रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
अष्टमः सर्गः | २६९
| अष्टमः सर्गः | २६९ |
|---|
त्कस्माच्चिवदृषेः परिशङ्कितो भीतः। कर्तरि क्तः “भीत्रार्थानां भयहेतुः” इत्य- पादानात्पञ्चमी। हरिरिन्द्रः समाधिभेदिनीं तपोविघातिनीं हरणीं नाम सुरांग- नामस्मै तृणबिन्दवे प्रजिघाय प्रेरितवान्।
**भाषार्थ—**एक बार तृणविन्दु नामक ऋषि अतिकठोर तपस्या कर रहे थे, उनकी उग्र तपस्या से डरकर इन्द्र ने उनकी तपस्या भंग करने के लिए हरिणी नाम की अप्सरा को भेजा॥ ७९॥
स तपःप्रतिबन्धमन्युना प्रमुखाविष्कृतचारुविभ्रमाम्।
अशपद्भव मानुषीति तां शमवेलाप्रलयोर्मिणा भुवि॥ ८०॥
**अन्वयः—**सः शमवेलाप्रलयोर्मिणा तपः प्रतिबन्धमन्युना प्रमुखाविष्कृत-चारुविभ्रमां तां भुवि मानुषी भव इति अशपत्।
स इति। स मुनिः शमः शान्तिरेव वेला मर्यादा तस्या प्रलयोर्मिणा प्रलय-कालतरङ्गेण शमविघातकेनेत्यर्थः। ‘अब्ध्यम्बुधिकृतौ वेला कालमर्यादयोरपि इत्यमरः। तपसः प्रतिबन्धेन विघ्नेन यो मन्युः क्रोधस्तेन हेतुना प्रमुखेऽग्रे आवि-ष्कृतचारुविभ्रमां प्रकाशितमनोहरविलासां तां हरिणीं भुवि भूलोके मानुषी मनुष्यस्त्री भवेत्यशपच्छशाप।
**भाषार्थ—**जिस प्रकार प्रलय काल की लहर समुद्र के तट को गिरा देती है उसी प्रकार ऋषि को तपस्या से डिगाने के लिए वह अप्सरा वहां जा पहुँची और अनेक प्रकार का शृङ्गारमय हाथ भाव दिखाने लगी। उसे देखते ही मुनि ने तपस्या में बाधा उपस्थित होने के कारण क्रोध से उसको शाप दे दिया कि तू मनुष्य की स्त्री हो जा॥ ८०॥
भगवन्परवानयं जनः प्रतिकूलाचरितं क्षमस्व मे।
इति चोपनतां क्षितिस्पृशं कृतवानासुरपुष्पदर्शनात्॥ ८१॥
**अन्वयः—**हे भगवन्! अयं जनः परवान् (अस्ति) मे प्रतिकूलाचरितं क्षमस्व इति उपनतां ऋषिः आसुरपुष्पदर्शनात् क्षितिस्पृशम् कृतवान्।
भगवन्निति। हे भगवन्महर्षे! अयं जनः परोऽस्यास्तीति स्वामित्वेन परवा-न्पराधीनः। इन्द्राधीन इत्यर्थः। अयमित्यात्मनिर्देशः अहं पराधीनेत्यर्थः। मे मम प्रतिकूलाचरितमपराधं क्षमस्वेत्यनेन प्रकारेणोपनतां शरणागतां च हरिणीमासुर-पुष्पदर्शनात्सुरपुष्पदर्शनपर्यन्तं क्षिति स्पृशतीति क्षितिस्पृक् तां क्षितिस्पृशां मानपीं कृतवानकरोत्। दिव्यपुष्पदर्शनं शापावधिरित्यनुगृहीतवानित्यर्थः।
भाषार्थ—(शाप सुनते ही वह अप्सरा घबड़ा उठी और हाथ जोड़कर
२७० रघुवंशमहाकाव्ये
कहने लगी—) हे भगवन् ! मैंने इन्द्र के कहने से यह काम किया है, इसमें मेरा कुछ भी दोष नहीं है, इस विपरीत व्यवहार को आप क्षमा कीजिए। इस प्रकार उस अप्सरा की प्रार्थना सुनकर ऋषि ने जब तक तुम्हें स्वर्गीय पुष्प नहीं दिखाई पड़ेगा, तब तक तुम्हें पृथ्वी पर रहना ही पड़ेगा ऐसा कह कर उस अप्सरा पर अनुग्रह किया ॥ ८१ ॥
क्रथकैशिकवंशसंभवा तव भूत्वा महिषी चिराय सा ।
उपलब्धवती दिवश्च्युतं विवशा शापनिवृत्तिकारणम् ॥ ८२ ॥
अन्वयः—क्रथकैशिकवंशसंभवा सा तव महिषी भूत्वा चिराय दिवः च्युतं शापनिवृत्तिकारणम् उपलब्धवती सा विवशा अभूत् ।
क्रयेति । क्रथकैशिकानां राज्ञां वंशे संभवो यस्याः सा हरिणी तव महिष्यभिषिक्ता स्त्री । 'कृताभिषेका महिषी' इत्यमरः। भूत्वा चिराय दिवः स्वर्गच्युतं पतितं शापनिवृत्तिकारणं सुरपुष्परूपमुपलब्धवती । विवशा अभूदिति शेषः । मृतेत्यर्थः ।
भाषार्थ—वही अप्सरा विदर्भवंश में उत्पन्न होकर बहुत दिनों तक तुम्हारी पटरानी बनी रही। अब स्वर्ग से गिरे हुए शाप की निवृत्ति के कारण स्वर्गीय पुष्पमाला को देख कर वह शाप से मुक्त होकर स्वर्ग चली गई ॥ ८२ ॥
तदलं तदपायचिन्तया विपदुत्पत्तिमंतामुपस्थिता ।
वसुधेयमवेक्ष्यतां त्वया वसुमत्या हि नृपाः कलत्रिणः ॥ ८३ ॥
अन्वयः—तत् तदपायचिन्तया अलम् उत्पत्तिमन्तां विपद् उपस्थिता (अतः) त्वया इयं वसुधा अवेक्ष्यतां । हि नृपाः वसुमत्या कलत्रिणः भवन्ति ।
तदिति । ततस्मात्तस्या अपायचिन्तयालं तस्या मरणं न चिन्त्यमित्यर्थः । निषेधक्रियां प्रति करणत्वाच्चिन्तयेति तृतीया । कुतो न चिन्त्यमत आह—उत्पत्तिमतां जन्मवतां विपद्विपत्तिरुपस्थिता सिद्धा । 'जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च' इत्यर्थः । तथापि कलत्ररहितस्य किं जीवितेन तत्राह—त्वयेयं वसुधा भूमिरवेक्ष्यतां पाल्यताम् । हि यस्मान्नृपा वसुमत्या पृथिव्या कलत्रिणः कलत्रवन्तः अतो न शोचितव्यमित्यर्थः ।
भाषार्थ—इस कारण उसकी मृत्यु की चिन्ता करना व्यर्थ है क्योंकि जो जन्म लेता है वह एक न एक दिन मरता ही है । अतः आप शोक छोड़ कर सावधान हो पृथ्वी का पालन कीजिए, क्योंकि राजाओं की सच्ची सहधर्मिणी तो पृथ्वी ही है ॥ ८३ ॥
अष्टमः सर्गः २७१
अष्टमः सर्गः २७१
उदये मदवाच्यमुज्झता श्रुतमाविष्कृतमात्मवत्त्वया ।
मनसस्तदुपस्थिते ज्वरे पुनरक्लीबतया प्रकाश्यताम् ॥ ८४ ॥
अन्वयः—उदये सति मदवाच्यम् उज्झता त्वया यत् आत्मवत् श्रुतम् आविष्कृतं, तत् मनसः ज्वरे उपस्थिते सति अक्लीबतया पुनः प्रकाश्यताम् ।
उदय इति । उदयेऽभ्युदये सति मदेन यद्वाच्यं निन्दादुःखं तदुज्झता परिहरता सत्यपि मदहेतावमाद्यता त्वया यदात्मवदध्यात्मप्रचुरं श्रुतं शास्त्रं तज्जनितं ज्ञानमिति यावत् । आविष्कृतं प्रकाशितं तच्छ्रुतं मनसो ज्वरे सन्ताप उपस्थिते प्राप्तेऽक्लमतया धैर्येण लिङ्गेन पुनः प्रकाश्यताम् । विदुषा सर्वास्रवस्थास्वपि धीरेण भवितव्यमित्यर्थः ।
भाषार्थ—ऐश्वर्य पाकर राजा लोग मतवाले हो जाते हैं किन्तु आप सुख के दिनों में भी इस अपयश से बचे रहे और अभिमान छोड़कर आपने अपने जिस प्रकार अध्यात्म ज्ञान का परिचय दिया है उसी प्रकार इस दुःख के समय में भी धीरज धर कर आप मन को शान्त करने के लिए पुनः उसी अध्यात्मज्ञान का प्रकाश कीजिए ॥ ८४ ॥
रुदता कुत एव सा पुनर्भवता नानुमृतापि लभ्यते ।
परलोकजुषां स्वकर्मभिर्गतयो भिन्नपथा हि देहिनाम् ॥ ८५ ॥
