भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

षोडशः सर्गः ५५३

षोडशः सर्गः ५५३

विलुप्तमन्तःपुरसुन्दरीणां यदञ्जनं नौलुलिताभिरद्भिः । तद्बध्नतीभिर्मदरागशोभां विलोचनेषु प्रतिमुक्तमासाम् ॥ ५९ ॥ **अन्वयः—**नौलुलिताभिः अद्भिः अन्तः पुरसुन्दरीणां यत् अञ्जनं विलुप्तं, तत् विलोचनेषु मदरागशोभां बध्नतीभिमां आसां प्रतिमुक्तम् ।

विलुप्तमिति । नौलुलिताभिनौक्षुभिताभिरद्भिरन्तःपुरसुन्दरीणां यदञ्जनं कज्जलं विलुप्तं हृतं तदञ्जनं विलोचनेषु नयनेषु मदेन या रागशोभा तां बध्नतीभिर्घटयन्तीभिरद्गिरासां प्रतिमुक्तं प्रत्यर्पितम् । प्रतिनिधिदानमपि तत्कार्यकारित्वात्प्रत्यर्पणमेवेति भावः ।

**भाषार्थ—**नावों के चलने से जल में जो लहरें उठती हैं उन्होंने इन सुन्दरियों की आँखों का अञ्जन धो दिया है और उसके बदले में मदपान के समय की लाली इनकी आँखों में भर दी है ॥ ५९ ॥

एता गुरुश्रोणिपयोधरत्वादात्मानमुद्बोढुमशक्नुवन्त्यः । गाढाङ्गदैर्बाहुभिरप्सु बालाः क्लेशोत्तरं रागवशात्प्लवन्ते ॥ ६० ॥ **अन्वयः—**गुरुश्रोणिपयोधरत्वात् आत्मानं उद्बोढुं अशक्नुवत्यः एता बाला गाढाङ्गदैः बाहुभिः क्लेशोत्तरं रागवशात् प्लवन्ते ।

एता इति । गुरु दुर्बहं श्रोणिपयोधरं यस्यात्मन इति विग्रहः । गुरुश्रोणिपयोधरत्वादात्मानं शरीरमुद्बोढुमशक्नुवत्य एता बाला गाढाङ्गदैः श्लिष्टाङ्गदैर्बाहुभिः क्लेशोत्तरं दुःखप्रायं यथा तथा रागवशात्क्रीडाभिनिवेशात्पारतन्त्र्यात्प्लवन्ते तरन्ति।

**भाषार्थ—**भारी-भारी नितम्बों और स्तनों के कारण ये रानियां अच्छी तरह तैर नहीं पातीं, किसी खेल में सम्मिलित होने के कारण मोटे-मोटे भुजबन्धों वाली बांहों से बड़ी कठिनाई से तैरती हैं ॥ ६० ॥

अमी शिरीषप्रसवावतंसाः प्रभ्रंशिनो वारिविहारिणीनाम् । पारिप्लवाः स्रोतसि निम्नगायाः शैवाललोलांश्छलयन्ति मीनान् ॥ ६१ ॥ **अन्वयः—**वारिविहारिणीनां प्रभ्रंशिनः निम्नगायाः स्रोतसि पारिप्लवाः अमी शिरीषप्रसवावतंसाः शैवाललोलान् मीनान् छलयन्ति ।

अमी इति । वारिविहारिणीनामासां प्रभ्रंशिनो भ्रष्टा निम्नगायाः स्रोतसि पारिप्लवाश्चञ्चलाः । 'चञ्चलं चैव पारिप्लवपरिप्लवे' इत्यमरः । अमी शिरीषप्रसवां एवावतंसाः कर्णभूषाः शैवाललोलाञ्जलनीलिप्रियान् । 'जलनीली तु शैवालम्' इत्यमरः । मीनांश्छलयन्ति प्रादुर्भावयन्ति । शैवालप्रियत्वाच्छिरीषेषु शैवालाग्रात्प्रादुर्भवन्तीत्यर्थः ।

५५४रघुवंशमहाकाव्ये

**भावार्थ—**इन क्रीडा करने वाली रानियों के कानों से सिरस के कर्णफूल नदी में गिरकर तैर रहे हैं, इनको देखकर मछलियों को सेवार का भ्रम हो रहा है और वे इन पर मुँह मारने को झपट रही हैं ॥ ६१ ॥

आसां जलास्फालनतत्पराणां मुक्ताफलस्पर्धिषु शीकरेषु ।
पयोधरोत्सर्पिषु शीर्यमाणः संलक्ष्यते न च्छिदुरोऽपि हारः ॥ ६२ ॥

**अन्वयः—**जलास्फालनतत्पराणाम् आसां मुक्ताफलस्पर्धिषु पयोधरोत्सर्पिषु शीकरेषु शीर्यमाणः छिदुरः हारः न संलक्ष्यते ।

आसामिति । जलस्यास्फालने तत्पराणामासक्तानामासां स्त्रीणां मुक्ताफलस्पर्धिषु मौक्तिकानुकारिषु पयोधरेषु स्तनेषूत्सर्पन्त्युत्पतन्ति ये येषु शीकरेषु शीकराणां मध्ये शीर्यमाणो गलन्हारोऽत एव छिदुरः स्वयं छिन्नोऽपि संलक्ष्यते । "विदिभिच्छिदेः कुरच्" इति कुरच्प्रत्ययः । शीकरसंसर्गाच्छिन्न इति न ज्ञायत इति भावः ।

**भावार्थ—**देख ! जल-क्रीडा में आसक्त इन रानियों को यह भी पता नहीं है कि हमारे हार टूट गये हैं और मोती बिखर गये हैं। ये उन मोतियों के समान बूंदों को ही मोती मानकर समझ बैठी हैं कि हार टूटा नहीं है ॥ ६२ ॥

आवर्तशोभा नतनाभिकान्तेर्भङ्गो भ्रुवां द्वन्द्व चराः स्तनानाम् ।
जातानि रूपावयवोपमानान्यदूरवर्तीनि विलासिनीनाम् ॥ ६३ ॥

**अन्वयः—**विलासिनीनां रूपावयवोपमानानि अदूरवर्तीनि जातानि, नतनाभिकान्तेः आवर्तशोभा भ्रुवां भङ्गः स्तनानां द्वन्द्वचराः ।

आवर्तैति । विलासिनीनां विलसनशीलानां स्त्रीणाम् । "वौ कषलसकत्थस्रम्भः" इति घिनुण्प्रत्ययः । रूपावयवानामुपमेयानां यान्युपमानानि लोकप्रसिद्धानि तान्यदूरवर्तीन्यन्तिकगतानि जातानि । कस्य किमुपमानमित्यत्राह नतनाभिकान्तेर्निम्ननाभिशोभाया आवर्तशोभा । 'स्यादावर्तोऽम्भसां भ्रमः' इत्यमरः । भ्रुवां भङ्गस्तरङ्गः स्तनानां द्वन्द्वचराश्चक्रवाकाः उपमानमिति सर्वत्र सम्बध्यते ।

**भावार्थ—**देख ! सुन्दरी स्त्रियों के शरीर अंगों के समान जो वस्तुयें संसार में प्रसिद्ध हैं वे सब इन सुन्दरियों के आसपास जुट आई हैं। ये पानी की भँवर इनकी गहरी नाभि के समान है, लहर इनकी भौंहों के समान है और चकवा-चकवी इनके स्तनों के समान हैं ॥ ६३ ॥

तीरस्थलीबर्हिभिरुत्कलापैः प्रस्निग्धकेकैर्मिनन्द्यमानम् ।
श्रोत्रेषु संमूर्छति रक्तमासां गीतानुगं वारिमृदङ्गवाद्यम् ॥ ६४ ॥

षोडशः सर्गः ५५५

अन्वयः— उत्कलापैः प्रस्निग्धकेकैः तीरस्थलीबर्हिभिः अभिनन्द्यमानं रक्तं गीतानुगम् आसां वारिमृदङ्गवाद्यं श्रोत्रेषु सन्मूर्च्छन्ति ।

तीरेति । उत्कलापैरुरुच्चबर्हैः प्रस्निग्धा मधुराः केका येषां तैस्तीरस्थलीषु स्थितैर्बर्हिभिर्मयूरैरभिनन्द्यमानं रक्तं श्राव्यं गीतानुगं गीतानुसार्यासां स्त्रीणां सम्बन्धि वार्येव मृदङ्गस्तस्य वाद्यं वाद्यध्वनिः श्रोत्रेषु सम्मूर्छति व्याप्नोति ।

भाषार्थ— ये गा-गा कर जो मृदंग बजाने के समान थपकी दे-देकर जल ठोक रही है उसे सुनकर तट पर बैठे हुए मोर अपनी पूँछें उठा कर और बोलकर इनका अभिनन्दन कर रहे हैं ॥ ६४ ॥


