BharatKosha
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

अष्टमः सर्गः २३७

Page 296Permalink

अष्टमः सर्गः २३७

मालूम पड़ता था कि पृथ्वी अपने आनन्दोच्छ्वास से अज के राजा होने का सन्तोष व्यक्त कर रही है ॥ ३ ॥

स बभूव दुरासदः परैर्गुरुणाऽथर्वविदा कृतक्रियः । पवनाग्निसमागमो ह्ययं सहितं ब्रह्म यदस्त्रतेजसा ॥ ४ ॥

अन्वयः—अथर्वविदा गुरुणा कृतक्रियः स परैः दुरासदः बभूव, अस्त्रतेजसा सहितं यत् ब्रह्म अयम् पवनाग्निसमागमः हि ।

स इति । अथर्वविदाऽथर्ववेदाभिज्ञेन गुरुणा वसिष्ठेन कृतक्रियः अथर्वोक्तविधिना कृताभिषेकसंस्कार इत्यर्थः । सोऽजः परैः शत्रुभिर्दुरासदो दुर्धर्षो बभूव । तथाहि अस्त्रतेजसा क्षत्रतेजसा सहितं युक्तं यद्ब्रह्म ब्रह्मतेजोऽयं पवनाग्निसमागमो हि तत्कल्प इत्यर्थः । पवनाग्नीत्यत्र पूर्वनिपातशास्त्रस्यानित्यत्वात् "द्वन्द्वे घि" इति नाग्निशब्दस्य पूर्वनिपातः । तथा च काशिकायाम्—'अयमेकस्त लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्' इति । क्षात्रेणेवायं दुर्धर्षः किमयं पुनर्वसिष्ठमन्त्रप्रभावे सतीत्यर्थः । अत्र मनुः—'नाक्षत्रं ब्रह्म भवति क्षत्रं नाब्रह्म वर्धते । ब्रह्मक्षत्रे तु संयुक्ते इहामुत्र च वर्धते ॥', इति ।

भावार्थ—अथर्ववेद के ज्ञाता महर्षि वसिष्ठजी ने जब अज का अभिषेक किया तब वे ऐसे तेजस्वी हो गये जैसे वायु का सहारा पाकर अग्नि प्रदीप्त हो जाता है । ठीक है ब्रह्म तेज के साथ क्षात्र तेज के मिल जाने से अपूर्व तेज उत्पन्न हो जाता है । अर्थात् जैसे वायु का संयोग पाकर अग्नि असह्य हो जाता है वैसे ही वसिष्ठ जी के ब्राह्म तेज के संयोग से अज का क्षात्र तेज शत्रुओं के लिए असह्य हो गया ॥ ४ ॥

रघुमेव निवृत्तयौवनं तममन्यत नवेश्वरं प्रजाः । स हि तस्य न केवलां श्रियं प्रतिपेदे सकलान् गुणानपि ॥ ५ ॥

अन्वयः—प्रजाः नवेश्वरम् तं निवृत्तयौवनम् रघुम् इव अमन्यन्त । हि स तस्य केवलां श्रियं न प्रतिपेदे, किन्तु सकलान् गुणान् अपि प्रतिपेदे ।

रघुमिति । प्रजा नवेश्वरं तमजं निवृत्तयौवनं प्रत्यावृत्तयौवनं रघुमेवामन्यन्त । न किंचिद्भेदकमस्तीत्यर्थः । कुतः हि यस्मात्सोऽजस्तस्य रघोः केवलमेकां श्रियं न प्रतिपेदे किन्तु सकलान्गुणाञ्छौर्यदाक्षिण्यादीनपि प्रतिपेदे अतस्तद्गुणयोगात्तद् बुद्धियुक्तेत्यर्थः ।

भावार्थ—प्रजाओं ने उन नवीन राजा अज को ऐसा समझा कि मानों रघु ही

Page 297Permalink

२३८ | रघुवंशमहाकाव्ये

जवान होकर पुनः राज्य कर रहे हैं क्योंकि अज ने केवल रघु की राज्यलक्ष्मी को ही नहीं पाया था किन्तु रघु के सभी गुण भी उनमें आ गये थे ॥ ५ ॥

अधिकं शुशुभे शुभंयुना द्वितयेन द्वयमेव सङ्गतम् ।
पदमृद्धमजेन पैतृकं विनयेनास्य नवं च यौवनम् ॥ ६ ॥

**अन्वयः—**द्वयं एव शुभंयुना द्वितयेन सङ्गतं सत् अधिकं शुशुभे पैतृकम् ऋद्धं पदं अजेन अस्य नवं योवनं विनयेन च शुशुभे ।

अधिकमिति । द्वयमेव शुभंयुना शुभवता शुभंयुस्तु शुभान्वितः' इत्यमरः । “अहंशुभयोर्युस्” इति युस्प्रत्ययः । द्वितयेन संगतं युतं सदधिकं शुशुभे । किं केनेत्याह—पदमिति पैतृकं पितुरागतम् । “ऋतश्छन्” इति ठञ्प्रत्ययः ऋद्धं समृद्धं पदं राज्यमजेन यस्याजस्य नवं यौवनं विनयेनेन्द्रियजयेन च (विजयो हीन्द्रियजस्तद्युक्त शास्त्रमर्हति” इति कामन्दकः । राज्यस्थोऽपि प्राकृतवन्न दृप्तोऽभूदित्यर्थः ।

**भाषार्थ—**उस समय केवल दो चीजें ही संसार को सुन्दर लगी, एक तो पिता का समृद्ध राज्य पाकर अज और दूसरा अज की नम्रता पाकर उनका यौवन ॥ ६ ॥

सदयं बुभुजे महाभुजः सहसोद्वेगमियं व्रजेदिति ।
अचिरोपनता स मेदिनीं नवपाणिग्रहणां वधूमिव ॥ ७ ॥

**अन्वयः—**महाभुजः स अचिरोपनतां मेदिनीं नवपाणिग्रहणां वधूम् इव सहसा इयम् उद्वेगम् व्रजेत् इति सदयं बुभुजे ।

सदयमिति । महाभुजः सोऽजोऽचिरोपनतां नवोपगतां मेदिनीं भुवं नवं पाणिग्रहणं विवाहो यस्यास्तां नवोढां वधूमिव । उक्तं च रतिरहस्ये—'सौम्यैरालिङ्गनैर्वाक्यैश्चुम्बनैश्चापि सान्त्वयेत्' सहसा बलात्कारेण चेत् 'सहो बलं सहा मार्गः' इत्यमरः । इयं मेदिनी वधूत्रोद्वेगं भयं व्रजेदिति हेतोः सदयं सकृपं बुभुजे भुक्तवान् । “भुजोऽनवने” इत्यात्मनेपदम् ।

**भाषार्थ—**जिस प्रकार नवविवाहिता वधू बलात्कार पूर्वक उपभोग करने से उद्विग्न हो जाती है इसलिए उसके साथ कोमलतापूर्वक व्यवहार किया जाता है उसी प्रकार महाबाहु राजा अज ने नई मिली पृथिवी का दयापूर्वक उपभोग किया ॥ ७ ॥

अहमेव मतो महीपतेरिति सर्वः प्रकृतिष्वचिन्तयत् ।
उदधेरिव निम्नगाशयेष्वभवन्नास्य विमानना क्वचित् ॥ ८ ॥

अष्टमः सर्गः

Page 298Permalink

अष्टमः सर्गः २३६

अन्वयः—प्रकृतिषु सर्वः अहम् एव महीपतेः मतः इति अचिन्तयत् उदधेः निम्नगाशतेषु इव अस्य विमानना क्वचित् न अभवत् ।

अहमिति । प्रकृतिषु प्रजासु मध्ये सर्वोऽपि जनः अथवा प्रकृतिष्वित्यस्याहमित्यनेनान्वयः । व्यवधानं तु सह्यम् सर्वोऽपि जनः प्रकृतिष्वहमेव महीपतेर्मतो महीपतिना मन्यमानः । "मतिबुद्धिपूजार्थेभ्यश्च" इति वर्तमाने क्तः, "क्तस्य च वर्तमाने" इति षष्ठी । इत्यचिन्तयदमन्यत । उदधेनिम्नगाशतेष्विवाश्य नृपस्य कर्तुः। "कर्तृकर्मणोः कृति" इति कर्तरि षष्ठी । क्वचिदपि जनविषये विमाननाऽवगणना तिरस्कारो नाभवत् । यतो न कंचिदवमन्यतेऽतः सर्वोऽप्यहमेवास्य मत इत्यमन्यतेत्यर्थः ।

भाषार्थं—अज अपनी प्रजाओं को समान रूप से मानते थे इस कारण सभी लोग यही समझते थे कि राजासाहब हम ही को सबसे अधिक मानते हैं क्योंकि जिस तरह समुद्र सैकड़ों नदियों में से किसी का भी तिरस्कार नहीं करता और सबको समान रूप से ग्रहण करता है उसी तरह वे भी प्रजावर्ग में किसी का अपमान नहीं करते थे न किसी की बुराई करते थे ॥ ८ ॥

न खरो न च भूयसा मृदुः पवमानः पृथिवीरूहानिव ।
स पुरस्कृतमध्यमक्रमो नमयामास नृपाननुद्धरन् ॥ ९ ॥