अन्वयः—रुदता भवता सा कुतः एव लभ्यते, अनुमृता अपि पुनः न लभ्यते । हि परलोकजुषां देहिनां गतयः सुकर्मभिः भिन्नपथा भवन्ति ।
रुदतेति । रुदता भवता सा कुत एव लभ्यते न लभ्यत एव । अनुम्रियत इत्यनुमृत् । क्विप् । तेनानुमृताऽनुभवतापि भवता पुनर्न लभ्यते । कथं न लभ्यत इत्याह—परलोकजुषां लोकान्तरभाजां देहिनां इति गतयो गम्यस्थानानि स्वकर्मभिः पूर्वाचरितपुण्यपापैभिन्नपथाः पृथक्कृतमार्गा हि । परत्रापि स्वस्वधर्मानुरूपफलभोगाय भिन्नदेहगमनान्न मृतेनापि लभ्यत इत्यर्थः ।
भाषार्थ—रोने को तो बात ही क्या ! यदि आप रोते रोते मर भी जाय तो अब उस इन्दुमती को नहीं पा सकते हैं क्योंकि मरने पर सब प्राणी अपने-अपने कर्मों के अनुसार भिन्न भिन्न मार्ग से जाते हैं ॥ ८५ ॥
अपशोकमनाः कुटुम्बिनोमनुगृह्णीष्व निवापदत्तिभिः ।
स्वजनाश्रु किलातिसंततं दहति प्रेतमिति प्रचक्षते ॥ ८६ ॥
अन्वयः—अपशोकमनः सन् कुटुम्बिनीं, निवापदत्तिभिः त्वम् अनुगृह्णीष्व अतिसन्ततं स्वजनाश्रु प्रेतं दहति इति प्रचक्षते किल ।
अपेति । किंत्वपशोकमना निर्दुःखचित्तः सन्कुटुम्बिनीं पत्नीं निवापदत्तिभिः
२७२ रघुवंशमहाकाव्ये
पिण्डोदकादिदानैरनुगृह्णीष्व तर्पयेत्यर्थः । अन्यथा दोषमाह—अतिसंततमविच्छिन्नं स्वजनानां बन्धूनाम् । 'बन्धुस्स्वस्वजसाः समाः' इत्यमरः । अश्रु कर्तृ प्रेतं मृतं दहतीति प्रचक्षते मन्वादयः किल । अत्र याज्ञवल्क्यः—“श्लेष्माश्नु बन्धुनिर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः । अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः” ।
**भाषार्थं—**हे राजन् ! अब आप मन से शोक त्याग कर पिण्डदान आदि करके अपनी पत्नी इन्दुमती का परलोक सुधारिये क्योंकि निरन्तर बहने वाले कुटुम्बियों के आंसू मृतात्मा को जलाते हैं, ऐसा शास्त्रों का सिद्धान्त है । अर्थात् कुटुम्बी जितने रोते हैं उतता ही प्रेतात्मा को कष्ट मिलता है ॥ ८६ ॥
मरणं प्रकृतिः शरीरिणां विकृतिर्जीवितमुच्यते बुधैः ।
क्षणमप्यवतिष्ठते श्वसन्यदि जन्तुर्ननु लाभवानसौ ॥ ८७ ॥
**अन्वयः—**शरीरिणां मरणं प्रकृतिः जीवितं विकृतिः इति बुधैः उच्यते । जन्तुः क्षणम् अपि श्वसन् अवतिष्ठते यदि असौ लाभवान् अस्ति ननु ।
मरणमिति । शरीरिणां मरण प्रकृतिः स्वभावः ध्रुवमित्यर्थः । जीवितं विकृतिर्यादृच्छिकं बुधैरुच्यते । एवं स्थिते जन्तुः प्राणी क्षणमपि । अत्यन्तसंयोगे द्वितीया । श्वसञ्जीवन्नवतिष्ठते यद्यसौ क्षणजीवी लाभवान्नु । जीवने यथालाभं सन्तोष्व्यम् । अलभ्यलाभात् मरणे तु न शोचितव्यम् । अस्य स्वाभाव्यादिति भावः । अत्र मरणशब्देन स्थूलशरीरत्यागोऽवगन्तव्यः ।
**भाषार्थ—**शरीर धारियों का मरना स्वभाव और जीना विकार कहा जाता है इसलिए प्राणी जितने क्षण भी जी जाय, उतने से ही उसे सन्तोष करना चाहिए ॥ ८७ ॥
अवगच्छति मूढचेतनः प्रियनाशं हृदि शल्यमर्पितम् ।
स्थिरधीस्तु तदेव मन्यते कुशलद्वारतया समुद्धृतम् ॥ ८८ ॥
अन्वयः— मूढचेतनः प्रियनाशं हृदि अर्पितं शल्यम् अवगच्छति, तु स्थिरधीः तत् एव कुशलद्वारतया समुद्धृतं मन्यते ।
अवेति । मूढचेतनो भ्रान्तबुद्धिः प्रियनाशमिष्टनाशं हृद्यर्पितं निखातं शल्यं शङ्कुमवगच्छति मन्यते । स्थिरधीर्विद्वांस्तु तदेव शल्यं समृद्धृतमुत्खातं मन्यते । प्रियनाशे सतीति शेषः कुतः कुशलद्वारतया प्रियनाशस्य मोक्षोपायतयेत्यर्थः । विषयलाभविनाशयोर्यथाक्रमं हिताहितसाधनत्वाभिमानः पामराणां विपरीतं तु विपश्चितामिति भावः ।
**भाषार्थ—**भ्रान्त बुद्धिवाले प्रियजन के नाश को हृदय में गड़ा हुआ कील
अष्टमः सर्गः २७३
अष्टमः सर्गः २७३
समझते हैं किन्तु विद्वान् उसी को खुला हुआ मोक्ष का द्वार मानते हैं। उनकी समझ में मृत्यु वैसा ही सुख देती है जैसे हृदय में गड़ी हुई कील के निकल जाने पर होता है ॥ ८८ ॥
स्वशरीरशरीरिणावपि श्रुतसंयोगविपर्ययौ यदा ।
विरहः किमिवानुतापयेद्वद बाह्यैर्विषयैर्विपश्चितम् ॥ ८९ ॥
अन्वयः— स्वशरीरशरीरिणौ अपि यदा श्रुतसंयोगविपर्ययौ स्तः तदा बाह्यैः विषयैः विरहः विपश्चितं किम् इव अनुतापयेत् त्वम् वद ।
स्वेति । स्वस्य शरीरशरीरिणौ देहात्मानावपि यदा यतः श्रुतौ श्रुत्यवगतौ संयोगविपर्ययौ संयोगवियोगौ ययोस्तौ तथोक्तौ तदा बाह्यैर्विषयैः पुत्रमित्रकलत्रादिभिर्विरहो विपश्चितं विद्वांसं किमिवानुतापयेत्त्वं वद । न किंचिदित्यर्थः । अथवा स्वशब्दस्य शरीरेणैव संबन्धः ।
भाषार्थ— आप ही बताइए जब शरीर और आत्मा भी आपस में बिछुड़ने वाले हैं तब क्या पुत्र स्त्री आदि बाहरी सम्बन्धियों के विछोह से विद्वानों को कदापि शोक नहीं करना चाहिए ? ॥ ८९ ॥
न पृथग्जनवच्छुचो वशं वशिनामुत्तम ! गन्तुमर्हसि ।
द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेऽपि ते चलाः ॥ ९० ॥
अन्वयः— हे वशिनाम् उत्तम ! त्वम् पृथग्जनवत् शुचः वशं गन्तुं न अर्हसि द्रुमसानुमतां किम् अन्तरं यदि वायौ सति द्वितये अपि ते चलाः स्युः ।
नेति । हे वशिनामुत्तम जितेन्द्रियवर्य ! पृथग्जनवत्पामरजनवच्छुचः शोकस्य वशं गन्तुं नार्हसि । तथाहि द्रुमसानुमतां तुरुशिखरिणां किमन्तरं को विशेषः । वायौ सति द्वितयेऽपि द्विप्रकारा अपि । “प्रथमचरम०” इत्यादिना जसि विभाषया सर्वनामसंज्ञा । ते द्रुमसानुमन्तश्चलाश्चञ्चला यदि सानुमतामपि चलने द्रुमवत्तेषामप्यचलसंज्ञा न स्यादित्यर्थः ।
भाषार्थ— हे जितेन्द्रियों में श्रेष्ठ अज ! साधारण मनुष्यों के समान आपको इन्दुमती के लिए शोक के वश में होना उचित नहीं क्योंकि वायु के बहने पर यदि वृक्ष और पर्वत दोनों चञ्चल हो उठें तो उन दोनों में अन्तर ही क्या रह जायेगा ? अतः शोक के कारण उपस्थित होने पर भी वायु के बहने पर पर्वत के समान आपको स्थिर रहना चाहिए ॥ ९० ॥
१८ र० सम्प्र०
२७४ | रघुवंशमहाकाव्ये