संदष्टवस्त्रेष्वबलानितम्बेष्विन्दुप्रकाशान्तरितोडुतुल्याः ।
अमी जलापूरितसूत्रमार्गा मौनं भजन्ते रशनाकलापाः ॥ ६५ ॥

अन्वयः— संदष्टवस्त्रेषु अबलानितम्बेषु इन्दुप्रकाशान्तरितोडुतुल्याः अमी जलापूरितसूत्रमार्गा रशनाकलापाः मौनं भजन्ते ।

संदष्टेति । संदष्टवस्त्रेषु जलसेकात्संश्लिष्टांशुकेष्वबलानां नितम्बेष्वधिकरणेष्विन्दुप्रकाशेन ज्योत्स्नायान्तरितान्यावृतानि यान्युडूनि नक्षत्राणि तत्तुल्याः । मुक्तामयत्वादिति भावः । जलापूरितसूत्रमार्गाः । निश्चला इत्यर्थः । रशना एव कलापा भूषाः । ‘कलापो भूषणे बर्हे’ इत्यमरः । मौनं निःशब्दतामित्यर्थः ।

भाषार्थ— इन रानियों ने अपने नितम्बों पर सफेद वस्त्र लपेट लिया है जिसके नीचे करधनी के घुंघरू ऐसे दिखाई देते हैं जैसे चाँदनी से ढके हुए तारे हों । करधनी के डोरे में जल भर जाने से इन स्त्रियों के इधर-उधर दौड़ने पर भी ये बज नहीं रहे हैं ॥ ६५ ॥


एताः करोत्पीडितवारिधारा दर्पात्सखीभिर्वदनेषु सिक्ताः ।
वक्रेतराग्रैरलकैस्तरुण्योऽचूर्णारुणान्वारिलवान्वमन्ति ॥ ६६ ॥

अन्वयः— दर्पात् करोत्पीडितवारिधाराः सखीभिः वदनेषु सिक्ताः एताः तरुण्यः वक्रेतराग्रैः अलकैः चूर्णारुणान् वारिलवान् वमन्ति ।

एता इति । दर्पात्सखीजनं प्रति करैरुत्पीडिता उत्सारिता वारिधारा याभिस्ताः स्वयमपि पुनस्तथैव सखीभिर्वदनेषु सिक्ता एतास्तरुण्यो वक्रेतराग्रैर्जलसेकादृजुग्रैरलकैः करणैश्चूर्णैः कुङ्कुमादिभिररुणान्वारिलवानुदकबिन्दून्वमन्ति वर्षन्ति ।

भाषार्थ— जब इनकी सखियाँ इनके मुँह पर पानी डालती हैं और ये अहंकार से अपनी सखियों पर पानी उछालती हैं तब इनके सीधे लटके बालों से कुंकुम मिली हुई लाल रंग की बूँदें चूने लगती हैं ॥ ६६ ॥

५५६ रघुवंशमहाकाव्ये

उद्बन्धकेशश्च्युतपत्रलेखो विश्लेषिमुक्ताफलपत्रवेष्टः ।
मनोज्ञ एव प्रमदामुखानामम्भोविहाराकुलितोऽपि वेषः ॥ ६७ ॥

**अन्वयः—**उद्बन्धकेशश्च्युतपत्रलेखः विश्लेषिमुक्ताफलपत्रवेष्टः अम्भोविहारा-
कुलितः प्रमदामुखानां वेषः मनोज्ञ एव ।

उद्बन्धेति । उद्बन्धा उद्भ्रष्टाः केशा यस्मिन्सः च्युतपत्रलेखः क्षतपत्ररचनः
विश्लेषिणो विस्रंसिनो मुक्ताफलपत्रवेष्टा मुक्तामयताटङ्का यस्मिन्सः । एवमम्भो-
विहाराकुलितोऽपि प्रमदामुखानां वेषो नेपथ्यं मनोज्ञ एव । 'रम्याणां विकृतिरपि
श्रियं तनोति' इति भावः ।

**भाषार्थ—**यद्यपि स्नान के कारण बाल खुल जाने से मुँह पर और स्तनों
पर बनी हुई चित्रकारी घुल जाने से तथा मोतियों के कर्णफूल कान से निकल
जाने से इन स्त्रियों का वेश बेढंगा हो गया फिर भी देख, ये कितनी मनोहर
लग रही हैं ॥ ६७ ॥

स नौविमानादवतीर्य रेमे विलोलहारः सह ताभिरप्सु ।
स्कन्धावलग्नोद्धृतपद्मिनीकः करेणुभिर्वन्य इव द्विपेन्द्रः ॥ ६८ ॥

**अन्वयः—**स नौविमानात् अवतीर्य विलोलहारः ( सन् ) ताभिः सह
करेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिनीकः वन्यः द्विपेन्द्र इव अप्सु रेमे ।

स इति । कुशो नौविमानमिव नौविमानम् । उपमितसमासः । तस्मादवतीर्य
विलोलोहारः संस्ताभिः स्त्रीभिः सह करेणुभिः सह स्कन्धावलग्नोद्धृतपद्मिन्युत्पाटित-
नलिनी यस्य स तथोक्तः सन् । "नद्यृतश्च" इति कप्प्रत्ययः । वन्यौ द्विपेन्द्र इव
अप्सु रेमे ।

**भाषार्थ—**यह कह कर हिलते हुए हार वाले कुश भी विमान के समान
नाव से पानी में उतर पड़े और जैसे कमलिनियों को उखाड़कर कन्धे पर
लटकाये हाथी हथिनियों के साथ जलक्रीड़ा करता है वैसे ही वे भी उनके साथ
जलविहार करने लगे ॥ ६८ ॥

ततो नृपेणानुगताः स्त्रियस्ता भ्राजिष्णुना सातिशयः विरेजुः ।
प्रागेव मुक्ता नयनाभिरामाः प्राप्येन्द्रनीलं किमुतोन्मयूखम् ॥ ६९ ॥

**अन्वयः—**ततः भ्राजिष्णुना नृपेण अनुगताः ताः स्त्रियः सातिशयं विरेजुः,
प्राक् एव मुक्ता नयनाभिरामः उन्मयूखम् इन्द्रनीलं प्राप्य किमुत ।

तत इति । ततो भ्राजिष्णुना प्रकाशनशीलेन । "भुवश्च" इति चकारादिष्णुच् ।
नृपेणानुगताः सङ्गतास्ताः स्त्रियः सातिशयं यथा तथा विरेजुः । प्रागेव इन्द्रनील-

षोडशः सर्गः ५५७

योगात्पूर्वमेव केवला अपीत्यर्थः । मुक्ता मणयो नयनाभिरामाः उन्मयूखमिन्द्रनीलं प्राप्य किमुत अभिरामा इति । किमु वक्तव्यमित्यर्थः ।

भाषार्थ—उसके बाद उस कान्तिमान् राजा कुश के साथ जलक्रीडा करती हुई वे रानियां पहले से भी अधिक सुन्दर लगने लगीं क्योंकि मोती तो यों ही सुन्दर हैं और फिर यदि वह इन्द्र नील मणि से गूँथ दिया जाय तब तो कहना ही क्या है ॥ ६९ ॥

वर्णोदकैः काञ्चनशृङ्गमुक्तैस्तमायताक्ष्यः प्रणयादसिञ्चन् ।
तथागतः सोऽतितरां बभासे सधातुनिष्यन्द इवाद्रिराजः ॥७०॥

अन्वयः—तम् आयताक्ष्यः काञ्चनशृङ्गमुक्तैः वर्णोदकैः प्रणयात् असिञ्चन् तथागतः सः सधातुनिष्यन्दः अद्रिराज इव अतितरां बभाषे ।

वर्णोदकैरिति । तं कुशमायताक्ष्यः काञ्चनस्य शृङ्गैर्मुक्तानि तैर्वर्णोदकैः कुङ्कुमादिवर्णद्रव्यसहितोदकैः प्रणयात्स्नेहादसिञ्चन् । तथागतस्तथा स्थितः वर्णोदकसिक्त इत्यर्थः । स कुशः सधातुनिष्यन्दो गैरिकद्रव्ययुक्तोऽद्रिराज इव अतितरां बभासेऽत्यर्थं चकासे ।

भाषार्थ—विशाल नेत्रवाली वे सुन्दरियां सोने की पिचकारियों से कुंकुमादि रङ्ग छोड़कर कुशको भिगोने लगीं । उस समय वे ऐसे सुन्दर लगते थे जैसे पर्वतराज हिमालय पर से गेरु आदि धातु का झरना गिर रहा हो ॥ ७० ॥

