भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 407, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 407

३४८ रघुवंशमहाकाव्ये

**अन्वयः—**सौभ्रात्रे समाने अपि हि यथा उभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः तथा भरतशत्रुघ्नौ 'प्रीत्या' द्वन्द्वं बभूवतुः ।

समान इति । शोभनाः स्निग्धा भ्रातरो येषां ते सुभ्रातरः । “नद्यृतश्च” इति कन् न भवति “वन्दिते भ्रातुः” इति निषेधात् । तेषां भावः सौभ्रात्रम् । युवादिवादण् । तस्मिन्समाने चतुर्णां तुल्येऽपि यथोभौ रामलक्ष्मणौ प्रीत्या द्वन्द्वं बभूवतुः । तथा भरतशत्रुघ्नौ प्रीत्या द्वन्द्वं द्वौ द्वौ साहचर्येणाभिव्यक्तौ बभूवतुः । “द्वन्द्वं रहस्यमर्यादावचनव्युत्क्रमणयज्ञपात्रप्रयोगाभिव्यक्तिषु” इत्यभिव्यक्तार्थे निपातः । क्वचित्कस्यचित्स्नेहो नातिरिच्यत इति भावः ।

**भाषार्थ—**यद्यपि चारों भाइयों में परस्पर बहुत प्रेम था, फिर भी विशेष प्रेम के कारण जैसे राम और लक्ष्मण की एक जोड़ी थी, वैसे ही भरत और शत्रुघ्न ने भी अपनी जोड़ी बना ली ॥ ८१ ॥

तेषां द्वयोर्द्वयोरेक्यं विभिदे न कदाचन ।
यथा वायुविभावस्वोर्यथा चन्द्रसमुद्रयोः ॥ ८२ ॥

**अन्वयः—**तेषां 'मध्ये' द्वयोः द्वयोः चन्द्रसमुद्रयोः यथा वायुविभावस्वोर्यथा ऐक्यं कदाचन विभिदे ।

तेषामिति । तेषां चतुर्णां मध्ये द्वयोर्द्वयोः रामलक्ष्मणयोर्भरतशत्रुघ्नयोश्चेत्यर्थः । यथा वायुविभावस्वोर्वातवह्न्योरिव । चन्द्रसमुद्रयोरिव च । ऐक्यमैकमत्यं कदाचन न विभिदे । एककार्यत्वं समानसुखदुःखत्वं च क्रमादुपमाद्वयाल्लभ्यते । सहजः सहकारी हि वह्नेर्वायुः चन्द्रवृद्धौ हि वर्धते सिन्धुः, तत्क्षये च क्षीयत इति ।

**भाषार्थ—**जिस प्रकार वायु और अग्नि की तथा समुद्र एवं चन्द्रमा की जोड़ी कभी अलग नहीं होती, उसी प्रकार राम और लक्ष्मण तथा भरत और शत्रुघ्न का साथ कभी नहीं छूटा ॥ ८२ ॥

ते प्रजानां प्रजानाथास्तेजसा प्रश्रयेण च ।
मनो जह्रुर्निदाघान्ते श्यामाभ्रा दिवसा इव ॥ ८३ ॥

**अन्वयः—**प्रजानाथाः ते तेजसा प्रश्रयेण च निदाघान्ते श्यामाभ्राः दिवसा इव प्रजानां मनः जह्रुः ।

त इति । प्रजानाथास्ते कुमारास्तेजसा प्रभावेण प्रश्रयेण विनयेन च निदाघान्ते ग्रीष्मान्ते श्यामान्यभ्राणि मेघा येषां ते श्यामाभ्राः । नातिशीतोष्णा इत्यर्थः । दिवसा इव प्रजानां लोकानां मनश्चित्तं जह्रुः हरन्ति स्म ।

**भाषार्थ—**जिस प्रकार गर्मी के अन्त में नीले रंग के सुहावने बादल वाले