रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
षोडशः सर्गः
षोडशः सर्गः ५४५
अन्वयः—प्रभुणा नियुक्ताः शिल्पिसंघाः सम्भृतसाधनत्वात् तां तथागतां पुरं मेघाः अपां विसर्गात् निदाघग्लपितां उर्वीमिव नवीचक्रुः ।
तामिति । प्रभुणा नियुक्ताः शिल्पिनां तक्षादीनां सङ्घाः सम्भृतसाधनत्वान्मि- लितोपकरणत्वात्तां तथागतां शून्यामित्यर्थः । पुरमयोध्यां मेघा अपां विसर्गा- ज्जलेसेकात् निदाघग्लपितां ग्रीष्मतप्तामुर्वीमिव नवीचक्रुः परिपूर्णाञ्चक्रुः ।
भाषार्थ—जिस प्रकार इन्द्र की आज्ञा से मेघ पानी बरसाकर गर्मी से तपी पृथ्वी को हरी-भरी कर देते हैं उसी प्रकार कुश की आज्ञा से कारीगरों ने अपने यन्त्रों की सहायता से अयोध्या का कायापलट कर दिया ॥३८॥
ततः सपर्यां सपशूपहारां पुरः परार्ध्यप्रतिमागृहायाः । उपोषितैर्वास्तुविधानविद्भिर्निर्वर्तयामास रघुपवीरः ॥ ३९ ॥
अन्वयः—ततः रघुपवीरः परार्ध्यप्रतिमागृहायाः पुरः उपोषितैर्वास्तुविधान- विद्भिः सपशूपहारां सपर्याम् निर्वर्तयामास ।
तत इति । ततो रघुपवीरः कुशः प्रतिमा देवताप्रतिकृतयः अर्च्या इत्यर्थः । परार्ध्यप्रतिमागृहायाः प्रशस्तदेवतायतनायाः पुर उपोषितैर्वास्तुविधानविद्भिः प्रयोज्यैः पशूपहारैः सहितां सपशूपहारां सपर्यां पूजां निर्वर्तयामास कारयामास । अत्र ण्यन्ताण्णिच्पुनरित्यनुसन्धेयम् । अन्यथा वृतेरकंर्मकस्य करोत्यर्थत्वे कारयत्यर्थाभाव- प्रसङ्गात् भवितव्यं वृतेरण्यन्तकर्त्रा प्रयोज्यत्वेन तन्निर्देशात्प्रयोगान्तरस्यापेक्षितत्वात् ।
भाषार्थ—इसके बाद व्रत एवं उपवास करने वाले वास्तुविद्या के विद्वानों के द्वारा रघुश्रेष्ठ कुश ने बहुमूल्य मुनियों से परिपूर्ण घरोंवाली अयोध्या नगरी का विधिपूर्वक पूजन कराया और पशुओं का बलिदान भी कराया ॥ ३९ ॥
तस्याः स राजोपपदं निशान्तं कामीव कान्ताहृदयं प्रविश्य । यथार्हमन्यैरनुजीविलोकं सम्भावयामास यथाप्रधानम् ॥ ४० ॥
अन्वयः—सः तस्याः राजोपपदं निशान्तं कामी कान्ताहृदयम् इव प्रविश्य अन्यैः अनुजीविलोकं यथाप्रधानं सम्भावयामास ।
तस्या इति । स कुशस्तस्याः पुरः सम्बन्धि राजोपपदं राजशब्दपूर्वं निशान्तं राजभवनमित्यर्थः । ‘निशान्तं भवनौषसोः’ इति विश्वः । कामी कान्ताहृदयमिव प्रविश्य अन्यैर्निशान्तैरनुजीविलोकममात्यादिकं यथाप्रधानं मान्यानुसारेण यथाहं यथोचितं तत्तदुचितगृहैरित्यर्थः । सम्भावयामास सम्भावितवान् ।
भाषार्थ—जिस प्रकार कामी पुरुष कामिनी स्त्री के हृदय में बैठ जाता है उसी
३५ र० सम्पू०
५४६ रघुवंशमहाकाव्ये
प्रकार कुश भी अयोध्या के राजभवन में प्रविष्ट हो गये और उन्होंने अपने मन्त्रियों आदि के रहने के लिए यथायोग्य दूसरे बहुत से भवन दे दिये ॥ ४० ॥
सा मन्दुरासंश्रयिभिस्तुरङ्गैः शालाविधिस्तम्भगतैश्च नागैः ।
पूराबभासे विपणिस्थपण्या सर्वाङ्गनद्धाभरणेव नारी ॥ ४१ ॥
अन्वयः—विपणिस्थपण्या सा पूः मन्दुरासंश्रयिभिः तुरङ्गैः शालाविधिस्तम्भगतैः नागैः च सर्वाङ्गनद्धाभरणा नारी इव आबभासे ।
· सेति । विपणिस्थानि पण्यानि क्रयविक्रयार्हवस्तूनि यस्या सा । 'विपणिः पण्यवीथिका' इत्यमरः । सा पूरयोध्या मन्दुरासंश्रयिभिरश्वशालासंश्रयणशीलैः । 'वाजिशाला तु मन्दुरा' इत्यमरः । “जिदृक्षो०” इत्यादिनेनिप्रत्ययः । तुरङ्गैरश्वैः शालासु गृहेषु ये विधिना स्थापिताः स्तम्भास्तान् गतः प्राप्तैर्नागैश्च सर्वाङ्गेषु नद्धान्याभरणानि यस्या सा नारीव आबभासे ।
भाषार्थ—अयोध्या के बाजारों में सुन्दर-सुन्दर वस्तुयें बिकने के लिए सजी हुई थीं, घुड़शालाओं में घोड़े बँधे हुए थे, हथिसारों के खम्भों से हाथी बँधे हुए थे । इस प्रकार वह नगरी ऐसी सुन्दर लगने लगी जैसे सारे शरीर में आभूषण पहनी हुई कोई स्त्री हो ॥ ४१ ॥
वसन्स तस्यां वसतौ रघूणां पुराणशोभामधिरोपितायाम् ।
न मैथिलेयः स्पृहयाम्बभूव भर्त्रे दिवो नाप्यलकेश्वराय ॥ ४२ ॥
अन्वयः—स मैथिलेयः पुराणशोभाम् अधिरोपितायां तस्यां वसतौ वसन् दिवः भर्त्रे अलकेश्वराय अपि न स्पृहयाम्बभूव ।
वसन्निति । स मैथिलेयः कुशः पुराणशोभां पूर्वशोभामधिरोपितायां तस्यां रघूणां वसतावयोध्यायां वसन् दिवो भर्त्रे देवेन्द्राय तथालकेश्वराय कुबेरायापि न स्पृहयाम्बभूव तावपि न गणयामासेत्यर्थः। 'स्पृहेरीप्सितः' इति सम्प्रदानत्वाच्चतुर्थी । एतेनायोध्याया अन्यनगरातिशायित्वं गम्यते ।
भाषार्थ—अयोध्या पुनः पहले जैसी सुन्दर लगने लगी, उसमें निवास करके मिथिलेशकुमारी सीताजी के पुत्र कुश को ऐसा सुख मिला जिससे न तो उन्हें सुन्दर-सुन्दर अप्सराओं से भरे स्वर्ग के स्वामी बनने की इच्छा रह गई और न असंख्य रत्नों वाली अलकापुरी को लेने की ॥ ४२ ॥
अथास्य रत्नग्रथितोत्तरीयमेकान्तपाण्डुस्तनलम्बिहारम् ।
निःश्वासहार्यांशुकमाजगाम घर्मः प्रियावेशमिवोपदेष्टुम् ॥ ४३ ॥
षोडशः सर्गः ५४७
षोडशः सर्गः ५४७
अन्वयः—अथ अस्य रत्नग्रथितोत्तरीयम् एकान्तपाण्डुस्तनलम्बिहारं निःश्वासहार्यांशुकं प्रियावेषं उपदेष्टुम् इव धर्मः आजगाम ।
अथेति । अथास्य कुशस्य रत्नैर्मुक्तामणिभिर्ग्रथितान्युत्तरीयाणि यस्मिंस्तम् । एकान्तमत्यन्तं पाण्ड्वोस्तयोर्लम्बिनो हारा यस्मिंस्तम् । निःश्वासहार्याण्यतिसूक्ष्माण्यंशुकानि यत्र तम् । एवं शीतलप्रायं प्रियाया वेषं नेपथ्यमुपदेष्टुमिव घर्मो ग्रीष्मः आजगाम ।
भाषार्थ—इतने में ग्रीष्म ऋतु आ गई जिसने मानो इन्हें अपनी उस प्रिया का स्मरण करा दिया जिसकी ओढ़नी में रत्न लगे हों, गोरे-गोरे स्तनों पर मोतियों के हार लटके हों और सांस से उड़ने वाले महीन कपड़े पहनी हुई हो ॥ ४३ ॥
अगस्त्यचिह्नादयनात्समीपे दिगुत्तरा भास्वति सन्निवृत्ते ।
आनन्दशीतामिव बाष्पवृष्टिं हिमस्स्रुतिं हैमवतीं ससर्ज ॥ ४४ ॥