तेनावरोधप्रमदासखेन विगाहमानेन सरिद्वरां ताम् ।
आकाशगङ्गारतिरप्सरोभिर्वृतो मरुत्वाननुयातलीलः ॥७१॥

अन्वयः—अवरोधप्रमदासखेन तां सरिद्वरां विगाहमानेन तेन आकाशगङ्गा-रतिः अप्सरोभिः वृतः मरुत्वान् अनुयातलीलः ( अभूत् ) ।

तेनेति । अवरोधप्रमदासखेनान्तःपुरसुन्दरीसहचरेण तां सरिद्वरां सरयूं विगाहमानेन तेन कुशेनाराशगङ्गायां रतिः क्रीडा यस्य सोऽप्सरोभिर्वृत आवृतो मरुत्वानिन्द्रोऽनुयातलीलोऽनुकृतश्रीः अभूदिति शेषः । इन्द्रमनुकृतवानित्यर्थः ।

भाषार्थ—उन अन्तःपुर की रानियों के साथ श्रेष्ठ नदी सरयू में जलक्रीडा करते समय कुश ऐसे लगते थे मानो देवराज इन्द्र अप्सराओं के साथ आकाश गङ्गा में जलक्रीडा कर रहे हों ॥ ७१ ॥

यत्कुम्भयोनेरभिगम्य रामः कुशाय राज्येन समं दिदेश ।
तदस्य जैत्राभरणं विहर्तुरज्ञातपातं सलिले ममज्ज ॥७२॥

५५८रघुवंशमहाकाव्ये

अन्वयः—यत् रामः कुम्भयोनेः अधिगम्‍य कुशाय राज्‍येन समं दिदेश, सलिले विहर्तुः अस्य तत् जैत्राभरणं अज्ञातपातं ( सत् ) ममज्ज ।

यदि‍ति । यदाभरणं रामः कुम्भयोनेरगस्त्यादधिगम्य प्राप्य कुशाय राज्येन समं दिदेश ददौ । राज्यसममूल्यमित्यर्थः । सलिले विहर्तुः क्रीडितुरस्य कुशस्य तज्जैत्राभरणं जयशीलमाभरणमज्ञातपातं सन्ममज्ज बुबोड ।

भाषार्थ—राम को अगस्त्य मुनि ने जो विजयशील आभूषण दिया था उसे रामने राज्यके साथ ही कुश को दे दिया था। जलक्रीडा करते समय वह आभूषण पानी में गिर गया इसका पता किसी को नहीं चला ॥ ७२ ॥

स्नात्वा यथाकाममसौ सदारस्तीरोपकार्यां गतमात्र एव ।
दिव्येन शून्यं वलयेन बाहुमपोढनेपथ्यविधिर्ददर्श ॥७३॥

अन्वयः—असौ सदारः यथाकामं स्नात्वा तीरोपकार्यां गतमात्रः एव अपोढ-नेपथ्यविधिः ( एव ) दिव्येन वलयेन शून्यं बाहुं ददर्श ।

स्नात्वेति । असौ कुशः सदारः सन्यथाकामं यथेच्छं स्नात्वा विगाह्य तीरे योपकार्या पूर्वोक्ता तां गतमात्रो गत एवापोढनेपथ्यविधिरकृतप्रसाधन एव दिव्येन वलयेन शून्यं बाहुं ददर्श ।

भाषार्थ—रानियों के साथ इच्छानुसार जलक्रीडा करके जब कुश बाहर निकले और डेरे में गये तब कपड़े बदलने के पहले ही उन्होंने देखा कि बाहु पर वह दिव्य आभूषण नहीं है ॥ ७३ ॥

जयश्रियः संवननं यतस्तदामुक्तपूर्वं गुरुणा च यस्मात् ।
सेहेऽस्य न भ्रंशमतो न लोभात्स तुल्यपुष्पाभरणो हि धीरः ॥७४॥

अन्वयः—यतः तत् जयश्रियः संवननं यस्मात् च गुरुणा आमुक्तपूर्वं अतः अस्य भ्रंशं न सेहे, लोभात् न हि, धीरः सः तुल्यपुष्पाभरणः ।

जयेति । यतः कारणात्तदाभरणं जयश्रियः संवननं वशीकरणम् । ‘वशक्रिया संवननम्’ इत्यमरः । यस्माच्च गुरुणा पित्रामुक्तपूर्वं पूर्वमामुक्तं धृतमित्यर्थः । ‘सुप्सुपे’ति समासः । अतो हेतोरस्याभरणस्य भ्रंशं नाशं न सेहे । लोभान्न । कुतः हि यस्माद्धीरो विद्वान् स कुशस्तुल्यानि पुष्पाण्याभरणानि च यस्य सः पुष्पेष्विवाभरणेषु धृतेषु निर्माल्यबुद्धिं करोतीत्यर्थः ।

भाषार्थ—बुद्धिमान् कुश पुष्प और आभूषण दोनों को समान समझते थे अतः उन्हें उस आभूषण के खोने का इसलिए दुःख नहीं हुआ था कि वह बहुमूल्य

षोडशः सर्गः ५५९

या किन्तु इस लिए दुःख हुआ कि वह आभूषण विजयलक्ष्मी का वशीकरण करने वाला था और पिता का चिह्न था ॥ ७४ ॥

ततः समाज्ञापयदाशु सर्वान्नानायिनस्तद्विचये नदीष्णान् ।
वन्ध्यश्रमास्ते सरयूं विगाह्य तमूचुरम्लानमुखप्रसादाः ॥ ७५ ॥

अन्वयः—ततः नदीष्णान् सर्वान् अनायिनः तद्विचये आशु समाज्ञापयत् ते सरयूं विगाह्य वन्ध्यश्रमा ( अपि ) अम्लानमुखप्रसादा ( सन्तः ) तं ऊचुः ।

तत इति । ततः नद्यां स्नान्ति कौशलेनेति नदीष्णाः तान् । ‘सुपि’ इति योगविभागात्कप्रत्ययः “निनदीभ्यां स्नातेः कौशले” इति षत्वम् । सर्वान्नानायिनो जालिकांस्तस्याभरणस्य विचयेऽन्वेषणे निमित्त आशु समाज्ञापयदादिदेश । तम् आनायिनः सरयू ं विगाह्य विलोड्य वन्ध्यश्रमा विफलप्रयासास्तथापि तद्गतिं ज्ञात्वाम्लानमुखप्रसादाः सश्रीकमुखाः सन्तस्तं कुशमूचुः ।

भाषार्थ—उन्होंने नदी में अच्छी तरह गोता लगाने वाले धीवरों को उस आभूषण को खोज डालने के लिए आज्ञा दी । बहुत देर तक उन लोगों ने पानी झकोरा पर उनका सारा परिश्रम व्यर्थ गया फिर भी प्रसन्न मुख होकर कुश के पास आकर बोले ॥ ७५ ॥

कृतः प्रयत्नो न च देव लब्धं मग्नं पयस्याभरणोत्तमं ते ।
नागेन लौल्यात्कुमुदेन नूनमुपात्तमन्तर्ह्रदवासिना तत् ॥ ७६ ॥

अन्वयः—हे देव ! प्रयत्नः कृतः पयसि मग्नं ते आभरणोत्तमं न च लब्धं ( किन्तु ) तत् अन्तर्ह्रदवासिना कुमुदेन नागेन लौल्यात् उपात्तं नूनम् ।

कृत इति । हे देव ! प्रयत्नः कृतः पयसि मग्नं तु तं आभरणोत्तमं न च लब्धम् । किंतु तदाभरणमन्तर्ह्रदवासिना कुमुदेन कुमुदाख्येन नागेन पन्नगेन लौल्याल्लोभादुपात्तं गृहीतम् । नूनमिति वितर्के ।

भाषार्थ—हे देव ! बहुत परिश्रम करने पर भी हम लोग जल में पड़े हुए आपका वह श्रेष्ठ आभूषण नहीं पा सके । मालूम पड़ता है कि इस जल में रहने वाले कुमुद नामक नाग ने लोभ से उसे चुरा लिया है ॥ ७६ ॥

ततः स कृत्वा धनुराततज्यं धनुर्धरः कोपविलोहिताक्षः ।
गारुत्मतं तीरगतस्तरस्वी भुजङ्गनाशाय समाददेऽस्त्रम् ॥ ७७ ॥

अन्वयः—ततः धनुर्धरः कोपविलोहिताक्षः तपस्वी स तीरगतः ( सन् ) धनुः आततज्यं कृत्वा भुजङ्गनाशाय गारुत्मतम् अस्त्रं समाददे ।

