मा स्वां तनूं' रूपं 'वृणुते' प्रकाशयतीत्यर्थः । अत्र 'भक्तमेव च वृणुत इति प्रसिद्धः' इति प्रमेयदीपिकारीत्या वृणुत इत्यनेन भक्तत्वं सूचितम् । तत्त्वप्रदीपे तु—'यमेवैषः' परमात्मा भक्तिदानेन 'वृणुते' स्वीकरो- ति 'तेन' प्राप्यो यतस्तस्यैव 'स्वां तनूं' प्रकाशयतीत्युक्तम् ॥ ( ५७ ) सा च भक्तिः विष्णौ सर्वाधिका अन्येष्वपि यथायोग्या ब्र- ह्मविद्योपयोगिनीत्यर्थे श्वेताश्वतराणां श्रुतिं ( श्वे-६-२३) दर्शयति— 'यस्य' इति । 'यथा' इत्यावर्तते । 'तथा' इति समुच्चये । 'कथिताः' 'अकथिताः' इति द्वेधा विच्छेदः । पूर्ववेदादिभिर्गुरुणेति च शेषः । तथा च—'यस्य' अधिकारिणो 'देवे' द्योतनादिगुणे विष्णौ 'परा' सर्वाधिका 'भक्तिः' अस्ति 'तथा' 'देवे' तदितरदेवेषु ब्रह्मादिषु 'यथा' यथायोग्या भक्तिरस्ति, 'तथा गुरौ' अन्येषु स्वोत्तमेषु च यथा- योग्या भक्तिरस्ति ( ५८ ) 'तस्य' महात्मनः कर्तरि षष्ठीयम् । तेनाधिकारिणा पूर्वं वेदादिभिर्गुरुणा वा 'कथिताः' 'एते' उक्ताः 'अर्थाः' परापरतत्त्व- रूपाः 'प्रकाश्यन्ते' ज्ञायन्त इत्यर्थः । यद्वा—'एते' शमादिरूपा 'अ- र्थाः' गुणास्तस्मिन् 'प्रकाश्यन्ते' दृश्यन्त इत्यर्थः । अथ वा—'अक- थिताः' गुरुभिरनुपदिष्टाः 'अर्थाः' अस्य भक्तिवशात् 'प्रकाश्यन्ते' 'हि' प्रसिद्धमित्यर्थः । 'प्रकाशन्ते' इति पाठे तत्कर्तृकज्ञानानुकूल- भानकर्तारो भवन्तीत्यर्थः ॥ ( ५९ ) 'इत्यादिश्रुतिभ्यश्च' इत्यस्य 'अधिकार उक्तः' इत्यनेना- न्वयः । न केवलमुक्तश्रुतिभिः, किन्तु “भक्त्या त्वनन्यया शक्य अह- मेवं विधोऽर्जुन । ज्ञातुं द्रष्टुं” ( भ-गी-११-५४ ) इत्यादिस्मृतिभ्यश्चेति चशब्दार्थः ॥ ननु यद्यध्ययनवतामेव ब्रह्मविद्याधिकारः तर्हि त्रिवर्णे- तरेषामध्ययनाभावेनाधिकारो न स्यात् । ततश्च तेषां ब्रह्मज्ञानाभावे