भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

चतुर्थः सर्गः ११५

चतुर्थः सर्गः ११५

त्वाद्दव्ययीभावः । प्रदक्षिणां याऽर्चिज्ज्वाला तस्या व्याजेन हस्तेनेव तस्मै जयं ददौ । उक्तमाश्वयात्रायाम्—'दृढः प्रदक्षिणगतो हुतभुङ् नृपस्य धात्रीं समुद्ररशनां वशगां करोति' इति । वाजिग्रहणं गजादीनामप्युपलक्षणं तेषामपि नीराजनाविधानात् ।

भावार्थ— घोड़ों के नीराजन में विधिवत् हवन की गयी अग्नि ने दक्षिण ज्वाला से उस रघु को विजय दिया ॥ २५ ॥

स गुप्तमूलप्रत्यन्तः शुद्धपाष्णिरयान्वितः ।
षड्विधं बलमादाय प्रतस्थे दिग्जिगीषया ॥ २६ ॥

अन्वयः— गुप्तमूलप्रत्यन्तः, शुद्धपाष्णिः, अयान्वितः सः षड्विधं बलं आदाय, दिग्जिगीषया प्रतस्थे ।

स इति । गुप्तौ मूलं स्वनिवासस्थानं प्रत्यन्तः प्रान्तदुर्गं च येन स गुप्तमूलप्रत्यन्तः । शुद्धपाष्णिरुद्धृतपृष्ठशत्रुः सेनया रक्षितपृष्ठदेशा वा । अयान्वितः शुभदैवान्वितः 'अयः शुभावहो विधिः' इत्यमरः । स रघुः, षड्विधं मौलभृत्यादिरूपं बलं सैन्यम् । 'मौलं भृत्यः सुहृच्छ्रेणी द्विषद्राटविकं बलम्' इति कोषः । आदाय दिशां जिगीषया जेतुमिच्छया प्रतस्थे चचाल ।

भावार्थ— दुर्ग आदि की रक्षा का प्रबन्ध कर, पृष्ठदेशस्थ राजाओं के उन्मूलक रघु यात्रा के समय मङ्गलाचरण करके ६ प्रकार की सेना ले दिग्विजयेच्छा से चले ।

अवाकिरन्व्योवृद्धास्तं लाजैः पौरयोषितः ।
पृषतैर्मन्दरोद्धूतैः क्षीरोमंय इवाच्युतम् ॥ २७ ॥

अन्वयः— वयोवृद्धाः पौरयोषितः लाजैः तं क्षीरोर्मयः मन्दरोद्धूतैः पृषतैः अच्युतम् इव अवाकिरन् ।

अवाकिरन्निति । वयोवृद्धाः पौरयोषितस्तं रघुं प्रयान्तं लाजैराचारलाजैः । मन्दरोद्धूतैः पृषतैर्बिन्दुभिः क्षीरोमंयः, क्षीरसमुद्रोर्मयोऽच्युतं विष्णुमिव । अवाकिरनभ्यक्षिपन् ।

भावार्थ— नगर की वृद्धाओं ने धान के लावों से रघु, पर वर्षा की जैसे क्षीरसागर की लहरों ने मन्दराचल से उठे हुए छींटों से विष्णुजी के ऊपर वर्षा की थी ।

स ययौ प्रथमं प्राचीं तुल्यः प्राचीनवर्हिषा ।
अहिताननिलोद्धूतैस्तर्जयन्निव केतुभिः ॥ २८ ॥

अन्वयः— प्राचीनबर्हिषा तुल्यः सः अनिलोद्धूतैः केतुभिः अहितान् तर्जयन् इव प्रथमं प्राचीं ययौ ।

स इति । प्राचीनबर्हिर्नाम कश्चिन्महाराज इति केचित् । प्राचीनबर्हिरिन्द्रः ।

११४ || रघुवंशमहाकाव्ये

'पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः' इतीन्द्रपर्यायेषु हलायुधाभिधानात्। तेन तुल्यः स रघुः अनिलेनानुकूलवातेनोद्धूतैः केतुभिर्ध्वजैरहितान्‌रिपूंस्तर्जयन्निव भर्त्सयन्निव । तज्जिभत्स्योरनुदात्तत्वेऽपि चक्षिङो ङित्करणेनानुदात्तेत्त्वनिमित्तस्या-त्मनेपदस्याऽनित्यत्वज्ञापनात्परस्मैपदमिति वामनः। प्रथमं प्राचीं दिशं ययौ।

**भावार्थ—**प्राचीनबर्हिष इन्द्र के समान रघु वायु से फहराती हुई पताकाओं से शत्रुओं को डराते हुए पहले पूर्व दिशा की ओर गये ॥ २८ ॥

रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः ।
भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम् ॥ २९ ॥

**अन्वयः—**स्यन्दनोद्धूतैः रजोभिः घनसन्निभैः गजैः च व्योम भुवस्तलम् इव भूतलं च व्योम इव कुर्वन् (ययौ) ।

रजोभिरिति । किं कुर्वन् स्यन्दनोद्धूतैः रजोभिर्घनसन्निभैर्वर्णतः, क्रियातः, परिमाणतश्चमेघतुल्यैर्गजैश्च यथाक्रमं व्योमाकाशम्भुवस्तलमिव भूतलेन व्योमेव कुर्वन्नियायिविति च पूर्वेणान्वयः ।

**भावार्थ—**वे रथोत्थ धूल से और मेघतुल्य हाथियों से आकाश को धरणी और धरणी को आकाश के समान करते हुए चले ॥ २९ ॥

प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः ॥ ३० ॥

**अन्वयः—**अग्रे प्रतापः, ततः शब्दः, तदनन्तरं परागः, पश्चात् रथादि इति चतुःस्कन्धा इव सा चमूः ययौ ।

प्रताप इति । अग्रे प्रतापस्तेजोविशेषः । 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । ततः शब्दः सेनाकलकलः । तदनन्तरं परागो धूलिः । परागः पुष्परजसि, धूलिस्तानीपयोरपि' इति विश्वः । पश्चाद्रथादि रथाश्वादिकं चतुरङ्गबलम् । 'रथानीकम्' इति पाठे, इति शब्दाध्याहारेण योज्यम् । इतीत्थं चतुःस्कन्धेव चतुर्व्यूहेव । 'स्कन्धः प्रकाण्डे कायांरो विज्ञानादिषु पञ्चसु । नृपे समूहे च' इति हैमः । सा चमूर्ययौ ।

**भावार्थ—**आगे रघु का प्रताप, पीछे सेना का कोलाहल और धूलि, फिर रथ आदि इस प्रकार चतुर्व्यूहसम वह सेना चली ॥ ३० ॥

मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः ॥ ३१ ॥

चतुर्थः सर्गः ११७

अन्वयः—शक्तिमत्वात् सः मरुपृष्ठानि उदम्भांसि नाव्याः नदीः सुप्रतराः च विपिनानि प्रकाशानि चकार ।

भवति । स रघुः शक्तिमत्त्वात्समर्थत्वान्मरुपृष्ठानि निर्जलस्थानानि । 'समानौ मरुधन्वानौ' इत्यमरः । उदम्भांस्युद्भूतजलानि चकार । नाव्याः नौभिस्तार्याः नदीः । 'नाव्यं त्रिलिङ्गं नोतार्ये' इत्यमरः । 'नौवयो' इत्यादिना यत्प्रत्ययः सुप्रतराः सुखेन तार्याञ्चकार । विपिनान्धरण्णानि । 'अटव्यरण्यं विपिनम्' इत्यमरः । प्रकाशानि निर्वृक्षाणि चकार । शक्त्युत्कर्षात्तस्यागम्यं किमपि नासीदिति भावः ।

भाषार्थ—शक्तिमान् रघु ने निर्जल प्रदेशों को जलयुक्त, नाव से पार होने लायक नदियों को आसानी से पार होने योग्य और जंगलों को प्रकाशयुक्त कर दिया ॥ ३१ ॥


स सेनां महतीं कर्षन्पूर्वसागरगामिनीम् ।
बभौ हरजटाभ्रष्टां गङ्गामिव भगीरथः ॥ ३२ ॥

अन्वयः—पूर्वसागरगामिनीं महतीं सेनां कर्षन् सः हरजटाभ्रष्टां गङ्गां (कर्षन्) भगीरथः इव बभौ ।

स इति । महतीं सेनां पूर्वसागरगामिनीं कर्षन् स रघुः हरस्य जटाभ्यो भ्रष्टां गङ्गां कर्षन् ( साऽपि पूर्वसागरगामिनी ) । भगीरथ इव बभौ । भगीरथो नाम कश्चित्कपिलदग्धानां सगराणां नप्ता, तत्पावनाय हरकिरीटाद् गङ्गां प्रवर्त्तयिता राजा, यत्सम्बन्धाद् गङ्गां च भागीरथी गीयते ।