अन्वयः—सः भूयसा खरः न मृदुः च न बभूव किन्तु पुरस्कृतमध्यमक्रमः सन् पवमानः पृथिवीरुहान् इव नृपान् अनुद्धरन् नमयामास ।

नेति । स नृपो भूयसा बाहुल्येन खरस्तीक्ष्णो न भूयसा मृदुरतिमृदुरपि न किन्तु पुरस्कृतमध्यमक्रमः सन् मध्यमपरिपाटीमवलम्ब्येत्यर्थः । पवमानो वायुः पृथिवीरुहांस्तरूनिव नृपाननुद्धरन्ननुत्पाटयन्नेव नमयामास । अत्र कामन्दकः—"मृदुश्चेदवमन्येत तीक्ष्णादुद्विजते जनः। तीक्ष्णश्चैव मृदुश्चैव प्रजानां स च संमतः" इति ।

भाषार्थ—अज न तो बहुत कठोर थे न अधिक कोमल ही, जिस प्रकार मध्यम वेग वाला वायु वृक्षों को बिना उखाड़े झुका देता है उसी प्रकार अज ने मध्यम मार्ग का आश्रय करके अपने शत्रुभूत राजाओं को राजगद्दी से उतारे बिना ही उनको नम्र बना दिया ॥ ९ ॥

अथ वीक्ष्य रघुः प्रतिष्ठितं प्रकृतिष्वात्मजमात्मवत्तया ।
विषयेषु विनाशधर्मसु त्रिदिवस्थेष्वपि निःस्पृहोऽभवत् ॥ १० ॥

अन्वयः—अथ रघुः आत्मजम् आत्मवत्तया प्रकृतिषु प्रतिष्ठितं वीक्ष्य विनाशधर्मसु त्रिदिवस्थेषु अपि विषयेषु निःस्पृहः अभवत् ।

Page 299Permalink

५४० रघुवंशमहाकाव्ये

अथेति । अथ रघुरात्मजं पुत्रमात्मवत्तया निर्विकारमनस्कतयेत्यर्थः । “उदयादिष्वविकृतिमंनसः सत्त्वमुच्यते । आत्मवान्सत्त्ववानुक्तः” इत्युत्पलमालायाम् । प्रकृतिष्वमात्यादिषु प्रतिष्ठितं रूढमूलं वीक्ष्य ज्ञात्वा विनाशो धर्मो येषां तेषु विनाशधर्मसु अनित्येष्वित्यर्थः । “धर्मादनिच्केवलात्” इत्यनिच्प्रत्ययः समासान्तः । त्रिदिवस्थेषु स्वर्गस्थेष्वपि विषयेषु शब्दादिषु निःस्पृहो निर्गतेच्छोऽभवत् ।

भावार्थ—जब महाराज रघु ने देखा कि मेरे पुत्र अज विकारहीन भाव से प्रजाओं में स्थिर हो गये हैं तब वे विनश्वर स्वर्गीय विषयों से भी निस्पृह हो गये ॥ १० ॥

गुणवत्सुतरोपितश्रियः परिणामे हि दिलीपवंशजाः ।
पदवीं तरुवल्कवाससां प्रयताः संयमिनां प्रपेदिरे ॥ ११ ॥

अन्वयः—दिलीपवंशजाः परिणामे गुणवत्सुतरोपितश्रियः प्रयताः सन्तः तरुवल्कवाससां संयमिनां पदवीं प्रपेदिरे ।

गुणवदिति । दिलीपवंशजाः परिणामे वार्धके गुणवत्सुतेषु रोपितश्रियः स्थापितलक्ष्मीकाः प्रयताश्च सन्तः तरुवल्कान्येव वासांसि येषां तेषां संयमिनां यतीनां पदवीं प्रपेदिरे यस्मात्तस्मादस्यापीदमुचितमित्यर्थः ।

भावार्थ—राजा दिलीप के वंशज वृद्धावस्था में अपने योग्य पुत्र को राज्य का भार सौंप कर नियमपूर्वक वल्कल वस्त्रधारी मुनियों के मार्ग का अनुसरण करते हैं । इस लिए रघु का विषयों से निस्पृह हो जाना उचित ही था ॥ ११ ॥

कुलधर्मश्चायमेवेत्याह—

तमरण्यसमाश्रयोन्मुखं शिरसा वेष्टनशोभिना सुतः ।
पितरं प्रणिपत्य पादयोरपरित्यागमयाचतात्मनः ॥ १२ ॥

अन्वयः—सुतः अरण्यसमाश्रयोन्मुखं पितरं तं वेष्टनशोभिना शिरसा पादयोः प्रणिपत्य आत्मनः अपरित्योगं अयाचत ।

तमिति । अरण्यसमाश्रयोन्मुखं वनवासोद्युक्तम् । अत्र मनुः “गृहस्थस्तु यदा पश्येद्वलीपलितमात्मनः । सापत्यो निरपत्यो वा तदारण्यं समाश्रयेत् ॥” पितरं तं रघुं सुतोऽजः वेष्टनशोभिनोष्णीषमनोहरेण शिरसा पादयोः प्रणिपत्य आत्मनोऽपरित्यागमयाचत । मां पिरत्यज्य न गन्तव्यमिति प्रार्थितवानित्यर्थः ।

भाषार्थ—वन को जाने के लिये उद्यत अपने पिता रघु से पुत्र अज ने राजमुकुट से सुशोभित अपना मस्तक नवाकर प्रार्थना की कि आप मुझे छोड़ कर वन में न जाइए ॥ १२ ॥

अष्टमः सर्गः २४१

Page 300Permalink

अष्टमः सर्गः २४१

रघुरश्रुमुखस्य तस्य तत्कृतवानीप्सितमात्मजप्रियः ।
न तु सर्पं इव त्वचं पुनः प्रतिपेदे व्यपवर्जितां श्रियम् ॥ १३ ॥
अन्वयः—आत्मजप्रियः रघुः अश्रुमुखस्य तस्य तत् ईप्सितं कृतवान् तु सर्पः त्वचम् इव व्यपवर्जितां श्रियं पुनः न प्रतिपेदे ।
रघुरिति । आत्मजप्रियः पुत्रवत्सलो रघुः अश्रूणि मुखे यस्य तस्याश्रुमुखस्याजस्य तदपरित्यागरूपमीप्सितमभिलषितं कृतवान् । किन्तु सर्पस्त्वचमिव व्यपवर्जितां त्यक्तां श्रियं पुनर्न प्रतिपेदे न प्राप ।
भाषार्थ—पुत्रवत्सल रघु ने अज की आंखों में आंसू देखकर वन को जाने का विचार छोड़ दिया किन्तु जिस प्रकार सांप एक बार छोड़ी हुई अपनी केंचुल को पुनः ग्रहण नहीं करता उसी प्रकार उन्होंने परित्यक्त राज्यलक्ष्मी को पुनः स्वीकार नहीं किया ॥ १३ ॥

स किला श्रममन्त्यमाश्रितो निवसन्नावसथे पुराद्बहिः ।
समुपास्यत पुत्रभोग्यया स्नुषयेवाविकृतेन्द्रियः श्रिया ॥ १४ ॥
अन्वयः—सः अन्त्यम् आश्रमम् आश्रितः पुरात् बहिः आवसथे निवसन् अविकृतेन्द्रियः ( सन् ) स्नुषया इव पुत्रभोग्यया श्रिया समुपास्यत किल ।
स इति । स रघुः किलान्त्याश्रमं प्रव्रज्यामाश्रितः पुरान्नगराद्बहिरावसथे स्थाने निवसन्नाविकृतेन्द्रियः जितेन्द्रियः सन्नित्यर्थः । अत एव स्नुषयेव वध्वैव पुत्रभोग्यया न स्वभोग्यया श्रिया समुपास्यत शुश्रूषितः । जितेन्द्रियस्य तस्य स्नुषयेव श्रियापि, पुष्पफलोदकाहरणादिशुश्रूषाव्यतिरेकेण न किञ्चदपेक्षितमासीदित्यर्थः । अत्र यद्यपि 'ब्राह्मणाः प्रव्रजन्ति' इति श्रुतेः । 'आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात्' इति मनुस्मरणात् 'मुखजानामयं धर्मो यद्विष्णोलिङ्गधारणम् । बाहुजातोहजातानामयं धर्मो न विद्यते ।।' इति निषेधाच्च ब्राह्मणस्यैव प्रव्रज्या न क्षत्रियादेरित्याहुः, तथापि 'यदहरेव विरजेत्तदहरेव प्रव्रजेत्' इत्यादिश्रुतेस्त्रैवर्णिकसाधारण्यात्, 'त्रयाणां वर्णानां वेदमधीत्य चत्वार आश्रमाः' इति सूत्रकारवचनात् । 'ब्राह्मणः क्षत्रियो वापि वैश्यो वा प्रव्रजेद् गृहात्' इति स्मरणात् । 'मुखजानामयं धर्मो वैष्णवं लिङ्गधारणम् । बाहुजातोरुजातानां त्रिदण्डं न विधीयते ।।' इति निषेधस्य त्रिदण्डविषयत्वदर्शनाच्च कुत्रचिद्ब्राह्मणपदस्योपलक्षणमाचक्षाणाः केचित् त्रैवर्णिकाधिकारं प्रतिपेदिरे तथा सति 'स किला श्रममन्त्यमाश्रितः' इत्यत्रांपि कविनाप्ययमेव पक्षो विवक्षित इति प्रतीमः । अन्यथा वानप्रस्थाश्रमतया व्याख्याते 'विदधे विधिमस्य
१६ र० सम्पू०