५६० रघुवंशमहाकाव्ये

तत इति। ततो धनुर्धरः कोपविलोहिताक्षस्तरस्वी बलवान्स कुशस्तीरगतः सन्धनुराततज्यमधिज्यं कृत्वा भुजङ्गस्य कुमुदस्य नाशाय गारुत्मतं गरुत्मद्देवताकमस्त्रं समाददे ।

भाषार्थ—यह सुनते ही कुश की आँखें क्रोध से लाल हो गईं और वहीं तटपर खड़े होकर उन्होंने धनुष को ठीक करके उस पर नागों का नाश करने वाला गरुडास्त्र चढ़ाया ॥ ७७ ॥

तस्मिन्ह्रदः संहितमात्र एव क्षोभात्समात्रविद्धतरङ्गहस्तः ।
रोधांसि निघ्नन्नवपातमग्नः करीव वन्यः परुषं ररास ॥ ७८ ॥

अन्वयः—तस्मिन् संहितमात्रे एव ह्रदः समाविद्धतरङ्गहस्तः रोधांसि निघ्नन् अवपातमग्नः वन्यः करी इव परुषं ररास ।

तस्मिन्निति । तस्मिन्नस्त्रे संहितमात्रे सत्येव ह्रदः क्षोभाद्धेतोः समाविद्धाः-सङ्घटितास्तरङ्गा एव हस्ता यस्य सः रोधांसि निघ्नन्पातयन् अवपाते राजग्रहणगर्ते मग्नः पतितः । ‘अवपातस्तु हस्त्यर्थे गर्तश्छन्नस्तृणादिना’ इति यादवः । वन्यः करीव । परुषं घोरं ररास दध्वान ।

भाषार्थ—उसके धनुष चढ़ाते ही वहाँ का जल खलबलाता हुआ अपने तरङ्ग रूपी हाथ को जोड़े हुए तटों को गिराता हुआ वह ह्रद ऐसे गरजने लगा जैसे गड्ढे में पड़ा हुआ कोई जंगली हाथी चिंघाड़ रहा हो ॥ ७८ ॥

तस्मात्समुद्रादिव मथ्यमानादुद्वृत्तनक्रात्सहसोन्ममज्ज ।
लक्ष्म्येव सार्धं सुरराजवृक्षः कन्यां पुरस्कृत्य भुजङ्गराजः ॥ ७९ ॥

अन्वयः—मथ्यमानात् समुद्रात् इव उद्वृत्तनक्रात् तस्मात् लक्ष्म्या सार्धं सुरराजवृक्षः इव कन्यां पुरस्कृत्य भुजङ्गराजः सहसा उन्ममज्ज ।

तस्मादिति । मथ्यमानात्समुद्रादिव उद्वृत्तनक्रात्क्षुभितग्राहात्तस्मात् ह्रदात् लक्ष्म्या सार्धं सुरराजस्येन्द्रस्य वृक्षः पारिजात इव कन्यां पुरस्कृत्य भुजङ्गराजः कुमुदः सहसोन्ममज्ज ।

भाषार्थ—उस जल को समुद्र के समान मथा जाता हुआ देखकर मगर आदि जलजन्तु घबड़ा उठे, इतने में ही एकाएक एक कन्या को आगे किये हुए नागराज कुमुद उस जल में से इस प्रकार निकला मानो लक्ष्मी को साथ लेकर कल्पवृक्ष निकल आया हो ॥ ७९ ॥

विभूषणप्रत्युपहारहस्तमुपस्थितं वीक्ष्य विशाम्पतिस्तम् ।
सौपर्णमस्त्रं प्रतिसञ्जहार प्रह्वेष्वनिर्वन्धरुषो हि सन्तः ॥ ८० ॥

षोडशः सर्गः ५६१

षोडशः सर्गः ५६१

अन्वयः—विशांपतिः विभूषणप्रत्युपहारहस्तं उपस्थितं तं वीक्ष्य सौपर्णं अस्त्रं प्रतिसञ्जहार हि सन्तः प्रह्वेषु निर्बन्धरुषः ( भवन्ति ) ।

विभूषणेति । विशाम्पतिर्मनुजपतिः कुशः । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । विभूषणं प्रत्युपहरति प्रत्यर्पयतीति विभूषणप्रत्युपहारः । कर्मण्यण् । विभूषणप्रत्युपहारो हस्तो यस्य तम् । उपस्थितं प्राप्तं तं कुमुदं वीक्ष्य सौपर्णं गारुत्मतमस्त्रं प्रतिसञ्जहार । तथाहि सन्तः प्रह्वेषु नम्रेष्वनिर्वन्धरुषोऽनियतकोपा हि ।

भाषार्थ—राजा कुशने आभूषणरूप प्रत्युपहार को लेकर उपस्थित उस नाग को देख कर धनुष पर-से गारुडास्त्र उतार लिया, क्योंकि सज्जन लोग उनपर क्रोध नहीं करते जो नम्र होकर उनके आगे आ जाते हैं ॥ ८० ॥

त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान्।
मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्द्धाभिषिक्तं कुमुदो बभाषे ॥८१॥

अन्वयः—अस्त्रविद्वान् कुमुदः त्रैलोक्यनाथं (अतएव) प्रभावात् द्विषां अंकुशं मूर्द्धाभिषिक्तं कुशं मानोन्नतेन अपि मूर्ध्ना अभिवन्द्य बभाषे ।

त्रैलोक्येति । अस्त्रं विद्वानस्त्रविद्वान् । “न लोकाव्ययनिष्ठाखलर्थतृनाम्” इत्यनेन षष्ठीसमासनिषेधः । “द्वितीया श्रिता०” इत्यत्र गम्यादीनामुपसंख्यानाद् द्वितीयेति योगविभागाद्वा समासः । गरुडास्त्रमहिमाभिज्ञ इत्यर्थः । कुमुदः । त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम् । अतएव प्रभावाद् द्विषामंकुशं निवारकं मूर्द्धाभिषिक्तं राजानं मानोन्नतेनापि मूर्ध्नाभिवन्द्य प्रणम्य बभाषे ।

भाषार्थ—त्रिलोकीनाथ राम के पुत्र तथा शत्रुओं को अंकुश के समान दुख देने वाले राजा कुश को मान से उन्नत अपना शिर नम्र करके कुमुद प्रणाम करके बोला क्योंकि वह कुश के बाण की शक्तिको भलीभाँति जानता था ॥८१॥

अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम् ॥८२॥

अन्वयः—त्वां कार्यान्तरमानुषस्य विष्णोः सुताख्यां अपरां तनुं अवैमि । सः अहं आराधनीयस्य तव धृतेः विघातं कथं नाम आचरेयम् ।

अवैमीति । त्वाम् ओदनान्तरस्तण्डुल इतिवत्कार्यान्तरः कार्यार्थः । 'स्थानात्मीयान्यतादर्थ्यरन्ध्रान्त्येषु चान्तरम्' इति शाश्वतः । स चासौ मानुषश्चेति तस्य विष्णोः रामस्य सुताख्यां पुत्रसंज्ञामपरां तनुं मूर्तिमवैमि । 'आत्मा वै पुत्रनामासि' इति

३६ र० सम्पू०

५६२ रघुवंशमहाकाव्ये

श्रुतेरित्यर्थः । स जानन्नहमागराधनीयस्योपास्यस्य तव धृतेः प्रीतेः । 'धृ प्रीतौ' इति धातोः स्त्रियां क्तिन् । विघातं कथं नामाचरेयम् । असम्भावितमित्यर्थः ।

भाषार्थ--मैं जानता हूँ कि आप राक्षसों का नाश करने के लिए मनुष्य शरीर धारण करने वाले विष्णु के पुत्र हैं इसलिए आप पूज्य हैं फिर मैं आप से वैर कैसे कर सकता हूँ ? ॥ ८२ ॥

कराभिघातोत्थितकन्दुकेयमालोक्य बालातिकुतूहलेन । ह्रदात्पतज्ज्योतिरिवान्तरिक्षादादत्त जैत्राभरणं त्वदीयम् ॥८३॥

अन्वयः—कराभिघातेनोत्थितकन्दुका इयं बालातिकुतूहलेन अन्तरिक्षात् ज्योतिः इव ह्रदात् पतत् त्वदीयं जैत्राभरण आलोक्य आदत्त ।

करंति । कराभिघातेनोत्थित ऊर्ध्वं गत कन्दुको यस्याः सा कन्दुकार्थमूर्ध्वं पश्यन्तीत्यर्थ इयं बालातिकुतूहलेनात्यन्तकोतुकेनान्तरिक्षाज्ज्योतिनक्षत्रमिव । ‘ज्योतिर्भद्योतदृष्टिपु’ इत्यमरः । ह्रदात्पतत्त्वदीयं जैत्राभरणमालोक्यादत्त।गृहात् ।

