भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 620, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 620

षोडशः सर्गः ५६१

अन्वयः—विशांपतिः विभूषणप्रत्युपहारहस्तं उपस्थितं तं वीक्ष्य सौपर्णं अस्त्रं प्रतिसञ्जहार हि सन्तः प्रह्वेषु निर्बन्धरुषः ( भवन्ति ) ।

विभूषणेति । विशाम्पतिर्मनुजपतिः कुशः । 'द्वौ विशौ वैश्यमनुजौ' इत्यमरः । विभूषणं प्रत्युपहरति प्रत्यर्पयतीति विभूषणप्रत्युपहारः । कर्मण्यण् । विभूषणप्रत्युपहारो हस्तो यस्य तम् । उपस्थितं प्राप्तं तं कुमुदं वीक्ष्य सौपर्णं गारुत्मतमस्त्रं प्रतिसञ्जहार । तथाहि सन्तः प्रह्वेषु नम्रेष्वनिर्वन्धरुषोऽनियतकोपा हि ।

भाषार्थ—राजा कुशने आभूषणरूप प्रत्युपहार को लेकर उपस्थित उस नाग को देख कर धनुष पर-से गारुडास्त्र उतार लिया, क्योंकि सज्जन लोग उनपर क्रोध नहीं करते जो नम्र होकर उनके आगे आ जाते हैं ॥ ८० ॥

त्रैलोक्यनाथप्रभवं प्रभावात्कुशं द्विषामङ्कुशमस्त्रविद्वान्।
मानोन्नतेनाप्यभिवन्द्य मूर्ध्ना मूर्द्धाभिषिक्तं कुमुदो बभाषे ॥८१॥

अन्वयः—अस्त्रविद्वान् कुमुदः त्रैलोक्यनाथं (अतएव) प्रभावात् द्विषां अंकुशं मूर्द्धाभिषिक्तं कुशं मानोन्नतेन अपि मूर्ध्ना अभिवन्द्य बभाषे ।

त्रैलोक्येति । अस्त्रं विद्वानस्त्रविद्वान् । “न लोकाव्ययनिष्ठाखलर्थतृनाम्” इत्यनेन षष्ठीसमासनिषेधः । “द्वितीया श्रिता०” इत्यत्र गम्यादीनामुपसंख्यानाद् द्वितीयेति योगविभागाद्वा समासः । गरुडास्त्रमहिमाभिज्ञ इत्यर्थः । कुमुदः । त्रयो लोकास्त्रैलोक्यम् । चातुर्वर्ण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । त्रैलोक्यनाथो रामः प्रभवो जनको यस्य तम् । अतएव प्रभावाद् द्विषामंकुशं निवारकं मूर्द्धाभिषिक्तं राजानं मानोन्नतेनापि मूर्ध्नाभिवन्द्य प्रणम्य बभाषे ।

भाषार्थ—त्रिलोकीनाथ राम के पुत्र तथा शत्रुओं को अंकुश के समान दुख देने वाले राजा कुश को मान से उन्नत अपना शिर नम्र करके कुमुद प्रणाम करके बोला क्योंकि वह कुश के बाण की शक्तिको भलीभाँति जानता था ॥८१॥

अवैमि कार्यान्तरमानुषस्य विष्णोः सुताख्यामपरां तनुं त्वाम् ।
सोऽहं कथं नाम तवाचरेयमाराधनीयस्य धृतेर्विघातम् ॥८२॥

अन्वयः—त्वां कार्यान्तरमानुषस्य विष्णोः सुताख्यां अपरां तनुं अवैमि । सः अहं आराधनीयस्य तव धृतेः विघातं कथं नाम आचरेयम् ।

अवैमीति । त्वाम् ओदनान्तरस्तण्डुल इतिवत्कार्यान्तरः कार्यार्थः । 'स्थानात्मीयान्यतादर्थ्यरन्ध्रान्त्येषु चान्तरम्' इति शाश्वतः । स चासौ मानुषश्चेति तस्य विष्णोः रामस्य सुताख्यां पुत्रसंज्ञामपरां तनुं मूर्तिमवैमि । 'आत्मा वै पुत्रनामासि' इति

३६ र० सम्पू०

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या) · पृष्ठ 620, कुल 735 में से · BharatKosha