Page 301Permalink

२४२ रघुवंशमहाकाव्ये

नैष्ठिकं यतिभिः सार्धमनग्निमग्निजित्' इति वक्ष्यमाणेनानग्निसंस्कारेण विरोधः स्यात् । अग्निसंस्काररहितस्य वानप्रस्थस्यैवाभावात् इत्यलं प्रासङ्गिकेन ।

भाषार्थ—वे महाराज रघु संन्यास आश्रम को स्वीकार कर नगर के बाहर हो कुटिया में रहने लगे । पुत्र से भोग्य राजलक्ष्मी से उनका उतना ही सम्बन्ध था जितना पुत्रवधू से किसी संयमी श्वसुर का रहता है अर्थात् जिस पृथ्वी पर अज राज्य कर रहे थे वह रघु को फल मूल देकर उनकी उस प्रकार सेवा कर रही थी मानो उनकी पतोहू हो ॥ १४ ॥

प्रशमस्थितपूर्वपार्थिवं कुलमभ्युद्यतनूतनेश्वरम् । नभसा निभृतेन्दुना तुलामुदितार्केण समारुरोह तत् ॥ १५ ॥

अन्वयः—प्रशमस्थितपूर्वपार्थिवम् अभ्युद्यतनूतनेश्वरम् तत् कुलं निभृतेन्दुना उदितार्केण च नभसा तुलां समारुरोह ।

प्रशमेति । प्रशमे स्थितः पूर्वपार्थिवो रघुर्यस्य तत् अभ्युद्यतोऽभ्युदितो नूतने- श्वरोऽजो यस्य तत् । प्रसिद्धं कुलं निभृतेन्दुनाऽस्तमयासन्नचन्द्रेणोदितार्केण प्रकटि- तसूर्येण च नभसा तुलां सादृश्यं समारुरोह प्राप । न च नभसा तुलामित्यत्र "तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम्" इत्यनेन प्रतिषेधस्तृतीयायाः । तस्य सदृशवाचितुलाशब्दविषयत्वात् 'कृष्णस्य तुला नास्ति' इति प्रयोगात् अस्य च सादृश्यवाचित्वात् ।

भाषार्थ—उस समय सूर्यवंश उस आकाश के समान सुशोभित हो रहा था जिसमें एक तरफ चन्द्रमा अस्त हो रहे हों और दूसरी ओर सूर्य उदय हो रहे हों । क्योंकि एक ओर राजा रघु संन्यास लेकर शान्तिमय जीवन बिता रहे थे दूसरी ओर अज राजगद्दी पर विराजमान थे ॥ १५ ॥

यतिपार्थिवलिङ्गधारिणौ ददृशाते रघुराघवौ जनैः । अपवर्गमहोदयार्थयोर्भुवमंशाविव धर्मयोर्गतौ ॥ १६ ॥

अन्वयः—जनैः यतिपार्थिवलिङ्गधारिणौ रघुराघवौ अपवर्गमहोदयार्थयोः धर्मयोः भुवं गतौ इव ददृशाते ।

यतीति । यतिर्भिक्षुः पार्थिवो राजा तयोलिङ्गधारिणौ रघुराघवौ रघुतत्सुतौ अपवर्गमहोदयार्थयोर्मोक्षाभ्युदयफलयोधर्मयोः । निवर्तकप्रवर्तकरूपयोरित्यर्थः । भुवं गतौ भूलोकमवतीर्णावंशाविव जनैर्ददृशाते दृष्टौ ।

भाषार्थ—संन्यासी के चिह्न धारण करने वाले महाराजा रघु और राज-

अष्टमः सर्गः २४३

Page 302Permalink

अष्टमः सर्गः २४३

चिह्न धारी अज को देखकर लोगों ने यह समझा कि मोक्ष एवं ऐश्वर्य देने वाला धर्म दो रूपों में पृथ्वी पर अवतीर्ण है ॥ १६ ॥

अजिताधिगमाय मन्त्रिभिर्युयुजे नीतिविशारदैरजः ।
अनपायिपदोपलब्धये रघुराप्तैः समियाय योगिभिः ॥ १७ ॥

**अन्वयः—**अजः अजिताधिगमाय नीतिविशारदैः मन्त्रिभिः युयुजे, रघुः अनपायिपदोपलब्धये आप्तैः योगिभिः समियाय ।

अजितेति । अजोऽजिताधिगमायाजितपदलाभाय नीतिविशारदैर्नीतिज्ञैर्मन्त्रिभिर्युयुजे संगतः । रघुरप्यनपायिपदस्योपलब्धये मोक्षस्य प्राप्तये यथार्थदर्शिनो यथार्थवादिनश्चाप्ताः तैर्योगिभिः समियाय संगतः । उभयत्राप्युपायचिन्तार्थमिति शेषः ।

**भाषार्थ—**एक ओर अज जीते हुए देशों को जीतने के लिए नीति विशारद मन्त्रियों के साथ दिग्विजय का विचार करने लगे । दूसरी ओर रघु अविनश्वर मोक्षपद पाने के लिए तत्त्वदर्शी योगियों से मोक्ष मार्ग की चर्चा करने लगे ।

नृपतिः प्रकृतीरवेक्षितुं व्यवहारासनमाददे युवा ।
परिचेतुमुपांशु धारणां कुशपूतं प्रवयास्तु विष्टरम् ॥ १८ ॥

**अन्वयः—**युवा नृपतिः प्रकृतिः अवेक्षितुं व्यवहारासनम आददे प्रवयाः तु धारणां परिचेतुम् उपांशु कुशपूतम् विष्टरम् आददे ।

नृपतिरिति । युवा नृपतिरजः प्रकृतिः प्रजाः कार्यार्थिनीरवेक्षितुम् । दुष्टादुष्टपरिज्ञानार्थमित्यर्थः । व्यवहारासनं धर्मासनमाददे स्वीचकार । 'व्यवहारान्नृपः पश्येत्' इति याज्ञवल्क्यस्मरणात् । प्रवयाः स्थविरो नृपतिः रघुस्तु । 'प्रवयाः स्थविरो वृद्ध' इत्यमरः । धारणां चित्तस्यैकाग्रतां परिचेतुमभ्यसितुमुपांशु विजने । 'उपांशु विजने प्रोक्तम्' इति हलायुधः । कुशैः पूतं विष्टरमासनमाददे । 'यमादिगुणसंयुक्ते मनसः स्थितिरात्मनि । धारणा प्रोच्यते सद्भिर्योगशास्त्रविशारदैः ॥' इति वसिष्ठः ।

**भाषार्थ—**इधर युवक राजा अज प्रजाओं के कार्यों को देखने के लिए न्याय के आसन पर बैठे थे उधर वृद्ध रघु अपने मन को साधने का अभ्यास करने के लिए एकान्त में पवित्र कुश के आसन पर बैठे थे ॥ १८ ॥

अनयत् प्रभुशक्तिसम्पदा वशमेको नृपतीननन्तरान् ।
अपरः प्रणिधानयोग्यया मरुतः पञ्च शरीरगोचरान् ॥ १६ ॥

Page 303Permalink
२४८रघुवंशमहाकाव्ये

अन्वयः—एकः अनन्तरान् नृपतीन् प्रभुशक्तिसम्पदा वशम् अनयत् अपरः शरीरगोचरान् पञ्च मरुतः प्रणिधानयोग्यया वशम् अनयत् ।

अनयदिन्ति । एकोऽन्यतरः अज इत्यर्थः । अनन्तरान्स्वभूम्यनन्तरा नृपतीन्त्स्यात व्यपार्ष्णिग्राहादीन्प्रभुशक्तिसंपदा कोशदण्डमहिम्ना वशं स्वायत्ततामनयत् 'कोशो दण्डो बलं चैव प्रभुशक्तिः प्रकीर्तिता' इति मिताक्षरायाम् । अपरो रघुः प्रणिधानयोग्यया समाध्यभ्यासेन 'योग्यभ्यासाकयोोषितोः' इति विश्वः । शरीरगोचरान्देहाश्रयान्पञ्च मरुतः प्राणादीन्वशमनयत् । 'प्राणोऽपानः समानश्चोदानव्यानौ न वायवः । शरीरस्थाः' इत्यमरः ।

भाषार्थ—अज ने प्रभु शक्ति से (कोशदण्ड आदि महिमा से) अपने राज्य की सीमा पर रहने वाले शत्रुओं को अपने वश में कर लिया और रघु ने योग बल से अपने शरीर के अन्दर रहने वाले प्राण, अपान, समान, उदान और व्यान नामक पांचों पवनों को अपने वश में कर लिया ॥ १९ ॥

अकरोदचिहेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् ।
इतरो दहने स्वकर्मणां ववृते ज्ञानमयेन वह्निना ॥ २० ॥

अन्वयः—अचिरेश्वरः क्षितौ द्विषदारम्भफलानि भस्मसात् अकरोत् इतरः ज्ञानमयेन वह्निना स्वकर्मणाम् दहने ववृते ।