भाषार्थ—पूर्वसमुद्रगामिनी बहुत बड़ी सेना से रघु शिवजटा-निःसृत पूर्वसागरगामिनी गङ्गा से भगीरथ के समान शोभित हुए ॥ ३२ ॥


त्याजितैः फलमुत्खातैर्भग्नैश्च बहुधा नृपैः ।
तस्यासीदुल्बणो मार्गः पादपैरिव दन्तिनः ॥ ३३ ॥

अन्वयः—फलं त्याजितैः उत्खातैः बहुधा भग्नैः पादपैः च नृपैः दन्तिन इव तस्य मार्गः उल्बणः आसीत् ।

त्याजितैरिति । फलं लाभम् । 'फलं फले घने बीजे निष्पत्तौ भोगलाभयोः' इति केशवः । वृक्षपक्षे प्रसवं च । त्याजितैः । त्यजेर्ण्यन्ताद् द्विकर्मकादप्रधाने कर्मणि क्तः । उत्खातैः स्वपदाच्यावितैः । अन्यत्रोत्पाटितैः । बहुधा भग्नै रणे जितैः । अन्यत्र छिन्नैः । नृपैः । पादपैर्दन्तिनो गजस्येव । तस्य रघोर्मार्गो उल्बणं प्रकाश मासीत् । 'प्रकाशं प्रकटं स्पष्टमुल्बणं विशदं स्फुटम्' इति यादवः ।

११८रघुवंशमहाकाव्ये

भावार्थ—फल रहित, जड़ से उखाड़े गए, तोड़-मरोड़ दिए गए वृक्षों से हाथी के मार्ग के समान, राज्यच्युत परास्त शत्रुओं से रघु का मार्ग निष्कण्टक हुआ।

पौरस्त्यानेवमाक्रामंस्तांस्ताञ्जनपदान्जयी ।
प्राप तालीवनश्याममुपकण्ठं महोदधेः ॥ ३४ ॥

अन्वयः—जयी सः एवं पौरस्त्यान् तान् तान् जनपदान् आक्रामन् ताली-वनश्यामं महोदधेः उपकण्ठं प्राप ।

पौरस्त्यानिति । जयी जयनशीलः । ‘जिदृक्षिविश्री०’ इत्यादिनेनिप्रत्ययः । स रघुरेवम् । पुरो भवान्पौरस्त्यान्प्राच्यान् । ‘दक्षिणापश्चादिति त्यक्’ । तांस्तान् । सर्वानित्यर्थः । वीप्सायां द्विरुक्तिः । जनपदान् देशानाक्रामंस्तालीवनैः श्यामं महोदधेरुपकण्ठमन्तिकं प्राप ।

भाषार्थ—यों विजयी रघु पूर्ववर्ती उन देशों को जीतते हुए ताड़ वृक्षों से श्यामवर्ण समुद्र के तट पर पहुँचे ॥ ३४ ॥

अनम्राणां समुद्धर्तुस्तस्मात्सिन्धुरयादिव ।
आत्मा संरक्षितः सुह्मैर्वृत्तिमाश्रित्य वैतसीम् ॥ ३५ ॥

अन्वयः—अनम्राणां समुद्धर्तुः तस्मात् सिन्धुरयात् इव सुह्मैः वैतसीं वृत्तिं आश्रित्य त्मात्मा संरक्षितः ।

अनम्राणामिति । अनम्राणाम् । कर्मणि षष्ठी । समुद्धर्तुरुन्मूलयितुस्तस्माद्रघोः सकाशात् । ‘भीत्रार्थानां भयहेतुः’ इत्यपादानत्वात् पञ्चमी । सिन्धुरयान्नदीवेगादिव सुह्मैः सुह्मदेशीयैः । सुह्मादयः जनपदवचनाः क्षत्रियमाचक्षते । वैतसीं वेतसः सम्बन्धिनीं वृत्तिम् प्रणतिमित्यर्थः । आश्रित्य । आत्मा संरक्षितः । अत्र कौटिल्याः ‘बलीयसाऽभियुक्तो दुर्बलः सर्वत्रानुप्रणतो वैतसधर्ममातिष्ठेत्’ इति ।

भाषार्थ—उद्दण्ड राजाओं के उन्मूलक रघु से सुह्मदेशीय राजाओं ने नदी से बेतों के समान झुककर अपने को बचाया ॥ ३५ ॥

वङ्गानुत्खाय तरसा नेता नौसाधनोद्यतान् ।
निचखान जयस्तम्भान् गङ्गास्रोतोऽन्तरेषु सः ॥ ३६ ॥

अन्वयः—नौसाधनोद्यतान् वङ्गान् तरसा उत्खाय नेता सः गङ्गास्रोतोऽन्तरेषु जयस्तम्भान् निचखान ।

वङ्गानिति । नेता नायकः स रघुनौभिः साधनैरुद्यतान् संनद्धान्वङ्गान्राज्ञांस्तरheader-रसा बलेन । ‘तरसा बलरंहसौ’ इति यादवः । उत्खायोन्मूल्य गङ्गायाः स्रोतसां प्रवाहाणामन्तरेषु द्वीपेषु जयस्तम्भान्निचखान स्थानितवानित्यर्थः ।

चतुर्थः सर्गः ११९

**भावार्थ—**सज्जी बेड़ों से युद्ध के लिए सन्नद्ध बङ्गाल के राजाओं को बलपूर्वक जीत कर सेनानी रघु ने गङ्गा के प्रवाहों के बीच टापुओं में अपने विजय-स्तम्भों को गाड़ दिया ॥ ३६ ॥

आपाद्पद्मप्रणताः कलमा इव ते रघुम् ।
फलैः संवर्धयामासुरुत्खातप्रतिरोपिताः ॥ ३७ ॥

**अन्वयः—**आपादपद्मप्रणताः उत्खातप्रतिरोपिताः ते कलमा इव रघुं फलैः संवर्धयामासुः ।

आपादेति । आपादपद्ममङ्घ्रिपद्मपर्यन्तं प्रणताः । अत एवोत्खाताः पूर्वमुद्धृता अपि प्रतिरोपिताः पश्चात्स्थापितास्ते वङ्गाः, कलमा इव शालिविशेषा इव । 'शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी' इत्यमरः । तेऽप्यापादपद्मं पादपद्ममूलपर्यन्तं प्रणताः । 'पादो बुघ्ने तुरीयांशेऽङ्घ्रिप्रत्यन्तपर्वताः' इति विश्वः । उत्खातप्रतिरोपिताश्च । रघु फलैर्धनैः । अन्यत्र सस्यैः संवर्धयामासुः । 'फलं फले धने बीजे निष्पत्तौ भोगलाभयोः । सस्ये' इति केशवः ।

**भाषार्थ—**चरणों मे प्रणत, हटा कर फिर राजगद्दी पर प्रतिष्ठित, बङ्गदेशीय राजाओं ने धन द्वारा रघु को, झुके हुए, एक स्थान से दूसरे स्थान पर लगाये साठी धान द्वारा फलों से किसान की तरह परिपूर्ण कर दिया ॥ ३७ ॥

स तीर्त्वा कपिशां सैन्यैर्बद्धद्विरदसेतुभिः ।
उत्कलादर्शितपथः कलिङ्गाभिमुखो ययौ ॥ ३८ ॥

**अन्वयः—**सः बद्धद्विरदसेतुभिः सैन्यैः कपिशां तीर्त्वा उत्कलादर्शितपथः कलिङ्गाभिमुखः ययौ ।

स इति । स रघुर्वंशा द्विरदा एव सेतवो यैस्तैः सैन्यैः कपिशां नाम नदीं तीर्त्वा । 'करण्डाम्' इति केचित्पठन्ति । उत्कलैः राजभिरादर्शितपथः सन्दशितपथः सन् । कलिङ्गाभिमुखो ययौ ।

**भाषार्थ—**राजा रघु हाथियों से पुल बँधवा कर सेनासहित कपिशा नदी को पार कर उत्कल देश के राजाओं से मार्ग दिखाये हुए कलिंग देश की ओर चले ।

स प्रतापं महेन्द्रस्य मूर्ध्नि तीक्ष्णं न्यवेशयत् ।
अङ्कुशं द्विरदस्येव यन्ता गम्भीरवेदिनः ॥ ३६ ॥

**अन्वयः—**सः महेन्द्रस्य मूर्ध्नि तीक्ष्णं प्रतापं यन्ता गम्भीरवेदिन द्विरदस्य मूर्ध्नि तीक्ष्णं अङ्कुशम् इव न्यवेशयत् ।

स इति । स रघुर्महेन्द्रस्य कुलपर्वतविशेषस्य । 'महेन्द्रो मलयः सह्यः शक्ति-

१२० रघुवंशमहाकाव्ये

मानुक्षकपर्वतः । विन्ध्यश्च पारियात्रश्च सप्तैते कुलपर्वताः' । इति विष्णुपुराणात् मूर्ध्नि तीक्ष्णं दुःसहं प्रतापम् । यन्ता सारथिर्गम्भीरवेदिनो द्विरदस्य गजविशेषस्य मूर्ध्नि तीक्ष्णं शितमङ्कुशमिव । न्यवेशयन्निक्षिप्तवान् । 'त्वग्भेदाच्छोणितस्रावा-न्मांसस्य कथनादपि आत्मानं यो न जानाति सा स्याद् गम्भीरवेदिता' । इति राजपुत्रीये । चिरकालेन यो वेत्ति शिक्षां परिचितामपि । गम्भीरवेदी विज्ञेयः स गजो गजवेदिभिः इति मृगचर्मये ।