अन्वयः—अगस्त्यचिह्नात् अयनात् भास्वति सन्निवृत्ते उत्तरादिक् आनन्दशीतां बाष्पवृष्टिं हैमवतीं इव हिमस्स्रुतिं ससर्ज ।
अगस्त्येति । अगस्त्यश्चिह्नं यस्य तस्मादयनान्मार्गाद्दक्षिणायनाद्भास्वति समीपं संनिवृत्ते सति उत्तरादिक् आनन्दशीतां बाष्पवृष्टिमिव हैमवतीं हिमवत्सम्बन्धिनीं हिमस्स्रुतिं हिमनिष्यन्दं ससर्ज । अत्र प्रोषितप्रियासमागमसमाधिर्गम्यते ।
भाषार्थ—गर्मी में जो हिम लगने लगा वह ऐसा लगता था मानो दक्षिण दिशा से सूर्य के लौट आने की प्रसन्नता में उत्तर दिशा ने आनन्द के ठण्डे आंसुओं के समान पानी की ठण्डी धार हिमालय से बढ़ाई हो ॥ ४४ ॥
प्रवृद्धतापो दिवसोऽतिमात्रमत्यर्थमेव क्षणदा च तन्वी ।
उभौ विरोधक्रियया विभिन्नौ जायापती सानुशयाविवास्ताम् ॥ ४५ ॥
अन्वयः—अतिमात्रं प्रवृद्धः दिवसः अत्यर्थम् एव तन्वी क्षणदा च इति उभौ विरोधक्रियया विभिन्नौ सानुशयो जायापती इव आस्ताम् ।
प्रवृद्धेति । अतिमात्रं प्रवृद्धतापो दिवसः, अत्यर्थमेवानल्पं तन्वी कृशा क्षणदा च इत्येतावुभौ विरोधक्रियया प्रणयकलहादिना विरोधाचरणेन विभिन्नौ सानुशयौ सानुतापौ जायापती दम्पती इव आस्ताम् । तयोरपि तापकार्श्यसम्भवात्तत्सदृशावभूतामित्यर्थः ।
भाषार्थ—अत्यन्त सन्ताप से भरे दिन और अत्यन्त छोटी रातें ये दोनों उन पछताते हुए पति-पत्नी के समान दिखाई देने लगे जो आपस में झगड़ा करके एक दूसरे से रूठ गए हों ॥ ४५ ॥
५४८ रघुवंशमहाकाव्ये
दिने दिने शैवलवन्त्यधस्तात्सोपानपर्वाणि विमुञ्चदम्भः ।
उद्दण्डपद्मं गृहदीर्घिकाणां नारीनितम्बद्वयसं बभूव ॥ ४६ ॥
अन्वयः—दिने दिने शैवलवन्ति अधस्तात् सोपानपर्वाणि विमुञ्चत् अतएव उद्दण्डपद्मं गृहदीर्घिकाणाम् अम्भोः नारीनितम्बद्वयसं बभूव ।
दिने दिन इति । दिने दिने प्रतिदिनं शैवलवन्त्यधस्ताद्यानि सोपानानां पर्वाणि भङ्ग्यस्तानि विमुञ्चत् अत एवोद्दण्डपद्मं गृहदीर्घिकाणामम्भः नारीनितम्बः प्रमाणमस्य नारीनितम्बद्वयसं बभूव । विहारयोग्यमभूदित्यर्थः । “प्रमाणे द्वयसज्दघ्नञ्मात्रचः” इति द्वयसच्प्रत्ययः ।
भाषार्थ—गर्मी के कारण घर की बावलियां भी सेवार जमी हुई सीढ़ियों को छोड़कर प्रति दिन पीछे हटने लगी और उनमें कमल की दण्डियां दिखाई देने लगीं एवं पानी घट कर स्त्रियों के नितम्ब के बराबर रह गया । अर्थात् पानी सूख कर स्त्रियों के कमर तक ही गहरा रह गया ॥ ४६ ॥
वनेषु सायंतनमल्लिकानां विजृम्भणोद्गन्धिषु कुड्मलेषु ।
प्रत्येकनिक्षिप्तपदः सशब्दं संख्यामिवैषां भ्रमरश्चकार ॥ ४७ ॥
अन्वयः—वनेषु विजृम्भणोद्गन्धिषु सायंतनमल्लिकानां कुड्मलेषु सशब्दं प्रत्येकनिक्षिप्तपदः भ्रमरः एषां संख्यां चकार इव ।
वनेष्विति । वनेषु विजृम्भणेन विकासेनोद्गन्धिषूत्कटसौरभेषु । ‘गन्धस्य०’ इत्यादिना समासान्त इकारादेशः । सायन्तनमल्लिकानां कुड्मलेषु सशब्दं यथा तथा प्रत्येकमेकैकस्मिन्निक्षिप्तपदः मकरन्दलोभादित्यर्थः । भ्रमर एषां कुड्मलानां संख्यां गणनां चकारैव ।
भाषार्थ—वनों में चमेली खिल गई और उनकी उत्कट सुगन्ध चारों ओर फैलने लगी, सन्ध्या के समय गुन-गुनाते हुए भौंरे उसकी एक-एक कलिका पर बैठ कर मानो फूलों की गिनती करने लगे ॥ ४७ ॥
स्वेदानुविद्धार्द्रनखक्षताङ्के भूयिष्ठसन्दष्टशिखं कपोले ।
च्युतं न कर्णादपि कामिनीनां शिरीषपुष्पं सहसा पपात ॥ ४८ ॥
अन्वयः—स्वेदानुविद्धार्द्रनखक्षताङ्के कामिनीनां कपोले भूयिष्ठसन्दष्टशिखं ( अत एव ) कर्णात् च्युतम् अपि शिरीषपुष्पं सहसा न पपात ।
स्वेदेति । स्वेदानुविद्धमार्द्रं नखक्षतमङ्को यस्य तस्मिन्कामिनीनां कपोले भूयिष्ठमत्यर्थं सन्दष्टशिखं विश्लिष्टकेसरम् अतएव कर्णाच्च्युतमपि शिरीषपुष्पं सहसा न पपात ।
भाषार्थ—स्त्रियों के गालों पर प्रियतम के हाथों से हुए नख क्षतों पर पसीने
षोडशः सर्गः ५४९
की बूंदें फैल जाती थीं और कान पर रखे हुए सिरस के फूलों का केशर उनसे सट जाता था इस लिए जब वे फूल कान से गिरते थे तो सहसा पृथ्वी पर नहीं गिर पाते थे ॥ ४८ ॥
यन्त्रप्रवाहैः शिशिरं परीतान्रसेन धौतान्प्रलयोद्भवस्य ।
शिलाविशेषानधिशय्य निन्युर्धारागृहेष्वातपमृद्धिमन्तः ॥ ४९ ॥
अन्वयः—ऋद्धिमन्तः धारागृहेषु शिशिरैः यन्त्रप्रवाहैः परीतान् मलयोद्भवस्य रसेन धौतान् शिलाविशेषान् अधिशय्य आतपं निन्युः ।
यन्त्रेति । ऋद्धिमन्तो धनिका धारागृहेषु यन्त्रधारागृहेषु शिशिरैर्यन्त्रप्रवाहैर्यन्त्रसञ्चारितसलिलपूरैः परीतान्व्याप्तान्मलयोद्भवस्य रसेन चन्दनोदकेन धौतान्क्षालिताञ्शिलाविशेषान्मणिमयासनान्यधिशय्य तेषु शयित्वाऽऽतपं निन्युरातपपरिहारं चक्रुः ।
भाषार्थ—धनी लोग धारागृह में गर्मी में ठण्डी रहने वाली उन विशेष प्रकार की शिलाओं पर सोकर दुपहरी बिताते थे, जो चन्दन से धुली होती थी और जिनके चारों ओर जलधारायें छूटती रहती थीं ॥ ४९ ॥
स्नानाऽऽर्द्रमुक्तेष्वनुधूपवासं विन्यस्तसायन्तनमल्लिकेषु ।
कामो वसन्तात्ययमन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ ५० ॥
अन्वयः—वसन्तात्ययमन्दवीर्यः कामः स्नानाद्र्रमुक्तेषु धूपवासं विन्यस्तसायंतनमल्लिकेषु अङ्गनानां केशेषु बलं लेभे ।
स्नानेति । वसन्तस्यात्मसहकारिणोऽत्ययेनातिक्रमेणमन्दवीर्योऽतिदुर्बलः कामः-स्नानाद्रे्राश्च ते मुक्ताश्च धूपसञ्चारणार्थमित्यर्थः । तेषु अनुधूपवासानन्तरं विन्यस्ताः सायन्तनमल्लिका येषु तेषु अङ्गनानां केशेषु बलं लेभे । तैरूद्दीपित इत्यर्थः ।
भाषार्थ—वसन्त बीत जाने के कारण जो कामदेव मन्द पड़ गया था वह स्त्रियों के उन केशों में जाकर बस गया जो स्नान करने पर खोल दिए जाते थे और जिनमें धूप से सुगन्धित करके शाम को फूलनेवाली चमेली के सुगन्धित फूल खोंस दिये जाते थे अर्थात् कामिनियों के केशों को देख कर कामोद्दीपन हुआ करता था ॥ ५० ॥
आपिञ्जरा बद्धरजःकणत्वान्मञ्जर्युदारा शुशुभेऽर्जुनस्य ।