अकरोदिति । अचिरेश्वरोऽजः क्षितौ द्विषतामारम्भाः कर्माणि तेषां फलानि भस्मसादकरोत्कात्स्न्र्येन भस्मीकृतवान् । “विभाषा साति कात्स्न्र्ये” इति सति-प्रत्ययः । इतरो रघुर्ज्ञानमयेन तत्त्वज्ञानप्रचुरेण वह्निना पावकेन करणेन स्वकर्मणां भवबीजभूतानां दहने भस्मीकरणे ववृते । स्वकर्माणि दग्धुं प्रवृत्त इत्यर्थः । 'ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुतेऽर्जुन' इति गीतावचनात् ।

भाषार्थ—नये राजा अज ने पृथ्वी पर शत्रुओं की सभी चालों को नष्ट कर दिया और पुराने राजा रघु ने ज्ञानमय अग्नि से संसार के कारण भूत अपने कर्मों को भस्म कर डाला ॥ २० ॥

पणबन्धमुखान्गुणानजः षडुपायुङ्क्त समीक्ष्य तत्फलम् ।
रघुरप्यजयद्गुणत्रयं प्रकृतिस्थं समलोष्ठकाञ्चनः ॥ २१ ॥

अन्वयः—अजः पणबन्धमुखान् षट् गुणान् तत्फलं समीक्ष्य उपायुङ्क्त समलोष्टकाञ्चनः रघुः अपि गुणत्रयं । प्रकृतिस्थम् अजयत् ।

पणबन्धेति । 'पणबन्धः संधिः' इति कौटिल्यः । अजः पणबन्धमुखान्त्संध्यादीन्षड्गुणान् । 'संधिर्ना विग्रहो यानमासनं द्वैधमाश्रयः । षड्गुणाः' इत्यमरः ।

अष्टमः सर्गः | २४५

Page 304Permalink
अष्टमः सर्गः२४५

तत्फलं तेषां गुणानां फलं समीक्ष्यालोच्योपायुङ्क्त । फलिष्यन्तमेव गुणं प्रायुङ्क्तेत्यर्थः । “प्रोपाभ्यां युजेरयज्ञपात्रेषु” इत्यात्मनेपदम् । तमस्तुल्यतया भावितो लोष्टो मृत्पिण्डः काञ्चनं सुवर्णं च यस्य स समलोष्टकाञ्चनः । निःस्पृह इत्यर्थः । ‘लोष्टानि लेष्टवः पुंसि’ इत्यमरः । रघुरपि गुणत्रयं सत्त्वादिकम् । ‘गुणाः सत्त्वं रजस्तमः’ इत्यमरः । प्रकृतौ साम्यावस्थायामेव तिष्ठतीति प्रकृतिस्थं पुनर्विकारशून्यं यथा तथाऽजयत् ।

भावार्थ— एक तरफ अज सन्धि, विग्रह, यान, आसन, आश्रय और द्वैधीभाव इन नीतियों का देशकालानुसार परिणाम समझकर प्रयोग करते थे दूसरी ओर मिट्टी और सोने दोनों में समान दृष्टि रखनेवाले रघु ने भी, प्रकृति के त्रिगुणमयी सत्व रज एवं तम इन तीनों गुणों को जीत लिया ॥ २१ ॥

न नवः प्रभुराफलोदयात्स्थिरकर्मा विरराम कर्मणः ।
न च योगविधेर्नवेतरः स्थिरधीरापरमात्मदर्शनात् ॥ २२ ॥

अन्वयः— स्थिरकर्मा नवः प्रभुः आफलोदयात् कर्मणः न विरराम स्थिरधीः नवेतरः च आपरमात्मदर्शनात् योगविधेः न विरराम ।

नेति । स्थिरकर्मा फलोदयकर्मकारी नवः प्रभुरजः आफलोदयात्फलसिद्धिपर्यन्तं कर्मण आरम्भान्न विरराम न निवृत्तः । ‘जुगुप्साविरामप्रमादार्थानामुपसंख्यानम्’ वा० इत्यपादानात्पञ्चमी । ‘व्याङ्परिभ्यो रमः’ इति परस्मैपदम् । स्थिरधीर्निश्चलचित्तः । तदुक्तं गीतायां ‘दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः । वितरागभयक्रोधः स्थिरधीर्मुनिरुच्यते ॥’ नवेतरो रघुश्चापरमात्मदर्शनात्परमात्मसाक्षात्कारपर्यन्तं योगविधेरैक्यानुसंधानान्न विरराम ।

भावार्थ— स्थिर कार्यकर्ता नये राजा अजने फल की प्राप्ति हुए बिना आरम्भ किये हुए कर्मों से विरत नहीं हुए । तथा स्थिर बुद्धिवाले प्राचीन राजा रघु परमात्मा के साक्षात्कार के बिना योगाभ्यास से विरत नहीं हुए ॥ २२ ॥

इति शत्रुपु चेन्द्रियेषु च प्रतिषिद्धप्रसरेषु जाग्रतौ ।
प्रसितावुदयापवर्गयोरुभयीं सिद्धिमुभाववापतुः ॥ २३ ॥

अन्वयः— इति प्रतिषिद्धप्रसरेषु शत्रुपु च इन्द्रियेषु च जाग्रतौ उदयापवर्गयोः प्रसितौ उभौ उभयीं सिद्धिम् अवापतुः ।

इतीति । इत्येवं प्रतिषिद्धः प्रसरः स्वार्थप्रवृत्तिर्येषां तेषु शत्रुपु चेन्द्रियेषु च जाग्रतावप्रमत्तावुदयापवर्गयोरभ्युदमाक्षयोः प्रसितावासक्तौ । ‘तत्परे प्रसितासक्तौ’ इत्यमरः । उभावजरघू उभयीं द्विविधामभ्युदयमोक्षरूपाम् । “उभादुदात्तो

Page 305Permalink

२४६ रघुवंशमहाकाव्ये

नित्यम्'' इति तयप्प्रत्ययस्यायजादेशः । "टिड्ढाणञ्" इति ङीप् । सिद्धि फलमवापतुः । उभावुभे सिद्धी यथासंख्यमवापतुरित्यर्थः ।

भाषार्थ—इस प्रकार निरुद्धव्यापार वाली इन्द्रियों और शत्रुओं के विषय में जागरूक और क्रमशः उन्नति एवं मोक्ष में लगे हुए अज तथा रघु उन दोनों ने अपनी २ सिद्धियों को प्राप्त कर लिया ॥ २३ ॥

अथ काश्चिदजेन्यपेक्षया गमयित्वा समदर्शनः समाः ।
तमसः परमापदव्ययं पुरुषं योगसमाधिना रघुः ॥ २४ ॥

अन्वयः—अथ रघुः समदर्शनः सन् अजन्यपेक्षया कांश्चित् समाः गमयित्वा योगसमाधिना अव्ययं तमस. परं पुरुषं आपत् ।

अथेति । अथ रघुः समदर्शनः सर्वभूतेषु समदृष्टिः, सन्नजन्यपेक्षयाऽजाकाङ्क्षानुरोधेन काश्चित्समाः कतिचिद्वर्षाणि । 'समा वर्षं समं तुल्यम्' इति विश्वः । गमयित्वा नीत्वा योगसमाधिनैक्यानुसंधाने । 'संयोगो योग इत्युक्तो जीवात्मपरमात्मनोः' इति वसिष्ठः । अव्ययमविनाशिनं तमसः परमविद्यायाः परं मायातीतमित्यर्थः । 'अनित्यासुखानात्मसु नित्यसुखात्मबुद्धिरविद्या ।' इति योगशास्त्रे पुरुषं परमात्मानमापत्राप । सायुज्यं प्राप्त इत्यर्थः ।

भाषार्थ—इसके बाद सभी वस्तुओं को समान समझने वाले महाराज रघु ने अज की इच्छा से कुछ वर्ष और बिताकर फिर योगबल से अविनाश एवं मायातीत परमात्मा में लीन हो गये अर्थात् शरीर त्याग कर दिया ॥ २४ ॥

श्रुतदेहविसर्जनः पितुश्चिरमश्रूणि विमुच्य राघवः ।
विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निरग्निचित् ॥ २५ ॥

अन्वयः—अग्निचित् राघवः पितुः श्रुतदेहविसर्जनः सन् चिरम् अश्रूणि विमुच्य अस्य अनग्निम् नैष्ठिकं विधिं यतिभिः सार्धं विदधे ।

श्रुतेति । अग्निचिदग्नि चितवानाहितवान् । "अग्नो चेः" इति क्विप्प्रत्ययः । राघवोऽजः श्रुतदेहविसर्जन आकर्णितपितृतनुत्यागः संश्चिरमश्रूणि बाष्पान्विमुच्य विसृज्यास्य पितुरनग्निम् अग्निसंस्काररहितमित्यर्थः । नैष्ठिकं निष्ठायामन्ते भवं विधिमाचारमन्त्येष्टि यतिभिः संन्यासिभिः सार्धं सह विदधे चक्रे । अनग्नि विधिमित्यत्र शौनकः—'सर्वसङ्गन्निवृत्तस्य ध्यानयोगरतस्य च । न तस्य दहनं कार्यं नैव पिण्डोदकक्रिया ॥ निदध्यात्प्रणवेनैव बिले भिक्षोः कलेवरम् । प्रोक्षणं खननं चैव सर्वं तेनैव कारयेत् ॥' इति ।