भावार्थ—उस रघु ने महेन्द्र पर्वत की चोटी पर अपने प्रबल प्रताप को रखा, जैसे महावत मत्त गम्भीरवेदी हाथी के मस्तक पर तीखा अंकुश रखता है।

प्रतिजग्राह कालिङ्गस्तमस्त्रैर्गजसाधनः । पक्षच्छेदोद्यतं शक्रं शिलवर्षीव पर्वतः ॥ ४० ॥

अन्वयः—तं गजसाधनः कलिङ्गः अस्त्रैः पक्षच्छेदोद्यतं शक्रं शिलवर्षी पर्वतः इव प्रतिजग्राह ।

प्रतीति । गजसाधनः सन् कलिङ्गानां राजा 'द्वयञ्मगध' इत्यनेनाञ्प्रत्ययः। अस्त्रैरायुधैस्तं रघुम् । पक्षाणां छेदे उद्यतमुद्युक्तं शक्रं शिलवर्षी पर्वत इव प्रति-जग्राह प्रत्यभियुक्तवान् ।

भावार्थ—जैसे पत्थर बरसाने वाले पर्वतों ने अस्त्रों से पंख काटने में तत्पर इन्द्र का सामना किया था वैसे ही हाथी साधने वाले कलिङ्ग राज ने मोर्चा लिया ॥ ४० ॥

द्विषां विषह्य काकुत्स्थस्तत्र नाराचदुर्दिनम् । सन्मङ्गलस्नात इव प्रतिपेदे जयश्रियम् ॥ ४१ ॥

अन्वयः—तत्र द्विषां नाराचदुर्दिनं विषह्य काकुत्स्थः सन्मङ्गलस्नातः इव जयश्रियं प्रतिपेदे ।

द्विषामिति । काकुत्स्थो रघुस्तत्र महेन्द्रादौ द्विषां नाराचदुर्दिनं नाराचां बाणविशेषाणां दुर्दिनम् । लक्षणया वर्षमुच्यते । विषह्य सहित्वा सद्यथाशास्त्रं मङ्गलस्नात इव विजयमङ्गलार्थमभिषिक्त इव जयश्रियं प्रतिपेदे प्राप । 'यत्त सर्वौषधिस्नानं तन्माङ्गल्यमुदीरितम्' इति यादवः ।

भावार्थ—उस पर्वत पर शत्रुओं के बाणों की घोर वर्षा को सहन करके काकुत्स्थ रघु ने मङ्गल के लिए स्नात के समान विजय-लक्ष्मी पायी ॥ ४१ ॥

ताम्बूलीनां दलैस्तत्र रचितापानभूमयः । नारिकेलासवं योधाः शात्रवं च पपुर्यशः ॥ ४२ ॥

चतुर्थः सर्गः १२१

**अन्वयः—**तत्र रचितापानभूमयः योधाः नारिकेलासवं शात्रवं यशः च ताम्बूलीनां दलैः पपुः ।

ताम्बूलीनामिति । तत्र महेन्द्राद्रौ युध्यन्त इति योधाः । पचाद्यच् । रचिताः कल्पिता आपानभूमयः पानयोग्यप्रदेशा यैस्ते तथोक्ताः सन्तो नारिकेलासवं नारिकेलमद्यं ताम्बूलीनां नागवल्लीनां दलैः पपुः । तत्र विजह्लुरित्यर्थः । शात्रवं यशश्च पपुः जह्रुरित्यर्थः ।

**भाषार्थ—**पर्वत पर मद्यपान के लिये स्थान बनाकर रघु के सैनिकों ने नारियल के मद्य को पान के पत्तों में पिया और शत्रुओं के यश को भी हरण कर लिया ।

गृहीतप्रतिमुक्तस्य स धर्मविजयी नृपः । श्रियं महेन्द्रनाथस्य जहार न तु मेदिनीम् ॥ ४३ ॥

**अन्वयः—**धर्मविजयी सः नृपः गृहीतप्रतिमुक्तस्य महेन्द्रनाथस्य श्रियं जहार, मेदिनीं तु न ( जहार ) ।

गृहीतेति । धर्मविजयी धर्मार्थं विजयशीलः स नृपो रघुः । गृहीतश्चासौ प्रतिमुक्तश्च गृहीतप्रतिमुक्तः । तस्य महेन्द्रनाथस्य कालिङ्गस्य श्रियं जहार । धर्मार्थमिति भावः । मेदिनीं तु न जहार । शरणागतवात्सल्यादिति भावः ।

**भाषार्थ—**धर्मविजेता राजा रघु ने पकड़ कर मुक्त किए गए महेन्द्र गिरि के राजा की लक्ष्मी को हर लिया, राज्य को नहीं ॥ ४३ ॥

ततो वेलातटेनैव फलवत्पूगमालिना । अगस्त्याचरितामाशामनाशास्यजयो ययौ ॥ ४४ ॥

**अन्वयः—**ततः अनाशास्यजयः फलवत्पूगमालिना वेलातटेन एव अगस्त्याचरिताम् आशां ययौ ।

तत इति । ततः प्राचीविजयानन्तरम् फलवत्पूगमालिना फलितक्रमुकश्रेणीमता । व्रीह्यादित्वादिनिप्रत्ययः । वेलायाः समुद्रकूलस्य तटेनोपान्तेनैवागस्त्येनाचरितामाशां दक्षिणां दिशमनाशास्यजयः । अयत्नसिद्धत्वादप्रार्थनीयजयः सन् ययौ । 'अगस्त्यो दक्षिणामाशामारित्य नभसि स्थितः । वरुणस्यात्मजो योगो विन्ध्यवातापि मर्दनः' इति ब्रह्मपुराणे ।

**भाषार्थ—**पूर्व दिशा को जीत कर आशातीत विजयी रघु फलसंयुक्त सुपारी के विपिन की कतारवाले समुद्र के किनारे-२ अगस्त्यमुनिसेवित दक्षिण की ओर चले ॥ ४४ ॥

स सैन्यपरिभोगेन गजदानसुगन्धिना । कावेरीं सरितां पत्युः शङ्कनीयामिवाकरोत् ॥ ४५ ॥

१२२ रघुवंशमहाकाव्ये

अन्वयः—सः गजदानसुगन्धिना सैन्यपरिभोगेन कावेरीं सरितां पत्युः शङ्कनीयाम् इव अकरोत् ।

स इति । सः रघुः गजानां मदेन दानेन सुगन्धिना सुरभिगन्धिना । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इत्यनेनेकारादेशः समासान्तः । यद्यपि गन्धस्येत्वे तदेकान्तग्रहणं कर्तव्यमिति नैसर्गिकगन्धविवक्षायामेवेकारादेशः, तथाऽपि 'निरङ्कुशाः कवयः' तथा माघकाव्ये—‘ववुरयुमच्छदगुच्छसुगन्धयः सततमास्ततगानगिरोऽलिभिः'। (६।५०) नैषधे च—'अपां हि तृप्ताय न वारिधारा स्वादुः सुगन्धिः स्वदते तुषारा' (३।९४) इति । 'न कर्मधारयान्मत्वर्थीयः' इति निषेधादिनिप्रत्ययपक्षेऽपि जघन्य एव। 'सेनायां सेनायां समवेताः सैन्याः' । 'सेनायां समवेता ये सैनिकाश्च ते' इत्यमरः । सेनायां वा' इति ष्यप्रत्ययः । तेषां परिभोगेन कावेरीं नाम सरितं, सरितां पत्युः समुद्रस्य शङ्कनीयामविश्वसनीयामिवाकरोत् । संभोगलिङ्गदर्शनाद्भर्तुरविश्वासो भवतीति भावः ।

भाषार्थ—उस रघु ने गजमदगन्धित सैनिकों की विलासलीला से कावेरी को समुद्र के प्रति मानो अविश्वसी बना दिया ॥४५॥

बलैरध्युषितास्तस्य विजिगीषोर्गताध्वनः ।
मारीचोद्भ्रान्तहारीता मलयाद्रेरुपत्यकाः ॥ ४६ ॥

अन्वयः—'विजिगीषोः गताध्वनः तस्य बलैः मारीचोद्भ्रान्तहारिताः मलयाद्रे उपत्यकाः अध्युषिताः ।

