BharatKosha
Back to the archive

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

by महाकवि कालिदास

Source: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (origin)

DevanagariHindipublished735 pages

तृतीयः सर्गः ८६

Page 148Permalink

तृतीयः सर्गः ८६

यतनाश्च बभूवुः । तथाहि । क्रिया शिक्षा । 'क्रिया तु निष्कृतौ शिक्षाचिकित्सा- यागकर्मसु' इति यादवः । वस्तुनि पात्रभूत उपहिता प्रयुक्ता प्रसीदति फलति । 'क्रिया हि द्रव्यं विनयति नाद्रव्यम्' इति कौटिल्यः ।

भाषार्थं—विधिपूर्वकं यज्ञोपवीत हुए गुरुप्रिय उस राजकुमार रघु को विद्वान् गुरुजन शिक्षा देने लगे और वे लोग इस राजकुमार के प्रति सफल भी हुए । क्योंकि सुपात्र को दी हुई शिक्षा सफल होती है ॥ २९ ॥

धियः समग्रैः स गुणैरुदारधीः क्रमाच्चतस्रश्चतुरर्णवोपमाः । ततार विद्याः पवनातिपातिभिर्दिशो हरिद्भिर्हरितामिवेश्वरः ॥ ३० ॥

अन्वयः—उदारधीः स समग्रैः धियः गुणैः चतुरर्णवोपमाः चतस्रः विद्याः हरि- ताम् ईश्वरः पवनातिपातिभिः हरिद्भिः ( चतस्रः ) दिशः इव क्रमात् ततार ।

धिय इति । अत्र कामन्दकः—शुश्रूषा श्रवणं चैव ग्रहणं धारणं तथा । ऊहा- पोहोऽर्थविज्ञानं तत्त्वज्ञानं च धीगुणाः ॥ इति । आन्वीक्षिकी त्रयी वार्त्ता दण्ड- नीतिश्च शाश्वती । एता विद्याश्चतस्रस्तु लोकसंस्थितिहेतवः ॥ इति च । उदारधीरुरुत्कृष्टबुद्धिः । स रघुः समग्रैर्धियो गुणैः चत्वारोऽर्णवा उपमा यासां ताश्चतुरर्णवोपमाः । 'तद्धितार्थोत्तरपदसमाहारे च' इत्युत्तरपदसमासः । चतस्रो विद्याः । हरितां दिशामीश्वरः सूर्यः पवनातिपातिभिर्महद्भिर्निजाश्वैः । 'हरि- त्ककुभि वर्णे च तृणवाजिशेषयोः' इति कोशः । चतस्रो दिश इव क्रमात्ततार । चतुरर्णवोपमत्वं दिशामपि द्रष्टव्यम् ॥

भाषार्थं—विमलबुद्धि उस बालक रघु ने बुद्धि के समग्र गुणों से चारों समुद्रों के समान चारों विद्याओं को क्रम से पार कर लिया जिस प्रकार दिशाओं के पति सूर्य वायु से अधिक वेगशाली अपने घोड़ों से चार दिशाओं को पार करते हैं ॥ ३० ॥

त्वचं स मेध्यां परिधाय रौरवीमशिक्षतास्त्रं पितुरेव मन्त्रवत् । न केवलं तद्गुरुरेकपार्थिवः क्षितावभूदेकधनुर्धरोऽपि सः ॥ ३१ ॥

अन्वयः—स मेध्यां रौरवीं त्वचं परिधाय मन्त्रवत् अस्त्रम् पितुः एव अशि- क्षत । तद्गुरुः एकपार्थिवः न अभूत्, क्षितौ सः एकधनुर्धरः अपि (अभूत्) ।

त्वचमिति । स रघुः । "कार्ष्णरौरववास्तानि चर्माणि ब्रह्मचारिणः । वसी- रन्नानुपूर्व्येण शाणक्षौमाविकानि च" इति मनुस्मरणान्मेध्यां शुद्धां रौरवीं रुरु- सम्बन्धिनीम् । 'रुरुर्महाकृष्णसारः' इति यादवः । त्वचं चर्म परिधाय वसित्वा मन्त्रवत्समन्त्रकमस्त्रमाग्नेयादिकं पितुरेवोपाध्यायादशिक्षताभ्यस्तवान् । 'आख्या- तोपयोगे' इत्यपादानसंज्ञा । पितुरेवेत्यवधारणमुपपादयति-नेति । तद्गुरुरेकोऽ-

Page 149Permalink

६० रघुवंशमहाकाव्ये

द्वितीयः पार्थिवः केवलं पृथिवीश्वर एव नाभूत्, किन्तु क्षितौ स दिलीप एको धनुर्धरोऽप्यभूत् ।

भावार्थ—उस रघु ने पवित्र कृष्णमृग के चर्म को धारण करके पिता ही से मन्त्रों के साथ अस्त्रों को सीखा। उनके पिता पृथ्वी में अद्वितीय चक्रवर्ती नहीं धनुर्धारी भी थे ॥ ३१ ॥