भाषार्थ—पिता के देहत्याग का समाचार सुन कर अग्निहोत्र करनेवाले अज

Page 306Permalink

अष्टमः सर्गः २४७

बहुत रोए, बाद उनके शरीर का दाह संस्कार न करके सन्यासियों के समान पृथ्वी में समाधि दे दी। क्योंकि ज्ञानियों का दाह संस्कार नहीं होता है। (महर्षि शौनक ने स्पष्ट कहा है) ॥ २५ ॥

अकरोत्स तदौर्ध्वदैहिकं पितृभक्त्या पितृकार्यकल्पवित् ।
नहि तेन पथा तनुत्यजस्तनयावर्जितपिण्डकाङ्क्षिणः ॥ २६ ॥

अन्वयः—पितृकार्यकल्पवित् सः पितृभक्त्या तदौर्ध्वदैहिकम् अकरोत्, हि तेन पथा तनुत्यजः तनयावर्जितपिण्डकाङ्क्षिणः न भवन्ति ।

अकरोदिति । पितृकार्यस्य तातश्राद्धस्य कल्पविद्विधानज्ञः सोऽजः पितृभक्त्या पितरि प्रेम्णा कारणेन । न पितुः परलोकसुखापेक्षया मुक्तत्वादिति भावः । तस्य रघोरोर्ध्वदैहिकम् देहादूर्ध्वं भवतीति तत्तिलोदकपिण्डदानादिकमकरोत् । ॐ ऊर्ध्वं देहाच्च ॐ इति वक्तव्याट्टठञ्प्रत्ययः । अनुशतिकादित्वादुभयपदवृद्धिः । ननु कथं भक्तिरेव श्राद्धादिफलप्रेप्सापि कस्मान्नाभूदित्याशङ्कयाह—नहीति । तेन पथा योगरूपेण मार्गेण तनुत्यजः शरीरत्यागिनः पुरुषास्तनयेनावर्जितं दत्तं पिण्डं काङ्क्षन्तीति तथोक्ता नहि भवन्ति ।

भाषार्थ—यद्यपि योगमार्ग से शरीर त्याग करने वाले योगियों को अपने पुत्रों से पिण्डदान की आवश्यकता नहीं रहती तथापि पितृकार्य के विधान को जानने वाले अज ने पितृभक्ति से पिण्डदान पूर्वक श्राद्ध-कर्म किया ॥ २६ ॥

स परार्ध्यगतेरशोच्यतां पितुरुद्दिश्य सदर्थवेदिभिः ।
शमिताधिरधिज्यकार्मुकः कृतवानप्रतिशासनं जगत् ॥ २७ ॥

अन्वयः—परार्ध्यगतेः पितुः अशोच्यताम् उद्दिश्य सदर्थवेदिभिः शमिताधिः सः अधिज्य कार्मुकः सन् जगत् अप्रतिशासनम् कृतवान् ।

स इति । परार्ध्यगतेः प्रशस्तगतेः प्राप्तमोक्षस्य पितुरशोच्यतामशोचनीयत्वमुद्दिश्याभिसंधाय शोको न कर्त्तव्य इत्युपदिश्येत्यर्थः । “परिव्राजि विपन्ने तु पतिते चात्मवेश्मनि । कार्यो न शोको ज्ञातीनामन्यथा दोषभागिनः ॥” इति सुमन्तुस्मरणात् । सदर्थवेदिभिः परमार्थज्ञैर्विद्वद्भिः शमिताधिर्निवारितमनोव्यथः । ‘पुंस्याधिर्मानसी व्यथा’ इत्यमरः । सोऽजोऽधिज्यकार्मुकः अधिज्यमारोपितमौर्वीकं कार्मुकं यस्य स तथोक्तः सन् जगत्कर्मभूतमप्रतिशासनं द्वितीयाज्ञारहितम् । आत्माज्ञाविधेयमित्यर्थः । कृतवांश्चकार ।

भाषार्थ—जब तत्वज्ञानी विद्वानों ने अज को समझाया कि, आपके पिता रघु ने मोक्ष पा लिया है उनके विषय में शोक करना उचित नहीं है, तब उन्हें धैर्य

Page 307Permalink

२४८ रघुवंशमहाकाव्ये

हुआ और शोक रहित होकर उन्होंने धनुष को चढ़ाकर सारे संसार पर एक छत्र राज्य कर लिया ॥ २७ ॥

क्षितिरिन्दुमती च भामिनि पतिमासाद्य तमग्रघपौरुषम् ।
प्रथमा बहुरत्नसूरभूदपरा वीरमजीजनत्सुतम् ॥ २८ ॥

**अन्वयः—**क्षितिः भामिनी इन्दुमती च अग्रघपौरुषम् तं पतिम् आसाद्य प्रथमा बहुरत्नसूः अभूत् अपरा वीरं सुतम् अजीजनत् ।

क्षितिरिति । क्षितिर्मही भामिनी कामिनीन्दुमती च । 'भामिनी कामिनी च' इति हलायुधः । अग्रघपौरुषं महापराक्रममुत्कृष्टभोगशक्तिं च तमजं पतिमासाद्य प्राप्य तत्र प्रथमा क्षितिः बहूनि रत्नानि श्रेष्ठानि वस्तूनि सूत इति बहूरत्नसूरभूत । 'रत्नं स्वजातिश्रेष्ठेऽपि' इत्यमरः । अपरेन्दुमती वीरं विशेषेण शत्रून् ईरयति कम्पयतीति वीरस्तं सुतमजीजनज्जनयति स्म । जायतेर्णौ लुङि रूपम् । सहोक्त्या सादृश्यमुच्यते ।

**भाषार्थ—**पृथ्वी और इन्दुमती दोनों महापराक्रमशाली उस अज को पति के रूप में पाकर परमप्रसन्न हुईं और पृथ्वी ने अनेक प्रकार के रत्नों को उत्पन्न किया एवं इन्दुमती ने वीर पुत्र को पैदा किया ॥ २८ ॥

किंनामकोऽसावत आह—

दशरश्मिशतोपमद्युतिं यशसा दिक्षु दशस्वपि श्रुतम् ।
दशपूर्ववरथं यमाख्यया दशकण्ठारिगुरुं विदुबुंधाः ॥ २९ ॥

**अन्वयः—**बुधाः दशरश्मिशतोपमद्युतिं यशसा दशसु अपि दिक्षु श्रुतं दशकण्ठारिगुरुं यम् आख्यया दशपूर्वरथं विदुः ।

दशेति । दश रश्मिशतानि यस्य स दशरश्मिशतः सूर्यः स उपमा यस्याः सा दशरश्मिशतोपमा द्युतिर्यस्य तम् । यशसा करणेन दशस्वपि दिक्ष्वाशासु श्रुतं प्रसिद्धम् । दशकण्ठारे रावणारे रामस्य गुरुं पितरं यं सुतम् आख्यया नाम्ना दशपूर्वो दशशब्दपूर्वो रथो रथशब्दस्तम् दशरथमित्यर्थः । बुधा विद्वांसो विदुर्वदन्ति । "विदो लटो वा" इति झेर्जुसादेशः ।

**भाषार्थ—**विद्वान् लोग जिन्हें दश सौ किरणवाले सूर्य के समान तेजस्वी यश से दशों दिशाओं में प्रसिद्ध और दशमुख रावण के शत्रु राम के पिता दशरथ कहते हैं ॥ २९ ॥

ऋषिदेवगणस्वधाभुजां श्रुतयागप्रसवैः स पार्थिवः ।
अनृणत्वमुपेयिवान्बभौ परिधेर्मुक्त इवोष्णदीधितिः ॥ ३० ॥

अष्टमः सर्गः २४६

Page 308Permalink

अष्टमः सर्गः २४६

अन्वयः—श्रुतयागप्रसवैः ऋषिदेवगणस्वधाभुजाम् अनृणत्वम् उपेयिवान् सः पार्थिवः परिधेः मुक्तः उष्णदीधितिः इव बभौ ।

ऋषीति । श्रुतयागप्रसवैरध्ययनयज्ञसन्तानैः करणैः यथासंख्यमृषीणां देवगणानामिन्द्रादीनां स्वधाभुजां पितॄणामनृणत्वमृणविमुक्तत्वमुपेयिवान्प्राप्तवान् । 'ऋणं देवस्य यज्ञेन पितॄणां दानकर्मणा । संतत्या पितृलोकानां धारयित्वा परिव्रजेत् ।।' 'एष वा अनृणो यः पुत्री यज्वा ब्रह्मचारी वा' इति श्रुतेः । स पार्थिवोऽज परिधेः परिवेशात् । 'परिवेशस्तु परिधिः' इत्यमरः । मुक्तो निर्गतः कर्मकर्ता उष्णदीधितिः सूर्य इव बभौ दिदीपे । इत्युपमा ।

भाषार्थ—इस प्रकार वेदादिशास्त्रों का अध्ययन करके ऋषिऋण से यज्ञ करके देवऋण से और पुत्र उत्पन्न करके पितृऋण से मुक्त होकर वे राजा अज परिधि से मुक्त सूर्य के समान सुशोभित हुए ॥ ३० ॥

बलमार्तभयोपशान्तये विदुषां सत्कृतये बहुश्रुतम् । वसु तस्य विभोर्न केवलं गुणवत्ताऽपि परप्रयोजना ॥ ३१ ॥

अन्वयः—तस्य विभोः बलम् आर्तभयोपशान्तये श्रुतं विदुषां सत्कृतये अभूत् ( अतः ) केवलं वसु न किन्तु गुणवत्ता अपि परप्रयोजना अभूत् ।