स तथेति विनेतुरदारमतेः प्रतिगृह्य वचो विससर्ज मुनिम् ।
तदलब्धपदं हृदि शोकघने प्रतियातमिवान्तिकमस्य गुरोः ॥ ९१ ॥
अन्वयः—सः उदारमतेः विनेतुः गुरोः वचः तथा इति प्रतिगृह्य मुनिं विससर्ज 'किन्तु तत् शोकघने अस्य हृदि अलब्धपदं सद् गुरो अन्तिकं प्रतियातम् इव बभूव ।
संस्कृत टीका—स इति । सोऽज उदारमतेर्विनेतुर्गुरोर्वसिष्ठस्य वचस्तच्छिष्यमुखेरितं तथेति प्रतिगृह्याङ्गीकृत्य मुनिं वसिष्ठं शिष्यं विससर्ज प्रेषयामास । किंतु तद्वचः शोकघने दुःखसान्द्रेऽस्याजस्य हृद्यलब्धपदमप्राप्तावकाशं सद्गुरोर्वसिष्ठस्यान्तिकं प्रतियातमिव प्रतिनिवृत्तं किमु इत्युत्प्रेक्षा । तोटकवृत्तमेतत्—'इह तोटकमम्बुधिरसैः प्रथितम्' इति तल्लक्षणम् ।
भावार्थ—उस अज ने विद्वान् शिक्षक और उदारहृदय गुरु वसिष्ठजी के भेजे हुए सन्देश को ठीक है ऐसा कहकर उनके शिष्य को इस प्रकार विदा कर दिया मानो अपने शोक भरे हृदय में स्थान न दे सकने से उनका उपदेश ही लौटा दिया हो । अर्थात् अत्यन्त शोकाकुल अज पर वसिष्ठजी के वचनों का कुछ भी प्रभाव नहीं पड़ा ॥ ९१ ॥
तेनाष्टौ परिगमिताः समाः कथंचिद्बालत्वादवितथसूनृतेन सूनोः ।
सादृश्यप्रतिकृतिदर्शनैः प्रियायाः स्वप्नेषु क्षणिकसमागमोत्सवैश्च ॥ ९२ ॥
अन्वयः—अवितथसूनृतेन तेन सूनोः बालत्वात् प्रियायाः सादृश्यप्रतिकृतिदर्शनैः स्वप्नेषु क्षणिकसमागमोत्सवैः च कथंचित् अष्टौ समाः परिगमिताः ।
संस्कृत टीका—तेनेति । अवितथं यथार्थं सूनृतं प्रियवचनं यस्य तेनाजेन सूनोः पुत्रस्य बालत्वाद् राज्याक्षमत्वादित्यर्थः। प्रियाया इन्दुमत्याः सादृश्यं वस्त्वंतरगतमाकारसाम्यं प्रतिकृतिश्चित्रं तयोर्दर्शनैः स्वप्नेषु क्षणिकाः क्षणभङ्गुरा ये समागमोत्सवास्तैश्च कथंचित्कृच्छ्रेण अष्टौ समा वत्सराः । 'संवत्सरो वत्सरोऽब्दो हायनोऽस्त्री शरत्समाः' इत्यमरः । परिगमिता अतिवाहिताः । उक्तं च—"वियोगावस्थासु प्रियजनसदृक्षानुभवनं ततश्चित्रं कर्म स्वपनसमये दर्शनमपि । तदङ्गस्पृष्टानामुपगतवता स्पर्शनमपि प्रतीकारः कामव्यथितमनसां कोऽपि कथितः ॥" इति । प्रकृते सादृश्यादितितयाभिधानं तदङ्गस्पृष्टपदार्थस्पृष्टेरप्युपलक्षणम् । प्रहर्षिणीवृत्तमेतत् ।
भावार्थ—सत्यभाषी अज ने पुत्र दशरथ के बालक होने के कारण, प्रिया इन्दुमती के समान चित्र आदि देखने और स्वप्नों में प्रिया के क्षणिक समागम के आनन्दों से किसी प्रकार आठ वर्ष बिताये ॥ ९२ ॥
अष्टमः सर्गः. २७५
अष्टमः सर्गः. २७५
तस्य प्रसह्य हृदयं किल शोकशङ्कुः
प्लक्षप्ररोह इव सौधतलं बिभेद ।
प्राणान्तहेतुमपि तं भिषजामसाध्यं
लाभं प्रियानुगमने त्वरया स मेने ॥ ९३ ॥
अन्वयः—शोकशंकुः तस्य हृदयं प्लक्षप्ररोहः सौधतलम् इव प्रसह्य बिभेद किल सः प्राणान्तहेतुम् अपि भिषजाम् असाध्यं तं प्रियानुगमने त्वरया लाभं मेने ।
तस्येति । शोक एव शङ्कुः कीलः 'शङ्कुः कीले शिवेऽस्त्रे च' इति विश्वः । तस्याजस्य हृदयं प्लक्षप्ररोहः सौधतलमिव प्रसह्य बलात्किल बिभेद । सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङ्कुं रोगपर्य-वसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने । तद्विरहस्यातिदुःसहत्वात्-त्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ।
भाषार्थ—जिस प्रकार अश्वत्थ वृक्ष की जड़ बड़े-बड़े मकानों की छतों को भेदकर फाड़ देती है उसी प्रकार इन्दुमती के वियोग रूप शल्य ने राजा अज के हृदय को विदीर्ण कर डाला, अज अपनी प्रिया के पीछे प्राण देने को उतावला हो गये थे कि उन्होंने प्राण हर लेने और वैद्यों से असाध्य उस शोक शंकु को भी प्रिया के अनुगमन मे सहायक ही समझा ॥ ९३ ॥
सम्यग्विनीतमथ वर्महरं कुमार-
मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
रोगोपसृष्टतनुर्दुर्वसं सति मुमुक्षुः
प्रायोपवेशनमतिर्नृपतिर्बभूव ॥ ९४ ॥
अन्वयः—अथ नृपतिः सम्यग् विनीतं वर्महरं कुमारं प्रजानाम् रक्षणविधौ विधिवत् आदिश्य रोगोपसृष्टतनुर्दुर्वसं सति मुमुक्षुः सन् प्रायोपवेशनमतिः बभूव ।
सम्यगिति । अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हस्तीति वर्महरः कवचधारणार्हवयस्कः । “वयसि च” इत्यच्प्रत्ययः । तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्दिष्ट्यहंम्। यथाशास्त्रमित्यर्थः। “तदर्हम्” इति वतिप्रत्ययः । आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वंसति दुःखावस्थिति मुमुक्षुर्जिहासुः सन् प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव । ‘प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि’ इति विश्वः । अत्र पुराणवचनम्—‘‘समा-सक्तो भवेद्यस्तु पातकैर्महदादिभिः । दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः ॥ स्वयं देहविनाशस्य काले प्राप्ते महामतिः । ब्राह्मणं वा स्वर्गादिमहा-
२७६ रघुवंशमहाकाव्ये
फलजिगीषया ॥ प्रविशेज्ज्वलनं दीप्तं कुर्यादनशनं तथा। एतेषामधिकारोऽस्ति नान्येषां सर्वजन्तुषु ॥ नराणामथ नारीणां सर्ववर्णेषु सर्वदा" इति । अनयोर्वसन्त- तिलकाच्छन्दः । तल्लक्षणम्—"उक्ता वसन्ततिलका तभजा जगौ गः" इति ।
भाषार्थ—इसके बाद राजा अज स्वभाव और संस्कार से विनीत कवच- धारी कुमार दशरथ को शास्त्रों के अनुसार प्रजा का पालन करने का उपदेश देकर अपने रोगी शरीर से छुटकारा पाने के लिए अनशन करने लगे ॥ ९४ ॥
तीर्थे तोयव्यतिकरभवे जह्नुकन्यास्रवो-
र्देहत्यागादमरगणनालेख्यमासाद्य सद्यः ।
पूर्वाकाराधिकतररुचा संगतः कान्तयाऽसौ
लीलागारेष्वरमत पुनर्नन्दनाभ्यन्तरेषु ॥ ९५ ॥
अन्वयः—असौ जह्नुकन्यास्रवत्योः तोयव्यतिकरभवे तीर्थे देहत्यागात् सद्यः अमरगणना आसाद्य पूर्वाकाराधिकतररुचा कान्तया संगतः 'सन्' नन्दनाभ्यन्तरेषु लीलागारेषु पुनः अरमत ।