दग्ध्वापि देहं गिरिशेन रोषात्खण्डीकृता ज्येव मनोभवस्य ॥ ५१ ॥
अन्वयः—बद्धरजःकणत्वात् आपिञ्जरा उदारा अर्जुनस्य मञ्जरी देहं दग्धा अपि रोषात् गिरिशेन खण्डीकृता मनोभवस्य ज्या इव शुशुभे ।
आपिञ्जरेति । बद्धरजःकणत्वाद्वद्याप्तरजःकणत्वादापिञ्जरोदारा द्राघीयस्य-
५५० रघुवंशमहाकाव्ये
र्जुनस्य ककुभवृक्षस्य ‘इन्द्रद्रुः ककुभोऽर्जुनः’ इत्यमरः । मञ्जरी दग्ध्वापि रोषादि-
गरिशेन गिरिरस्त्यस्य निवासत्वेन स गिरिशस्तेन । लोमादित्वाच्छप्रत्ययः । गिरौ
शेत इति विग्रहे तु “गिरौ शेतेर्डः” इत्यस्य छन्दसि विधानाल्लोके प्रयोगानुपपत्तिः
स्यात् । तस्मात्पूर्वोक्तमेव विग्रहवाक्यं न्याय्यम् । खण्डकृता मनोभवस्य ज्या
मौर्वीव शुशुभे ।
**भाषार्थ—**पराग से परिपूर्ण कुछ पीली-पीली अर्जुन की मञ्जरी ऐसी लगती थी मानो कामदेव का शरीर भस्म करने के बाद शिवजी के हाथ से तोड़ी हुई कामदेव के धनुष की डोरी हो ॥ ५१ ॥
मनोज्ञगन्धं सहकारमङ्गं पुराणशीधुं नवपाटलं च ।
सम्बन्धता कामिजनेषु दोषाः सर्वे निदाघावधिना प्रमृष्टाः ॥ ५२ ॥
**अन्वयः—**मनोज्ञगन्धं सहकारभङ्गं पुराणशीधुं नवपाटलं च सम्बन्धता निदाघावधिना कामिजनेषु सर्वे दोषाः प्रमृष्टाः ।
मनोज्ञेति । मनोज्ञगन्धमिति सर्वत्र सम्बध्यते । सहकारभङ्गं चूतः पल्लवखण्डं पुराणं वासितं शेरतेऽनेनेति शीधुः पक्वेक्षुरसप्रकृतिकः सुराविशेषस्तम् । “शीङो धुक्” इत्युणादिसूत्रेण ‘शीङ् स्वप्ने’ इत्यस्माद्धोर्धुक्प्रत्ययः । ‘पक्वैरिक्षुरसैःस्त्री शीधुः पक्वरसः शिवः’ इति यादवः । नवं पाटलायाः पुष्पं पाटलं च सम्बन्धता सङ्घटयता निदाघावधिना ग्रीष्मकालेन । ‘अवधिस्त्ववधाने स्यात्सीमनि काले बिलेऽपि च’ इति विश्वः । कामिजनेषु विषये सर्वे दोषास्तापादयः प्रमृष्टाः परिहृताः ।
**भाषार्थ—**सुगन्धित आमकी मंजरी पुरानी सुवासित मदिरा और नये पाटल-पुष्पों को संधित करते हुए ग्रीष्म ऋतु ने कामी पुरुषों की सारी कमी पूरी कर दी ॥ ५२ ॥
जनस्य तस्मिन्समये विगाढे बभूवतुर्द्वौ सविशेषकान्तौ ।
तापापनोदक्षमपादसेवौ स चोदयस्थौ नृपतिः शशी च ॥ ५३ ॥
**अन्वयः—**तस्मिन् समये विगाढे जनस्य द्वौ सविशेषकान्तौ बभूवतुः, तापापनोदक्षमपादसेवौ उदयस्थौ स च नृपतिः शशी च ।
जनस्येति । तस्मिन्समये ग्रीष्मे विगाढे कठिने सति जनस्य द्वौ सविशेषं सातिशयं यथा तथा कान्तौ बभूवतुः । कौ द्वौ तपापनोदे क्षमा योग्या पादयोरङ्घ्रयो पादानां रश्मीनां च सेवा यतोस्तावुदयस्थावभ्युदयस्थौ स च नृपतिः शशी च ।
**भाषार्थ—**उस कठिन ग्रीष्म ऋतु के समय में उदित होकर प्रजाओं के दो ही बहुत प्यारे हुए । एक तो सेवा से प्रसन्न होकर निर्धनता आदि सन्तापों को दूर
षोडशः सर्गः | ५५१
करने वाले राजा कुश, दूसरे शीतल किरणों से गर्मी का ताप दूर करने वाले चन्द्रमा ॥ ५३ ॥
अथोर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे सरय्वाः ।
विहर्तुमिच्छा वनितासखस्य तस्याम्भसि ग्रीष्मसुखे बभूव ॥ ५४ ॥
अन्वयः—अथ ऊर्मिलोलोन्मदराजहंसे रोधोलतापुष्पवहे ग्रीष्मसुखे सरय्वाः अम्भसि तस्य वनितासखस्य विहर्तुम् इच्छा बभूव ।
अथेति । अथोर्मिषु लोलाः सतृष्णा उन्मदा राजहंसा यस्मिंस्तस्मिन् । 'लोलश्चलसतृष्णयोः' इत्यमरः । रोधोलतापुष्पाणां । 'वह प्रापणे' पचाद्यच् । ग्रीष्मेषु सुखे सुखकरे सरय्वा अम्भसि पयसि तस्य कुशस्य वनितासखस्य वनिताभिः सहेत्यर्थः । विहर्तुमिच्छा बभूव ।
भाषार्थ—इसके बाद एक दिन राजा कुश की इच्छा हुई कि लहरों के लहराने से चञ्चल एवं मतवाले बने हुए हंस वाले, तटवर्ती लताओं के पुष्पों को बहाने वाले, ग्रीष्म काल से सुखप्रद सरयू के जल में अपनी रानियों के साथ विहार करें ॥ ५४ ॥
स तीरभूमौ विहितोपकार्यामानायिभिस्तामपकृष्टनक्राम् ।
विगाहितुं श्रीमहिमानुरूपं प्रचक्रमे चक्रधरप्रभावः ॥ ५५ ॥
अन्वयः—चक्रधरप्रभावः स तीरभूमौ विहितोपकार्याम् आनायिभिः अपकृष्टनक्रां तां श्रीमहिमानुरूपां विगाहितुं प्रचक्रमे ।
स इति । चक्रधरप्रभावो विष्णुतेजाः स कुशस्तीरभूमौ विहितोपकार्या यस्यास्ताम् । आनायो जालमेषामस्तीत्यानायिनो जालिकाः । “जालमानायः” इति निपातः । ‘आनायः पुंसि जालं स्यात्’ इत्यमरः । तैरपकृष्टनक्रामपनीतग्राहां तां सरयू श्रीमहिम्नोः सम्पतप्रभावयोरनुरूपं योग्यं यथा तथा विगाहितुं प्रचक्रमे । अत्र कामन्दकः—“परितापिषु वासरेषु पश्यंस्तटलेखास्तितमाप्तसैन्यचक्रम् । सुविशोधितनक्रमीनजालं व्यवगाहेत जलं सुहृत्समेतः” । इति ।
भाषार्थ—यह निश्चय करके भगवान् विष्णु के समान प्रभावशाली कुश सरयू के जल में स्नान करने चले । सरयू के तट पर सामियाना-तम्बू आदि तान दिये गये और मल्लाहों ने जाल डालकर ग्राह आदि जल-जन्तुओं को उसमें से निकाल डाला ॥ ५५ ॥
सा तीरसोपानपथावतारादन्योऽन्यकेयूरविघट्टिनीभिः ।
सनूपुरक्षोभपदामिरासीदुद्विग्नहंसा सरिदङ्गनाभिः ॥ ५६ ॥
५५२ | रघुवंशमहाकाव्ये
**अन्वयः—**सा सरित् तीरसोपानपथावताराद् अन्योन्यकेयूरविघट्टनीभिः सनूपुरक्षोभपदाभिः अङ्गनाभिः उद्विग्नहंसा आसीत् ।
सेति । सा सरित्सरयूस्तीरसोपानपथेनावतारादवतरणादन्योन्यं केयूरविघट्टिनीभिः संनद्धाङ्गदसंघर्षिणीभिः सनूपुरक्षोभाणि सनूपुरस्खलनानि पदानि यासां ताभिरङ्गनाभिर्हेतुभिरुद्विग्नहंसा भीतहंसाऽऽसीत् ।
**भाषार्थ—**जब कुशकी रानियां पानी में उतरने लगीं तब उनके भुजबन्ध एक दूसरे से रगड़ खाने लगे, पैर के नूपुर बजने लगे, इन शब्दों को सुनकर सरयू के हंस मचल उठे ॥ ५६ ॥
परम्पराभ्युक्षणतत्पराणां तासां नृपो मज्जनरागदर्शी ।
नौसंश्रयः पार्श्वगतां किरातीमुपात्तबालव्यजनां बभाषे ॥ ५७ ॥
