भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 344, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 344

नवमः सर्गः २८५

हैं उसी प्रकार कोशल, मगध और कैकेय देश के राजाओं की कौशल्या सुमित्रा एवं कैकेयी नामक पतिव्रता कन्याओं ने शत्रुओं पर बाण बरसानेवाले उस राजा दशरथ को पति के रूप में पा लिया ॥ १७ ॥

प्रियतमाभिरसौ तिसृभिर्बभौ तिसृभिरेव भुवं सह शक्तिभिः । उपगतो विनिनीषुरिव प्रजा हरिहयोऽरिहयोगविचक्षणः ॥ १८ ॥

अन्वयः—अरिहयोगविचक्षणः असौ तिसृभिः प्रियतमाभिः सह प्रजा विनिनीषुः शक्तिभिः सह भुवम् उपगतः हरिहयः इव बभौ ।

प्रियतमाभिरिति । अरीन्हन्तीत्यरिहणो रिपुघ्नाः । हन्तेः क्विप् । ‘ब्रह्मभ्रूणवृत्रेषु क्विप्’ इति नियमस्य प्रायिकत्वात् । यथाह न्यासकारः—प्रायिकश्चायं नियमः क्वचिदन्यस्मिन्नप्युपपदे दृश्यते मधुहा प्रायिकत्वं च वक्ष्यमाणस्य नतुलग्रहणस्य पुरस्तादपकर्षाल्लभ्यते' इति । तेषु योगेषूपायेषु विचक्षणो दक्षः । 'योगः संनहनोपायध्यानसंगतियुक्तिषु' इत्यमरः । इन्द्रेऽपि योज्यमेतत् । असौ दशरथस्तिसृभिः प्रियतमाभिः सह प्रजा विनिनीषुविनेतुमिच्छुस्तिसृभिः शक्तिभिः प्रभुमन्त्रोत्साहशक्तिभिरेव सह भुवमुपगतो हरिहय इन्द्र इव बभौ ।

भाषार्थ—शत्रुओं के नाश करने में निपुण राजा दशरथ अपनी तीनों रानियों के साथ ऐसे जान पड़ते थे मानो पृथ्वी पर राज्य करने की इच्छा से स्वयं इन्द्र ही अपनी प्रभुशक्ति और उत्साह शक्तियों के साथ अवतार लेकर चले आये हैं ॥ १८ ॥

स किल संयुगमूर्ध्नि सहायतां मघवतः प्रतिपद्य महारथः । स्वभुजवीर्यमगापयदुच्छ्रितं सुरवधूरवधूतभयाः शरैः ॥ १९ ॥

अन्वयः—महारथः सः संयुगमूर्ध्नि मघवतः सहायतां प्रतिपद्य शरैः अवधूतभयाः सुरवधूः उच्छ्रितं स्वभुजवीर्यम् अगापयत् किल ।

स इति । महारथः स दशरथः संयुगमूर्ध्नि रणाङ्गणे मघवत इन्द्रस्य सहायतां प्रतिपद्य प्राप्य शरैरवधूतभया निर्वर्तितत्रासाः सुरवधूरुच्छ्रितं स्वभुजवीर्यमगापयत्किल खलु । गायतेः शब्दकर्मत्वात् ‘‘गतिबुद्धि०’’ इत्यादिना सुरवधूनामपि कर्मत्वम् ।

भाषार्थ—महारथी दशरथ ने समराङ्गण में इन्द्र की सहायता करके अपने बाणों से उनके शत्रुओं का नाश कर दिया जिससे देवताओं की स्त्रियों का भय दूर हो गया, वे निर्भय होकर दशरथ के बाहुबल के गीत गाने लगीं ॥ १९ ॥