तीर्थं इति । असावजो जह्नुकन्यास्रवन्त्योस्तोयानां जलानां व्यतिकरेण संभेदेन भवे तीर्थे गङ्गासरयूसंगमे देहत्यागात्सद्य एवाम रंगणनायां लेख्यं लेखनम् । "तयोरेव कृत्यक्तखलर्थाः" इति भावार्थे ण्यत्प्रत्ययः । आसाद्य प्राप्य पूर्वस्मादा- कारादधिकतरा रुप्यस्यास्तया कान्तया रमण्या सङ्गतः सन् नन्दनस्येन्द्रोद्यानस्या- भ्यन्तरेष्वन्तर्वर्तिषु लीलागारेषु क्रीडाभवनेषु पुनररमत । "यथाकथंचित्तीर्थेऽस्मि- न्देहत्यागं करोति यः तस्यात्मघातदोषो न प्राप्नुयादीप्सितान्यपि।" इति स्कान्दे। मन्दाक्रान्ताच्छन्दः। तल्लक्षणम्—"मन्दाक्रान्ता जलधिषडगैम्भो नतौ ताद्गुरू चेत्" इति ।
इति श्रीमद्दामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये अजविलापो नामाष्टमः सर्गः ॥ ८ ॥
भाषार्थ—वे राजा अज गंगा और सरयू के पवित्र संगम तीर्थ में अपना शरीर छोड़ दिये और तत्काल देवता बनकर पहले शरीर से भी अधिक सुन्दर शरीरवाली स्त्री के साथ नन्दन वन के विलास भवनों में विहार करने लगे ॥ ९५ ॥
यह त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा अन्वय ओर चन्द्रकला नाम की हिन्दी टीका में रघुवंशमहाकाव्य का अज विलाप नामक अष्टम सर्ग समाप्त हुआ ॥ ८ ॥
नवमः सर्गः
एकलोचनमेकार्धं सार्धलोचनमन्यतः ।
नीलार्धं नीलकण्ठार्धं महः किमपि मन्महे ॥
पितुरनन्तरमुत्तरकोसलान्समधिगम्य समाधिजितेन्द्रियः ।
दशरथः प्रशासात महारथो यमवतामवतां च धुरि स्थितः ॥ १ ॥
अन्वयः—समाधिजितेन्द्रियः यमवताम् च अवताम् धुरि स्थितः महारथः दशरथः पितुः अनन्तरम् उत्तरकोसलाम् समधिगम्य प्रशासास ।
पितुरिति । समाधिना संयमेन जितेन्द्रियः । 'समाधिर्नियमे ध्याने' इति केशवः-। यमवतां संयमिनायवताम् “ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यमकल्मषता । अहिंसास्तेय-माधुर्यदमञ्चेति यमाः स्मृताः ॥” इति याज्ञवल्क्यः रक्षतां राज्ञां धुर्यग्रे स्थितो महारथः “एको दश सहस्राणि योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च स महारथ उच्यते ॥” इति दशरथः पितुरनन्तरमुत्तरकोसलाअन-पदासमधिगम्य प्रशाशास । अत्र मनुः-‘क्षत्रियस्य परो धर्मः प्रजानां परिपालनम्’ इति द्रुतविलम्बितमेतद्वृत्तम् । तल्लक्षणम्—'द्रुतविलम्बितमाह नभौ भरौ' इति ।
भाषार्थ—संयम से अपनी इन्द्रियों को जीत लेने वाले संयमियों और प्रजा-पालक राजाओं में सर्वश्रेष्ठ महारथी दशरथ जी अपने पिता के बाद उत्तर कोशल के राज्य का शासन करने लगे ॥ १ ॥
अधिगतं विधिवत्तदपालयत्प्रकृतिमण्डलमात्मकुलोचितम् ।
अभवदस्य ततो गुणवत्तरं सनगरं नगरन्ध्रकरौजसः ॥ २ ॥
अन्वयः—अधिगतम् आत्मकुलोचितम् सनगरम् प्रकृतिमण्डलम् यत् विधिवत् ततः नगरन्ध्रकरौजसः अस्य ( प्रकृतिमण्डलम् ), गुणवत्तरम् अभवत् ।
अधिगतमिति । अधिगतं प्राप्तमात्मकुलोचितं स्वकुलागतं सनगरं नगरजन-सहितं प्रकृतिमण्डलं जनपदमण्डलम् । अत्र प्रकृतिशब्देन प्रजामात्रवाचिना नगर-शब्दयोगाद्गोबलीवर्दन्यायेन जानपदमात्रमुच्यते । यद्यस्माद्विधिवद्यथाशास्त्रमपा-लयत् ततो हेतोः रन्ध्रं करोतीति रन्ध्रहेतुरित्यर्थः । 'कृञो हेतुताच्छील्या-नुलोम्येषु' इति टप्रत्ययः । नगरस्य रन्ध्रकरो नगरन्ध्रकरः कुमारः । 'कुमारः क्रौञ्चदारणः'-इत्यमरः । तदोजसस्तत्तुल्यबलस्यास्य दशरथस्य गुणवत्तरमभवत् । तत्पौरजानपदमण्डलं तस्मिन्सतीवासक्तमभूदित्यर्थः ।
भाषार्थ—क्रौञ्च पर्वत को भेदन करने वाले कार्तिकेय के समान बलवान्
२७८ रघुवंशमहाकाव्ये
राजा दशरथ ने अपने पूर्वजों से पाये हुए प्रजा मण्डल को ऐसे सुन्दर ढङ्ग से पालन किया कि सारी प्रजाएँ उन्हें पहले के सभी राजाओं से बढ़कर मानने लगीं ॥ २ ॥
उभयमेव वदन्ति मनीषिणः समयवर्षितया कृतकर्मणाम् ।
बलनिषूदनमर्थपतिं च तं श्रममुदं मनुदण्डधरान्वयम् ॥ ३ ॥
अन्वयः—मनीषिणः बलनिषूदनम् च मनुदण्डधरान्वयम् तम् अर्थपतिम् उभयम् एव समयवर्षितया कृतकर्मणाम् श्रममुदम् वदन्ति ।
उभयमिति । मनस ईषिणो मनीषिणो विद्वांसः। पृषोदरादित्वात्साधुः बलनिषूदनमिन्द्रं दण्डस्य धरो राजा मनुरिति यो दण्डधरः स एवान्वयः कूटस्थो यस्य तमर्थपतिं दशरथं चेत्युभयमेव समयेऽवसरे जलं धनं च वर्षतीति समयवर्षी, तस्य भावः समयवर्षिता तया हेतुना । कृतकर्मणां स्वकर्मकारिणां नुदतीति नुत् । "इगुपधज्ञाप्रीकिरः कः” इति कप्रत्ययः । श्रमस्य नुदं श्रममुदम् । क्विबन्तत्वे नपुंसकलिङ्गेनोभयशब्देन सामानाधिकरण्यं न स्यात् इति वदन्ति ।
भाषार्थ—विद्वान् लोग कहते हैं कि संसार में दो ही व्यक्ति ऐसे हुए हैं जिन्होंने कर्तव्य पालन करने वाले लोगों को उनके परिश्रम का ठीक-ठीक मूल्य समझा है । उनमें से एक तो हैं इन्द्र जिन्होंने समय पर वृष्टि करके कृषकों का श्रम सफल किया है और दूसरे हैं मनुवंश में उत्पन्न राजा दशरथ जिन्होंने सुकर्मियों को धन देकर उनका पालन-पोषण किया ॥ ३ ॥
जनपदे न गदः पदमादधावभिभवः कुत एव सपत्नजः ।
क्षितिरभूत्फलवत्यजनन्दने शमरतेऽमरतेजसि पार्थिवे ॥ ४ ॥
अन्वयः—शमरते अमरतेजसि, अजनन्दने पार्थिवे ( सति ) गदः, जनपदे, पदं न आदधौ सपत्नजः अभिभवः कुतः? ( च ) क्षितिः फलवती अभूत् ।
जनपद इति । शमरते शान्तिपरेऽमरतेजस्यजनन्दने दशरथे पार्थिवे पृथिव्या ईश्वरे सति । 'तस्येश्वरः' इत्यण्प्रत्ययः । जनपदे देशे गदो व्याधिः । 'उपतापरोगव्याधिगदामयाः' इत्यमरः । पदं नादधौ नाचक्रामेत्यर्थः । सपत्नजः शत्रुजन्योऽभिभवः कुत एव । असंभावित एवेत्यर्थः । क्षितिः फलवत्यभूच्च इति देवानुकूल्यमभूदित्यर्थः ।
भाषार्थ—शान्ति प्रधान और देवताओं के समान तेजस्वी अजकुमार दशरथके राजा होने पर उनका देश धन-धान्य से परिपूर्ण हो गया और रोग उनके राज्य सीमा में पैर न रख सके फिर शत्रुओं के आक्रमण की सम्भावना कहां से हो सकती है ? ॥ ४ ॥
नवमः सर्गः २७६
दशदिगन्तजिता रघुणा यथा श्रियमपुष्यदजेन ततः परम् । तमधिगम्य तथैव पुनर्बभौ न न महीनमहीनपराक्रमम् ॥ ५ ॥