**अन्वयः—**नौसंश्रयः परस्पराभ्युक्षणतत्पराणां तासां मज्जनरागदर्शी नृपः पार्श्वगतां उपात्तबालव्यजनां किरातीम् वभाषे ।
परस्परेति । नौसंश्रयः परस्परमभ्युक्षणे सेचने तत्पराणामासक्तानां स्त्रीणां मज्जने रागोऽभिलाषस्तद्दर्शी नृपः पार्श्वगतामुपात्तबालव्यजनां गृहीतचामरां किरातीं चामरग्राहिणीं बभाषे । 'किरातस्तु द्रुमान्तरे । स्त्रियां चामरवाहिन्यां मत्स्यजात्यन्तरे द्वयोः' इति केशवः ।
**भाषार्थ—**रानियां एक दूसरी पर जल के छींटे उड़ाने लगीं, उनके स्नान की शोभा देखकर नावपर बैठे हुए राजा कुश पास में चंवर लेकर खड़ी हुई किरातिन से कहने लगे ॥ ५७ ॥
पश्यावशेषैः शतशो मदीयैर्विगाह्यमानो गलिताङ्गरागैः ।
सन्ध्योदयः साभ्र इवैष वर्णं पुष्यत्यनेकं सरयूप्रवाहः ॥ ५८ ॥
**अन्वयः—**गलिताङ्गरागैः मदीयैः शतशः अवरोधैः विगाह्यमानः एषः सरयूप्रवाहः साभ्रः सन्ध्योदयः इव अनेकं वर्णं पुष्यति ( इति ) पश्य ।
पश्येति । गलिताङ्गरागमदीयैः शतशोऽवरोधैर्विगाह्यमानो विलोड्यमान एष सरयूप्रवाहः साभ्रः समेघः सन्ध्योदयः सन्ध्याविर्भावि इव अनेकं नानाविधं वर्णं रक्तपीतादिकं पुष्यति पश्य । वाक्यार्थः कर्म ।
**भाषार्थ—**देखो तो मेरे रनिवास की सैकड़ों रानियों के स्नान करने से और उनके शरीर से धुले हुए अङ्गराग के मिल जाने से सरयू की धारा ऐसी रङ्ग-विरंगी लगने लगी है जैसे बादलों से भरी सन्ध्या ॥ ५८ ॥
षोडशः सर्गः ५५३
षोडशः सर्गः ५५३
विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः । तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥ ५९ ॥ **अन्वयः—**नौलुलिताभिः अद्भिः अन्तः पुरसुन्दरीणां यत् अञ्जनं विलुप्तं, तत् विलोचनेषु मदरागशोभां बध्नतीभिमां आसां प्रतिमुक्तम् ।
विलुप्तमिति । नौलुलिताभिनौक्षुभिताभिरद्भिरन्तःपुरसुन्दरीणां यदञ्जनं कज्जलं विलुप्तं हृतं तदञ्जनं विलोचनेषु नयनेषु मदेन या रागशोभा तां बध्नतीभिर्घटयन्तीभिरद्गिरासां प्रतिमुक्तं प्रत्यर्पितम् । प्रतिनिधिदानमपि तत्कार्यकारित्वात्प्रत्यर्पणमेवेति भावः ।
**भाषार्थ—**नावों के चलने से जल में जो लहरें उठती हैं उन्होंने इन सुन्दरियों की आँखों का अञ्जन धो दिया है और उसके बदले में मदपान के समय की लाली इनकी आँखों में भर दी है ॥ ५९ ॥
एता गुरुश्रोणिपयोधरत्वादात्मानमुद्बोढुमशक्नुवन्त्यः । गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ ६० ॥ **अन्वयः—**गुरुश्रोणिपयोधरत्वात् आत्मानं उद्बोढुं अशक्नुवत्यः एता बाला गाढाङ्गदैः बाहुभिः क्लेशोत्तरं रागवशात् प्लवन्ते ।
एता इति । गुरु दुर्बहं श्रोणिपयोधरं यस्यात्मन इति विग्रहः । गुरुश्रोणिपयोधरत्वादात्मानं शरीरमुद्बोढुमशक्नुवत्य एता बाला गाढाङ्गदैः श्लिष्टाङ्गदैर्बाहुभिः क्लेशोत्तरं दुःखप्रायं यथा तथा रागवशात्क्रीडाभिनिवेशात्पारतन्त्र्यात्प्लवन्ते तरन्ति।
**भाषार्थ—**भारी-भारी नितम्बों और स्तनों के कारण ये रानियां अच्छी तरह तैर नहीं पातीं, किसी खेल में सम्मिलित होने के कारण मोटे-मोटे भुजबन्धों वाली बांहों से बड़ी कठिनाई से तैरती हैं ॥ ६० ॥
अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ ६१ ॥ **अन्वयः—**वारिविहारिणीनां प्रभ्रंशिनः निम्नगायाः स्रोतसि पारिप्लवाः अमी शिरीषप्रसवावतंसाः शैवाललोलान् मीनान् छलयन्ति ।
अमी इति । वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि पारिप्लवाश्चञ्चलाः । 'चञ्चलं चैव पारिप्लवपरिप्लवे' इत्यमरः । अमी शिरीषप्रसवां एवावतंसाः कर्णभूषाः शैवाललोलाञ्जलनीलिप्रियान् । 'जलनीली तु शैवालम्' इत्यमरः । मीनांश्छलयन्ति प्रादुर्भावयन्ति । शैवालप्रियत्वाच्छिरीषेषु शैवालाग्रात्प्रादुर्भवन्तीत्यर्थः ।
| ५५४ | रघुवंशमहाकाव्ये |
|---|
**भावार्थ—**इन क्रीडा करने वाली रानियों के कानों से सिरस के कर्णफूल नदी में गिरकर तैर रहे हैं, इनको देखकर मछलियों को सेवार का भ्रम हो रहा है और वे इन पर मुँह मारने को झपट रही हैं ॥ ६१ ॥
आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ॥ ६२ ॥
**अन्वयः—**जलास्फालनतत्पराणाम् आसां मुक्ताफलस्पर्धिषु पयोधरोत्सर्पिषु शीकरेषु शीर्यमाणः छिदुरः हारः न संलक्ष्यते ।
आसामिति । जलस्यास्फालने तत्पराणामासक्तानामासां स्त्रीणां मुक्ताफलस्पर्धिषु मौक्तिकानुकारिषु पयोधरेषु स्तनेषूत्सर्पन्त्युत्पतन्ति ये येषु शीकरेषु शीकराणां मध्ये शीर्यमाणो गलन्हारोऽत एव छिदुरः स्वयं छिन्नोऽपि संलक्ष्यते । "विदिभिच्छिदेः कुरच्" इति कुरच्प्रत्ययः । शीकरसंसर्गाच्छिन्न इति न ज्ञायत इति भावः ।
**भावार्थ—**देख ! जल-क्रीडा में आसक्त इन रानियों को यह भी पता नहीं है कि हमारे हार टूट गये हैं और मोती बिखर गये हैं। ये उन मोतियों के समान बूंदों को ही मोती मानकर समझ बैठी हैं कि हार टूटा नहीं है ॥ ६२ ॥
आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्व चराः स्तनानाम् ।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥ ६३ ॥
**अन्वयः—**विलासिनीनां रूपावयवोपमानानि अदूरवर्तीनि जातानि, नतनाभिकान्तेः आवर्तशोभा भ्रुवां भङ्गः स्तनानां द्वन्द्वचराः ।
आवर्तैति । विलासिनीनां विलसनशीलानां स्त्रीणाम् । "वौ कषलसकत्थस्रम्भः" इति घिनुण्प्रत्ययः । रूपावयवानामुपमेयानां यान्युपमानानि लोकप्रसिद्धानि तान्यदूरवर्तीन्यन्तिकगतानि जातानि । कस्य किमुपमानमित्यत्राह नतनाभिकान्तेर्निम्ननाभिशोभाया आवर्तशोभा । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । भ्रुवां भङ्गस्तरङ्गः स्तनानां द्वन्द्वचराश्चक्रवाकाः उपमानमिति सर्वत्र सम्बध्यते ।
**भावार्थ—**देख ! सुन्दरी स्त्रियों के शरीर अंगों के समान जो वस्तुयें संसार में प्रसिद्ध हैं वे सब इन सुन्दरियों के आसपास जुट आई हैं। ये पानी की भँवर इनकी गहरी नाभि के समान है, लहर इनकी भौंहों के समान है और चकवा-चकवी इनके स्तनों के समान हैं ॥ ६३ ॥
तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैर्मिनन्द्यमानम् ।
