भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 626, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 626

सप्तदशः सर्गः ५६७

अन्वयः— स कुलोचितं इन्द्रस्य सहायकं उपेयिवान् ( सन् ) समरे दुर्जयं दैत्यं जघान तेन अवधि च ।

स इति । स कुशः कुलोचितं कुलाभ्यस्तमिन्द्रस्य सहायकं सहकारित्वं । “योपधाद्गुरूपोत्तमाद् वुञ्” इत्यनेन वुञ् । उपेयिवान्प्राप्तः सन्समरे नामतोऽर्थतश्च दुर्जयं दैत्यं जघानावधीत् तेन दैत्येनावधि हतश्च । “लुङ् च” इति हनो वधादेशः ।

भाषार्थ— अपने वंश के सिद्धान्त के अनुसार कुश भी एक बार युद्ध में इन्द्र की सहायता करने के लिये गये थे । महाशक्तिशाली दुर्जय नामक राक्षस को मारकर स्वयं भी वीरगति को प्राप्त हुए ॥ ५ ॥

तं स्वसा नागराजस्य कुमुदस्य कुमुद्वती ।
अन्वगात्कुमुदानन्दं शशाङ्कमिव कौमुदी ॥ ६ ॥

अन्वयः— कुमुदस्य नागराजस्य स्वसा कुमुद्वती कुमुदानन्दं शशाङ्कं कौमुदी इव तं अन्वगात् ।

तमिति । कुमुदस्य नाम नागराजस्य स्वसा कुमुद्वती कुशपत्नी कुमुदानन्दं शशाङ्कं कौमुदी ज्योत्स्नेव तं कुशमन्वगात् । कुशस्तु कुः पृथिवी तस्या मुत्प्रीतिः सैवानन्दो यस्येति कुमुदानन्दः परानन्देन स्वथमानन्दतीत्यर्थः ।

भाषार्थ— जिस प्रकार कुमुदों को खिलाने वाले चन्द्रमा के अस्त होने के साथ-साथ उसकी चांदनी अस्त हो जाती है उसी प्रकार नागराज कुमुद की बहन कुमुद्वती भी कुश के साथ सती हो गई ॥ ६ ॥

तयोर्दिवस्पतेरासीदेकः सिंहासनाधंभाक् ।
द्वितीयापि सखी शच्याः पारिजातांशभागिनी ॥ ७ ॥

अन्वयः— तयोः एकः दिवस्पतेः सिंहासनाधंभाक् आसीत् द्वितीया अपि शच्याः पारिजातांशभागिनी सखी ( आसीत् ) ।

तयोरिति । तयोः कुशकुमुद्वत्योर्मंध्य एकः कुशः दिवस्पतेरिन्द्रस्य सिंहासनाधं सिंहासनैकदेशः तद्भागासीत् । द्वितीया कुमुद्वती शच्या इन्द्राण्याः पारिजातांशस्य भागिनी ग्राहिणी । “संपृच०” इत्यादिना भजेर्घिनुण्प्रत्ययः । सख्यासीत् । कस्कादित्वाद्विवस्पतिः साधुः ।

भाषार्थ— उन दोनों में-से कुश को इन्द्र के सिंहासन का आधा भाग मिला और दूसरी कुमुद्वती जाकर इन्द्राणी के साथ पारिजात में आधा भाग ले बैठी ॥ ७ ॥