अन्वयः— मही दशदिगन्तजिता रघुणा ततः परम् अजेन यथा श्रियम् अपुष्यत् तथा एव अहीनपराक्रमम् तम् अधिगम्य पुनः न बभौ ( इति ) न ।
दशेति । मही दशदिगन्ताञ्जितवानिति दशदिगन्तजित् "चतस्रः कीर्तये वाष्टौ दश वा ककुभः क्वचित्" इति वाग्भटः । तेन रघुणा यथा श्रियं कान्तिमपुष्यत् । ततः परं रघोरनन्तरमजेन च यथा श्रियमपुष्यत् तथैवाहीनपराक्रमं न हीनः पराक्रमो यस्य तमन्यूनपराक्रमं तं दशरथमिनं स्वामिनमधिगम्य पुनर्न बभाविति न बभावेवेत्यर्थः । द्वौ नञौ प्रकृतमर्थं गमयतः ।
भाषार्थ— दशों दिशाओं के जीतने वाले रघु ने और उनके बाद उनके पुत्र अज ने जिस प्रकार पृथ्वी की शोभा बढ़ायी थी उसी प्रकार उन्हीं दोनों के समान शक्तिशाली पूर्णपराक्रमी उस महामति दशरथ को राजा पाकर पृथ्वी की शोभा नहीं बढ़ी, यह बात नहीं है किन्तु रघु और अज के समान ही शोभा हुई ।
समतया वसुवृष्टिविसर्जनैर्नियमनादसतां च नराधिपः । अनुययौ यमपुण्यजनेश्वरौ सवरुणावरुणाग्रसरं रुचा ॥ ६ ॥
अन्वयः— नराधिपः समतया वसुवृद्धिविसर्जनैः च असतां नियमनात् सवरुणौ यमपुण्यजनेश्वरौ अनुययौ ( च ) रुचा, अरुणाग्रसरम् ( अनुययौ ) ।
समतयेति । नराधिपो दशरथः समतयाः समवर्तित्वेन मध्यस्थत्वेनेत्यर्थः । वसुवृष्टेर्धनवृष्टेर्विसर्जनैः असतां दुष्टानां नियमनान्निग्रहाच्च सवरुणौ वरुणसहितौ यमपुण्यजनेश्वरौ यमकुबेरौ यमकुबेरवरुणान्यतासंख्यमनुययावनुचकार । रुचा तेजसाऽरुणाग्रसरमरुणसारथिं सूर्यमनुययौ ।
भाषार्थ— जिस प्रकार यमराज सबको एक समान समझते हैं, कुवेर धन बरसाते हैं, वरुण दण्ड देते हैं और सूर्य का बड़ा तेज है, उसी प्रकार राजा दशरथ भी सबको समान देखते थे, धन बाँटते थे, दुष्टों को दण्ड देते थे और तेजस्वी थे । अर्थात् वे यम, कुबेर, वरुण और सूर्य के समान प्रजाओं का पालन करते थे ॥ ६ ॥
तस्य व्यसनासक्तिर्नासीदित्याह—
न मृगयाभिरतिर्न दुरोदरं न च शशिप्रतिमाभरणं मधु । तमुदयाय न वा नवयौवना प्रियतमा यतमानमपाहरत् ॥ ७ ॥
अन्वयः— उदयाय यतमानं तं मृगयाभिरतिः अपाहरत् दुरादरं (अपाहरत्) च शशिप्रतिमाभरणं मधु न (अपाहरत्) वा नवयौवना प्रियतमा न (अपाहरत्) ।
२८० रघुवंशमहाकाव्ये
नेति । उदयाय यतमानमभ्युदयार्थं व्याप्रीयमाणं तं दशरथं मृगयाभिरतिराखेटव्यसनं नापाहरन्नाचकर्ष । 'आक्षोटनं मृगव्यं स्यादाखेटो मृगया स्त्रियाम्' इत्यमरः । दुष्टमासमन्तादुदरमस्येति दुरोदरं द्यूतं च नापाहरत् । 'दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्' इत्यमरः । शशिनः प्रतिमा प्रतिबिम्बमाभरणं यस्य तन्मधु नापाहरत् । न वेति पदच्छेदः । वा शब्दः समुच्चये । नवयौवना नवं नूतनं यौवनं तारुण्यं यस्यास्तादृशी प्रियतमा वा स्त्री नापाहरत् । जातावेकवचनम् । अत्र मनुः—'पानमक्षाः स्त्रियश्चेतिमृगया च यथाक्रमम् । एतत्कष्टतमं विद्याच्चतुष्कं कामजे गणे ॥' इति ।
भाषार्थ—उदय के लिए प्रयत्नशील उस राजा दशरथ को शिकार का अनुराग, जुआ का व्यसन, चन्द्रमा की परछाई पड़ी हुई मदिरा और नवयौवना स्त्रियां कोई भी अपनी ओर आकृष्ट न कर सकी ॥ ७ ॥
न कृपणा प्रभवत्यपि वासवे न वितथा परिहासकथास्वपि ।
न च सपत्नजनेष्वपि तेन वागपरुषा परुषाक्षरमीरिता ॥ ८ ॥
अन्वयः—तेन प्रभवति ( सति ) वासवे अपि कृपणा वाक् न ईरिता न परिहासकथासु अपि वितथा ( वाक् ) न ( ईरिता ) च अपरुषा ( तेन ) सपत्नजनेषु अपि परुषाक्षरं ( यथा तथा वाक् ) न ईरिता ।
नेति । तेन राज्ञा प्रभवति प्रभौ सति वासवेऽपि कृपणा दीना वाङ् नेरिता नोक्ता । परिहासकथास्वपि वितथाऽनृता वाङ् नेरिता । किंचापरुषा रोषशून्येन तेन सपत्नजनेष्वपि शत्रुजनेष्वपि परुषाक्षरं यथा तथा वाङ् नेरिता । किमुतान्यत्रेति सर्वत्रापिशब्दार्थः । किंत्वदीना सत्या मधुरैव वागुक्तेति फलितोऽर्थः ।
भाषार्थ—राजा दशरथ इतने मनस्वी थे कि इन्द्र के आगे दीनता नहीं दिखाये, मित्र-मण्डली में हँसी-परिहास के अवसर पर कभी झूठ नहीं बोले, और क्रोधी न होने के कारण शत्रुओं को भी कोई कठोर शब्द नहीं कहे । अर्थात् वे सर्वदा अदीन, सत्य एवं मधुर वचन बोलते थे ॥ ८ ॥
उदयमस्तमयं च रघूद्वहादुभयमानशिरे वसुधाधिपाः ।
स हि निदेशमलङ्घयतामभूत्सुहृदयोहृदयः प्रतिगर्जताम् ॥ ९ ॥
अन्वयः—वसुधाधिपाः रघूद्वहात् उदयम् च अस्तमयम् आनशिरे हि सः निदेशम् अलङ्घयताम् सुहृत् ( च ) प्रतिगर्जताम् अयोहृदयः अभूत् ।
उदयमिति । वसुधाधिपा राजानः उद्द्वहतीत्युद्धहो नायकः । पचाद्यच् । रघूणामुद्धहो रघुनायकः तस्माद्रघुनायकादुदयं वृद्धिम् अस्तमयं नाशं च इत्युभयमानशिरे
नवमः सर्गः २८१
लेभिरे । कुतः । हि यस्मात्स दशरथो निदेशमाज्ञामलङ्घयतां शोभनं हृदयमस्येति सुहृन्मित्रमभूत् "सुहृद्दुर्हृदौ मित्रामित्रयोः" इति निपात । प्रतिगर्जतां प्रतिस्पधिनाम् अय इव हृदयं यस्येत्ययोहृदयः कठिनचित्तोऽभूत् । आज्ञाकारिणो रक्षति अन्यान्मारयतीत्यर्थः ॥ ९ ॥
भाषार्थ— दूसरे राजा लोग रघुकुल के श्रेष्ठ उस दशरथ से उन्नति एवं अवनति दोनों प्राप्त किये, क्योंकि जो उनकी आज्ञा मानते थे उन्हें तो वे दया करके छोड़ देते थे पर जो ऐंठकर उनसे टक्कर लेने लग जाते थे उन्हें वे मिटाकर ही छोड़ते थे । अर्थात् आज्ञा पालक राजाओं के लिए वे मित्र थे और प्रतिस्पर्धी राजाओं के लिए वे लौहहृदय थे ॥ ९ ॥
अजयदेकरथेन स मेदिनीमुदधिनेमिमधिज्यशरासनः । जयमघोषयदस्य तु केवलं गजवतो जवतीव्रहया चमूः ॥ १० ॥
अन्वयः— अधिज्यशरासनः सः उदधिनेमिं मेदिनीम् एकरथेन, अजयत् गजवतो जवतीव्रहया चमू अस्य केवलं जयम् अघोषयत् हि ।
अजयदिति । अधिज्यशरासनः ज्यामधिरूढम् अधिज्यं शरासनं यस्य स दशरथ उदधिनेमिं समुद्रवेष्टनां मेदिनीमेकरथेनाजयत् स्वयमेकरथेनाजैषीदित्यर्थः । गजवती गजयुक्ता जवेन तीव्रा जवाधिका हया यस्यां सा चमूस्त्वस्य नृपस्य केवलं जयमघोषयदप्रथयत् । स्वयमेकवीरस्य चमूरूपकरणमात्रमिति भावः ।