श्रोत्रेषु संमूर्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६४ ॥
षोडशः सर्गः ५५५
अन्वयः— उत्कलापैः प्रस्निग्धकेकैः तीरस्थलीबर्हिभिः अभिनन्द्यमानं रक्तं गीतानुगम् आसां वारिमृदङ्गवाद्यं श्रोत्रेषु सन्मूर्च्छन्ति ।
तीरेति । उत्कलापैरुरुच्चबर्हैः प्रस्निग्धा मधुराः केका येषां तैस्तीरस्थलीषु स्थितैर्बर्हिभिर्मयूरैरभिनन्द्यमानं रक्तं श्राव्यं गीतानुगं गीतानुसार्यासां स्त्रीणां सम्बन्धि वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु सम्मूर्छति व्याप्नोति ।
भाषार्थ— ये गा-गा कर जो मृदंग बजाने के समान थपकी दे-देकर जल ठोक रही है उसे सुनकर तट पर बैठे हुए मोर अपनी पूँछें उठा कर और बोलकर इनका अभिनन्दन कर रहे हैं ॥ ६४ ॥
संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः ।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६५ ॥
अन्वयः— संदष्टवस्त्रेषु अबलानितम्बेषु इन्दुप्रकाशान्तरितोडुतुल्याः अमी जलापूरितसूत्रमार्गा रशनाकलापाः मौनं भजन्ते ।
संदष्टेति । संदष्टवस्त्रेषु जलसेकात्संश्लिष्टांशुकेष्वबलानां नितम्बेष्वधिकरणेष्विन्दुप्रकाशेन ज्योत्स्नायान्तरितान्यावृतानि यान्युडूनि नक्षत्राणि तत्तुल्याः । मुक्तामयत्वादिति भावः । जलापूरितसूत्रमार्गाः । निश्चला इत्यर्थः । रशना एव कलापा भूषाः । ‘कलापो भूषणे बर्हे’ इत्यमरः । मौनं निःशब्दतामित्यर्थः ।
भाषार्थ— इन रानियों ने अपने नितम्बों पर सफेद वस्त्र लपेट लिया है जिसके नीचे करधनी के घुंघरू ऐसे दिखाई देते हैं जैसे चाँदनी से ढके हुए तारे हों । करधनी के डोरे में जल भर जाने से इन स्त्रियों के इधर-उधर दौड़ने पर भी ये बज नहीं रहे हैं ॥ ६५ ॥
एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः ।
वक्रेतराग्रैरलकैस्तरुण्योऽचूर्णारुणान्वारिलवान्वमन्ति ॥ ६६ ॥
अन्वयः— दर्पात् करोत्पीडितवारिधाराः सखीभिः वदनेषु सिक्ताः एताः तरुण्यः वक्रेतराग्रैः अलकैः चूर्णारुणान् वारिलवान् वमन्ति ।
एता इति । दर्पात्सखीजनं प्रति करैरुत्पीडिता उत्सारिता वारिधारा याभिस्ताः स्वयमपि पुनस्तथैव सखीभिर्वदनेषु सिक्ता एतास्तरुण्यो वक्रेतराग्रैर्जलसेकादृजुग्रैरलकैः करणैश्चूर्णैः कुङ्कुमादिभिररुणान्वारिलवानुदकबिन्दून्वमन्ति वर्षन्ति ।
भाषार्थ— जब इनकी सखियाँ इनके मुँह पर पानी डालती हैं और ये अहंकार से अपनी सखियों पर पानी उछालती हैं तब इनके सीधे लटके बालों से कुंकुम मिली हुई लाल रंग की बूँदें चूने लगती हैं ॥ ६६ ॥
५५६ रघुवंशमहाकाव्ये
उद्बन्धकेशश्च्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः ।
मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ ६७ ॥
**अन्वयः—**उद्बन्धकेशश्च्युतपत्रलेखः विश्लेषिमुक्ताफलपत्रवेष्टः अम्भोविहारा-
कुलितः प्रमदामुखानां वेषः मनोज्ञ एव ।
उद्बन्धेति । उद्बन्धा उद्भ्रष्टाः केशा यस्मिन्सः च्युतपत्रलेखः क्षतपत्ररचनः
विश्लेषिणो विस्रंसिनो मुक्ताफलपत्रवेष्टा मुक्तामयताटङ्का यस्मिन्सः । एवमम्भो-
विहाराकुलितोऽपि प्रमदामुखानां वेषो नेपथ्यं मनोज्ञ एव । 'रम्याणां विकृतिरपि
श्रियं तनोति' इति भावः ।
**भाषार्थ—**यद्यपि स्नान के कारण बाल खुल जाने से मुँह पर और स्तनों
पर बनी हुई चित्रकारी घुल जाने से तथा मोतियों के कर्णफूल कान से निकल
जाने से इन स्त्रियों का वेश बेढंगा हो गया फिर भी देख, ये कितनी मनोहर
लग रही हैं ॥ ६७ ॥
स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु ।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥ ६८ ॥
**अन्वयः—**स नौविमानात् अवतीर्य विलोलहारः ( सन् ) ताभिः सह
करेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिनीकः वन्यः द्विपेन्द्र इव अप्सु रेमे ।
स इति । कुशो नौविमानमिव नौविमानम् । उपमितसमासः । तस्मादवतीर्य
विलोलोहारः संस्ताभिः स्त्रीभिः सह करेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिन्युत्पाटित-
नलिनी यस्य स तथोक्तः सन् । "नद्यृतश्च" इति कप्प्रत्ययः । वन्यौ द्विपेन्द्र इव
अप्सु रेमे ।
**भाषार्थ—**यह कह कर हिलते हुए हार वाले कुश भी विमान के समान
नाव से पानी में उतर पड़े और जैसे कमलिनियों को उखाड़कर कन्धे पर
लटकाये हाथी हथिनियों के साथ जलक्रीड़ा करता है वैसे ही वे भी उनके साथ
जलविहार करने लगे ॥ ६८ ॥
ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयः विरेजुः ।
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ ६९ ॥
**अन्वयः—**ततः भ्राजिष्णुना नृपेण अनुगताः ताः स्त्रियः सातिशयं विरेजुः,
प्राक् एव मुक्ता नयनाभिरामः उन्मयूखम् इन्द्रनीलं प्राप्य किमुत ।
तत इति । ततो भ्राजिष्णुना प्रकाशनशीलेन । "भुवश्च" इति चकारादिष्णुच् ।
नृपेणानुगताः सङ्गतास्ताः स्त्रियः सातिशयं यथा तथा विरेजुः । प्रागेव इन्द्रनील-
षोडशः सर्गः ५५७
योगात्पूर्वमेव केवला अपीत्यर्थः । मुक्ता मणयो नयनाभिरामाः उन्मयूखमिन्द्रनीलं प्राप्य किमुत अभिरामा इति । किमु वक्तव्यमित्यर्थः ।
भाषार्थ—उसके बाद उस कान्तिमान् राजा कुश के साथ जलक्रीडा करती हुई वे रानियां पहले से भी अधिक सुन्दर लगने लगीं क्योंकि मोती तो यों ही सुन्दर हैं और फिर यदि वह इन्द्र नील मणि से गूँथ दिया जाय तब तो कहना ही क्या है ॥ ६९ ॥
वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् ।
तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥७०॥
अन्वयः—तम् आयताक्ष्यः काञ्चनशृङ्गमुक्तैः वर्णोदकैः प्रणयात् असिञ्चन् तथागतः सः सधातुनिष्यन्दः अद्रिराज इव अतितरां बभाषे ।