बलैरिति । विजिगीषोर्विजेतुमिच्छोर्गताध्वनस्तस्य रघोर्बलैः सैन्यैः । 'बलं शक्तिर्बलं सैन्यम्' इति यादवः । मारीचेषु मरीचवनेषूद्भ्रान्ताः परिभ्रान्ताः हारीता पक्षिविशेषा यासु ताः । 'तेषां विशेषा हारीतो मद्गुः कारण्डवः प्लवः' इत्यमरः । मलयाद्रेरुपत्यका आसन्नभूमयः । 'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका' इत्यमरः। 'उपाधिभ्यां' इत्यनेन त्यकन् अध्युषिताः उपत्यकासूतितमित्यर्थः । 'उपान्वध्याङ्कि'ति कर्मत्वम् ।

भाषार्थ—विजयेच्छु, कुछ मार्ग पार कर चुकीं राजा रघु की सेना ने मिर्चे के वनों में उड़नेवाली हारीत चिड़ियों वाले पर्वत की तराई में विश्राम किया ।

ससज्जुरश्वक्षुण्णानामेलानामुत्पतिष्णवः ।
तुल्यगन्धिषु मत्तेभकटेषु फलरेणवः ॥ ४७ ॥

चतुर्थः सर्गः १२५

चतुर्थः सर्गः १२५

अन्वयः—अश्वक्षुण्णानाम् एलानाम् उत्पतिष्णवः फलरेणवः तुल्यगन्धिषु मत्तेभकटेषु ससञ्जुः ।

ससञ्जुरिति । अश्वैः क्षुण्णानामेलालतानामुत्पतिष्णव उत्पतनशीलाः । 'अलंकृञ्निराकृञ्–' इत्यादिनेष्णुच्प्रत्ययः । फलरेणवः फलरजांसि तुल्यगन्धिषु समानगन्धिषु । सर्वधनीतिवदिषन्तो बहुव्रीहिः । मत्तेभानां कटेषु ससञ्जुः सक्ताः । 'गजगण्डकटीकटौ' इति कोशः ।

भाषार्थ—घोड़ों की टापों से चूर्णित इलायची के फलों की उड़ती हुई धूलियाँ समानगन्धी गजों की कनपटी में गयीं ॥ ४७ ॥

भोगिवेष्टनमार्गेषु चन्दनानां समर्पितम् ।
नास्रसत्करिणां ग्रैवं त्रिपदीच्छेदिनामपि ॥ ४८ ॥

अन्वयः—चन्दनानां भोगिवेष्टनमार्गेषु समर्पितं त्रिपदीच्छेदिनां अपि करिणां ग्रैवं न अस्रसत् ।

भोगीति । चन्दनानां चन्दनद्रुमाणां भोगिवेष्टनमार्गेषु सर्पवेष्टनाङ्कितेषु समर्पितं सङ्क्षितं त्रिपदीच्छेदिनां पादशृङ्खलच्छेदकानामपि 'त्रिपदी पादबन्धनम्' इति यादवः । करिणाम् । ग्रीवासु भवं ग्रैवं कण्ठबन्धनम् । 'ग्रीवाभ्योऽण्ण' इत्यण्प्रत्ययः । नास्रसन्नस्रस्तमभूत् । 'द्युभ्यो लुङि' इति परस्मैपदे पुषादित्वादङ् । 'अनिदिता'मिति नलोपः ।

भाषार्थ—चन्दन के वृक्षों में साँपों के लिपटने की रेखाओं में बँधे हुए पैर के सीकड़ को तोड़ डालने वाले हाथियों के गले के बन्धन ढीले नहीं हुए ॥ ४८ ॥

दिशि मन्दायते तेजो दक्षिणस्यां रवेरपि ।
तस्यामेव रघोः पाण्ड्याः प्रतापं न विषेहिरे ॥ ४९ ॥

अन्वयः—दक्षिणस्यां दिशि रवेः अपि तेजः मन्दायते तस्यां एव (दिशि) पाण्ड्याः रघोः प्रतापं न विषेहिरे ।

दिशीति । दक्षिणस्यां दिशि रवेरपि तेजो मन्दायते मन्दं भवति । लोहितात्वात्क्यष्प्रत्ययः । 'वा क्यषः' इत्यात्मनेपदम् । दक्षिणायते तेजोमान्द्यादिति भावः । तस्यामेव दिशि पाण्ड्याः पाण्डूनां जनपदानां राजानः पाण्ड्याः 'पाण्डोर्यण्वक्तव्यः'। रघोः प्रतापं न विषेहिरे न सोढवन्तः । सूर्यविजयिनोऽपि विजितवानिति भावः ।

भाषार्थ—जिस दक्षिण दिशा में सूर्य का भी तेज मन्द हो जाता है, उसी दिशा में पाण्ड्य देश के राजा रघु का प्रताप नहीं सह सके ॥ ४९ ॥

ताम्रपर्णीसमेतस्य मुक्तासारं महोदधेः ।
ते निपत्य ददुस्तस्मै यशः स्वमिव सञ्चितम् ॥ ५० ॥

१२४ रघुवंशमहाकाव्ये

अन्वयः— ते ताम्रपर्णीसमेतस्य महोदधेः मुक्तासारं स्वं सञ्चितं यशः इव तस्मै निपत्य ददुः ।

ताम्रपर्णीति । ते पाण्ड्यास्ताम्रपर्ण्या नद्या समेतस्य सङ्गतस्य महोदधेः सम्बन्धि सञ्चितं मुक्तासारं मौक्तिकवरम् । ‘सारो बले स्थिरांशे च न्याय्ये क्लीबं वरे त्रिषु’ इत्यमरः । स्वं स्वकीयं यश इव । तस्मै रघवे निपत्य प्रणिपत्य ददुः । यशसः शुभ्रत्वाद्दोपम्यम् । ताम्रपर्णीसङ्गमे मौक्तिकोत्पत्तिरिति प्रसिद्धम् ।

भाषार्थ— पाण्ड्यदेश के राजाओं ने, ताम्रपर्णी नदी से संयुक्त महासागर के उत्तम मोती, अपने सञ्चित यश के समान रघु को उपहार में दिए ॥ ५०॥

स निर्विश्य यथाकामं तटेष्वलीनचन्दनौ ।
स्तनाविव दिशस्तस्याः शैलौ मलयदर्दुरौ ॥ ५१ ॥
असह्यविक्रमः सह्यं दूरान्मुक्तमुदन्वता ।
नितम्बमिव मेदिन्याः स्रस्तांशुकमलङ्घयत् ॥ ५२ ॥

अन्वयः— तटेषु आलीनचन्दनौ तस्याः दिशः स्तनौ इव मलयदर्दुरौ शैलौ यथाकामं निर्विश्य असह्यविक्रमः सः उदन्वता दूरात् मुक्तं मेदिन्याः स्रस्तांशुकं नितम्बं इव सह्यं अलङ्घयत् ।

स इति । असह्येति च । युग्ममेतद् । असह्यविक्रमः सः रघुस्तटेषु सानुष्वाली-नचन्दनौ व्यासक्तचन्दनद्रुमौ । ‘गन्धसारो मलयजो भद्रश्रीश्चन्दनोऽस्त्रियाम्’ इत्यमरः । स्तनपक्षे—प्रान्तेषु व्यासक्तचन्दनानुलेपौ । तस्या दक्षिणस्या दिशः स्तनाविव स्थितौ मलयदर्दुरौ नाम शैलौ यथाकामं यथेच्छं निर्विश्योपभुज्य । ‘निर्वेशो भृतिभोगयोः’ इत्यमरः । उदकान्यस्य सन्तीत्युदन्वानुदधिः । ‘उदन्वानुदधौ च’ इति निपातः । उदन्वता दूरान्मुक्तं दूरतरस्त्यक्तम् । ‘स्तोकान्तिक०’ इति समासः । ‘पञ्चम्याः स्तोकादिभ्यः’ इत्यलुक् । स्रस्तांशुकं मेदिन्या नितम्बमिव स्थितं सह्यं सह्याद्रिमलङ्घयतप्रासोऽतिक्रान्तो वा ।

भाषार्थ— तटस्थ चन्दन के वृक्षों से युक्त दक्षिणदिशारूपी रमणी के दो स्तनों के तुल्य मलय और दर्दुर गिरिपर यथेच्छ निवास कर असह्य पराक्रमी रघु समुद्र से दूर पृथ्वीकामिनी की खिसकी हुई साड़ी वाले नितम्बतुल्य सह्य पर्वत को लांघ गये ॥ ५१-५२ ॥

तस्यानीकैर्विसर्पद्भिर्भरपरान्तजयोद्यतैः ।
रामास्त्रोत्सारितोऽप्यासीत्सहालग्न इवार्णवः ॥ ५३ ॥

अन्वयः— अपरान्तजयोद्यतैः विसर्पद्भिः तस्य अनीकैः अर्णवः रामास्त्रोत्सारित अपि सहलग्न इव आसीत् ।