भाषार्थ— धनुष को चढ़ाये हुए उस दशरथ ने अकेले एक रथ पर चढ़कर समुद्र तक फैली हुई सारी पृथ्वी जीत ली । वेग से चलने वाले हाथी और घोड़ों वाली उनकी सेना तो केवल जय-जयकार भर करती थी ॥ १० ॥
अवनिमेकरथेन वरूथिना जितवतः किल तस्य धनुभृतः । विजयदुन्दुभितां ययुरर्णवा घनरवा नरवाहनसम्पदः ॥ ११ ॥
अन्वयः— वरूथिना एकरथेन अवनिं जितवतः धनुभृंतः नरवाहनसंपदः तस्य घनरवाः अर्णवाः विजयदुन्दुभितां ययुः ।
अवनिमिति । वरूथिना गुप्तिमतात । 'वरूथ्यो रथगुप्तिर्या तिरोधत्ते रथस्थितम्' इति सज्जनः । एकरथेनाद्वितीय रथेनोवनिं जितवतो धनुभृंतो नरवाहनसम्पदः कुबेरतुल्यश्रीयस्य तस्य दशरथस्य घनरवा मेघसमघोषा अर्णवा विजयदुन्दुभितां किल ययुः । अर्णवान्तविजयीत्यर्थः ।
भाषार्थ— सुरक्षित एक रथ से समस्त पृथ्वी को विजय करने वाले कुबेर के समान सम्पत्तिशाली धनुर्धारी उस राजा दशरथ के दुन्दुभि के स्थान को मेघ
२८२ रघुवंशमहाकाव्ये
के समान शब्द करने वाले समुद्रों ने ग्रहण किया, अर्थात् मेघ के समान गर- जते हुए समुद्रों ने दशरथ की विजय दुन्दुभी बजाई ॥ ११ ॥
शमितपक्षबलः शतकोटिना शिखरिणां कुलिशेन पुरन्दरः।
स शरवृष्टिमुचा धनुषा द्विषां स्वनवता नवतामरसाननः ॥ १२ ॥
अन्वयः—पुरन्दरः शतकोटिना कुलिशेन शिखरिणां शमितपक्षबलः नवता- मरसाननः सः शरवृष्टिमुचा स्वनवता धनुषा द्विषां (शमितपक्षबलः) ।
शमितेति । पुरन्दर इन्द्रः शतकोटिना शतास्रिणा कुलिशेन वज्रेण शिखरिणां पर्वतानां शमितपक्षबलो विनाशितपक्षसारः नवतामरसाननो नवपङ्कजाननः । 'पङ्केरुहं तामरसम्' इत्यमरः । स दशरथः शरवृष्टिमुचा इषुवर्षमुचा स्वनवता धनुषा द्विषां शमितो नाशितः पक्षः सहायो बलं च येन स तथोक्तः । 'पक्षः सहायेऽपि' इत्यमरः ।
भाषार्थ—जिस प्रकार इन्द्र ने अपने सौ नोक वाले वज्र से पर्वतों के पंखों को काटकर उनकी शक्ति को नष्ट कर दिया उसी प्रकार नये कमल के समान सुन्दर मुख वाले राजा दशरथ ने अपने बाणवर्षी ध्वनियुक्त धनुष से शत्रुओं के पक्ष में रहने वालों को नष्ट कर दिया ॥ १२ ॥
चरणयोर्नखरागसमृद्धिमिमुंकुटरत्नमरीचिभिरस्पृशन् ।
नृपतयः शतशो मरुतो यथा शतमखं तमखण्डितपौरुषम् ॥ १३ ॥
अन्वयः—शतशः नृपतयः अखण्डितपौरुषम् तम् मरुतः शतमखम् यथा नखरागसमृद्धिभिः मुकुटरत्नमरीचिभिः चरणयोः अस्पृशन् ।
चरणयोरिति । शतशो नृपतयोऽखण्डितपौरुषं तं दशरथं मरुतो देवाः शत- मखं यथा शतक्रतुमिव नखरागेण चरणनखक्रान्त्या समृद्धिभिः सम्पादितर्द्धिभि- र्मुंकुटरत्नमरीचिभिश्चरणयोरस्पृशन् । तं प्रणेमुरित्यर्थः ।
भाषार्थ—जिस प्रकार देवता लोग इन्द्र के चरण को छूकर प्रणाम करते हैं उसी प्रकार सैकड़ों राजा उस महा पराक्रमशाली दशरथजी के चरणों पर अपने रत्नजटित मुकुटवाले शिर रखकर प्रणाम करते थे जिनके मणि दशरथजी के पैरों के नखों की लालिमा से दमक उठते थे ॥ १३ ॥
निववृते स महार्णवरोधसः सचिवकारितबालसुताञ्जलीन् ।
समनुकम्प्य सपत्नपरिग्रहाननलकानलकानवमां पुरीम् ॥ १४ ॥
अन्वय—सः सचिवकारितवालसुताञ्जलीन् · अनलकान् सपत्नपरिग्रहान् समनुकम्प्य महार्णवरोधसः अलकानवमां पुरीं निववृते ।
नवमः सर्गः २८३
निववृत्त इति। स दशरथः सचिवैः सम्प्रयोजितैः कारिता बालसुतानामञ्जलयो यैस्तान् स्वयमसंम्मुखागतान्नित्यर्थः। अनलकान्हतभर्तृकतयालकसंस्कारशून्यान्सपत्नपरिग्रहाञ्छत्रुपत्नीः। 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः। समनुकम्प्यानुगृह्यालकानवमामलकानगरादन्यूनां। अलति भूषयति स्वस्थानमित्यलकां पुरीमयोध्यां प्रति महार्णवानां रोधसः पर्यन्तान्निववृते। शरणागतवत्सल इति भावः।
भाषार्थ--वे राजा दशरथ कृपा करके इस समुद्र के किनारे से अपनी उस अयोध्या पुरी को लौट आये जो कुबेर की राजधानी अलका पुरी से किसी प्रकार कम न थी। क्योंकि मृतपतिका, संस्कारशून्य केशों वाली शत्रु राजाओं की रानियों ने अपने मन्त्रियों के साथ हाथ जोड़े हुए अपने बच्चों को भेजकर अपनी रक्षा के लिए प्रार्थना करवाई थी॥ १४॥
उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः। श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः॥ १५॥
अन्वयः—अनुदितान्यसितातपवारणः अनलसोमसमद्युतिः सः श्रियम् रन्ध्रचलाम् अवेक्ष्य च मण्डलनाभितां उपगतः अपि अनलसः अभूत्।
उपगत इति अनुदितमनुच्छ्रितमन्यस्वच्छत्रातिरिक्तं सितातपवारणं श्वेतच्छत्रं यस्य सः अनलसोमयोरग्निचन्द्रयोः समे द्युती तेजःकान्ती यस्य स तथोक्तः। श्रियं लक्ष्मीं रन्ध्रेऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य श्रीर्हि केनचिन्मिषेण पुमांसं परिहरति स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि चक्रवर्ती सन्नपीत्यर्थः। 'अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः॥ आद्यक्षत्रियभेदे तु मनो मुख्यमहीपतौ॥' इति केशवः। अनलसोऽप्रमत्तोऽभूत्। 'अजितमस्ति नृपास्पद'मिति पाठान्तरेऽजितं नृपास्पदमस्तीति बुद्ध्यानलसोऽप्रमत्तोऽभूत्। विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावतिष्ठतेत्यर्थः। द्वादशराजमण्डलं तु कामन्दकेनोक्तम्—'अरेर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। तथारिमित्रमित्रं च विजिगीषोः पुरःसराः॥ पाष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम्। आसारावन्बोषश्चैव विजिगीषोस्तु पृष्ठतः। 'अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः। अनुग्रहे संवतानां व्यस्तानां च वधे प्रभुः॥' इति। 'अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः॥ पाष्णिग्राहाक्रन्दपाष्णिग्राहासाराक्रन्दसाराः॥' इति पृष्ठतश्चत्वारः मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादशराजमण्डलम्। तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती दशरथश्चैतादृगिति तात्पर्यार्थः।