वर्णोदकैरिति । तं कुशमायताक्ष्यः काञ्चनस्य शृङ्गैर्मुक्तानि तैर्वर्णोदकैः कुङ्कुमादिवर्णद्रव्यसहितोदकैः प्रणयात्स्नेहादसिञ्चन् । तथागतस्तथा स्थितः वर्णोदकसिक्त इत्यर्थः । स कुशः सधातुनिष्यन्दो गैरिकद्रव्ययुक्तोऽद्रिराज इव अतितरां बभासेऽत्यर्थं चकासे ।
भाषार्थ—विशाल नेत्रवाली वे सुन्दरियां सोने की पिचकारियों से कुंकुमादि रङ्ग छोड़कर कुशको भिगोने लगीं । उस समय वे ऐसे सुन्दर लगते थे जैसे पर्वतराज हिमालय पर से गेरु आदि धातु का झरना गिर रहा हो ॥ ७० ॥
तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥७१॥
अन्वयः—अवरोधप्रमदासखेन तां सरिद्वरां विगाहमानेन तेन आकाशगङ्गा-रतिः अप्सरोभिः वृतः मरुत्वान् अनुयातलीलः ( अभूत् ) ।
तेनेति । अवरोधप्रमदासखेनान्तःपुरसुन्दरीसहचरेण तां सरिद्वरां सरयूं विगाहमानेन तेन कुशेनाराशगङ्गायां रतिः क्रीडा यस्य सोऽप्सरोभिर्वृत आवृतो मरुत्वानिन्द्रोऽनुयातलीलोऽनुकृतश्रीः अभूदिति शेषः । इन्द्रमनुकृतवानित्यर्थः ।
भाषार्थ—उन अन्तःपुर की रानियों के साथ श्रेष्ठ नदी सरयू में जलक्रीडा करते समय कुश ऐसे लगते थे मानो देवराज इन्द्र अप्सराओं के साथ आकाश गङ्गा में जलक्रीडा कर रहे हों ॥ ७१ ॥
यत्कुम्भयोनेरभिगम्य रामः कुशाय राज्येन समं दिदेश ।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥७२॥
| ५५८ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—यत् रामः कुम्भयोनेः अधिगम्य कुशाय राज्येन समं दिदेश, सलिले विहर्तुः अस्य तत् जैत्राभरणं अज्ञातपातं ( सत् ) ममज्ज ।
यदिति । यदाभरणं रामः कुम्भयोनेरगस्त्यादधिगम्य प्राप्य कुशाय राज्येन समं दिदेश ददौ । राज्यसममूल्यमित्यर्थः । सलिले विहर्तुः क्रीडितुरस्य कुशस्य तज्जैत्राभरणं जयशीलमाभरणमज्ञातपातं सन्ममज्ज बुबोड ।
भाषार्थ—राम को अगस्त्य मुनि ने जो विजयशील आभूषण दिया था उसे रामने राज्यके साथ ही कुश को दे दिया था। जलक्रीडा करते समय वह आभूषण पानी में गिर गया इसका पता किसी को नहीं चला ॥ ७२ ॥
स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव ।
दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श ॥७३॥
अन्वयः—असौ सदारः यथाकामं स्नात्वा तीरोपकार्यां गतमात्रः एव अपोढ-नेपथ्यविधिः ( एव ) दिव्येन वलयेन शून्यं बाहुं ददर्श ।
स्नात्वेति । असौ कुशः सदारः सन्यथाकामं यथेच्छं स्नात्वा विगाह्य तीरे योपकार्या पूर्वोक्ता तां गतमात्रो गत एवापोढनेपथ्यविधिरकृतप्रसाधन एव दिव्येन वलयेन शून्यं बाहुं ददर्श ।
भाषार्थ—रानियों के साथ इच्छानुसार जलक्रीडा करके जब कुश बाहर निकले और डेरे में गये तब कपड़े बदलने के पहले ही उन्होंने देखा कि बाहु पर वह दिव्य आभूषण नहीं है ॥ ७३ ॥
जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात् ।
सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः ॥७४॥
अन्वयः—यतः तत् जयश्रियः संवननं यस्मात् च गुरुणा आमुक्तपूर्वं अतः अस्य भ्रंशं न सेहे, लोभात् न हि, धीरः सः तुल्यपुष्पाभरणः ।
जयेति । यतः कारणात्तदाभरणं जयश्रियः संवननं वशीकरणम् । ‘वशक्रिया संवननम्’ इत्यमरः । यस्माच्च गुरुणा पित्रामुक्तपूर्वं पूर्वमामुक्तं धृतमित्यर्थः । ‘सुप्सुपे’ति समासः । अतो हेतोरस्याभरणस्य भ्रंशं नाशं न सेहे । लोभान्न । कुतः हि यस्माद्धीरो विद्वान् स कुशस्तुल्यानि पुष्पाण्याभरणानि च यस्य सः पुष्पेष्विवाभरणेषु धृतेषु निर्माल्यबुद्धिं करोतीत्यर्थः ।
भाषार्थ—बुद्धिमान् कुश पुष्प और आभूषण दोनों को समान समझते थे अतः उन्हें उस आभूषण के खोने का इसलिए दुःख नहीं हुआ था कि वह बहुमूल्य
षोडशः सर्गः ५५९
या किन्तु इस लिए दुःख हुआ कि वह आभूषण विजयलक्ष्मी का वशीकरण करने वाला था और पिता का चिह्न था ॥ ७४ ॥
ततः समाज्ञापयदाशु सर्वान्नानायिनस्तद्विचये नदीष्णान् ।
वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुरम्लानमुखप्रसादाः ॥ ७५ ॥
अन्वयः—ततः नदीष्णान् सर्वान् अनायिनः तद्विचये आशु समाज्ञापयत् ते सरयूं विगाह्य वन्ध्यश्रमा ( अपि ) अम्लानमुखप्रसादा ( सन्तः ) तं ऊचुः ।
तत इति । ततः नद्यां स्नान्ति कौशलेनेति नदीष्णाः तान् । ‘सुपि’ इति योगविभागात्कप्रत्ययः “निनदीभ्यां स्नातेः कौशले” इति षत्वम् । सर्वान्नानायिनो जालिकांस्तस्याभरणस्य विचयेऽन्वेषणे निमित्त आशु समाज्ञापयदादिदेश । तम् आनायिनः सरयू ं विगाह्य विलोड्य वन्ध्यश्रमा विफलप्रयासास्तथापि तद्गतिं ज्ञात्वाम्लानमुखप्रसादाः सश्रीकमुखाः सन्तस्तं कुशमूचुः ।
भाषार्थ—उन्होंने नदी में अच्छी तरह गोता लगाने वाले धीवरों को उस आभूषण को खोज डालने के लिए आज्ञा दी । बहुत देर तक उन लोगों ने पानी झकोरा पर उनका सारा परिश्रम व्यर्थ गया फिर भी प्रसन्न मुख होकर कुश के पास आकर बोले ॥ ७५ ॥
कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते ।
नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥ ७६ ॥
अन्वयः—हे देव ! प्रयत्नः कृतः पयसि मग्नं ते आभरणोत्तमं न च लब्धं ( किन्तु ) तत् अन्तर्ह्रदवासिना कुमुदेन नागेन लौल्यात् उपात्तं नूनम् ।
कृत इति । हे देव ! प्रयत्नः कृतः पयसि मग्नं तु तं आभरणोत्तमं न च लब्धम् । किंतु तदाभरणमन्तर्ह्रदवासिना कुमुदेन कुमुदाख्येन नागेन पन्नगेन लौल्याल्लोभादुपात्तं गृहीतम् । नूनमिति वितर्के ।
भाषार्थ—हे देव ! बहुत परिश्रम करने पर भी हम लोग जल में पड़े हुए आपका वह श्रेष्ठ आभूषण नहीं पा सके । मालूम पड़ता है कि इस जल में रहने वाले कुमुद नामक नाग ने लोभ से उसे चुरा लिया है ॥ ७६ ॥
ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः ।
गारुत्मतं तीरगतस्तरस्वी भुजङ्गनाशाय समाददेऽस्त्रम् ॥ ७७ ॥
अन्वयः—ततः धनुर्धरः कोपविलोहिताक्षः तपस्वी स तीरगतः ( सन् ) धनुः आततज्यं कृत्वा भुजङ्गनाशाय गारुत्मतम् अस्त्रं समाददे ।
५६० रघुवंशमहाकाव्ये