चतुर्थः सर्गः१२५

तस्येति । अपरान्तानां पाश्चात्त्यानां जय उद्यतैरुद्युक्तैः । 'अपरान्तास्तु, पाश्चात्त्यास्ते च सूर्पारकादयः' इति यादवः । विसर्पद्भिर्गच्छद्भिस्तस्य रघोरनीकैः सैन्यैः । 'अनीकं तु रणे सैन्ये' इति विश्वः । अर्णवो रामस्य जामदग्न्यस्यास्त्रैरुत्सारितः परिसारितोऽपि सह्यलग्न इवासीत् । सैन्यं द्वितीयोऽर्णव इवादृश्यतेति भावः ।

भाषार्थ—पश्चिम की विजय के लिये जाने वाली रघु की सेना से समुद्र परशुराम के अस्त्रों से हटाए जाने पर भी सह्य पर्वत से मिला हुआ सा प्रतीत होता था ॥ ५३ ॥

भयोत्सृष्टविभूषाणां तेन केरलयोषिताम् ।
अलकेषु चमूरेणुश्चूर्णंप्रतिनिधीकृतः ॥ ५४ ॥

अन्वयः—भयोत्सृष्टविभूषाणां केरलयोषिताम् अलकेषु तेन चमूरेणुः चूर्णंप्रतिनिधीकृतः ।

भयेति । तेन रघुणा भयेनोत्सृष्टविभूषाणां केरलयोषितां केरलाङ्गनानामलकेषु चमूरेणुः सेनारजश्चूर्णस्य कुङ्कुमादिरजसः प्रतिनिधीकृतः । एतेन योषितां पलायनं चमूनां च तदनुधावनं ध्वन्यते ।

भाषार्थ—रघु ने भय से अलङ्काररहित केरल देश की स्त्रियों के सुन्दर घुँघराले बालों में सेना की धूलि सुगन्धित चूर्ण के स्थान में लगा दी ॥ ५४ ॥

मुरलामारुतोद्धूतमगमत्कैतकं रजः ।
तद्योधवारबाणानामयत्नपटवासताम् ॥ ५५ ॥

अन्वयः—मुरलामारुतोद्धूतं कैतकं रजः तद्योधवारबाणानामयत्नपटवासताम् अगमत् ।

मुरलेति । मुरला नाम केरलदेशेषु काचिन्नदी । 'मुरलीमारुतोद्धृतम्' इति केचित्पठन्ति । तस्य मारुतेनोद्धृतमुत्थापितं कैतकं केतकीसम्बन्धि रजस्तद्योधवारबाणानां रघुभटकञ्चुकानाम् । 'कञ्चुको वारबाणोऽस्त्री' इत्यमरः । अयत्नपटवासतामयत्नसिद्धवस्त्रवासनाद्रव्यत्वमगमत् । 'पिष्टातः पटवासकः' इत्यमरः ।

भाषार्थ—मुरला नदी की हवा से उड़ी हुई केवड़ा पुष्प की धूलि ने रघुके सैनिकों के कवचों को अनायास ही सुगन्धित कर दिया ॥ ५५ ॥

अभ्यभूयत वाहानां चरतां गात्रशिञ्जितैः ।
वर्मभि पवनोद्धूतराजतालीवनध्वनिः ॥ ५६ ॥

अन्वयः—चरतां वाहानां गात्रशिञ्जितैः वर्मभिः पवनोद्धूतराजताली वनध्वनिरभ्यभूयत ।

१२६ रघुवंशमहाकाव्ये

अभ्यभूयतेति । चरतां गच्छतां वाहनां वाजिनाम् । 'वाजिवाहार्षगन्धर्वहय- सैन्धवसप्तयः' इत्यमरः । गात्रशिञ्जितैर्गात्रेषु शब्दायमानैः । कर्तरि क्तः । 'गात्र- सञ्जितैः' इति वा पाठः । सञ्जतेर्ण्यन्तात्कर्मणि क्तः । वर्मभिः कवचैः । 'मर्मरः' इति पाठे वाहनां गात्रशिञ्जितैर्गात्रध्वनिभिरित्यर्थः । मर्मरो मर्मरायमाण इति ध्वनेर्विशेषणम् । पवनेनोद्धूतानां कम्पितानां राजतालीवनानां ध्वनिरभ्यभूयत तिरस्कृतः । भावार्थ—चलते हुए घोड़ों के शरीर पर बजते हुए कवचों से हवा हिलाये गये ताड़ के वनों के शब्द दब गए ॥ ५६ ॥

खर्जूरीस्कन्धबद्धानां मदोद्गारसुगन्धिषु । कटेषु करिणां पेतुः पुन्नागेभ्यः शिलीमुखाः ॥ ५७ ॥

अन्वयः—खर्जूरीस्कन्धबद्धानां करिणां मदोद्गारसुगन्धिषु कटेषु पुन्नागेभ्यः शिलीमुखाः पेतुः ।

खर्जूरीति । खर्जूरीणां तृणद्रुमविशेषाणाम् । 'खर्जूरः केतकी ताली खर्जूरी च तृणद्रुमाः' इत्यमरः । स्कन्धेषु प्रकाण्डेषु । 'मस्त्री प्रकाण्डः स्कन्ध स्यान्मूला- च्छाखावधिस्तरोः' इत्यमरः । बद्धानां करिणां मदोद्गारेण मदस्रावेण सुगन्धिषु । 'गन्धस्येदुत्पूतिसुसुरभिभ्यः' इत्यनेनेकारः । कटेषु पुन्नागेभ्यो नागकेशरेभ्यः पुन्ना- गपुष्पाणि विहाय । ल्यब्लोपे पञ्चमी । शिलीमुखा अलयः पेतुः । 'अलिबाणौ शिलीमुखौ' इत्यमरः । ततोऽपि सौगन्ध्यातिशयादिति भावः ।

भावार्थ—खजूर में बँधे हुए हाथियों के मद से सुगन्धित कनपटीयों पर नागकेसर को छोड़कर भौंरे आ बैठे ॥ ५७ ॥

अवकाशं किलोदन्वान् रामायाभ्यर्थितो ददौ । अपरान्तमहीपालव्याजेन रघवे करम् ॥ ५८ ॥

अन्वयः—उदन्वान् अभ्यर्थितः रामाय अवकाशं ददौ किल अपरान्तमहि- पालव्याजेन रघवे करं ( ददौ ) ।

अवकाशमिति । उदन्वानुदधी रामाय जामदग्न्याय । अभ्यर्थितो याचित सन् अवकाशं स्थानं ददौ किल । किलेति प्रसिद्धौ । रघवे त्वपरान्तमहीपालव्याजेन करं बलिं ददौ । 'बलिहस्तांशवः कराः' इत्यमरः । अपरान्तानां समुद्रमध्यदेश- वर्तित्वात्तद्दत्तकरे समुद्रदत्तत्वोपचार । करदानं च भीत्या, न तु याच्ञयेति रामाद्रघोरुत्कर्षः ।

भावार्थ—समुद्र ने माँगने पर परशुराम को स्थान दिया था । उसी समुद्र ने पश्चिम देश के राजाओं के बहाने रघु को राजकर दिया ॥ ५८ ॥

चतुर्थः सर्गः१२७

मत्तेभरदनोत्कीर्णव्यक्तविक्रमलक्षणम् ।
त्रिकूटमेव तत्रोच्चैर्जयस्तम्भं चकार सः ॥ ५९ ॥

अन्वयः—तत्र सः मत्तभरदनोत्कीर्णव्यक्तविक्रमलक्षणं त्रिकूटमे वोच्चैर्जयस्तम्भं चकार ।

मत्तेति । तत्र स रघुर्मत्तानामिभानां रदनोत्कीर्णानि दन्तक्षतान्येव । भावे क्तः । व्यक्तानि स्फुटानिविक्रमलक्षणानि पराक्रमचिह्नानि विजयवर्णविलिस्थानानि यस्मिंस्तं तथोक्तं त्रिकूटमेवोच्चैर्जयस्तम्भं चकार । गाढप्रकाशात्त्रिकूटोऽद्रिरेवोत्कीर्णस्तम्भी रघोर्जयस्तम्भोऽभूदित्यर्थः ।

भाषार्थ—उस रघु ने अपने हाथियों के दाँतों से खुदे हुए पराक्रम के चिह्न वाले त्रिकूट पर्वत को ही केरल देश में विजयस्तम्भ बनाया ॥ ५९ ॥


पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ।
इन्द्रियाण्येव रिपूंस्तत्त्वज्ञानेन संयमी ॥ ६० ॥

अन्वयः—ततः संयमी तत्वज्ञाने इन्द्रियाख्यान् रिपून् इव स पारसीकान् जेतुं स्थलवर्त्मना प्रतस्थे ।

पारसीकानिति । ततः स रघुः । संयमी योगी तत्त्वज्ञानेनेन्द्रियाख्यानिन्द्रियनामकान् रिपूनिव पारसीकान् राज्ञो जेतुं स्थलवर्त्मना तस्थे न तु निर्दिष्टेनापि जलपथेन, समुद्रयानस्य निषिद्धत्वादिति भावः ।

