रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 342, कुल 735 में से
संदर्भ में पढ़ेंनवमः सर्गः २८३
निववृत्त इति। स दशरथः सचिवैः सम्प्रयोजितैः कारिता बालसुतानामञ्जलयो यैस्तान् स्वयमसंम्मुखागतान्नित्यर्थः। अनलकान्हतभर्तृकतयालकसंस्कारशून्यान्सपत्नपरिग्रहाञ्छत्रुपत्नीः। 'पत्नीपरिजनादानमूलशापाः परिग्रहाः' इत्यमरः। समनुकम्प्यानुगृह्यालकानवमामलकानगरादन्यूनां। अलति भूषयति स्वस्थानमित्यलकां पुरीमयोध्यां प्रति महार्णवानां रोधसः पर्यन्तान्निववृते। शरणागतवत्सल इति भावः।
भाषार्थ--वे राजा दशरथ कृपा करके इस समुद्र के किनारे से अपनी उस अयोध्या पुरी को लौट आये जो कुबेर की राजधानी अलका पुरी से किसी प्रकार कम न थी। क्योंकि मृतपतिका, संस्कारशून्य केशों वाली शत्रु राजाओं की रानियों ने अपने मन्त्रियों के साथ हाथ जोड़े हुए अपने बच्चों को भेजकर अपनी रक्षा के लिए प्रार्थना करवाई थी॥ १४॥
उपगतोऽपि च मण्डलनाभितामनुदितान्यसितातपवारणः। श्रियमवेक्ष्य स रन्ध्रचलामभूदनलसोऽनलसोमसमद्युतिः॥ १५॥
अन्वयः—अनुदितान्यसितातपवारणः अनलसोमसमद्युतिः सः श्रियम् रन्ध्रचलाम् अवेक्ष्य च मण्डलनाभितां उपगतः अपि अनलसः अभूत्।
उपगत इति अनुदितमनुच्छ्रितमन्यस्वच्छत्रातिरिक्तं सितातपवारणं श्वेतच्छत्रं यस्य सः अनलसोमयोरग्निचन्द्रयोः समे द्युती तेजःकान्ती यस्य स तथोक्तः। श्रियं लक्ष्मीं रन्ध्रेऽन्यायालस्यादिरूपे छले चलां चञ्चलामवेक्ष्यावलोक्य श्रीर्हि केनचिन्मिषेण पुमांसं परिहरति स दशरथो मण्डलस्य नाभितां द्वादशराजमण्डलस्य प्रधानमहीपतित्वमुपगतोऽपि चक्रवर्ती सन्नपीत्यर्थः। 'अथ नाभिस्तु जन्त्वङ्गे यस्य संज्ञा प्रतारिका। रथचक्रस्य मध्यस्थपिण्डिकायां च ना पुनः॥ आद्यक्षत्रियभेदे तु मनो मुख्यमहीपतौ॥' इति केशवः। अनलसोऽप्रमत्तोऽभूत्। 'अजितमस्ति नृपास्पद'मिति पाठान्तरेऽजितं नृपास्पदमस्तीति बुद्ध्यानलसोऽप्रमत्तोऽभूत्। विजितनिखिलजेतव्योऽपि पुनर्जेतव्यान्तरवानिव जागरूक एवावतिष्ठतेत्यर्थः। द्वादशराजमण्डलं तु कामन्दकेनोक्तम्—'अरेर्मित्रमरेर्मित्रं मित्रमित्रमतः परम्। तथारिमित्रमित्रं च विजिगीषोः पुरःसराः॥ पाष्णिग्राहस्ततः पश्चादाक्रन्दस्तदनन्तरम्। आसारावन्बोषश्चैव विजिगीषोस्तु पृष्ठतः। 'अरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः। अनुग्रहे संवतानां व्यस्तानां च वधे प्रभुः॥' इति। 'अरिमित्रादयः पञ्च विजिगीषोः पुरःसराः॥ पाष्णिग्राहाक्रन्दपाष्णिग्राहासाराक्रन्दसाराः॥' इति पृष्ठतश्चत्वारः मध्यमोदासीनौ द्वौ विजिगीषुरेक इत्येवं द्वादशराजमण्डलम्। तत्रोदासीनमध्यमोत्तरश्चक्रवर्ती दशरथश्चैतादृगिति तात्पर्यार्थः।