२८४ रघुवंशमहाकाव्ये
भाषार्थ—चारों ओर के राजाओं का मण्डल दशरथ के हाथ में आ गया जिससे वे अग्नि के समान तेजस्वी और चन्द्रमा के समान सर्वप्रिय हो गये । और उनका प्रताप इतना बढ़ गया कि उनके आगे कोई भी दूसरा राजश्वेत छत्र नहीं लगा सकता था । फिर भी वे बड़े सावधान थे, आलस उनके पास नहीं था क्योंकि वे जानते थे कि जहां एक दोष भी मेरे पास आया तहां लक्ष्मी मुझे छोड़कर चली जायेंगी ॥ १५ ॥
तमपहाय ककुत्स्थकुलोद्भवं पुरुषमात्मभवं च पतिव्रता ।
नृपतिमन्यमसेवत देवता सकमला कमलाघवमर्थिषु ॥ १६ ॥
अन्वयः—पतिव्रता सकमला देवता अर्थिषु अलाघवम् ककुत्स्थकुलोद्भवं तम् आत्मभवं पुरुषं च अपहाय अन्यं कं नृपतिम् असेवत ।
तमिति । पत्यौ व्रतं नियमो यस्याः सा पतिव्रता सकमला कमलहस्ता देवता लक्ष्मीर्थिषु विषयेऽलाघवं लघुत्वरहितम् अपराङ्मुखमित्यर्थः । ककुत्स्थकुलोद्भवं तं दशरथमात्मभवं पुरुषं पुरि शरीरे उषतीति पुरुषः । तं विष्णुं चापहाय त्यक्त्वा अन्यं कं नृपतिमसेवत कमपि नासेवतेत्यर्थः । विष्णाविव विष्णुतुल्ये तस्मिन्नपि , श्रीः स्थिराभूदित्यर्थः ।
भाषार्थ—पतिव्रता कमलासना लक्ष्मी अतिथियों के विषय में अपराङ्मुख एवं ककुस्थ कुल में उत्पन्न उस राजा दशरथ और भगबान् विष्णु को छोड़कर दूसरे किस राजा या देवता की सेवा की ? अर्थात् किसी की भी नहीं ॥ १६ ॥
तमलभन्त पतिं पतिदेवताः शिखरिणामिव सागरमापगाः ।
मगधकोसलकेकयशासिनां दुहितरोऽहितरोपितमार्गणम् ॥ १७ ॥
अन्वयः—पतिदेवताः मगधकोसलकेकयशासिनां दुहितरः अहितरोपितमार्गणं ते शिखरिणां दुहितरः आपगाः सागरम् इव पतिम् अलभन्त ।
तमिति । पतिरेव देवता यासां ताः पतिदेवताः पतिव्रताः मगधांश्च कोसलांश्च केकयांश्च ताञ्जनपदान्च्छासतीति तच्छासिनः तेषां राज्ञां दुहितरः पुत्र्यः सुमित्रा-कौसल्याकैकेय्य इत्यर्थः । अत्र क्रमो न विवक्षितः । अहितरोपितमार्गणं शत्रु-निखातशरम् । 'कदम्बमार्गणशराः' इत्यमरः । तं दशरथं शिखरिणां क्ष्माभृतां दुहितरः आ समन्तादपगच्छन्तीति अथवा 'आपेनाप्सम्बन्धिना वेगेन गच्छन्ती-त्यापगाः' इति क्षीरस्वामी । नद्यः सागरमिव पतिं भर्तारमलभन्त प्रापुः ।
भाषार्थ—जिस प्रकार पर्वतों से निकलने वाली नदियां समुद्र को पा लेती
नवमः सर्गः
नवमः सर्गः २८५
हैं उसी प्रकार कोशल, मगध और कैकेय देश के राजाओं की कौशल्या सुमित्रा एवं कैकेयी नामक पतिव्रता कन्याओं ने शत्रुओं पर बाण बरसानेवाले उस राजा दशरथ को पति के रूप में पा लिया ॥ १७ ॥
प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः । उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥ १८ ॥
अन्वयः—अरिहयोगविचक्षणः असौ तिसृभिः प्रियतमाभिः सह प्रजा विनिनीषुः शक्तिभिः सह भुवम् उपगतः हरिहयः इव बभौ ।
प्रियतमाभिरिति । अरीन्हन्तीत्यरिहणो रिपुघ्नाः । हन्तेः क्विप् । ‘ब्रह्मभ्रूणवृत्रेषु क्विप्’ इति नियमस्य प्रायिकत्वात् । यथाह न्यासकारः—प्रायिकश्चायं नियमः क्वचिदन्यस्मिन्नप्युपपदे दृश्यते मधुहा प्रायिकत्वं च वक्ष्यमाणस्य नतुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते' इति । तेषु योगेषूपायेषु विचक्षणो दक्षः । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । इन्द्रेऽपि योज्यमेतत् । असौ दशरथस्तिसृभिः प्रियतमाभिः सह प्रजा विनिनीषुविनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रभुमन्त्रोत्साहशक्तिभिरेव सह भुवमुपगतो हरिहय इन्द्र इव बभौ ।
भाषार्थ—शत्रुओं के नाश करने में निपुण राजा दशरथ अपनी तीनों रानियों के साथ ऐसे जान पड़ते थे मानो पृथ्वी पर राज्य करने की इच्छा से स्वयं इन्द्र ही अपनी प्रभुशक्ति और उत्साह शक्तियों के साथ अवतार लेकर चले आये हैं ॥ १८ ॥
स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः । स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥ १९ ॥
अन्वयः—महारथः सः संयुगमूर्ध्नि मघवतः सहायतां प्रतिपद्य शरैः अवधूतभयाः सुरवधूः उच्छ्रितं स्वभुजवीर्यम् अगापयत् किल ।
स इति । महारथः स दशरथः संयुगमूर्ध्नि रणाङ्गणे मघवत इन्द्रस्य सहायतां प्रतिपद्य प्राप्य शरैरवधूतभया निर्वर्तितत्रासाः सुरवधूरुच्छ्रितं स्वभुजवीर्यमगापयत्किल खलु । गायतेः शब्दकर्मत्वात् ‘‘गतिबुद्धि०’’ इत्यादिना सुरवधूनामपि कर्मत्वम् ।
भाषार्थ—महारथी दशरथ ने समराङ्गण में इन्द्र की सहायता करके अपने बाणों से उनके शत्रुओं का नाश कर दिया जिससे देवताओं की स्त्रियों का भय दूर हो गया, वे निर्भय होकर दशरथ के बाहुबल के गीत गाने लगीं ॥ १९ ॥
२८६ रघुवंशमहाकाव्ये
क्रतुषु तेन विसर्जितमौलिना भुजसमाहृतदिग्वसुना कृताः ।
कनकयूपसमुच्छ्रयशोभिनो वितमसा तमसासरयूतटाः ॥ २० ॥
अन्वयः—क्रतुषु विसर्जितमौलिना भुजसमाहृतदिग्वसुना वितमसा तेन तमसासरयूतटाः कनकयूपसमुच्छ्रयशोभिनः कृताः ।
ऋतुष्विति । ऋतुष्वश्वमेधेषु विसर्जितमौलिनाऽवरोपितकिरीटेन दीक्षितेन मुण्डितेन भाव्यं त्यक्तमुकुटेन वा भूपा हि यज्ञेषु वपनस्थाने मौलिं विसृजन्ति । 'यावद्यज्ञमछत्रयुंरेव राजा भवति' इति राजश्विह्नत्यागविधानादित्यभिप्रायः । 'मौलिः किरीटे धम्मिल्ले' -ति विश्वः । भुजसमाहृतदिग्वसुना भुजार्जितदिगन्तसम्पदा । अनेन क्षत्रियस्य विजितत्वमुक्तम् । नियमार्जितधनत्वं सद्विनियोगकारित्वं च सूच्यते वितमसा तमोगुणरहितेन तेन दशरथेन तमसा च सरयू नद्यौ तयोस्तटः कनकयूपानां समुच्छ्रयेण समुन्नमनेन शोभितः कृताः कनकमयत्वं च यूपानां शोभार्थं विध्यभावात् । 'हेमयूपस्तु शोभिकः' इति यादवः ।
भाषार्थ—अपने बाहुबल से चारों ओर से धन लाकर इकट्ठा करनेवाले तथा तमोगुण से रहित उस राजा दशरथ ने अपना मुकुट उतारकर यज्ञ करते समय तमसा और सरयू के किनारे को सुवर्ण के यज्ञ स्तम्भों से सुशोभित कर दिया ॥ २० ॥
अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् ।
अधिवसंस्तनुमध्वरदीक्षितामसमभासमभासयदिश्वरः ॥ २१ ॥
अन्वयः—ईश्वरः अजिनदण्डभृतं कुशमेखलां यतगिरं मृगशृङ्गपरिग्रहाम् अध्वरदीक्षितां तनुम् अधिवसन् सन् असमभासम् अभासयत् ।
अजिनेति । ईश्वरो भगवानष्टमूर्तिरजिनं कृष्णाजिनं दण्डमौदुम्बरं विभर्तीति तमजिनदण्डभृतम् । 'कृष्णाजिनं दीक्षयति औदुम्बरं दीक्षितदण्डं यजमानाय प्रयच्छति' इति वचनात् । कुशमयी मेखला यस्यास्तां कुशमेखलाम् । 'शरमयी मौञ्जी वा मेखला तया यजमानं दीक्षयती'ति विधानात् प्रकृते कुशग्रहणं क्वचित्प्रतिनिधिदर्शनात्कृतम् । यतगिरं वाचंयमम् । 'वाचं यच्छति' इति श्रुतेः । मृगशृङ्गं परिग्रहः कण्डूयनसाधनं यस्यास्ताम् । 'कृष्णविषाणेन कण्डूयते' इति श्रुतेः । अध्वरदीक्षितां संस्कारविशेषयुक्तां तनुं दाशरथीमधिवसन्नधितिष्ठन्सन् असमा भासो दीप्तयो यस्मिन्कर्मणि तद्यथा तथा अभासयद्भासयति स्म ।
भाषार्थ—जिस समय राजा दशरथ मृगछाला पहनकर हाथ में दण्ड लेकर, कुश की करधनी बाँधकर और मौनधारण करके मृग की सींग लिये हुए यज्ञ की
नवमः सर्गः २८७
दीक्षा लेकर बैठे। उस समय भगवान् शिव उनके शरीर में प्रविष्ट हुए जिससे उनकी शोभा और भी अधिक बढ़ गई। (यज्ञ में दीक्षित होने पर यदि शरीर खुजलाता है तो अंगुलियों से न खुजलाकर सींग से खुजलाया जाता है) ॥ २१ ॥
अवभृथप्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणोचितः ।
नमयति स्म स केवलमुन्नतं वनमुचे नमुचेररये शिरः ॥ २२ ॥
अन्वयः—अवभृथप्रयतः नितयेन्द्रियः सुरसमाजसमाक्रमणोचितः स उन्नतं शिरं वनमुचेः अरये केवलं नमयतिस्म ।
अवभृथेति । अवभृथेन प्रयतो नियतेन्द्रियः सुरसमाजसमाक्रमणेोचितो देवसमाजाधिष्ठानाहः स दशरथ उन्नतं शिरो वनमुचे जलवर्षिणे । 'जलं नीरं वनं सत्त्वम्' इति शाश्वतः । नमुचेररये केवलमिन्द्रायैव नमयति स्म । लोकरक्षार्थं वृष्टेरपेक्षितत्वाद्विन्द्रमेवानमच्छिरः । कस्मैचिदन्यस्मै मानुषायेत्यर्थः ।
भाषार्थ—यज्ञ समाप्त हो जाने पर अवभृथ स्नान से पवित्र जितेन्द्रिय और देवताओं के साथ बैठने योग्य राजा दशरथ ने केवल नमुचिराक्षस को मारनेवाले और जल बरसाने वाले इन्द्र के आगे ही अपना उन्नत मस्तक झुकाया, दूसरों के लिए नहीं, क्योंकि अन्य राजाओं को पराजित कर देने के कारण वे स्वयं प्रणम्य थे ॥ २२ ॥
असकृदेकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता ।
दिनकराभिमुखा रणरेणवो रुरुधिरे रुधिरेण सुरद्विषाम् ॥ २३ ॥
अन्वयः—एकरथेन तरस्विना हरिहयाग्रसरेण धनुर्भृता दिनकराभिमुखाः रणरेणवः सुरद्विषां रुधिरेण असकृत् रुरुधिरे ।
असकृदिति । एकरथेनाद्वितीय रथेन तरस्विना बलवता हरिहयस्येन्द्रस्याग्रसरेण धनुर्भृता दशरथेनासकृद्वहुशः दिनकरस्याभिमुखाः अभिमुखस्थिता इत्यर्थः । रणरेणव सुरद्विषां दैत्यानां रुधिरेण रुरुधिरे निवारिताः ।
भाषार्थ—धनुर्धारी और महापराक्रमी राजा दशरथने अकेले ही अनेकों वार समराङ्गण में इन्द्र का अग्रेसर होकर राक्षसों के रुधिर से आकाश में उड़ती हुई धूलि को शान्त किया था ॥ २३ ॥
अथ समाववृते कुसुमैर्नवैस्तमिव सेवितुमेकनराधिपम् ।
यमकुबेरजलेश्वरवज्रिणां समधुरं मधुरञ्चितविक्रमम् ॥ २४ ॥
अन्वयः—अथ मधुर यमकुबेरजलेश्वरवज्रिणां समधुरम् अञ्चितविक्रमं एकनराधिपं तं सेवितुं इव नवैः कुसुमैः उपलक्षितः सन् समाववृते ।
| २८८ | रघुवंशमहाकाव्ये |
|---|
अथेति। अथ यमकुबेरजलेश्वरवज्रिणां धर्मराजधनदवरुणामरेन्द्राणां सम. धूर्भारो यस्य स समधुरः माध्यस्थ्यवितरणसंनियमनैश्वर्यैस्तुल्यकक्ष इत्यर्थः । “ऋक्पूरब्ध्रूःपथामानक्षे” इत्यनेन समासान्तोऽच्प्रत्ययः। तं समधुरम् अञ्चितविक्रमं पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव मधुर्वसंततः। मद्ये पुष्परथे । मधुर्वसन्तः । ‘मद्ये पुष्परसे मधुः । दैत्ये चैवे वसन्ते च जीवाशोके मधुद्रुमे।’ इति विश्वः । कुसुमैरुपलक्षितः सन्समाववृते समागतः ‘रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम्’ इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ।
भाषार्थ—यम, कुबेर, वरुण और इन्द्र के समान पराक्रमी उस एकच्छत्र राजा दशरथ का अभिनन्दन करने के लिए वसन्त ऋतु भी नये-नये पुष्पों की भेंट लेकर आ पहुँची ॥ २४ ॥
जिगमिषुर्घनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमानग्रहैर्विमलयन्मलयं नगमत्यजत् ॥ २५ ॥
अन्वयः---धनदाध्युषितां दिशं जिगमिषुः रथयुजा परिवर्तितवाहनः रविः हिमनिग्रहैः दिनमुखानि विमलयन् सन् मलयं नगम् अत्यजत् ।
जिगमिषुरिति । धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छु रथयुजा सारथिनाऽरुणेन परिवर्तितवाहनो निर्वातताश्वो रविः हिमस्य निग्रहैर्निराकरणैर्दिनमुखानि प्रभातानि विमलयन्विशदयन् मलयं नगं मलयाचलमत्यजत् । दक्षिणां दिशमत्याक्षीदित्यर्थः ।
भाषार्थ—कुबेर पालित उत्तर दिशा में जाने के इच्छुक और सारथि अरुण द्वारा घुमाए गए घोड़ों वाले सूर्य ने पाला हटा करके प्रातःकाल को स्वच्छ बनाते हुए मलय पर्वत को छोड़ दिया । २५ ॥
कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
इति यथाक्रममाविरभून्मधुद्रुमवतीमवतीर्य वनस्थलीम् ॥ २६ ॥
अन्वयः—आदौ कुसुमजन्मः ततः, नवपल्लवाः तदनु । षट्पदकोकिलकूजितम् इति यथाक्रमं द्रुमवती वनस्थलीम् अवतीर्य मधुः आविर्भूत् ।
कुसुमेति । आदौ कुसुमजन्म ततो नवपल्लवाः तदनु । “अनुर्लक्षणे” इति कर्मप्रवचनीयत्वाद्वितीया । यथासंख्यं तदुभयानन्तरं षट्पदानां कोकिलानां च कूजितम् । इत्येवंप्रकारेण यथाक्रमं क्रममनतिक्रम्य पुष्पप्रियो भृङ्गः पल्लवप्रियः कोकिल इति क्रमोक्तेरयमाशयः । द्रुमवतीं द्रुमभूयिष्ठां वनस्थलीमवतीर्य मधुर्वसन्त