बलमिति । तस्य विभोरजस्य केवलं वसु धनमेव परप्रयोजनं परोपकारकं नाभूत् । किन्तु गुणवत्तापि गुणित्वमपि परप्रयोजना परेषामन्येषां प्रयोजनं यस्यां सा । विधेयांशत्वेन प्राधान्याद्गुणवत्तायाविशेषणं वस्त्वित्यत्र तूहनीयम् । तथाहि बलं पौरुषमार्तानामापन्नानां भयस्योपशान्तये निषेधाय न तु स्वार्थं परपीडनाय वा । बहु भूरि श्रुतं विद्या विदुषां सत्कृतये सत्काराय न तूत्सेकाय बभूव । तस्य धनं परोपयोगीति किं वक्तव्यम् । बहुश्रुतादयोऽपि गुणाः परोपयोगिन इत्यर्थः ।

भाषार्थ—राजा अज का बल दुखियों के भय दूर करने के लिए और शास्त्राध्ययन विद्वानों के सत्कार के लिए हुआ । इस प्रकार उस रज का केवल धन ही परोपकार के लिए नहीं था किन्तु उसके गुण भी परोपकार के लिए ही थे ।

स कदाचिदवेक्षितप्रजः सह देव्या विजहार सुप्रजाः । नगरोपवने शचीसखो मरुतां पालयितेव नन्दने ॥ ३२ ॥

अन्वयः—अवेक्षितप्रजः सुप्रजा सः कदाचित् देव्या सह नगरोपवने नन्दने शचीसखः मरुतां पालयिता इव विजहार ।

स इति । अवेक्षितप्रजोऽकुतोभयत्वेनानुसंहितप्रजः । 'नित्यमसिच्प्रजामेधयोः' इत्यसिच्प्रत्ययः । न केवलं स्त्रीण इति भावः । शोभना प्रजा यस्यासौ सुप्रजाः

Page 309Permalink

२५० रघुवंशमहाकाव्ये

सुपुत्रवान् । पुत्रन्यस्तभार इति भावः । सोऽजः कदाचिद्देव्या महिष्येन्दुमत्य सह नगरोपवने नन्दने नन्दनाख्येऽमरावत्युपकण्ठवने शचीसखः । शच्या सहेत्यर्थः मरुतां देवानां पालयितेन्द्र इव विजहार चिक्रीड ।

भाषार्थ—एक दिन उत्तमसन्तान वाले प्रजापालक राजा अज अपनी रानी इन्दुमती के साथ नगर के उपवन में उसी प्रकार विहार कर रहे थे जिस प्रकार देवताओं के पालक इन्द्र नन्दन वन में इन्द्राणी के साथ विहार करते हैं ।

अथ रोधसि दक्षिणोदधेः श्रितगोकर्णनिकेतमीश्वरम् ।
उपवीणयितुं ययौ रवेरुदयावृत्तिपथेन नारदः ॥ ३३ ॥

**अन्वयः—**अथ दक्षिणोदधेः रोधसि श्रितगोकर्णनिकेतम् ईश्वरम् उपवीणयितुं नारदः रवेः उदयावृत्तिपथेन ययौ ।

अथेति । अथ दक्षिणस्योदधेः समुद्रस्य रोधसि तीरे श्रितगोकर्णनिकेतमधिष्ठितगोकर्णाख्यस्थानमीश्वरं शिवमुपवीणयितुं वीणयोपसमीपे गन्तुम् । “सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मचुरादिभ्यो णिच्” इत्यनेन वीणाशब्दादुपमानार्थे णिच्प्रत्ययः ततस्तुमुन् । नारदः नराणां समूहः नारं तद्द्यति खण्डयति कलहदानात् इति नारदः । देवर्षी रवेः सूर्यस्य सम्बन्धिनोदयावृत्तिपथेनाकाशमार्गेण ययौ जगाम । सूर्योपमानेनास्यातितेजस्त्वमुच्यते ।

**भाषार्थ—**उसी समय दक्षिण समुद्र के तट पर गोकर्ण नामक स्थान स्थित शंकर जी को वीणा बजाकर गाना सुनाने के लिए नारद जी आकाश मार्ग से चले जा रहे थे ॥ ३३ ॥

कुसुमैर्ग्रथितामपार्थिवैः स्रजमातोद्यशिरोनिवेशिताम् ।
अहरत्किल तस्य वेगवानधिवासस्पृहयेव मारुतः ॥ ३४ ॥

**अन्वयः—**अपार्थिवैः कुसुमैः ग्रथितां तस्य आतोद्यशिरोनिवेशितां स्रजं वेगवान् मारुतः अधिवासस्पृहया इव अहरत् किल ।

कुसुमैरिति । अपार्थिवैरभौमैः दिव्यैरित्यर्थः । कुसुमैर्ग्रथितां रचितां तस्य नारदस्यातोद्यस्य वाद्यस्य वीणायाः शिरस्यग्रे निवेशिताम् । ‘चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्’ इत्यमरः । स्रजं मालां वेगवान्मारुतः अधिवासे वासनायां स्पृहयेव स्रजा·स्वाङ्गं संस्कृतुमित्यर्थः । ‘संस्कारो गन्धमाल्याद्यैः स्यात्तदधिवासनम्’ इत्यमरः । अहरत्किल किलेत्यैतिह्ये ।

**भाषार्थ—**स्वर्गीय पुष्पों से गुंथी हुई और वीणा के सिरे पर लपेटी हुई माला को वेगवान् वायु ने मानों अपने को उन पुष्पों से सुगन्धित करने की

अष्टमः सर्गः २५१

Page 310Permalink

अष्टमः सर्गः २५१

इच्छा से वहाँ से उतार लिया हो। अर्थात् उस समय वेग से चलने वाले वायु के कारण वह माला उड़ गई ॥ ३४ ॥

भ्रमरैः कुसुमानुसारिभिः परिकीर्णा परिवादिनी मुनेः।
ददृशे पवनावलेपजं सृजती बाष्पमिवाञ्जनावलिम् ॥ ३५ ॥

अन्वयः—जनैः कुसुमानुसारिभिः भ्रमरैः परिकीर्णा मुनेः परिवादिनी पवनावलेपजम् अञ्जनावलिम् वाष्पं सृजती इव ददृशे।

भ्रमरैरिति। कुसुमानुसारिभिः पुष्पानुयायिभिर्भ्रमरैरलिभिः परिकीर्णा व्याप्ता मुनेर्नारदस्य परिवादिनी वीणा। 'वीणा तु वल्लकी। विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥' इत्यमरः। पवनस्य वायोरवलेपोऽधिक्षेपस्तमञ्जनेन कज्जलेनाविलं कलुषं बाष्पमश्रु सृजति मुञ्चतीव ददृशे दृष्टा। भ्रमराणां साञ्जनबाष्पबिन्दुसादृश्यं विवक्षितम्। "वा नपुंसकस्य" इति वर्तमाने "आच्छीनद्योर्नुम्" इति नुम्विकल्पः।

भाषार्थ—माला तो वीणा से गिर गई पर पुष्पों के रस के लोभ से फूलों के पीछे २ उड़ने वाले भ्रमर नारदजी की वीणा के चारों ओर मडरा रहे थे उन्हें देख कर मालूम पड़ता था कि मानो वायु से अपमानित होकर वह वीणा काजल से मिले हुए आंसू बहा रही हो ॥ ३५ ॥

अभिभूय विभूतिमार्तवीं मधुगन्धातिशयेन वीरुधाम् ।
नृपतेरमरस्रगाप सा दयितोरुस्तनकोटिसुस्थितिम् ॥ ३६ ॥

अन्वयः—सा अमरस्रक् मधुगन्धातिशयेन वीरुधाम् आर्तवीं विभूतिम् अभिभूय नृपतेः दयितोरुस्तनकोटिसुस्थितिम् आप।

अभिभूयेति। साऽमरस्रग्दिव्यामाला मधुगन्धयोर्मकरन्दसौरभयोरतिशयेनाधिक्येन वीरुधां लतानाम्। 'लता प्रतानिनी वीरुत्' इत्यमरः। ऋतोः प्राप्तामार्तवीमृतुसम्बन्धिनीं विभूतिसमृद्धिमभिभूय तिरस्कृत्य नृपतेरजस्य दयिताया इन्दु-मत्या ऊर्वोविशालयोः स्तनयोर्ये कोटी चूचुको तयोः सुस्थिति गोप्यस्थाने पतितत्वात्प्रशस्तां स्थितिं स्थानमाप प्राप्ता।

भाषार्थ—अन्य लताओं की अपेक्षा अत्यधिक मकरन्द तथा सुगन्धवाली वह दिव्यमाला राजा अज की प्रिया इन्दुमती के बड़े-बड़े स्तनों के अग्रभाग पर जाकर गिरी ॥ ३६ ॥

क्षणमात्रसखीं सुजातयोः स्तनयोस्तामवलोक्य विह्वला ।
निमिमील नरोत्तमप्रिया हतचन्द्रा तमसेव कौमुदी ॥ ३७ ॥

Page 311Permalink

२५२ रघुवंशमहाकाव्ये

अन्वयः—सुजातयोः स्तनयोः क्षणमात्रसखीं ताम् अवलोक्य विह्वला नरोत्तमप्रिया तमसा हृतचन्द्रा कौमुदी इव निमिमील ।