तत इति। ततो धनुर्धरः कोपविलोहिताक्षस्तरस्वी बलवान्स कुशस्तीरगतः सन्धनुराततज्यमधिज्यं कृत्वा भुजङ्गस्य कुमुदस्य नाशाय गारुत्मतं गरुत्मद्देवताकमस्त्रं समाददे ।
भाषार्थ—यह सुनते ही कुश की आँखें क्रोध से लाल हो गईं और वहीं तटपर खड़े होकर उन्होंने धनुष को ठीक करके उस पर नागों का नाश करने वाला गरुडास्त्र चढ़ाया ॥ ७७ ॥
तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समात्रविद्धतरङ्गहस्तः ।
रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ॥ ७८ ॥
अन्वयः—तस्मिन् संहितमात्रे एव ह्रदः समाविद्धतरङ्गहस्तः रोधांसि निघ्नन् अवपातमग्नः वन्यः करी इव परुषं ररास ।
तस्मिन्निति । तस्मिन्नस्त्रे संहितमात्रे सत्येव ह्रदः क्षोभाद्धेतोः समाविद्धाः-सङ्घटितास्तरङ्गा एव हस्ता यस्य सः रोधांसि निघ्नन्पातयन् अवपाते राजग्रहणगर्ते मग्नः पतितः । ‘अवपातस्तु हस्त्यर्थे गर्तश्छन्नस्तृणादिना’ इति यादवः । वन्यः करीव । परुषं घोरं ररास दध्वान ।
भाषार्थ—उसके धनुष चढ़ाते ही वहाँ का जल खलबलाता हुआ अपने तरङ्ग रूपी हाथ को जोड़े हुए तटों को गिराता हुआ वह ह्रद ऐसे गरजने लगा जैसे गड्ढे में पड़ा हुआ कोई जंगली हाथी चिंघाड़ रहा हो ॥ ७८ ॥
तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज ।
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजङ्गराजः ॥ ७९ ॥
अन्वयः—मथ्यमानात् समुद्रात् इव उद्वृत्तनक्रात् तस्मात् लक्ष्म्या सार्धं सुरराजवृक्षः इव कन्यां पुरस्कृत्य भुजङ्गराजः सहसा उन्ममज्ज ।
तस्मादिति । मथ्यमानात्समुद्रादिव उद्वृत्तनक्रात्क्षुभितग्राहात्तस्मात् ह्रदात् लक्ष्म्या सार्धं सुरराजस्येन्द्रस्य वृक्षः पारिजात इव कन्यां पुरस्कृत्य भुजङ्गराजः कुमुदः सहसोन्ममज्ज ।
भाषार्थ—उस जल को समुद्र के समान मथा जाता हुआ देखकर मगर आदि जलजन्तु घबड़ा उठे, इतने में ही एकाएक एक कन्या को आगे किये हुए नागराज कुमुद उस जल में से इस प्रकार निकला मानो लक्ष्मी को साथ लेकर कल्पवृक्ष निकल आया हो ॥ ७९ ॥
विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशाम्पतिस्तम् ।
सौपर्णमस्त्रं प्रतिसञ्जहार प्रह्वेष्वनिर्वन्धरुषो हि सन्तः ॥ ८० ॥
षोडशः सर्गः ५६१
षोडशः सर्गः ५६१
अन्वयः—विशांपतिः विभूषणप्रत्युपहारहस्तं उपस्थितं तं वीक्ष्य सौपर्णं अस्त्रं प्रतिसञ्जहार हि सन्तः प्रह्वेषु निर्बन्धरुषः ( भवन्ति ) ।
विभूषणेति । विशाम्पतिर्मनुजपतिः कुशः । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । विभूषणं प्रत्युपहरति प्रत्यर्पयतीति विभूषणप्रत्युपहारः । कर्मण्यण् । विभूषणप्रत्युपहारो हस्तो यस्य तम् । उपस्थितं प्राप्तं तं कुमुदं वीक्ष्य सौपर्णं गारुत्मतमस्त्रं प्रतिसञ्जहार । तथाहि सन्तः प्रह्वेषु नम्रेष्वनिर्वन्धरुषोऽनियतकोपा हि ।
भाषार्थ—राजा कुशने आभूषणरूप प्रत्युपहार को लेकर उपस्थित उस नाग को देख कर धनुष पर-से गारुडास्त्र उतार लिया, क्योंकि सज्जन लोग उनपर क्रोध नहीं करते जो नम्र होकर उनके आगे आ जाते हैं ॥ ८० ॥
त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान्।
मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्द्धाभिषिक्तं कुमुदो बभाषे ॥८१॥
अन्वयः—अस्त्रविद्वान् कुमुदः त्रैलोक्यनाथं (अतएव) प्रभावात् द्विषां अंकुशं मूर्द्धाभिषिक्तं कुशं मानोन्नतेन अपि मूर्ध्ना अभिवन्द्य बभाषे ।
त्रैलोक्येति । अस्त्रं विद्वानस्त्रविद्वान् । “न लोकाव्ययनिष्ठाखलर्थतृनाम्” इत्यनेन षष्ठीसमासनिषेधः । “द्वितीया श्रिता०” इत्यत्र गम्यादीनामुपसंख्यानाद् द्वितीयेति योगविभागाद्वा समासः । गरुडास्त्रमहिमाभिज्ञ इत्यर्थः । कुमुदः । त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम् । अतएव प्रभावाद् द्विषामंकुशं निवारकं मूर्द्धाभिषिक्तं राजानं मानोन्नतेनापि मूर्ध्नाभिवन्द्य प्रणम्य बभाषे ।
भाषार्थ—त्रिलोकीनाथ राम के पुत्र तथा शत्रुओं को अंकुश के समान दुख देने वाले राजा कुश को मान से उन्नत अपना शिर नम्र करके कुमुद प्रणाम करके बोला क्योंकि वह कुश के बाण की शक्तिको भलीभाँति जानता था ॥८१॥
अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम् ॥८२॥
अन्वयः—त्वां कार्यान्तरमानुषस्य विष्णोः सुताख्यां अपरां तनुं अवैमि । सः अहं आराधनीयस्य तव धृतेः विघातं कथं नाम आचरेयम् ।
अवैमीति । त्वाम् ओदनान्तरस्तण्डुल इतिवत्कार्यान्तरः कार्यार्थः । 'स्थानात्मीयान्यतादर्थ्यरन्ध्रान्त्येषु चान्तरम्' इति शाश्वतः । स चासौ मानुषश्चेति तस्य विष्णोः रामस्य सुताख्यां पुत्रसंज्ञामपरां तनुं मूर्तिमवैमि । 'आत्मा वै पुत्रनामासि' इति
३६ र० सम्पू०
५६२ रघुवंशमहाकाव्ये
श्रुतेरित्यर्थः । स जानन्नहमागराधनीयस्योपास्यस्य तव धृतेः प्रीतेः । 'धृ प्रीतौ' इति धातोः स्त्रियां क्तिन् । विघातं कथं नामाचरेयम् । असम्भावितमित्यर्थः ।
भाषार्थ--मैं जानता हूँ कि आप राक्षसों का नाश करने के लिए मनुष्य शरीर धारण करने वाले विष्णु के पुत्र हैं इसलिए आप पूज्य हैं फिर मैं आप से वैर कैसे कर सकता हूँ ? ॥ ८२ ॥
कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन । ह्रदात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥८३॥
अन्वयः—कराभिघातेनोत्थितकन्दुका इयं बालातिकुतूहलेन अन्तरिक्षात् ज्योतिः इव ह्रदात् पतत् त्वदीयं जैत्राभरण आलोक्य आदत्त ।
करंति । कराभिघातेनोत्थित ऊर्ध्वं गत कन्दुको यस्याः सा कन्दुकार्थमूर्ध्वं पश्यन्तीत्यर्थ इयं बालातिकुतूहलेनात्यन्तकोतुकेनान्तरिक्षाज्ज्योतिनक्षत्रमिव । ‘ज्योतिर्भद्योतदृष्टिपु’ इत्यमरः । ह्रदात्पतत्त्वदीयं जैत्राभरणमालोक्यादत्त।गृहात् ।