भाषार्थ—यह मेरी अबोध बालिका गेंद खेल रही थी, इसकी थपकी से गेंद ऊपर उछल गई, उसे देखने के लिये उसने ऊपर आँखें उठाई तो देखा कि आकाश से गिरते हुए तारे के समान आप का आभूषण नीचे चला जा रहा है इसने उसे झट पकड़ लिया ॥ ८३ ॥

तदेतदाजानुविलम्बिना ते ज्याघातरेखाकिणलाञ्छनेन । भुजेन रक्षापरिघेण भूमेरुपैतु योगं पुनरंसलेन ॥८४॥

अन्वयः—तत् एतत् आजानुविलम्बिना ज्याघातरेखाकिणलाञ्छनेन भूमेः रक्षापरिघेण ते अंसलेन भुजेन पुनः योगं उपैतु ।

तदिति । तदेतदाभरणमाजानुविलम्बिना दीर्घेण ज्याघातेन या रेखा रेखाकारा ग्रन्थयस्तासां किणं चिह्नं तदेव लाञ्छनं यस्य तेन भूमेः रक्षायाः परिघेण रक्षार्गलेन । ‘परिघो योगभेदास्त्रमुद्गरेऽर्गलघातयोः’ इत्यमरः । अंसलेन बलवता ते भुजेन पुनर्योगं संगतिमुपैतु । एतैर्विशेषणैर्महाभाग्यशौर्यधुरन्धरत्वबलवत्त्वादि गम्यते ।

भाषार्थ—आप उसे लीजिये और अपनी उस मोटी घुटनों तक लम्बी भुजा में फिर बांध लीजिये जिसमें धनुष की डोरी फटकार से घट्ठं पड़ गये हैं और जो पृथ्वी की रक्षा करती है ॥ ८४ ॥

इमां स्वसारं च यवीयसीं मे कुमुद्वतीं नार्हसि नानुमन्तुम् । आत्मनपराधं नुदतीं चिराय शुश्रूषया पार्थिव पादयोस्ते ॥८५॥

षोडशः सर्गः ५६३

**अन्वयः—**हे पार्थिव ! ते पादयोः चिराय शुश्रूषया आत्मापराधं नुदतीं इमां मे यवीयसीं स्वसारं कुमुद्वतीं अनुमन्तुं न अर्हसि ? ।

इमामिति । किञ्च हे पार्थिव ! ते तव पादयोश्चिराय शुश्रूषया परिचर्यया । 'शुश्रूषा श्रोतुमिच्छा या परिचर्याप्रदानयोः' इति विश्वः । आत्मापराधमाभरणग्रहणरूपं परिजिहीर्षन्तीमित्यर्थः । "आशंसायां भूतवच्च"इति चकाराद्वर्तमानार्थे शतृप्रत्ययः । "आच्छीनद्योर्नुम्" इत्यस्य वैकल्पिकत्वान्नुमभावः । इमां मे यवीयसीं कनिष्ठां स्वसारं भगिनीं कुमुद्वतीमनुमन्तुं नार्हसीति न । अर्हस्येवेत्यर्थः ।

**भाषार्थ—**यह मेरी छोटी बहन कुमुद्वती जीवन भर आपकी सेवा करके अपना अपराध मिटाना चाहती है इसलिये आप इसे अपनी पत्नी के रूप में ग्रहण कर लीजिये ॥ ८५ ॥

इत्यूचिवानुपहृताभरणः क्षितीशं
श्लाघ्यो भवान्स्वजन इत्यनुभाषितारम् ।
संयोजयां विधिवदास समेतबन्धुः
कन्यामयेन कुमुदः कुलभूषणेन ॥ ८६ ॥

**अन्वयः—**इति ऊचिवान् उपहृताभरणः कुमुदः भवान् श्लाघ्यः स्वजनः इति अनुभाषितारं क्षितीशं समेतबन्धुः (सन् ) कन्यामयेन कुलभूषणेन विधिवत् संयोजयामास ।

इतीति । इति पूर्वश्लोकोक्तमूचिवानुक्तवान् । ब्रुवः क्वसुः । उपहृताभरणः उपहृतमाभरणं यस्मै प्रत्यर्पिताभरणः कुमुदः । हे कुमुद ! भवाञ्श्लाघ्यः स्वजनो बन्धुः इत्यनुभाषितारमनुवक्तारं क्षितीशं कुशं समेतबन्धुः सन् कन्यामयेन कन्यारूपेण कुलयोर्भूषणेन विधिवत्संयोजयामास । न केवलं तदीयमेव किंतु स्वकीयमपि भूषणं तस्मै दत्तवानिति ध्वनिः । आम्प्रत्ययानुप्रयोगयोर्व्यवधानं तु प्रागेव समाहितम् ।

**भाषार्थ—**यह कहकर कुमुद ने वह आभूषण कुश को दे दिया । कुश बोले, आज से आप मेरे आदरणीय सम्बन्धी हो गये । यह सुनकर उसने अपने कुटुम्बियों को बुलाकर बड़ी धूम-धाम से कुमुद्वती को कुश से ब्याह दिया ॥ ८६ ॥

तस्याः स्पृष्टे मनुजपतिना साहचर्याय हस्ते
माङ्गल्योर्णावलयिनि पुरः पावकस्योच्छिखस्य ।
दिव्यस्तूर्यध्वनिरुदचरद्व्यञ्जुवानो दिगन्तान्
गन्धोदग्रं तदनु ववृषुः पुष्पमाश्चर्यमेघाः ॥ ८७ ॥

५६४रघुवंशमहाकाव्ये

अन्वयः—मनुजपतिना साहचर्याय मांगत्योर्णावलयिनि तस्याः हस्ते उच्छिखस्य पावकस्य पुरः स्पृष्टे दिगन्तान् व्यश्नुवानः दिव्यस्तूर्यध्वनिः उदचरत् तदनु आश्चर्यमेघाः गन्धोदग्रं पुष्पं ववृषुः।

तस्या इति। मनुजपतिना कुशेन साहचर्याय सहधर्मचारणायेत्यर्थः। माङ्गल्या मङ्गले साधुर्योर्णा मेषादिलोम। 'ऊर्णा मेषादिलोम्नि स्यात्' इत्यमरः। अत्र लक्षणया तन्निर्मितं सूत्रमुच्यते। तया वलयिनि बलयवति तस्याः कुमुद्वत्या हस्ते पाणावुच्छिखस्योदर्चिषः पावकस्य पुरोऽग्रे स्पृष्टे गृहीते सति दिगन्तान्व्यश्नुवानो व्याप्नुवन् दिव्यस्तूर्यध्वनिरुदचरदुत्थितः। तदन्वाश्चर्या अद्भुता मेघा गन्धेनोदग्रमुत्कटं पुष्पं पुष्पाणि। जात्यभिप्रायेणैकवचनम् ववृषुः। आश्चर्यशब्दस्य 'रौद्रं तूग्रममी त्रिषु। चतुर्दश' इत्यमरवचनात्त्रिलिङ्गत्वम्।

भाषार्थ—जब राजा कुश ने अपनी सहधर्मिणी बनाने के लिये प्रज्वलित अग्नि के आगे उस कुमुद्वती का कङ्कन बँधा हुआ हाथ पकड़ा, उस समय तुरही आदि दिव्य वाद्यों की ध्वनि से दिशायें गूंज उठीं और आश्चर्य युक्त मेघों ने सुगन्धित पुष्पों की वर्षा की॥ ८७॥

इत्थं नागस्त्रिभुवनगुरोरौरसं मैथिलेयं
लब्ध्वा बन्धुं तमपि च कुशः पञ्चमं तक्षकस्य।
एकः शङ्कां पितृवधरिपोस्त्यजद्वैनतेया-
च्छान्तव्यालामवनिमपरः पौरकान्तः शशास॥ ८८॥

अन्वयः—इत्थं नागः त्रिभुवनगुरोः औरसं मैथिलेयं बन्धुं लब्ध्वा, कुशः अपि च तक्षकस्य पञ्चमं पुत्रं तं (बन्धुं लब्ध्वा) एकः पितृवधरिपोः वैनतेयात् शंकाम् अत्यजत् अपरः शान्तव्यालाम् अवनिं पौरकान्तः सन् शशास।