क्षणमिति । सुजातयोः सुजन्मनोः । सुन्दरयोरित्यर्थः । स्तनयोः क्षणमात्रं सखीं सखीमिव स्थितां सुजातत्वसाधर्म्यात्स्रजः स्तनसखीत्वमिति भावः । तां स्रजमवलोक्येषद्दृष्ट्वा विह्वला परवशा नरोत्तमप्रियेन्दुमती तमसा राहुणा । ‘तमस्तुः राहुः स्वर्भानुः’ इत्यमरः । हृतचन्द्रा कौमुदी चन्द्रिकेव निमिमील मुमोह । ‘निमीलो दीर्घनिद्रा च’ इति हलायुधः । कौमुद्या निमीलनं प्रतिसंहार ।

भाषार्थ—अज की प्रिया इन्दुमती ने अपने सुन्दर स्तनों पर क्षण मात्र पड़ी हुई उस माला को देखा और व्याकुल होकर आँखें बन्द कर ली मानो राहु ने चन्द्रमा को ग्रस कर उसकी चांदनी नष्ट कर दिया अर्थात् जैसे राहु से ग्रस्त होने पर चन्द्रमा की चांदनी नष्ट हो जाती है वैसे ही उस माला के आघात से इन्दुमती मर गई ॥ ३७ ॥

वपुषा करणोज्झितेन सा निपतन्ती पतिमप्यपातयत् ।
ननु तैलनिषेकबिन्दुना सह दीपार्चिरुपैति मेदिनीम् ॥ ३८ ॥

अन्वयः—करणोज्झितेन वपुषा निपतन्ती सा पतिम् अपि अपातयत् दीपार्चिः तैलनिषेकबिन्दुना सह मेदिनीम् उपैति ननु ।

वपुषेति । करणैरिन्द्रियैरूज्झितेन मुक्तेन । ‘करणं साधकतमं लेशगात्रेन्द्रि-येष्वपि’ इत्यमरः । वपुषा निपतन्ती सेन्दुमती पतिमजमप्यपातयत्पातयति स्म । तथाहि निषिच्यते इति निषेकः तैलस्य निषेकस्तैलनिषेकः । क्षरतैलमित्यर्थः । तस्य बिन्दुना सह दीपार्चिर्दीपज्वाला मेदिनीं भुवंमुपैत्येव । नन्वत्रावधारणे । ‘प्रश्नावधारणा नुज्ञानु नयामन्त्रणे ननु’ इत्यमरः । इन्दुमत्या दीपार्चिरुपमानम् । अजस्य तैलविन्दुः तत एव तस्या जीवितसमाप्तिस्तस्य जीवितशेषश्च सूच्यते ।

भाषार्थ—प्राणहीन होकर शरीर से गिरती हुई उस इन्दुमती ने अपने पति अज को भी गिरा दिया अर्थात् इन्दुमती के गिरते ही अज भी वेहोश होकर गिर गये । क्योंकि गिरते हुए तेल की बूंदों के साथ क्या दीपक की लो पृथ्वी पर नहीं गिर पड़ती है ॥ ३८ ॥

उभयोरपि पार्श्ववर्तिनां तुमुलैनातंरवेण वेजिताः ।
विहगाः कमलाकरालयाः समदुःखा इव तत्र चुक्रुशुः ॥ ३६ ॥

अन्वयः—उभयोः पार्श्ववर्त्तिनाम् तुमुलेन आतंरवेण वेजिता । कमलाकरालयाः विहगाः अपि तत्र समदुःखा इव चुक्रुशुः ।

अष्टमः सर्गः २५३

Page 312Permalink

अष्टमः सर्गः २५३

उभयोरिति। उभयोर्दम्पत्योः पार्श्ववर्तिनां परिजनानां तुमुलेन संकुलेनातर्तर- वेण करुणस्वनेन वेजिता भीताः कमलाकरालयाः। सरःस्थिता विहगा हंसाद- योऽपि तत्रोपवने समदुःखा इव तत्पार्श्ववर्तिनां समानशोका इव। चुक्रुशुः क्रोशन्ति स्म।

भावार्थ—अज और इन्दुमती के पास में वर्तमान सेवकों के रोने और चिल्लाने से उस उपवन के पक्षी भी उद्विग्न होकर चिल्लाने लगे, मानों उनके समान दुखी होकर वे समवेदना प्रकट कर रहे थे ॥ ३९ ॥

नृपतेर्व्यजनादिभिस्तमो नुनुदे सा तु तथैव संस्थिता।
प्रतिकारविधानमायुषः सति शेषे हि फलाय कल्पते ॥ ४० ॥

अन्वयः—सेवकैः नृपतेः तमः व्यजनादिभिः नुनुदे। सा तु तथा एव संस्थिता हि प्रतिकारविधानम् आयुषः शेषे सति फलाय कल्पते।

नृपतेरिति। नृपतेरजस्य तमोऽज्ञानं व्यजनादिभिः साधनैर्नुनुदेऽपसारितम्। आदिशब्देन जलसेककर्पूरक्षोदादयो गृह्यन्ते। सा त्विन्दुमती तथैव संस्थिता मृता। तथाहि प्रतिकारविधानं चिकित्साकरणं आयुषो जीवितकालस्य शेषे सति विद्यमाने। 'आयुर्जीवितकालो ना' इत्यमरः। फलाय सिद्धये कल्पत आरोग्याय भवति। "क्लृपि संपद्यमाने च" इति चतुर्थी। नान्यथा। नृपतेरायुः शेषसद्भावात्प्रतीकारस्य साफल्यं तस्यास्तु तदभावाद्वैफल्यमित्यर्थः।

भावार्थ—पंखा डुलवाना चन्दनमिश्रित जलसेक आदि ठण्डे उपचारों से किसी प्रकार अज की मूर्च्छा तो दूर हो गई, किन्तु इन्दुमती ज्यों की त्यों पड़ी रही क्योंकि दवा आयुशेष रहने पर ही काम करती है ॥ ४० ॥

प्रतियोजयितव्यवल्लकीसमवस्थामथ सत्त्वविप्लवात्।
स निनाय नितान्तवत्सलः परिगृह्योचितमङ्कमङ्गनाम् ॥ ४१ ॥

अन्वयः—अथ नितान्तवत्सलः सः सत्त्वविप्लवात् प्रतियोजयितव्यवल्लकीसमवस्थाम् अङ्गनां परिगृह्य अङ्कं निनाय।

प्रतीति। अथ सत्त्वस्य चैतन्यस्य विप्लवाद्दिनाशाद्धेतोः। 'द्रव्यासुव्यवसायेषु सत्त्वम्' इत्यमरः। प्रतियोजयितव्या तन्त्रीभिर्योजनीया। न तु योजिततन्त्रीत्यर्थः। या वल्लकी वीणा तस्याः समावस्था दशा यस्यास्तामङ्गनां वनितां नितान्तवत्सलोऽतिप्रेमवान्सोऽजः परिगृह्य हस्ताभ्यां गृहीत्वोचित परिचितमङ्कमुत्सङ्गं निनाय नीतवान्। वल्लकीपक्षे तु सत्त्वं तन्त्रीणामवष्टम्भकः शलाकाविशेषः।

भावार्थ—तब प्रिया के अत्यन्त प्रेमी उस अज ने चेतनाशून्य अपनी प्रियपत्नी

Page 313Permalink

२५४ रघुवंशमहाकाव्ये

इन्दुमती को उठाकर उसी प्रकार अपनी गोद में रख लिया जिस प्रकार गायक तार मिलाने के लिए वीणा को अपनी गोद में रख लेते हैं ॥ ४१ ॥

पतिरङ्कनिषण्णया तया करणापायविभिन्नवर्णया ।
समलक्ष्यत बिभ्रदाविलां मृगलेखामुषसीव चन्द्रमाः ॥ ४२ ॥

अन्वयः—पतिः अङ्कनिषण्णया करणापायविभिन्नवर्णया तया उषसि आविलां मृगलेखां बिभ्रत् इव समलक्षत ।

पतिरिति । पतिरजोऽङ्कनिषण्णयोत्सङ्गस्थितया करणानामिन्द्रियाणां तदुपलक्षितस्य चैतन्यस्य वो अपायेनापगमेन हेतुना विभिन्नवर्णया विच्छायया तया "इत्थंभूतलक्षणे" इत्यनेन तृतीया । उषसि प्रातःकाले आविलां मलिनां मृगलेखां लाञ्छनं मृगरेखामुपं बिभ्रद्धारयंश्चन्द्रमा इव समलक्ष्यतादृश्यत । इत्युपमा ।

भाषार्थ—प्राण निकल जाने से शोभाहीन इन्दुमती को अपनी गोद में लिए हुए राजा अज उस प्रातःकालीन चन्द्रमा के समान दिखाई दे रहे थे जिनकी गोद में मलिन मृग की छाया हो ॥ ४२ ॥

  • विललाप स बाष्पगद्गदं सहजामप्यपहाय धीरताम् ।
    अभितप्तमयोऽपि मार्दवं भजते कैव कथा शरीरिषु ॥ ४३ ॥

अन्वयः—सः सहजां अपि धीरताम् अपहाय बाष्पगद्गदं विललाप अभितप्तम् अयः अपि मार्दवं भजते शरीरिषु कथैव का अस्ति ।