भाषार्थ—यह मेरी अबोध बालिका गेंद खेल रही थी, इसकी थपकी से गेंद ऊपर उछल गई, उसे देखने के लिये उसने ऊपर आँखें उठाई तो देखा कि आकाश से गिरते हुए तारे के समान आप का आभूषण नीचे चला जा रहा है इसने उसे झट पकड़ लिया ॥ ८३ ॥
तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन । भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥८४॥
अन्वयः—तत् एतत् आजानुविलम्बिना ज्याघातरेखाकिणलाञ्छनेन भूमेः रक्षापरिघेण ते अंसलेन भुजेन पुनः योगं उपैतु ।
तदिति । तदेतदाभरणमाजानुविलम्बिना दीर्घेण ज्याघातेन या रेखा रेखाकारा ग्रन्थयस्तासां किणं चिह्नं तदेव लाञ्छनं यस्य तेन भूमेः रक्षायाः परिघेण रक्षार्गलेन । ‘परिघो योगभेदास्त्रमुद्गरेऽर्गलघातयोः’ इत्यमरः । अंसलेन बलवता ते भुजेन पुनर्योगं संगतिमुपैतु । एतैर्विशेषणैर्महाभाग्यशौर्यधुरन्धरत्वबलवत्त्वादि गम्यते ।
भाषार्थ—आप उसे लीजिये और अपनी उस मोटी घुटनों तक लम्बी भुजा में फिर बांध लीजिये जिसमें धनुष की डोरी फटकार से घट्ठं पड़ गये हैं और जो पृथ्वी की रक्षा करती है ॥ ८४ ॥
इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मनपराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥८५॥
षोडशः सर्गः ५६३
**अन्वयः—**हे पार्थिव ! ते पादयोः चिराय शुश्रूषया आत्मापराधं नुदतीं इमां मे यवीयसीं स्वसारं कुमुद्वतीं अनुमन्तुं न अर्हसि ? ।
इमामिति । किञ्च हे पार्थिव ! ते तव पादयोश्चिराय शुश्रूषया परिचर्यया । 'शुश्रूषा श्रोतुमिच्छा या परिचर्याप्रदानयोः' इति विश्वः । आत्मापराधमाभरणग्रहणरूपं परिजिहीर्षन्तीमित्यर्थः । "आशंसायां भूतवच्च"इति चकाराद्वर्तमानार्थे शतृप्रत्ययः । "आच्छीनद्योर्नुम्" इत्यस्य वैकल्पिकत्वान्नुमभावः । इमां मे यवीयसीं कनिष्ठां स्वसारं भगिनीं कुमुद्वतीमनुमन्तुं नार्हसीति न । अर्हस्येवेत्यर्थः ।
**भाषार्थ—**यह मेरी छोटी बहन कुमुद्वती जीवन भर आपकी सेवा करके अपना अपराध मिटाना चाहती है इसलिये आप इसे अपनी पत्नी के रूप में ग्रहण कर लीजिये ॥ ८५ ॥
इत्यूचिवानुपहृताभरणः क्षितीशं
श्लाघ्यो भवान्स्वजन इत्यनुभाषितारम् ।
संयोजयां विधिवदास समेतबन्धुः
कन्यामयेन कुमुदः कुलभूषणेन ॥ ८६ ॥
**अन्वयः—**इति ऊचिवान् उपहृताभरणः कुमुदः भवान् श्लाघ्यः स्वजनः इति अनुभाषितारं क्षितीशं समेतबन्धुः (सन् ) कन्यामयेन कुलभूषणेन विधिवत् संयोजयामास ।
इतीति । इति पूर्वश्लोकोक्तमूचिवानुक्तवान् । ब्रुवः क्वसुः । उपहृताभरणः उपहृतमाभरणं यस्मै प्रत्यर्पिताभरणः कुमुदः । हे कुमुद ! भवाञ्श्लाघ्यः स्वजनो बन्धुः इत्यनुभाषितारमनुवक्तारं क्षितीशं कुशं समेतबन्धुः सन् कन्यामयेन कन्यारूपेण कुलयोर्भूषणेन विधिवत्संयोजयामास । न केवलं तदीयमेव किंतु स्वकीयमपि भूषणं तस्मै दत्तवानिति ध्वनिः । आम्प्रत्ययानुप्रयोगयोर्व्यवधानं तु प्रागेव समाहितम् ।
**भाषार्थ—**यह कहकर कुमुद ने वह आभूषण कुश को दे दिया । कुश बोले, आज से आप मेरे आदरणीय सम्बन्धी हो गये । यह सुनकर उसने अपने कुटुम्बियों को बुलाकर बड़ी धूम-धाम से कुमुद्वती को कुश से ब्याह दिया ॥ ८६ ॥
तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते
माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।
दिव्यस्तूर्यध्वनिरुदचरद्व्यञ्जुवानो दिगन्तान्
गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः ॥ ८७ ॥
| ५६४ | रघुवंशमहाकाव्ये |
|---|
अन्वयः—मनुजपतिना साहचर्याय मांगत्योर्णावलयिनि तस्याः हस्ते उच्छिखस्य पावकस्य पुरः स्पृष्टे दिगन्तान् व्यश्नुवानः दिव्यस्तूर्यध्वनिः उदचरत् तदनु आश्चर्यमेघाः गन्धोदग्रं पुष्पं ववृषुः।
तस्या इति। मनुजपतिना कुशेन साहचर्याय सहधर्मचारणायेत्यर्थः। माङ्गल्या मङ्गले साधुर्योर्णा मेषादिलोम। 'ऊर्णा मेषादिलोम्नि स्यात्' इत्यमरः। अत्र लक्षणया तन्निर्मितं सूत्रमुच्यते। तया वलयिनि बलयवति तस्याः कुमुद्वत्या हस्ते पाणावुच्छिखस्योदर्चिषः पावकस्य पुरोऽग्रे स्पृष्टे गृहीते सति दिगन्तान्व्यश्नुवानो व्याप्नुवन् दिव्यस्तूर्यध्वनिरुदचरदुत्थितः। तदन्वाश्चर्या अद्भुता मेघा गन्धेनोदग्रमुत्कटं पुष्पं पुष्पाणि। जात्यभिप्रायेणैकवचनम् ववृषुः। आश्चर्यशब्दस्य 'रौद्रं तूग्रममी त्रिषु। चतुर्दश' इत्यमरवचनात्त्रिलिङ्गत्वम्।
भाषार्थ—जब राजा कुश ने अपनी सहधर्मिणी बनाने के लिये प्रज्वलित अग्नि के आगे उस कुमुद्वती का कङ्कन बँधा हुआ हाथ पकड़ा, उस समय तुरही आदि दिव्य वाद्यों की ध्वनि से दिशायें गूंज उठीं और आश्चर्य युक्त मेघों ने सुगन्धित पुष्पों की वर्षा की॥ ८७॥
इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं
लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य।
एकः शङ्कां पितृवधरिपोस्त्यजद्वैनतेया-
च्छान्तव्यालामवनिमपरः पौरकान्तः शशास॥ ८८॥
अन्वयः—इत्थं नागः त्रिभुवनगुरोः औरसं मैथिलेयं बन्धुं लब्ध्वा, कुशः अपि च तक्षकस्य पञ्चमं पुत्रं तं (बन्धुं लब्ध्वा) एकः पितृवधरिपोः वैनतेयात् शंकाम् अत्यजत् अपरः शान्तव्यालाम् अवनिं पौरकान्तः सन् शशास।
इत्थमिति। इत्थं नागः कुमुदः त्रयाणां भुवनानां समाहारस्त्रिभुवनं। "तद्धितार्थ०" इत्यादिना तत्पुरुषः। अदन्तद्विगुत्वेऽपि पात्राद्यदन्तत्वान्नपुंसकत्वम्। 'पात्राद्यदन्तरनेकार्थो द्विगुर्लक्ष्यानुसारतः' इत्यमरः। तस्य गुरु रामः तस्यौरसं धर्मपत्नीजं पुत्रम् 'औरसो धर्मपत्नीजः' इति याज्ञवल्क्यः। मैथिलेयं कुशं बन्धुं लब्ध्वा कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपोर्वैनतेयाद् गरुडात् गुरुणा वैष्णवांशेन कुशेन। त्याजितक्रौर्यादिति भावः। शङ्कां भयमत्यजत्। अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयामवनिमन्त एव पौरकान्तः पौरप्रियः सञ्छशास।
भाषार्थ—इस प्रकार नागराज कुमुदने त्रिलोकीनाथ राम के और मैथिली-