इत्थमिति। इत्थं नागः कुमुदः त्रयाणां भुवनानां समाहारस्त्रिभुवनं। "तद्धितार्थ०" इत्यादिना तत्पुरुषः। अदन्तद्विगुत्वेऽपि पात्राद्यदन्तत्वान्नपुंसकत्वम्। 'पात्राद्यदन्तरनेकार्थो द्विगुर्लक्ष्यानुसारतः' इत्यमरः। तस्य गुरु रामः तस्यौरसं धर्मपत्नीजं पुत्रम् 'औरसो धर्मपत्नीजः' इति याज्ञवल्क्यः। मैथिलेयं कुशं बन्धुं लब्ध्वा कुशोऽपि च तक्षकस्य पञ्चमं पुत्रं तं कुमुदं बन्धुं लब्ध्वा एकस्तयोरन्यतरः कुमुदः पितृवधेन रिपोर्वैनतेयाद् गरुडात् गुरुणा वैष्णवांशेन कुशेन। त्याजितक्रौर्यादिति भावः। शङ्कां भयमत्यजत्। अपरः कुशः शान्तव्यालां कुमुदाज्ञया वीतसर्पभयामवनिमन्त एव पौरकान्तः पौरप्रियः सञ्छशास।

भाषार्थ—इस प्रकार नागराज कुमुदने त्रिलोकीनाथ राम के और मैथिली-

सप्तदशः सर्गः ५६५

सप्तदशः सर्गः ५६५

कुमार पुत्र कुश को अपना सम्बन्धी बनाकर गरुड़ से डरना छोड़ दिया क्योंकि अब वे उसके सम्बन्धी के पिता विष्णु के वाहन मात्र थे और कुश ने भी तक्षक के पञ्चम पुत्र कुमुद को सम्बन्धी बना लिया जिससे सर्प शान्त हो गये और कुश प्रजाओं के प्रिय बनकर पृथ्वी पर भली-भाँति राज करने लगे ॥ ८८ ॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्या- व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये कुमुद्वतीपरिणयो नाम षोडशः सर्गः ॥ १६ ॥


सप्तदशः सर्गः

नमो रामपदाम्भोजं रेणवो यत्र सन्ततम् ।
कुर्वन्ति कुमुदप्रीतिमरण्यगृहमेधिनः ॥

अतिथिं नाम काकुत्स्थात्पुत्रं प्राप कुमुद्वती ।
पश्चिमाद्यामिनीयामात्प्रसादमिव चेतना ॥ १ ॥

अन्वयः—कुमुद्वती काकुत्स्थात् अतिथिं नाम पुत्रं च चेतना पश्चिमात् यामिनीयामात् प्रसादमिव प्राप ।

अतिथिमिति । कुमुद्वती काकुत्स्थात्कुशादतिथिं नाम पुत्रं चेतना बुद्धिः पश्चिमाद्यामिन्या रात्रेर्यामात्प्रहरात् । ‘द्वौ यामप्रहरौ समौ’ इत्यमरः । प्रसादं वैशद्यमिव प्राप । ब्राह्मे सर्वेषां बुद्धिवैशद्यं भवतीति प्रसिद्धिः ।

भाषार्थ—जिस प्रकार रात्रि के अन्तिम प्रहर ब्राह्ममुहूर्त में बुद्धि की स्वच्छता प्राप्त हो जाती है उसी प्रकार कुमुद्वती ने कुश से अतिथि नामक पुत्र को प्राप्त किया ॥ १ ॥

स पितुः पितृमान्वंशं मातुश्चानुपमद्युतिः ।
अपुनात्सवितेवोभौ मार्गावुत्तरदक्षिणौ ॥ २ ॥

अन्वयः—पितृमान् अनुपमद्युतिः सः पितुः मातुः च वंशं सविता उत्तरदक्षिणौ उभौ मार्गौ इव अपुनात् ।

स इति । पितृमान् प्रशस्तपितृकः । प्रशंसार्थे मतुप् । सुशिक्षित इत्यर्थः ।

५६६रघुवंशमहाकाव्ये

अनुपमद्युतिः सवितुश्चेदं विशेषणं सोऽतिथिः पितुः कुशस्य वंशं मातुः कुमुद्वत्याश्च वंशं सवितोत्तरदक्षिणावुभो मार्गाविव अपुनात्पवित्रीकृतवान् ।

भाषार्थ— जिस प्रकार तेजस्वी सूर्य अपने प्रकाश से उत्तर और दक्षिण दोनों दिग्भागों को पवित्र कर देता है उसी प्रकार सुशिक्षित तथा अनुपम कान्ति वाले अतिथि ने माता और पिता के दोनों कुलों को पवित्र कर दिया ॥ २ ॥

तमादौ कुलविद्यानामर्थमर्थविदां वरः ।
पश्चात्पार्थिवकन्यानां पाणिमग्राहयत्पिता ॥ ३ ॥

अन्वयः— अर्थविदांवरः पिता तं आदौ कुलविद्यानाम् अर्थं अग्राहयत् पश्चात् पार्थिवकन्यानां पाणिग्रहणं अग्राहयत ।

संस्कृत टीका—
तमेति । अर्थाञ्छब्दार्थान्दानसंग्रहादिक्रियाप्रयोजनानि च विदन्तीत्यर्थविदः । तेषां वरः श्रेष्ठः पिता कुशस्तमतिथिमादौ प्रथमं कुलविद्यानामान्वीक्षिकीत्रयीवार्तादण्डनीतीनामर्थमभिधेयमग्राहयदबोधयत् । पश्चात्पार्थिवकन्यानां पाणिमग्राहयत् स्वीकारितवान् । उदवाहयदित्यर्थः । ग्रहेर्ण्यन्तस्य सर्वत्र द्विकर्मकत्वमस्तीत्युक्तं प्राक् ।

भाषार्थ— अर्थवेत्ताओं में श्रेष्ठ कुश ने पहले उसे आन्वीक्षिकी आदि कुलपरम्परागत राजनीति विद्याओं को पढ़ाया फिर राजकुमारियों से उनका विवाह कर दिया ॥ ३ ॥

जात्यस्तेनाभिजातेन शूरः शौर्यवता कुशः ।
अमन्यतैकमात्मानमनेकं वशिना वशी ॥ ४ ॥

अन्वयः— जात्यः शूरः वशी कुशः अभिजातेन शौर्यवता वशिना तेन एकं आत्मानं अनेकं अमन्यत ।

संस्कृत टीका—
जात्य इति । जातौ भवो जात्यः कुलीनः शूरो वशी कुशोऽभिजातेन कुलीनेन । ‘अभिजातः कुलीनः स्यात्’ इत्यमरः । शौर्यवता वशिना तेनातिथिना करणेन एकमात्मानम् । एको न भवतीत्यनेकस्तम् । अमन्यत । सर्वगुणसामग्र्यादात्मजमात्मन एव रूपान्तरममंस्तेत्यर्थः ।

भाषार्थ— अतिथि भी कुशके समान ही कुलीन शूरवीर और जितेन्द्रिय थे इसलिए कुलीन, शूरवीर और जितेन्द्रिय कुशने उस अतिथि के द्वारा अकेले भी अपनेको अनेक माना । अर्थात् अतिथि में अपने सम्पूर्ण गुणों के होने से उसे अपना ही रूपान्तर माना ॥ ४ ॥

स कुलोचितमिन्द्रस्य साहायकमुपेयिवान् ।
जघान समरे दैत्यं दुर्जयं तेन चावधि ॥ ५ ॥

सप्तदशः सर्गः ५६७

सप्तदशः सर्गः ५६७

अन्वयः— स कुलोचितं इन्द्रस्य सहायकं उपेयिवान् ( सन् ) समरे दुर्जयं दैत्यं जघान तेन अवधि च ।

स इति । स कुशः कुलोचितं कुलाभ्यस्तमिन्द्रस्य सहायकं सहकारित्वं । “योपधाद्गुरूपोत्तमाद् वुञ्” इत्यनेन वुञ् । उपेयिवान्प्राप्तः सन्समरे नामतोऽर्थतश्च दुर्जयं दैत्यं जघानावधीत् तेन दैत्येनावधि हतश्च । “लुङ् च” इति हनो वधादेशः ।

भाषार्थ— अपने वंश के सिद्धान्त के अनुसार कुश भी एक बार युद्ध में इन्द्र की सहायता करने के लिये गये थे । महाशक्तिशाली दुर्जय नामक राक्षस को मारकर स्वयं भी वीरगति को प्राप्त हुए ॥ ५ ॥

तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती ।
अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी ॥ ६ ॥

अन्वयः— कुमुदस्य नागराजस्य स्वसा कुमुद्वती कुमुदानन्दं शशाङ्कं कौमुदी इव तं अन्वगात् ।

तमिति । कुमुदस्य नाम नागराजस्य स्वसा कुमुद्वती कुशपत्नी कुमुदानन्दं शशाङ्कं कौमुदी ज्योत्स्नेव तं कुशमन्वगात् । कुशस्तु कुः पृथिवी तस्या मुत्प्रीतिः सैवानन्दो यस्येति कुमुदानन्दः परानन्देन स्वथमानन्दतीत्यर्थः ।

