भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 347, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 347
२८८रघुवंशमहाकाव्ये

अथेति। अथ यमकुबेरजलेश्वरवज्रिणां धर्मराजधनदवरुणामरेन्द्राणां सम. धूर्भारो यस्य स समधुरः माध्यस्थ्यवितरणसंनियमनैश्वर्यैस्तुल्यकक्ष इत्यर्थः । “ऋक्पूरब्ध्रूःपथामानक्षे” इत्यनेन समासान्तोऽच्प्रत्ययः। तं समधुरम् अञ्चितविक्रमं पूजितपराक्रममेकनराधिपं तं दशरथं सेवितुमिव मधुर्वसंततः। मद्ये पुष्परथे । मधुर्वसन्तः । ‘मद्ये पुष्परसे मधुः । दैत्ये चैवे वसन्ते च जीवाशोके मधुद्रुमे।’ इति विश्वः । कुसुमैरुपलक्षितः सन्समाववृते समागतः ‘रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरुम्’ इति वचनात्पुष्पसमेतो राजानं सेवितुमागत इत्यर्थः ।

भाषार्थ—यम, कुबेर, वरुण और इन्द्र के समान पराक्रमी उस एकच्छत्र राजा दशरथ का अभिनन्दन करने के लिए वसन्त ऋतु भी नये-नये पुष्पों की भेंट लेकर आ पहुँची ॥ २४ ॥

जिगमिषुर्घनदाध्युषितां दिशं रथयुजा परिवर्तितवाहनः ।
दिनमुखानि रविर्हिमानग्रहैर्विमलयन्मलयं नगमत्यजत् ॥ २५ ॥

अन्वयः---धनदाध्युषितां दिशं जिगमिषुः रथयुजा परिवर्तितवाहनः रविः हिमनिग्रहैः दिनमुखानि विमलयन् सन् मलयं नगम् अत्यजत् ।

जिगमिषुरिति । धनदाध्युषितां कुबेराधिष्ठितां दिशं जिगमिषुर्गन्तुमिच्छु रथयुजा सारथिनाऽरुणेन परिवर्तितवाहनो निर्वातताश्वो रविः हिमस्य निग्रहैर्निराकरणैर्दिनमुखानि प्रभातानि विमलयन्विशदयन् मलयं नगं मलयाचलमत्यजत् । दक्षिणां दिशमत्याक्षीदित्यर्थः ।

भाषार्थ—कुबेर पालित उत्तर दिशा में जाने के इच्छुक और सारथि अरुण द्वारा घुमाए गए घोड़ों वाले सूर्य ने पाला हटा करके प्रातःकाल को स्वच्छ बनाते हुए मलय पर्वत को छोड़ दिया । २५ ॥

कुसुमजन्म ततो नवपल्लवास्तदनु षट्पदकोकिलकूजितम् ।
इति यथाक्रममाविरभून्मधुद्रुमवतीमवतीर्य वनस्थलीम् ॥ २६ ॥

अन्वयः—आदौ कुसुमजन्मः ततः, नवपल्लवाः तदनु । षट्‍पदकोकिलकूजितम् इति यथाक्रमं द्रुमवती वनस्थलीम् अवतीर्य मधुः आविर्भूत् ।

कुसुमेति । आदौ कुसुमजन्म ततो नवपल्लवाः तदनु । “अनुर्लक्षणे” इति कर्मप्रवचनीयत्वाद्वितीया । यथासंख्यं तदुभयानन्तरं षट्पदानां कोकिलानां च कूजितम् । इत्येवंप्रकारेण यथाक्रमं क्रममनतिक्रम्य पुष्पप्रियो भृङ्गः पल्लवप्रियः कोकिल इति क्रमोक्तेरयमाशयः । द्रुमवतीं द्रुमभूयिष्ठां वनस्थलीमवतीर्य मधुर्वसन्त