रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 627, कुल 735 में से
संदर्भ में पढ़ें| ५६८ | रघुवंशमहाकाव्ये |
|---|
तदात्मसम्भवं राज्ये मन्त्रिवृद्धाः समादधुः ।
स्मरन्तः पश्चिमामाज्ञां भर्तुः संग्रामयायिनः ॥ ८ ॥
अन्वयः—संग्रामयायिनः भर्तुः पश्चिमाम् आज्ञां स्मरन्तः मन्त्रिवृद्धाः तदात्मसम्भवं राज्ये समादधुः ।
तदिति । संग्रामयायिनः संग्रामं यास्यतः । आवश्यकार्थे णिनिः । “अकेनोर्भविष्यदाधमर्ण्ययोः” इति षष्ठीनिषेधः । भर्तुः स्वामिनः कुशस्य पश्चिमामन्तिमामाज्ञां विपर्यये पुत्रोऽभिषेक्तव्य इत्येवंरूपां स्मरन्तो मन्त्रिवृद्धास्तदात्मसम्भवमतिथिं राज्ये समादधुर्निदधुः ।
भाषार्थ—युद्ध में जाते समय कुश ने जो अन्तिम आज्ञा दी थी उसके अनुसार वृद्ध मन्त्रियों ने उनके पुत्र अतिथि को राजा बनाया ॥ ८ ॥
ते तस्य कल्पयामासुरभिषेकाय शिल्पिभिः ।
विमानं नवमुद्वेदि चतुःस्तम्भप्रतिष्ठितम् ॥ ९ ॥
अन्वयः—ते तस्य अभिषेकाय शिल्पिभिः उद्वेदि चतुःस्तम्भप्रतिष्ठितं नवं विमानं कल्पयामासुः ।
त इति । ते मन्त्रिणस्तस्यातिथेरभिषेकाय शिल्पिभिरुद्वेद्युन्नतवेदिकं चतुःस्तम्भप्रतिष्ठितं चतुर्षु स्तम्भेषु प्रतिष्ठितं नवं विमानं मण्डपं कल्पयामासुः कारयामासुः ।
भाषार्थ—उन वृद्ध मंत्रियों ने उनके राज्याभिषेक के लिए कारीगरों से चार खम्भों पर स्थित ऊँची वेदी वाला नया मण्डप बनवाया ॥ ९ ॥
तत्रैनं हेमकुम्भेषु सम्भृतैस्तीर्थवारिभिः ।
उपतस्थुः प्रकृतयो भद्रपीठोपवेशितम् ॥ १० ॥
अन्वयः—तत्र भद्रपीठोपवेशितं एनं हेमकुम्भेषु सम्भृतैः तीर्थवारिभिः प्रकृतयः उपतस्थुः ।
तत्रेति । तत्र विमाने भद्रपीठे पीठेऽविशेषे उपवेशितमेनमतिथिं हेमकुम्भेषु सम्भृतैः संगृहीतैस्तीर्थवारिभिः करणैः प्रकृतयो मन्त्रिणः उपतस्थुः ।
भाषार्थ—प्रजाने उस मण्डप में भद्रपीठ पर बैठे हुए राजा अतिथि का सुवर्ण के कलशों में भरे हुए तीर्थों के जल से अभिषेक किया ॥ १० ॥
नदद्भिः स्निग्धगम्भीरं तूर्यैराहतपुष्करैः ।
अन्वमीयत कल्याणं तस्याविच्छिन्नसन्तति ॥ ११ ॥