भारतकोश
रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पृष्ठ 334, कुल 735 में से

संदर्भ में पढ़ें
पृष्ठ 334

अष्टमः सर्गः. २७५

तस्य प्रसह्य हृदयं किल शोकशङ्कुः
प्लक्षप्ररोह इव सौधतलं बिभेद ।
प्राणान्तहेतुमपि तं भिषजामसाध्यं
लाभं प्रियानुगमने त्वरया स मेने ॥ ९३ ॥

अन्वयः—शोकशंकुः तस्य हृदयं प्लक्षप्ररोहः सौधतलम् इव प्रसह्य बिभेद किल सः प्राणान्तहेतुम् अपि भिषजाम् असाध्यं तं प्रियानुगमने त्वरया लाभं मेने ।

तस्येति । शोक एव शङ्कुः कीलः 'शङ्कुः कीले शिवेऽस्त्रे च' इति विश्वः । तस्याजस्य हृदयं प्लक्षप्ररोहः सौधतलमिव प्रसह्य बलात्किल बिभेद । सोऽजः प्राणान्तहेतुं मरणकारणमपि भिषजामसाध्यमप्रतिसमाधेयं तं शोकशङ्कुं रोगपर्य-वसितं प्रियाया अनुगमने त्वरयोत्कण्ठया लाभं मेने । तद्विरहस्यातिदुःसहत्वात्-त्प्राप्तिकारणं मरणमेव वरमित्यमन्यतेत्यर्थः ।

भाषार्थ—जिस प्रकार अश्वत्थ वृक्ष की जड़ बड़े-बड़े मकानों की छतों को भेदकर फाड़ देती है उसी प्रकार इन्दुमती के वियोग रूप शल्य ने राजा अज के हृदय को विदीर्ण कर डाला, अज अपनी प्रिया के पीछे प्राण देने को उतावला हो गये थे कि उन्होंने प्राण हर लेने और वैद्यों से असाध्य उस शोक शंकु को भी प्रिया के अनुगमन मे सहायक ही समझा ॥ ९३ ॥

सम्यग्विनीतमथ वर्महरं कुमार-
मादिश्य रक्षणविधौ विधिवत्प्रजानाम् ।
रोगोपसृष्टतनुर्दुर्वसं सति मुमुक्षुः
प्रायोपवेशनमतिर्नृपतिर्बभूव ॥ ९४ ॥

अन्वयः—अथ नृपतिः सम्यग् विनीतं वर्महरं कुमारं प्रजानाम् रक्षणविधौ विधिवत् आदिश्य रोगोपसृष्टतनुर्दुर्वसं सति मुमुक्षुः सन् प्रायोपवेशनमतिः बभूव ।

सम्यगिति । अथ नृपतिरजः सम्यग्विनीतं निसर्गसंस्काराभ्यां विनयवन्तं वर्म हस्तीति वर्महरः कवचधारणार्हवयस्कः । “वयसि च” इत्यच्प्रत्ययः । तं कुमारं दशरथं प्रजानां रक्षणविधौ राज्ये विधिवद्दिष्ट्यहंम्। यथाशास्त्रमित्यर्थः। “तदर्हम्” इति वतिप्रत्ययः । आदिश्य नियुज्य रोगेणोपसृष्टाया व्याप्तायास्तनोः शरीरस्य दुर्वंसति दुःखावस्थिति मुमुक्षुर्जिहासुः सन् प्रायोपवेशनेऽनशनावस्थाने मतिर्यस्य स बभूव । ‘प्रायश्चानशने मृत्यौ तुल्यबाहुल्ययोरपि’ इति विश्वः । अत्र पुराणवचनम्—‘‘समा-सक्तो भवेद्यस्तु पातकैर्महदादिभिः । दुश्चिकित्स्यैर्महारोगैः पीडितो वा भवेत्तु यः ॥ स्वयं देहविनाशस्य काले प्राप्ते महामतिः । ब्राह्मणं वा स्वर्गादिमहा-