भाषार्थ—उसके बाद जैसे योगी ज्ञान से इन्द्रियों को जीत लेते हैं वैसे ही राजा रघु पारसियों को जीतने के लिए स्थल मार्ग से चले ॥ ६० ॥


यवनीमुखपद्मानां सेहे मधुमदं न सः ।
बालातपमिवाब्जानामकालजलदोदयः ॥ ६१ ॥

अन्वयः—स यवनीमुखपद्मानां मधुमदमकालजलदोदयः अब्जानां बालातपमिव न सेहे ।

यवनीति । स रघुर्यवनानीनां यवनस्त्रीणाम् । 'जातेरस्त्रीविषयादयोपधात्' इति ङीष् । मुखानि पद्मानीव मुखपद्मानि । उपमितसमासः । तेषां मधुना मद्येन यो मदो मदरागः । कार्यकारणभावयोरभेदेन निर्देशः । तं न सेहे । कमिव । अकाले प्रावृड्व्यतिरिक्ते काले जलदोदयः । प्रायेण प्रावृषि पद्मविकाशस्याप्रसक्तत्वादब्जानां सम्बन्धिनं बालातपमिव । अब्जहितत्वादब्जसम्बन्धित्वं सौरातपस्य ।

भाषार्थ—रघु पारसी स्त्रियों के मुख की मद्य गन्ध को सहन न कर सके, जैसे असमय में उठा हुआ बादल कमलसम्बन्धित बालसूर्य के ताप को नहीं सहता ॥ ६१ ॥

१२८ रघुवंशमहाकाव्ये

सङ्ग्रामस्तुमुलस्तस्य पाश्चात्त्यैरश्वसाधनै । शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ॥ ६२ ॥

अन्वयः—तस्य अश्वसाधनैः पाश्चात्त्यैः शार्ङ्गकूजितविज्ञेयप्रतियोधे रजसि तुमुलोऽभूत् ।

सङ्ग्राम इति । तस्य रघोरश्वसाधनैर्वाजिसैन्यैः । 'साधनं सिद्धिसैन्ययोः' इति हैमः । पश्चाद्भवः पाश्चात्यवनैः सह । 'दक्षिणापश्चात्पुरसस्त्यक् । इति त्यक् । सहार्थे तृतीया । शृङ्गाणां विकाराः शार्ङ्गाणि धनूंषि तेषां कूजितैः शब्दैः । 'शार्ङ्गं पुनर्घनुषि शार्ङ्गिणः । जये च शृङ्गविहिते चापेऽप्याह विशेषतः' इति केशवः । अथवा शार्ङ्गैः शृङ्गसम्बन्धिभिः कूजितैर्विज्ञेया अनुमेयाः प्रतियोधाः प्रतिभटा यस्मिंस्तस्मिन् रजसि तुमुलः संग्रामः संकुलं युद्धमभूत् । 'तुमुलं रणसंकुले इत्यमरः ।

भाषार्थं—अश्वसेना वाले पश्चिम देशवासियों के साथ धनुष की टङ्कारों से ही अपने शत्रु का द्योतक, धूलि के अन्धेरे में रघु, का भीषण संग्राम हुआ ॥६२॥

भल्लापवर्जितैस्तेषां शिरोभिः श्मश्रुलैर्महीम् । तस्तार सरघाव्याप्तैः स क्षौद्रपटलैरिव ॥ ६३ ॥

अन्वयः—स तेषां भल्लापवर्जितैः श्मश्रुलैः शिरोभिः सरघाव्याप्तैः क्षौद्रपटलैः इव महीं तस्तार ।

भल्लेति । स रघुर्भल्लापवर्जितैर्बाणविशेषकृत्तैः । 'स्नुहीदलफलो भल्ल' इति यादवः । श्मश्रुलैः प्रवृद्धमुखरोमवद्भिः । 'सिध्मादिभ्यश्च' इति लच्प्रत्ययः । तेषां पाश्चत्त्यानां शिरोभिः सरघाभिर्मधुमक्षिकाभिर्व्याप्तैः । 'सरघा मधुमक्षिका' इत्यमरः । क्षुद्रः सरघा । क्षुद्रा व्यङ्गा नटी वेश्या सरघा कण्ठकारिका' इत्यमरः । क्षुद्राभिः कृतानि क्षौद्राणि मधूनि । 'मधुः क्षौद्रं माक्षिकादि इत्यमरः । 'क्षुद्राभ्रमरवदपाददन्' इति संज्ञायामञ्प्रत्ययः । तेषां पटलैः सञ्चयैरिव । 'पटलं तिलकेनेत्ररोगे छन्दसि सञ्चये । विटके परिवारे च' इति हैमः । महीं तस्ताराच्छादयामास ।

भाषार्थं—रघु ने मधुमक्खियों से व्याप्त मधु के छत्तों के समान भल्ल बाणों से कटे हुए उनके दाढ़ीवाले शिरों से पृथ्वी को पाट दिया ॥६३॥

अपनीतशिरस्त्राणाः शेषास्तं शरणं ययुः । प्रणिपातप्रतीकारः संरम्भो हि महात्मनाम् ॥ ६४ ॥

अन्वयः—अपनीतशिरस्त्राणाः शेषा तं शरणं ययुः, महात्मनां संरम्भः हि प्रणिपातप्रतीकारः ।

अपनीतेति । शेषा हतावशिष्टा अपनीतशिरस्त्राणा अपसारितशीर्षण्याः सन्तः

चतुर्थः सर्गः

चतुर्थः सर्गः १२६

'शीर्षकम् । शीर्षण्यं च शिरस्त्रे' इत्यमरः । शरणागतलक्षणमेतत् । तं रघुं शरणं ययुः तथाहि । महात्मनां संरम्भः कोपः । 'संरम्भः सम्भ्रमे कोपे' इति विश्वः । प्रणिपातः प्रणतिरेव प्रतिकारो यस्य सः । हि महतां परकीयमौद्धत्यमेवासह्यं न तु जीवितमिति भावः ।

**भाषार्थ—**शेष बचे हुए यवन अपने शिर के टोपों को उतार कर उस रघु की शरण में गये और क्षमा पा गये, क्योंकि बड़े लोगों का क्रोध नम्रतासे दूर होता है ।

विनयन्ते स्म तद्योधा मधुभिर्विजयश्रमम् ।
आस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु ॥ ६५ ॥

**अन्वयः—**तद्योधाः अस्तीर्णाजिनरत्नासु द्राक्षावलयभूमिषु मधुभिः विजयश्रमं विनयन्ते स्म ।

विनयन्त इति । तस्य रघोर्योधा भटा आस्तीर्णान्यजिनरत्नानि चर्मश्रेष्ठानि यासु तासु द्राक्षावलयानां भूमिषु । 'मृद्वीका गोस्तनी द्राक्षा स्वाद्वी मधुरसेति च' इत्यमरः । मधुभिर्द्राक्षाफलप्रकृतिकैर्मद्यैर्विजयश्रमं युद्धखेदं विनयन्ते स्मापनीतवन्तः । 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मनेपदम् । 'लट् स्मे' इति भूतार्थे लट् ।

**भाषार्थ—**रघु के सैनिकों ने अंगूरों के कुंजों में चर्मासन पर बैठ, अंगूरी शराबे से थकावट को दूर किया ॥ ६५ ॥

ततः प्रतस्थे कौबेरीं भास्वानिव रघुर्दिशम् ।
शरैरुस्रैरिवोदीच्यानुद्धरिष्यन् रसानिव ॥ ६६ ॥

**अन्वयः—**ततः रघुः भास्वान् इव उस्रैः शरैः, उदीच्यान् रसान् इव उद्धरिष्यन् कौबेरीं दिशं प्रतस्थे ।

तत इति । ततो रघुर्भास्वान्सूर्य इव शरैर्वाणैरुस्रैः किरणैरिव । 'किरणोस्त्र-मयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । उदीच्यानुद्भग्वान्नृपान्रसानुदकानीवोद्धरिष्यन्कौबेरीं कुबेरसम्बन्धिनीं दिशमुदीचीं प्रतस्थे । अनेकेनेवशब्देनेयमुपमा । यथाऽऽह दण्डी—'एकानेकेवशव्दत्वात्सा वाक्यार्थोपमा द्विधा' इति ।

**भाषार्थ—**जैसे उत्तरायण सूर्य अपनी किरणों से जल को सुखाते हैं वैसे ही रघु बाणों से उत्तरप्रदेश के राजाओं की पराजय के लिए उत्तर की चले ।

विनीताध्वश्रमास्तस्य सिन्धुतीरविचेष्टनैः ।
दुधुवुर्वाजिनः स्कन्धाँल्लग्नकुंकुमकेसरान् ॥ ६७ ॥

