पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
पृष्ठ 974, कुल 1267 में से
संदर्भ में पढ़ें[ अधि - १०. - सू - १०. ] दीपिकासहितम्. ९२७ ज्ञानेनैवाप्यते सर्वं कर्मणा त्वधिकं भवेत् । इतिप्राह महायोगी पुमर्थानांविनिर्णयम् ॥ इति भविष्यत्पर्वणि । ( १६ ) ज्ञानिनामपि देवानां विशेषः कर्मभिर्भवेत् । धिकं भवेदित्येवं देवतालक्षणाधिकारिविशेषविवक्षया ‘पुमर्थानांवि निर्णयं’ षष्ठ्या अलुक्, व्यधिकरणबहुव्रीहिर्वायं, स्वर्गादिपुमर्थसाध नविषयकनिर्णयजनकं स्वमतं पृथक्प्राहेत्यर्थः। आकाशवद्व्याप्तज्ञान महांशुमान् व्यास इति यथाश्रुतान्वयो न सम्भवति, व्याप्तज्ञानवत्त्वरू पविधेयधर्मस्य पक्षदृष्टान्तोभयान्वयाभावात्, किन्त्वाकाशवद्व्याप्तं च तत् ज्ञानं चेति विधेयैकदेशेनान्वयो वाच्यः। तथा चायमनन्वय दृष्टान्तः। अत एव टीकाकृदनन्ताकाशवदित्यनन्वयदृष्टान्त इत्युक्त्वा तदुपपादयितुं यथाऽऽकाशो व्याप्तस्तथा ज्ञानमित्येकदेशान्वयं प्रदर्शित तवान् । न च दृष्टान्तस्य अनेकविधत्वाभावः । व्यत्यासोऽनन्वयश्चैव प्रसिद्धोऽभूत एव च । सर्वसांहारिकश्चेति दृष्टान्तः पञ्चधा स्मृतः ॥ इत्युक्तेः । ‘रमादिवन्नास्वतन्त्रो हरिः’ इति व्यत्यासदृष्टान्तः । अनन्व यस्य तु प्रकृतमेवोदाहरणम् । प्रसिद्धो महानसादिः, ‘यथोर्णनाभिः’ (मु. १-१-७,) इति च । अभूतस्य ‘दिवि सूर्यसहस्रस्य’ इत्याद्युदा हरणम् । सर्वसांहारिकस्य ‘कृष्णो नारायणवत्, रामः कृष्णवत्’ इ त्यादि । सर्वेषां नारायणकृष्णधर्माणां कृष्णे रामे चोपसंहारात् । ‘गग नं गगनाकारम्’ इत्यादि सर्वसांहारिकस्योदाहरणमिति केचिदाहुः । भविष्यत्पर्वणीति । मतानां प्रामाण्यमुक्तमिति शेषः ॥ ( १६ ) नन्वेवं स्मृत्या मतानां प्रामाण्योक्तावपि परस्परविरुद्धत्वा त्कथं तत्स्यादित्यतो भगवन्मतं देवताविषयं, जैमिन्यादिमतं मनुष्य विषयमतो न विरोध इति भावेनात्र स्मृतिमाह—ज्ञानिनामिति ॥ त त्त्वप्रदीपे तु राजसूयादिना फलाधिक्यमित्युक्तं सममिति चोक्तम् । त त्र प्रमाणमाह—ज्ञानिनामपीत्यवतारितम् । यद्यपि देवाः ज्ञानिनः, त थापीत्यर्थेऽपिशब्दः । ज्ञानिनां देवानां ज्ञानेन सर्वफलसिद्धावपीति वा । ‘विशेषः’ आधिक्यं ज्ञानफल एव, न तु ज्ञाने इति शेषः । कुत इत्यत आह—चीर्ण इति । कर्मणि ‘चीर्णे’ अनुष्ठिते ‘अकृते’ अननु ष्ठिते वा ‘ज्ञानस्य’ ज्ञाने ‘विशेषः’ अतिशयः पुरुषार्थसाधनसामर्थ्या