विलापेति । सोऽजः सहजां स्वाभाविकीमपि धीरतां धैर्यमपहाय विप्रकीर्ये बाष्पेण कण्ठगतेन गद्गदं विशीर्णाक्षरं तथा ध्वनिमात्रानुकारिगद्गदशब्दैर्विललाप परिदेवितवान् । 'विलापः परिदेवनम्' इत्यमरः । धीरस्य कुतः शोक इति चेदत् आह—अभितप्तमग्निना संतप्तमयो लोहमचेतनमपि मार्दवं मृदुत्वमवैरत्वं च भजते प्राप्नोति । शरीरिषु अभिसन्तप्तेष्विति शेषः । विषये कैव कथा वार्ता अनुक्तसिद्धमित्यर्थः ।

भाषार्थ—वे अज अपने स्वाभाविक धैर्य को छोड़कर आंसू से गद्गद होकर विलाप करने लगे, जब अचेतन लोहा भी अग्नि में तपाये जाने पर पिघल जाता है तब शोक से सन्तप्तप्राणियों का क्या कहना है ? ॥ ४३ ॥

कुसुमान्यपि गात्रसंगमात्प्रभवन्त्यायुरपोहितं यदि ।
न भविष्यति हन्त ! साधनं किमिवान्यत्प्रहरिष्यतो विधेः ॥ ४४ ॥

अन्वयः—कुसुमानि अपि गात्रसङ्गमात् आयुः अपोहितुं प्रभवन्ति यदि हन्त, प्रहरिष्यतः विधेः अन्यत् किं इव साधनं न भविष्यति ।

अष्टमः सर्ग २५५

Page 314Permalink

अष्टमः सर्ग २५५

कुसुमानीति । कुसुमानि पुष्पाण्यपि । अपिशब्दो नितान्तमार्दवद्योतनार्थः । गात्रसंगमाद्देहसंसर्गादायुरपोहितुमपहर्तुं प्रभवन्ति यदि । हन्त विषादे । ‘हन्त हर्षे-ऽनुकम्पायां वाक्यारम्भविषादयोः’ इत्यमरः । प्रहरिष्यतो हन्तुमिच्छतो विधेर्दैवस्यान्यत्कुसुमातिरिक्तं किमिव वस्तु । इवशब्दा वाक्यालंकारे कीदृशमित्यर्थः । साधनं प्रहरणं न भविष्यति न भवेत् सर्वमपि साधनं भविष्यत्येवेत्यर्थः ।

**भाषार्थ—**अज विलाप करते हुए कहते जा रहे हैं कि यदि फूल भी शरीर-पर गिरने से प्राण लेने में समर्थ हो सकते हैं तो, हाय ! मारने की इच्छा करने वाले दैव का साधन दूसरी कौन वस्तु नहीं हो सकती है ? अर्थात् सभी वस्तुयें प्राण-घातक हो सकती हैं ॥ ४४ ॥

अथवा मृदु वस्तु हिंसितुं मृदुनेवारभते प्रजान्तकः । हिमसेकविपत्तिरत्र मे नलिनी पूर्वनिदर्शनं मता ॥ ४५ ॥

**अन्वयः—**अथवा प्रजान्तकः मृदु वस्तु मृदुना एव हिंसितुम् आरभते अत्र हिमसेकविपत्तिः नलिनी मे पूर्वनिदर्शनं मता आस्त ।

अथवेति । अथवा पक्षान्तरे प्रजान्तकः कालो मृदु कोमलं वस्तु मृदुनैव हिंसितुं हन्तुमारभत उपक्रमते । अत्रार्थे हिमसेकेन तुषारनिष्यन्देन विपत्तिर्मृत्यु-र्यस्याः सा तथा । नलिनी पद्मिनी मे पूर्वं प्रथमं निदर्शनमुदाहरणं मता । द्वितीयं निदर्शनं पुष्पमृत्युरिन्दुमतीति भावः ।

**भाषार्थ—**अथवा काल कोमल वस्तुओं को मारने के लिये कोमल पदार्थों का प्रयोग करता है। इस विषय में तुषार के गिरने से नष्ट होने वाली नलिनी ही प्रत्यक्ष प्रमाण है ॥ ४५ ॥

स्रगियं यदि जीविता पहा हृदये किं निहिता न हन्ति माम् । विषमप्यमृतं क्वचिद्भवेद मृतं वा विषमीश्वरेच्छया ॥ ४६ ॥

**अन्वयः—**इयं स्रक् यदि जीविता पहा अस्ति हृदये निहिता सती मां किं न हन्ति, ईश्वरेच्छया क्वचित् विषम् अपि अमृतं भवेत् क्वचित् अमृतं वा विषं भवेत् ।

स्रगिति । इयं स्रग्जीवितमपहन्तीति जीविता पहा यदि हृदये वक्षसि । 'हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । निहिता सती मां किं न हन्ति । ईश्वरेच्छया क्वचित्प्रदेशे विषमप्यमृतं भवेत्क्वचिदमृतं वा विषं भवेत् । दैवमेवात्र कारण-मित्यर्थः ।

**भाषार्थ—**यदि यह माला मारनेवाली है तो हृदय पर रखी हुई मुझको क्यों नहीं मारती ? ठीक ही है, ईश्वर की इच्छा से ही विष भी अमृत हो जाता है और कहीं अमृत भी विष हो जाता है ॥ ४६ ॥

Page 315Permalink

२५६ रघुवंशमहाकाव्ये

अथवा मम भाग्यविप्लवादशनिः कल्पित एष वेधसा ।
यदनेन तरुर्न पातितः क्षपिता तद्विटपाश्रिता लता ॥ ४७ ॥

अन्वयः—अथवा मम भाग्यविप्लवात् वेधसा एषः अशनिः कल्पितः यत् अनेन तरुः न पातितः किन्तु तद्विटपाश्रिता लता क्षपिता ।

अथवेति । अथवा मम भाग्यस्य विप्लवाद्दिपर्ययादेषः स्रगित्यर्थः । विधेयप्राधान्यात्पुंलिङ्गनिर्देशः । वेधात्राऽशनिर्वैद्युतोऽग्निः कल्पितः । 'दम्भोलि- रशनिर्द्वयोः' इत्यमरः । यद्यस्मादनेनाप्यशनिना प्रसिद्धाशनिनेव तरुस्तरुस्थानीयः स्वयमेव न पतितः । किन्तु तरोर्विटपाश्रिता लता वल्ली क्षपिता नाशिता ।

भाषार्थ—अथवा मेरे दुर्भाग्य से विधाता ने इस पुष्पमाला को बज्र बना दिया है जिसने वृक्षरूपी मुझ अजको तो नहीं गिराया किन्तु मेरे सहारे रहनेवाली लता रूपी इन्दुमती को नष्ट कर डाला ॥ ४७ ॥

कृतवत्यसि नावधीरणामपराद्धेऽपि यदा चिरं मयि ।
कथमेकपदे निरागसं जनमाभाष्यमिमं न मन्यसे ॥ ४८ ॥

अन्वयः—मयि चिरम् अपराद्धे अपि यदा त्वम् अवधीरणां न कृतवती असि, तत् कथम् एकपदे निरागसम् इमं जनं आभाष्यं न मन्यसे ।

कृतवतीति । मयि चिरं भूरिशोऽपराद्धेऽप्यपराधं कृतवत्यपि । राधेः कर्तरि क्तः । यदा यस्माद्धेतो यदेति हेत्वर्थः । 'स्वरादौ पठ्यते यदेति हेतो' इति गण- व्याख्यानात् । अवधीरणामवज्ञां न कृतवत्यसि नाकार्षीः । तत्कथमेकपदे तत्क्षणे । स्यात्तत्क्षण एकपदम्' इति विश्वः । निरागसं नितरामनपराधमिमं जनम् । इम- मिति स्वात्मनिर्देशः । मामित्यर्थः । आभाष्यं सम्भाष्यं न मन्यसे न चिन्तयसि ।

भाषार्थ—(अब इन्दुमती के प्रति अज कहते हैं) हे प्रिये ! जब कई बार अपराध करने पर भी तुमने कभी मेरा अपमान नहीं किया, तब आज एकाएक अपराधी के समान मुझसे बोलना तुमने क्यों बन्द कर दिया ॥ ४८ ॥

ध्रुवमस्मि शठः शुचिस्मिते ! विदितः कैतववत्सलस्तव ।
परलोकमसंनिवृत्तये यदनापृच्छ्य गताऽसि मामितः ॥ ४६ ॥

अन्वयः—हे शुचिस्मिते ! शठः कैतववत्सलः इति ध्रुवं तव विदितः अस्मि यत् मां अनापृच्छ्य असंनिवृत्तये इतः परलोकं गता असि ।

ध्रुवमिति । हे शुचिस्मिते धवलहसिते ! गूढविप्रियकारी कैतवेन कपटेन वत्सलः कैतवस्निग्ध इति ध्रुवं सत्यं तव विदितस्त्वया विज्ञातोऽस्मि । "मतिबुद्धि पूजार्थेभ्यश्च" इत्यनेन कर्तरि क्तः । "तस्य च वर्तमाने" इति कर्तरि षष्ठी । कुतः यद्यस्मान्मानामपृच्छ्ययानामन्त्र्येतोऽस्माल्लोकात्परलोकमसंनिवृत्तये गताऽसि ।