भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 629, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 629

५७० रघुवंशमहाकाव्ये

अन्वयः—तस्य मूर्ध्नि सशब्दं निपतन्ती ओघमहती अभिषेकश्रीः त्रिपुरद्विषः ( मूर्ध्नि ) गङ्गा इव व्यरोचत ।

तस्येति । तस्यातिथेर्मूर्ध्नि सशब्दं निपतन्त्योघमहतो महाप्रवाहा अभिषिच्यतेऽनेनेत्यभिषेको जलं स एव श्रीः । यद्वा तस्य श्रीः । समृद्धिस्त्रिपुरद्विषः शिवस्य मूर्ध्नि निपतन्ती गङ्गेव व्यरोचत । त्रयाणां पुराणां द्वेष्टीति विग्रहः ।

भाषार्थ—उनके शिर के ऊपर गिरती हुई अभिषेक की जल की धारा ऐसी सुन्दर लगती थी मानो शिवजी के शिर के ऊपर गंगाजी की धारा गिर रही हो ॥ १४ ॥

स्तूयमानः क्षणे तस्मिन्नलक्ष्यत स वन्दिभिः ।
प्रवृद्ध इव पर्जन्यः सारङ्गैरभिनन्दितः ॥१५॥

अन्वयः—तस्मिन् क्षणे वन्दिभिः स्तूयमानः सः प्रवृद्धः ( अतएव ) सारङ्गैः अभिनन्दितः पर्जन्यः इव अलक्ष्यत ।

स्तूयमान इति । तस्मिन्क्षणेऽभिषेककाले वन्दिभिः स्तूयमानः सोऽतिथिः प्रवृद्धः प्रवृद्धवान् । कर्तरि क्तः । अतएव सारङ्गैश्चातकैरभिनन्दितः पर्जन्यो मेघ इव अलक्ष्यत ।

भाषार्थ—उस समय भाट और चारण जब उनका विरद बखानने लगे तो ऐसा मालूम पड़ता था मानो बहुत से चातक मिलकर बादल के गुण गा रहे हों ॥ १५ ॥

तस्य सन्मन्त्रपूताभिः स्नानमद्भिः प्रतीच्छतः ।
ववृधे वैद्युतस्याग्नेर्वृष्टिसेकादिव द्युतिः ॥१६॥

अन्वयः—सन्मन्त्रपूताभिः अद्भिः स्नानं प्रतीच्छतः तस्य वृष्टिसेकात् वैद्युतस्य अग्नेः इव द्युतिः ववृधे ।

तस्येति । सन्मन्त्रैः पूताभिः शुद्धाभिरद्भिः स्नानं प्रतीच्छतः कुर्वतस्तस्य वृष्टिसेकात् विद्युतोऽयं वैद्युतः तस्याबिन्धनस्याग्नेरिव द्युतिर्ववृधे ।

भाषार्थ—उत्तम मन्त्रों से पवित्र हुए जल से स्नान करते समय अतिथि के शरीर का तेज वैसे ही बढ़ गया जैसे वर्षा के जल से बिजली की चमक बढ़ जाती है ॥ १६ ॥

स तावदभिषेकान्ते स्नातकेभ्यो ददौ वसु ।
यावतेषां समाप्येरन्यज्ञाः पर्याप्तदक्षिणाः ॥१७॥