भाषार्थ— जिस प्रकार कुमुदों को खिलाने वाले चन्द्रमा के अस्त होने के साथ-साथ उसकी चांदनी अस्त हो जाती है उसी प्रकार नागराज कुमुद की बहन कुमुद्वती भी कुश के साथ सती हो गई ॥ ६ ॥

तयोर्दिवस्पतेरासीदेकः सिंहासनाधंभाक् ।
द्वितीयापि सखी शच्याः पारिजातांशभागिनी ॥ ७ ॥

अन्वयः— तयोः एकः दिवस्पतेः सिंहासनाधंभाक् आसीत् द्वितीया अपि शच्याः पारिजातांशभागिनी सखी ( आसीत् ) ।

तयोरिति । तयोः कुशकुमुद्वत्योर्मंध्य एकः कुशः दिवस्पतेरिन्द्रस्य सिंहासनाधं सिंहासनैकदेशः तद्भागासीत् । द्वितीया कुमुद्वती शच्या इन्द्राण्याः पारिजातांशस्य भागिनी ग्राहिणी । “संपृच०” इत्यादिना भजेर्घिनुण्प्रत्ययः । सख्यासीत् । कस्कादित्वाद्विवस्पतिः साधुः ।

भाषार्थ— उन दोनों में-से कुश को इन्द्र के सिंहासन का आधा भाग मिला और दूसरी कुमुद्वती जाकर इन्द्राणी के साथ पारिजात में आधा भाग ले बैठी ॥ ७ ॥

५६८रघुवंशमहाकाव्ये

तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः ।
स्मरन्तः पश्चिमामाज्ञां भर्तुः संग्रामयायिनः ॥ ८ ॥

अन्वयः—संग्रामयायिनः भर्तुः पश्चिमाम् आज्ञां स्मरन्तः मन्त्रिवृद्धाः तदात्मसम्भवं राज्ये समादधुः ।

तदिति । संग्रामयायिनः संग्रामं यास्यतः । आवश्यकार्थे णिनिः । “अकेनोर्भविष्यदाधमर्ण्ययोः” इति षष्ठीनिषेधः । भर्तुः स्वामिनः कुशस्य पश्चिमामन्तिमामाज्ञां विपर्यये पुत्रोऽभिषेक्तव्य इत्येवंरूपां स्मरन्तो मन्त्रिवृद्धास्तदात्मसम्भवमतिथिं राज्ये समादधुर्निदधुः ।

भाषार्थ—युद्ध में जाते समय कुश ने जो अन्तिम आज्ञा दी थी उसके अनुसार वृद्ध मन्त्रियों ने उनके पुत्र अतिथि को राजा बनाया ॥ ८ ॥

ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः ।
विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् ॥ ९ ॥

अन्वयः—ते तस्य अभिषेकाय शिल्पिभिः उद्वेदि चतुःस्तम्भप्रतिष्ठितं नवं विमानं कल्पयामासुः ।

त इति । ते मन्त्रिणस्तस्यातिथेरभिषेकाय शिल्पिभिरुद्वेद्युन्नतवेदिकं चतुःस्तम्भप्रतिष्ठितं चतुर्षु स्तम्भेषु प्रतिष्ठितं नवं विमानं मण्डपं कल्पयामासुः कारयामासुः ।

भाषार्थ—उन वृद्ध मंत्रियों ने उनके राज्याभिषेक के लिए कारीगरों से चार खम्भों पर स्थित ऊँची वेदी वाला नया मण्डप बनवाया ॥ ९ ॥

तत्रैनं हेमकुम्भेषु सम्भृतैस्तीर्थवारिभिः ।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ॥ १० ॥

अन्वयः—तत्र भद्रपीठोपवेशितं एनं हेमकुम्भेषु सम्भृतैः तीर्थवारिभिः प्रकृतयः उपतस्थुः ।

तत्रेति । तत्र विमाने भद्रपीठे पीठेऽविशेषे उपवेशितमेनमतिथिं हेमकुम्भेषु सम्भृतैः संगृहीतैस्तीर्थवारिभिः करणैः प्रकृतयो मन्त्रिणः उपतस्थुः ।

भाषार्थ—प्रजाने उस मण्डप में भद्रपीठ पर बैठे हुए राजा अतिथि का सुवर्ण के कलशों में भरे हुए तीर्थों के जल से अभिषेक किया ॥ १० ॥

नदद्भिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः ।
अन्वमीयत कल्याणं तस्याविच्छिन्नसन्तति ॥ ११ ॥

सप्तदशः सर्गः ५६९

**अन्वयः—**आहतपुष्करैः स्निग्धगम्भीरं नदद्भिः तूर्यैः तस्य अविच्छिन्नसन्तति कल्याणं अन्वमीयत ।

नवद्भिरिति । आहतं पुष्करं मुखं येषां तैः । ‘पुष्करं करिहस्ताग्रे वाद्यभाण्डमुखे जले’ इत्यमरः । स्निग्धं मधुरं गम्भीरं च नदद्भिस्तूर्यैस्तस्यातिथेरविच्छिन्नसन्तत्यविच्छिन्नपारम्पर्यं कल्याणं भाविशुभमन्वमीयतानुमितम् ।

**भावार्थ—**बजाये जाते हुए मृदंग आदि बाजों से जो मीठी और गम्भीर ध्वनि निकल रही थी उससे मालूम होता था कि राजा अतिथि का अविच्छिन्न रूप से सदा कल्याण होगा ॥ ११ ॥

दूर्वा-यवांकुर-प्लक्ष-त्वगभिन्न-पुटोत्तरान् ।
ज्ञातिवृद्धैः प्रयुक्तान्स भेजे नीराजनाविधीन् ॥ १२॥

**अन्वयः—**स दूर्वायवाङ्कुरप्लक्षत्वगभिन्नपुटोत्तरान् । ज्ञातिवृद्धैः प्रयुक्तान् नीराजनाविधीन् । भेजे ।

दूर्वेति । सोऽतिथिः दूर्वाश्च यवांकुराश्च प्लक्षत्वचश्चाभिन्नपुटा बालपल्लवाश्चोत्तराणि प्रधानानि येषु तान् अभिन्नपुटानि मधूकपुष्पाणीति केचित् । कमलानीत्यन्ये । ज्ञातिषु ये वृद्धास्तैः प्रयुक्तान्नीराजनाविधीन्भेजे ।

**भावार्थ—**दूब, जौ के अंकुर तथा बड़ की छाल एवं नये पल्लवों को दोने में रखकर कुल के वृद्ध पुरुषों ने जो आरती की, उसे राजा अतिथि ने बड़े आदर से स्वीकार किया ॥ १२ ॥

पुरोहितपुरोगास्तं जिष्णुं जैत्रैरथर्वभिः ।
उपचक्रमिरे पूर्वमभिषेक्तुं द्विजातयः ॥१३॥

**अन्वयः—**पुरोहितपुरोगाः द्विजातयः जिष्णुं तं जैत्रैः अथर्वभिः पूर्वं अभिषेक्तुं उपचक्रमिरे ।

पुरोहितेति । पुरोहितपुरोगाः पुरोहितप्रमुखा द्विजातयो ब्राह्मणाः जिष्णुं जयशीलं तमतिथिं जैत्रैर्जयशीलैरथर्वभिर्मन्त्रविशेषैः करणैः पूर्वमभिषेक्तुमुपचक्रमिरे ।

**भावार्थ—**पुरोहित को आगे करके ब्राह्मण आये और उन्होंने उस विजयशील राजा अतिथि का अथर्ववेद के उन मन्त्रों से अभिषेक आरम्भ किया जिनसे विजय प्राप्त होती है ॥ १३ ॥

तस्यौघमहती मूर्ध्नि निपतन्ती व्यरोचत ।
सशब्दमभिषेकश्रीर्गङ्गेव त्रिपुरद्विषः ॥१४॥

५७० रघुवंशमहाकाव्ये

अन्वयः—तस्य मूर्ध्नि सशब्दं निपतन्ती ओघमहती अभिषेकश्रीः त्रिपुरद्विषः ( मूर्ध्नि ) गङ्गा इव व्यरोचत ।

तस्येति । तस्यातिथेर्मूर्ध्नि सशब्दं निपतन्त्योघमहतो महाप्रवाहा अभिषिच्यतेऽनेनेत्यभिषेको जलं स एव श्रीः । यद्वा तस्य श्रीः । समृद्धिस्त्रिपुरद्विषः शिवस्य मूर्ध्नि निपतन्ती गङ्गेव व्यरोचत । त्रयाणां पुराणां द्वेष्टीति विग्रहः ।