**अन्वयः—**सिन्धुतीरविचेष्टनैः विनीताध्वश्रमाः तस्य वाजिनः लग्नकुंकुमकेसरान् स्कन्धान् दुधुवुः ।

१ र० सम्पू०

१३०रघुवंशमहाकाव्ये

विनीतेति । सिन्धुर्नाम काश्मीरदेशेषु कश्चिन्नदविशेषः । 'देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियाम्' इत्यमरः । सिन्धोस्तीरे विचेष्टनै रङ्गपरिवर्तनैर्विनीताध्व-श्रमास्तस्य रघोर्वाजिनोऽश्वाः, लग्नाः कुङ्कुमकेसराः कुङ्कुमकुसुमकिञ्जल्का येषां तान् । यद्वा लग्नकुङ्कुमाः केसराः सटा येषां तान् । 'अथ कुङ्कुमम् । कश्मीर-जन्म' इत्यमरः । केसरो नागकेसरे । तुरङ्गसिंहयोः स्कन्धकेशेषुबकुलद्रुमे । पुन्ना-गवृक्षेकिञ्जल्के स्यात्' इति हैमः । स्कन्धान्कायान् । 'स्कन्धः प्रकाण्डे कार्येऽसे विज्ञानादिषु पञ्चसु ॰ नृपे समूहे व्यूहे च' इति हैमः । दुधुवुः कम्पयति स्म ।

भाषार्थ—सिन्धु नदी के किनारे लोटने से मार्ग की थकावट दूर करने वाले रघु के घोड़ों ने केसर लगे हुए देह झाड़े ॥ ६७ ॥

तत्र हूणावरोधानां भर्तृषु व्यक्तविक्रमम् ।
कपोलपाटलादेशि बभूव रघुचेष्टितम् ॥ ६८ ॥

अन्वयः—तत्र भर्तृषु व्यक्तविक्रमं रघुचेष्टितं हूणावरोधानां कपोलपाटलादेशि बभूव ।

तत्रेति । तत्रोदीच्यां दिशि भर्तृषुव्यक्तविक्रमम् । भर्तृवधेन स्फुटपराक्रममि-त्यर्थः । रघुचेष्टितं रघुव्यापारः । हूणा जनपदाख्याः क्षत्रियाः तेषामवरोधा अन्तः-पुरस्त्रियः । तासां कपोलेषु पाटलस्य पाटलिम्नस्ताडनादिकृततारुण्यस्यादेश्युपदेशकं बभूव । अथवा पाटल आदेश्यादेष्टा यस्य तत् बभूव । स्वयं लेखयायत इत्यर्थः ।

भाषार्थ—उत्तर के राजाओं के प्रति पराक्रम दिखाने वाला रघु का पौरुष हूणों की स्त्रियों के कपोलों में लालिमा का सूचक हुआ ॥ ६८ ॥

काम्बोजाः समरे सोढुं तस्य वीर्यमनीश्वराः ।
गजालानापरिक्लिष्टैरक्षोटैः सार्धमानताः ॥ ६६ ॥

अन्वयः—समरे तस्य वीर्यं सोढुम् अनीश्वराः काम्बोजाः गजालानापरिक्लिष्टैः अक्षोटैः सार्धम् आनताः ।

काम्बोजा इति । काम्बोजा राजानः समरे तस्य रघोर्वीर्यं प्रभावम् । 'वीर्यं तेजःप्रभावयोः' इति हैमः । सोढुमनीश्वरा अशक्ताः सन्तः गजानामालानां बन्धनम् । भावे ल्युटि 'विभाषा लीयतेः' इत्यात्वम् । तेन परिक्लिष्टैः परिक्षतैरक्षोटै-र्वृक्षविशेषैः सार्धमानताः ।

भाषार्थ—युद्ध में रघु के पराक्रम को न सह सकने वाले काम्बोज राजा हाथियों के रस्सों से छिले हुए अखरोट के पेड़ों के साथ नम्र हो गये ॥ ६९ ॥

तेषां सदश्वभूयिष्ठास्तुङ्गा द्रविणराशयः ।
उपदा विविशुः शश्वन्नोत्सेकाः कोसलेश्वरम् ॥ ७० ॥

चतुर्थः सर्गः १३१

चतुर्थः सर्गः १३१

अन्वयः—तेषां सदश्वभूयिष्ठाः तुङ्गाः द्रविणराशयः उपदाः कोसलेश्वरं शश्वत् विविशुः, उत्सेका न (विविशुः)।

तेषामिति। तेषां काम्बोजानां सद्भिरश्वैर्भूयिष्ठा बहुलास्तुङ्गा द्रविणानां हिरण्यानाम्। 'हिरण्यं द्रविणं द्युम्नम्' इत्यमरः। राशय एवोपदा उपायनानि। 'उपायनमुपग्राह्यमुपहारस्तथोपदा' इत्यमरः। कोसलेश्वरं कोसलदेशाधिपतिं तं रघुं शश्वदसकृद्विविशुः। मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः' इत्यमरः। तथाऽप्युत्सेका गर्वास्तु न विविशुः, सत्यपि गर्वकारणे न जगर्वेत्यर्थः।

भाषार्थ—उन राजाओं के बहुत से अच्छे-अच्छे काबुली घोड़े और ऊँची सोने की राशि उपहार में रघु के पास बार-बार आई, किन्तु गर्व नहीं आया ॥७०॥

ततो गौरीगुरुं शैलमारुरोहाश्वसाधनः।
वर्धयन्निव तत्कूटानुद्धूतैर्धातुरेणुभिः ॥ ७१ ॥

अन्वयः—ततः अश्वसाधनः सन् गौरीगुरुं शैलम् उद्धूतैः धातुरेणुभिः तत्कूटान् वर्धयन् इव आरुरोह।

तत इति। ततोऽनन्तरमश्वसाधनः सन् गौर्या गुरुं पितरं शैलं हिमवन्तम्। उद्धूतैरश्वखुरोद्धूतैर्धातूनां गैरिकादीनां रेणुभिस्तत्कूटास्तस्य शृङ्गाणि। 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यमरः। वर्धयन्निव। आरुरोह। उत्पतद्धूलिदर्शनाद्- गिरिशिखर वृद्धिश्रमो जात इति भावः।

भाषार्थ—उसके बाद रघु घुड़सवारों को ले, हिमालय पर घोड़ों की टापों से उड़ी हुई गैरिकादि धातुओं की धूलि से उसके शिखर को ऊँचा करते हुए से चढे।

शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसम्भ्रमम्।
गुहाशयानां सिंहानां परिवृत्यावलोकितम् ॥ ७२ ॥

अन्वयः—तुल्यसत्त्वानां गुहाशयाना सैन्यघोषे अपि असंभ्रमं परिवृत्य अवलोकितं शशंस।

शशंसिति। तुल्यसत्त्वानां सैन्यैः समानबलानाम्। गुहासु शेरते इति गुहाश- यास्तेषाम्। 'अधिकरणे शेते' इत्यच्प्रत्ययः। 'दरी तु कन्दरो वा स्त्री देवखातबिले गुहा' इत्यमरः। सिंहानां हरीणाम्।' सिंहो मृगेन्द्रः पञ्चास्यो हर्यक्षः' केसरो हरिः' इत्यमरः। सम्बन्धि परिवृत्य परावृत्यावलोकितं शयित्वैव ग्रीवाभङ्गेनावलोकनं कर्तृ सैन्यघोषे सेनाकलकले सम्भ्रमकारणे सत्यप्यसम्भ्रममन्तःक्षोभविरहितम्। नवः प्रसज्यप्रतिषेधेऽपि समास इष्यते। शशंस कथयामास। सैन्येभ्य इत्यर्थाल्लभ्यते।

१३२रघुवंशमहाकाव्ये

बाह्यचेष्टितमेव मनोवृत्तेरनुमापकमिति भावः। असम्भ्रान्तत्वे हेतुस्तुल्यसत्त्वानामिति। न हि समबलाः समबलाद् बिभ्यतीति भावः।

भाषार्थ— रघु ने समान बलवाले कन्दरा-स्थित सिंहों का, सेना के कोलाहल से भी न घबड़ाते हुए, उपेक्षा से गर्दन उठा कर देखना सैनिकों से कहा ॥७२॥

भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः।
गङ्गाशीकरिणो मार्गे मरुतस्तं सिषेविरे॥ ७३ ॥

अन्वयः— भूर्जेषु मर्मरीभूताः कीचकध्वनिहेतवः गङ्गाशीकरिणः मरुतः तं मार्गे सिषेविरे।

भूर्जेष्विति। भूर्जेषु भूर्जपत्रेषु। ‘भूर्जपत्रो भुजो भूर्जो मृदुत्वक्चर्मिका मता’ इति यादवः। मर्मरः शुष्कपर्णध्वनिः। ‘मर्मरः शुष्कपर्णानाम्’ इति यादवः। अयं च शुक्लादिशब्दवद्गुणिन्वपि वर्तते। प्रयुज्यते च—‘मर्मरैरगुरुधूपगन्धिभिः’ इति। अतो मर्मरीभूताः। मर्मरशब्दवन्तो भूता इत्यर्थः। कीचकानां वेणुविशेषाणां ध्वनिहेतवः। श्रोत्रसुखाश्चेति भावः। गङ्गाशीकरिणः शीतलाः। मरुतो वाता मार्गे तं सिषेविरे।

