रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
पृष्ठ 175, कुल 735 में से
संदर्भ में पढ़ें११४ || रघुवंशमहाकाव्ये
'पर्जन्यो मघवा वृषा हरिहयः प्राचीनबर्हिः स्मृतः' इतीन्द्रपर्यायेषु हलायुधाभिधानात्। तेन तुल्यः स रघुः अनिलेनानुकूलवातेनोद्धूतैः केतुभिर्ध्वजैरहितान्रिपूंस्तर्जयन्निव भर्त्सयन्निव । तज्जिभत्स्योरनुदात्तत्वेऽपि चक्षिङो ङित्करणेनानुदात्तेत्त्वनिमित्तस्या-त्मनेपदस्याऽनित्यत्वज्ञापनात्परस्मैपदमिति वामनः। प्रथमं प्राचीं दिशं ययौ।
**भावार्थ—**प्राचीनबर्हिष इन्द्र के समान रघु वायु से फहराती हुई पताकाओं से शत्रुओं को डराते हुए पहले पूर्व दिशा की ओर गये ॥ २८ ॥
रजोभिः स्यन्दनोद्धूतैर्गजैश्च घनसन्निभैः ।
भुवस्तलमिव व्योम कुर्वन् व्योमेव भूतलम् ॥ २९ ॥
**अन्वयः—**स्यन्दनोद्धूतैः रजोभिः घनसन्निभैः गजैः च व्योम भुवस्तलम् इव भूतलं च व्योम इव कुर्वन् (ययौ) ।
रजोभिरिति । किं कुर्वन् स्यन्दनोद्धूतैः रजोभिर्घनसन्निभैर्वर्णतः, क्रियातः, परिमाणतश्चमेघतुल्यैर्गजैश्च यथाक्रमं व्योमाकाशम्भुवस्तलमिव भूतलेन व्योमेव कुर्वन्नियायिविति च पूर्वेणान्वयः ।
**भावार्थ—**वे रथोत्थ धूल से और मेघतुल्य हाथियों से आकाश को धरणी और धरणी को आकाश के समान करते हुए चले ॥ २९ ॥
प्रतापोऽग्रे ततः शब्दः परागस्तदनन्तरम् ।
ययौ पश्चाद्रथादीति चतुःस्कन्धेव सा चमूः ॥ ३० ॥
**अन्वयः—**अग्रे प्रतापः, ततः शब्दः, तदनन्तरं परागः, पश्चात् रथादि इति चतुःस्कन्धा इव सा चमूः ययौ ।
प्रताप इति । अग्रे प्रतापस्तेजोविशेषः । 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्यमरः । ततः शब्दः सेनाकलकलः । तदनन्तरं परागो धूलिः । परागः पुष्परजसि, धूलिस्तानीपयोरपि' इति विश्वः । पश्चाद्रथादि रथाश्वादिकं चतुरङ्गबलम् । 'रथानीकम्' इति पाठे, इति शब्दाध्याहारेण योज्यम् । इतीत्थं चतुःस्कन्धेव चतुर्व्यूहेव । 'स्कन्धः प्रकाण्डे कायांरो विज्ञानादिषु पञ्चसु । नृपे समूहे च' इति हैमः । सा चमूर्ययौ ।
**भावार्थ—**आगे रघु का प्रताप, पीछे सेना का कोलाहल और धूलि, फिर रथ आदि इस प्रकार चतुर्व्यूहसम वह सेना चली ॥ ३० ॥
मरुपृष्ठान्युदम्भांसि नाव्याः सुप्रतरा नदीः ।
विपिनानि प्रकाशानि शक्तिमत्त्वाच्चकार सः ॥ ३१ ॥