भाषार्थ—उनके शिर के ऊपर गिरती हुई अभिषेक की जल की धारा ऐसी सुन्दर लगती थी मानो शिवजी के शिर के ऊपर गंगाजी की धारा गिर रही हो ॥ १४ ॥

स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स वन्दिभिः ।
प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः ॥१५॥

अन्वयः—तस्मिन् क्षणे वन्दिभिः स्तूयमानः सः प्रवृद्धः ( अतएव ) सारङ्गैः अभिनन्दितः पर्जन्यः इव अलक्ष्यत ।

स्तूयमान इति । तस्मिन्क्षणेऽभिषेककाले वन्दिभिः स्तूयमानः सोऽतिथिः प्रवृद्धः प्रवृद्धवान् । कर्तरि क्तः । अतएव सारङ्गैश्चातकैरभिनन्दितः पर्जन्यो मेघ इव अलक्ष्यत ।

भाषार्थ—उस समय भाट और चारण जब उनका विरद बखानने लगे तो ऐसा मालूम पड़ता था मानो बहुत से चातक मिलकर बादल के गुण गा रहे हों ॥ १५ ॥

तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः ।
ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः ॥१६॥

अन्वयः—सन्मन्त्रपूताभिः अद्भिः स्नानं प्रतीच्छतः तस्य वृष्टिसेकात् वैद्युतस्य अग्नेः इव द्युतिः ववृधे ।

तस्येति । सन्मन्त्रैः पूताभिः शुद्धाभिरद्भिः स्नानं प्रतीच्छतः कुर्वतस्तस्य वृष्टिसेकात् विद्युतोऽयं वैद्युतः तस्याबिन्धनस्याग्नेरिव द्युतिर्ववृधे ।

भाषार्थ—उत्तम मन्त्रों से पवित्र हुए जल से स्नान करते समय अतिथि के शरीर का तेज वैसे ही बढ़ गया जैसे वर्षा के जल से बिजली की चमक बढ़ जाती है ॥ १६ ॥

स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।
यावतेषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः ॥१७॥

सप्तदशः सर्गः ५७१

अन्वयः—स अभिषेकान्ते स्नातकेभ्यः तावत् वसु ददौ यावता एषां पर्याप्त-दक्षिणा यज्ञाः समाप्येरन् ।

स इति । सोऽतिथिर्भिषेकान्ते स्नातकेभ्यो गृहस्थेभ्यस्तावत्तावत्परिमाणं वसु धनं ददौ यावता वसुनेषां स्नातकानां पर्याप्तदक्षिणा यज्ञाः समाप्येरन् । तावद्ददावित्यन्वयः ।

भाषार्थ—राज्याभिषेक के पश्चात् अतिथि ने यज्ञ करनेवाले ब्राह्मणों को इतना दान दिया कि उस धन से वे गहरी दक्षिणा देकर अपना यज्ञ सम्पूर्ण कर सकते थे ॥ १७ ॥


ते प्रीतमनसस्तस्मै यामाशिषमुदैरयन् ।
सा तस्य कर्मनिर्वृत्तेर्दूरं पश्चात्कृता फलैः ॥ १८ ॥

अन्वयः—प्रीतमनसः ते तस्मै यां आशिषं उदैरयन् सा तस्य कर्मनिर्वृत्तेः फलैः दूरं पश्चात् कृता ।

त इति । प्रीतमनसस्ते स्नातकास्तस्मै अतिथये यामाशिषमुदैरयन्व्याहरन्साशी-स्तस्यातिथेः कर्मनिर्वृत्तेः पूर्वपुण्यनिष्पन्नैः फलैः साम्राज्यादिभिर्दूरं दूरतः पश्चात्कृता । स्वफलदानस्य तदानीमनवकाशात्कालान्तरोद्वीक्षणं चकारेत्यर्थः ।

भाषार्थ—प्रसन्न होकर ब्राह्मणों ने उन्हें जो आशीर्वाद दिया उसे सफल होने के लिए बहुत दिन देखने पड़े, क्योंकि आशीर्वाद के समय तो राजा अतिथि अपने पूर्व जन्मों के सत्कर्मों का ही फल भोग रहे थे, आशीर्वाद का फल तो उस फलके समाप्त होने पर ही प्रारम्भ होता है ॥ १८ ॥


बन्धच्छेदं स बद्धानां वधार्हाणामवध्यताम् ।
धुर्याणां च धुरो मोक्षमदोहं चादिशद् गवाम् ॥ १९ ॥

अन्वयः—सः बद्धानां बन्धच्छेदं वधार्हाणां अवध्यतां धुर्याणां धुरः मोक्षं गवां अदोहं च आदिशत् ।

बन्धेति । सोऽतिथिर्बद्धानां बन्धच्छेदं वधार्हाणामवध्यताम् । धुरं वहन्तीति धुर्या बलीवर्दादयः तेषां धुरो भारस्य मोक्षं गवामदोहं वत्सानां पानार्थं दोहनिवृत्तिं चादिशदादिदेश ।

भाषार्थ—राज्याभिषेक की प्रसन्नता में अतिथि ने आज्ञा दी कि कैदियों को छोड़ दिया जाय, मृत्युदण्ड पाये हुए मारे न जाँय, बोझा ढोनेवाले पशुओं के कन्धों पर से जुए हटा लिए जांय और गौवों का दूध बछड़ों को पीने के लिए छोड़ दिया जाय ॥ १९ ॥

५७२ रघुवंशमहाकाव्ये

क्रीडापतत्त्रिणोऽप्यस्य पञ्जरस्थाः शुकादयः । लब्धमोक्षास्तदादेशाद्यथेष्टगतयोऽभवन् ॥ २० ॥

अन्वयः—पञ्जरस्थाः शुकादयः अस्य, क्रीडापतत्त्रिणः अपि तदादेशात् लब्धमोक्षा (सन्तः) यथेष्टगतयः अभवन् ।

क्रीडेति । पञ्जरस्थाः शुकादयोऽस्यातिथेः क्रीडापतत्त्रिणोऽपि किमुतान्य इत्यपिशब्दार्थः, तदादेशात्तस्यातिथेः शासनाल्लब्धमोक्षाः सन्तो यथेष्टं गतिर्येषां ते स्वेच्छाचारिणोऽभवन् ।

भाषार्थ—अतिथि की आज्ञा से क्रीड़ा के लिए पिंजरेमें पाले गये सुग्गा, तोता, मैना आदि छोड़ दिये गये, जो अपने मनसे इधर-उधर उड़ने लगे ॥ २० ॥


ततः कक्ष्यान्तरन्यस्तं गजदन्तासनं शुचिः । सोत्तरच्छदमध्यास्त नेपथ्यग्रहणाय सः ॥ २१ ॥

अन्वयः—ततः स नेपथ्यग्रहणाय कक्ष्यान्तरन्यस्तं शुचि सोत्तरच्छदं गजदन्तासनं अध्यास्त ।

तत इति । ततः सोऽतिथिर्नेपथ्यग्रहणाय प्रधानस्वीकाराय कक्ष्यान्तरं हर्म्याङ्गणविशेषः 'कक्ष्या प्रकोष्ठे हर्म्यादेः' इत्यमरः । तत्र न्यस्तं स्थापितं शुचि निर्मलं सोत्तरच्छदमास्तरणसहितं गजदन्तस्यासनं पीठमध्यास्त । तत्रोपविष्ट इत्यर्थः ।

भाषार्थ—इसके बाद वे अपना राजसी शृङ्गार कराने के लिए हाथी के दाँत के बने हुए पवित्र सिंहासन पर बैठे, जो राजभवन के दूसरे कमरे में रखा हुआ था और जिसपर चादर बिछी हुई थी ॥ २१ ॥


तं धूपाश्यानकेशान्तं तोयनिर्णिंक्तपाणयः । आकल्पसाधनैस्तैस्तैरुपसेदुः प्रसाधकाः ॥ २२ ॥

अन्वयः—तोयनिर्णिंक्तपाणयः प्रसाधकाः धूपाश्यानकेशान्तं तं तैः तैः आकल्पसाधनैः उपसेदुः ।

तमिति । तोयेन निर्णिंक्तपाणयः क्षालितहस्ताः प्रसाधका अलङ्कर्तारो धूपेन गन्धद्रव्यधूपेनाश्यानकेशान्तं शोषितकेशपाशान्तं तमतिथिं तैस्तैराकल्पस्य नेपथ्यस्य साधनैर्गन्धमाल्यादिभिरुपसेदुरुपतस्थुः । अलञ्चक्रुरित्यर्थः ।

भाषार्थ—शृङ्गार करने वालों ने स्वच्छ हाथों से धूप देने से सुगन्धित या सूखे हुए केशवाले राजा अतिथिको उन-उन शृङ्गार-सामग्रियों से अलंकृत कर दिया ॥ २२ ॥