भाषार्थ— भोजपत्रों में मरमर शब्दकारी, बांस में ध्वनि-उत्पादक, गङ्गा-जल के शीतल कणों को लेकर बहने वाले वायु ने रास्ते में रघु की सेवा की ॥७३॥

विशश्रमुर्नमेरूणां छायास्वध्यास्य सैनिकाः।
दृषदो वासितोत्सङ्गा निषण्णमृगनाभिभिः॥ ७४ ॥

अन्वयः— सैनिकाः नमेरूणां छायासु निषण्णमृगनाभिभिः वासितोत्सङ्गाः दृषदः अध्यास्य विशश्रमुः।

विशश्रभुरिति। सैनिकाः सेनायां समवेताः। प्राग्वहतीयश्छप्रत्ययः। नमेरूणां सुरपुन्नागानां छायासु निषण्णानां दृषदुपविष्टानां मृगाणां कस्तूरीमृगाणां नाभिभिर्वासितोत्सङ्गाः सुरभिततला दृषदः शिला अध्यास्याधिष्ठाय। ‘अधिशीङ्स्थासां कर्म’ इति कर्म। दृषत्स्वधिरुह्येत्यर्थः। विशश्रमुर्विश्रान्ताः।

भाषार्थ— रघु के सैनिकों ने नमेरु वृक्षों की छाया में बैठे हुए कस्तूरी मृग के बैठने से सुगन्धित चट्टानों पर बैठ कर विश्राम किया ॥७४॥

सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः।
आसन्नोषधयो नेतुर्नक्तमस्नेहदीपिकाः॥ ७५ ॥

अन्वयः— सरलासक्तमातङ्गग्रैवेयस्फुरितत्विषः ओषधयः नेतुः नक्तम् अस्नेहदीपिका आसन्।

चतुर्थः सर्गः १९३

चतुर्थः सर्गः १९३

सरलेति। सरलेषु देवदारुविशेषेष्वासक्तानि यानि मातङ्गानां गजानाम् ग्रीवासु भवानि ग्रैवेयाणि कण्ठशृङ्खलानि। ‘ग्रीवाभ्योऽण्ढ’ इति चकाराद्ढन्- प्रत्ययः। तेषु स्फुरितत्विषः प्रतिफलितभास ओषधयो ज्वलन्तो ज्योतिर्लता- विशेषा नक्तं रात्रौ नेतुर्नायकस्य रघोरस्नेहदीपिकास्तैलनिरपेक्षाः प्रदीपा आसन्।

भाषार्थ—देवदारु में बँधे हुए हाथियों के गले के हारों में चमकती हुई ज्योतिर्लता आदि बूटियाँ सेना के लिए बिना तेल के दीपक का काम करती थीं।

तस्योत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः।
गजवष्मं किरातेभ्यः शशंसुर्देवदारवः॥ ७६ ॥

अन्वयः—तस्य उत्सृष्टनिवासेषु कण्ठरज्जुक्षतत्वचः देवदारवः किरातेभ्यः गजवष्मं शशंसुः।

तस्येति। तस्य रघोरुत्सृष्टेषूज्झितेषु निवासेषु सेनानिवेशेषु कण्ठरज्जुभिर्गजग्रीवैः क्षता निष्पिष्टास्त्वचो येषां ते देवदारवः किरातेभ्यो वनचरेभ्यो गजानां वष्मं प्रमाणम्। ‘वष्मं देहप्रमाणयोः’ इत्यमरः। शशंसुः कथितवन्तः। देवदारुस्कन्ध- त्वक्क्षतैर्गजानामोन्नत्यमनुमीयत इत्यर्थः।

भाषार्थ—रघु के छोड़े हुए फौजी पड़ावों पर गले की सिक्कड़ों से छिली हुई छालवाले देवदारु से भीलों ने हाथियों की ऊँचाई बतलायी॥ ७६ ॥

तत्र जन्यं रघोर्घोरं पर्वतीयैर्गणैरभूत्।
नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलम्॥ ७७ ॥

अन्वयः—तत्र रघोः पर्वतीयैः गणैः नाराचक्षेपणीयाश्मनिष्पेषोत्पतितानलं घोरं जन्यम् अभूत्।

तत्रेति। तत्र हिमाद्रौ रघोः पर्वते भवैः पर्वतीयैः। ‘पर्वताञ्च’ इति छप्रत्ययः। गणैरुत्सवसंकेताख्यैः सप्तभिः सह। ‘गणानुत्सवसंकेतानजयत्सप्त पाण्डवः’ इति महाभारते। नाराचानां बाणविशेषाणां क्षेपणीयानां भिन्दपालानाम्- इमनां च निष्पेषेण सङ्घर्षेणोत्पतिता अनला यस्मिंस्तत्तथोक्तम्। ‘क्षेपणीयो भिन्दिपालः खड्गो दीर्घो महाफलः’ इति यादवः। घोरं भीमं जन्यं युद्धमभूत्। ‘युद्धमायोधनं जन्यमि’त्यमरः।

भाषार्थ—उस हिमालय पर रघु का पर्वतीय गणों से नाराच, बाण, भिन्दि- पाल और पत्थर के टुकड़ों की रगड़ से उठी हुई अग्नि वाला भयङ्कर युद्ध हुआ।

शरैरुत्सवसंकेतान् स कृत्वा विरतोत्सवान्।
जयोदाहरणं बाह्वोर्गापयामास किन्नरान्॥ ७८ ॥

१३४रघुवंशमहाकाव्ये

अन्वयः—सः शरैः उत्सवसङ्केतान् विरतोत्सवान् कृत्वा किन्नरान् बाह्वोः जयोदाहरणं गापयामास ।

शरैरिति । स रघुः शरैर्बाणैरुत्सवसङ्केतान्नाम गणान्विरतोत्सवान्कृत्वा । जित्वेत्यर्थः । किन्नरान्बाह्वोः स्वभुजयोर्जयोदाहरणं जयख्यापकं प्रबन्धविशेषं गापयामास । 'गतिबुद्धिप्रत्यवसानार्थ०' इत्यनेन किन्नराणां कर्मत्वम् ।

भाषार्थ—उस रघु ने बाणों से उत्सव संकेत नामक पहाड़ी कबीलों को पराजित कर किन्नरों द्वारा अपनी भुजा की जयकथा का गान कराया ॥ ७८ ॥

परस्परेण विज्ञातस्तेषूपायनपाणिषु ।
राज्ञा हिमवतः सारो राज्ञः सारो हिमाद्रिणा ॥ ७९ ॥

अन्वयः—तेषु उपायनपाणिषु ( सत्सु ) परस्परेण राज्ञा हिमवतः सारः हिमाद्रिणा राज्ञः सारः विज्ञातः ।

परस्परेणेति । तेषु गणेषूपायनयुक्ताः पाणयो येषां तेषु सत्सु परस्परेणान्योऽन्यं राज्ञा हिमवतः सारो धनरूपो विज्ञातः, हिमाद्रिणाऽपि राज्ञः सारो बलरूपो विज्ञातः । एतेन तत्रत्यवस्तूनामनर्घ्यत्वं गणानामभूतपूर्वंश्च पराजय इति ध्वन्यते ।

भाषार्थ—भेंट देने के लिए हाथ में लेकर पर्वतीयों के सुवर्णादि आने पर रघु ने हिमालय के धन और हिमालय ने राजा रघु के बल को जाना ॥ ७९ ॥

तत्राक्षोभ्यं यशोराशि निवेश्यावरुरोह सः ।
पौलस्त्यतुलितस्याद्रेरादधान इव ह्रियम् ॥ ८० ॥

अन्वयः—तत्र अक्षोभ्यं यशोराशि निवेश्य सः पौलस्त्यतुलितस्य अद्वेः ह्रियम् आदधानः इव अवरुरोह ।

तत्रेति । स रघुस्तत्र हिमाद्रावक्षोभ्यमघृष्यं यशोराशि निवेश्य निधाय । पौलस्त्येन रावणेन तुलितस्य चालितस्याद्रेः कैलासस्य ह्रियमादधानो जनयन्निव । अवरुरोहावततार । कैलासमगत्वैव प्रतिनिवृत्तः । नहि शूराः परेण पराजितमभियुज्यन्ते ।

भाषार्थ—उस हिमालय पर अमर कीर्ति स्थापित कर रघु रावण से उठाए गए कैलास पर्वत की ओर न जाकर मानो उसे लज्जित करते हुए लौट गए ।

चकम्पे तीर्णलौहित्ये तस्मिन् प्राग्ज्योतिषेश्वरः ।
तद्गजालानातां प्राप्तैः सह कालागुरुद्रुमैः ॥ ८१ ॥

अन्वयः—तस्मिन् तीर्णलोहित्ये ( सति ) प्राग्ज्योतिषेश्वरः तद्गजालानातां प्राप्तैः कालागुरुद्रुमैः सह चकम्पे ।