महोक्षतां वत्सतरः स्पृशन्निव द्विपेन्द्रभावं कलभः श्रयन्निव ।
रघुः क्रमाद्यौवनभिन्नशैशवः पुपोष गाम्भीर्यमनोहरं वपुः ॥ ३२ ॥

अन्वयः—रघुः क्रमात् महोक्षताम् स्पृशन् वत्सतरः इव, द्विपेन्द्रभावं श्रयन् कलभः इव यौवनभिन्नशैशवः ( सन् ) गाम्भीर्यमनोहरं वपुः पुपोष ।

महोक्षतामिति । रघुः क्रमाद्यौवनेन भिन्नशैशवो निरस्तशिशुभावः सन् । महानुक्षा महोक्षो महर्षभः 'अचतुरविचतुर' इत्यादिसूत्रेण निपातनादकारान्तत्वम् । तस्य भावस्तत्ता तां स्पृशन्गच्छन्वत्सतरी दम्य इव । 'दम्यवत्सतरौ समौ' इत्यमरः । द्विपेन्द्रभावं । महागजत्वं श्रयन्व्रजन्कलभः करिपोत इव । गाम्भीर्येणाचापलेन मनोहरं वपुः पुपोष ।

भावार्थ—वृषभत्व को प्राप्त होते हुए बछड़े के समान, गजत्व को पहुँचते हुए हाथी के बच्चे की समान रघु क्रम से यौवन द्वारा बालकपन दूर होने पर अपने गम्भीर और सुन्दर शरीर को पुष्ट करने लगे ॥ ३२ ॥

अथास्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्त्तयद् गुरुः ।
नरेन्द्रकन्यास्तमवाप्य सत्पति तमोनुदं दक्षसुता इवाबभुः ॥ ३३ ॥

अन्वयः—अथ गुरुः अस्य गोदानविधेः अनन्तरं विवाहदीक्षां निरवर्त्तयत् । नरेन्द्रकन्या तम् दक्षसुता, तमोनुदम् इव सत्पतिम् अवाप्य आबभुः ।

अथेति । 'गोर्नाऽऽदित्ये बलीवर्दे क्रतुभेदर्षिभेदयोः । स्त्री तु स्याद्दिशि भारत्यां भूमौ च सुरभावपि । पुंस्रियोः स्वर्गवज्राम्बुरश्मिदृग्बाणलोमसु ।' इति केशवः । गावो लोमानि केशा दीयन्ते खण्ड्यन्तेऽस्मिन्निति व्युत्पत्त्या गोदानं नाम ब्राह्मणादीनां षोडशादिषु वर्षेषु कर्त्तव्य केशान्ताख्यं कर्मोच्यते । तदुक्तं मनुना— "केशान्तः षोडशे वर्षे ब्राह्मणस्य विधीयते । राजन्यबन्धोद्वाविंशे वैश्यस्य द्व्यधिके ततः" । इति । अथ गुरुः पिता 'गुरुः गीष्पतिपित्रादौ' इत्यमरः । अस्य गोदानविधेरनन्तरं विवाहदीक्षां निरवर्त्तयत् । कृतवानित्यर्थः । अथ नरेन्द्रकन्यास्तं रघुम् । दक्षस्य सुता रोहिण्यादयस्तमोनुदं चन्द्रमिव । 'तमोनुदोऽग्निचन्द्रार्का इति विश्वः । सत्पतिमवाप्याबभुः रघुर्पि तमोनुत् । अत्र मनुः—"वेदानधीत्य वेदो वा वेदं वाऽपि यथाक्रमम् । अविप्लुतब्रह्मचर्यो गृहस्थाश्रममाविशेत्' इति ।

भावार्थ—तब दिलीप ने कुमार के केशान्त संस्कार के बाद विवाह कर दिया ।

तृतीयः सर्गः ६१

Page 150Permalink

तृतीयः सर्गः ६१

राज कन्याएँ उस उत्तम पति को पाकर दक्षप्रजापति पुत्रीवत् सुशोभित हुईं ॥३३॥
सम्प्रति यौवराज्ययोग्यतामाह—
युवा युगव्यायतबाहुरंसलः कपाटवक्षाः परिणद्धकन्धरः ।
वपुः प्रकर्षादजयद् गुरुं रघुस्तथाऽपि नीचैर्विनयाददृश्यत ॥ ३४ ॥
अन्वयः—युवा युगव्यायतबाहुः अंसलः कपाटवक्षाः परिणद्धकन्धरः रघुः वपुः प्रकर्षात् गुरुम् अजयत् । तथापि (स) विनयात् नीचैः अदृश्यत ।
युवेति । युवा युगो नाम धुर्यस्कन्धगः सच्छिद्रप्रान्तो यानाङ्गभूतो दारुविशेषः । यानाद्यङ्गे 'युगः पुंसि युगं युग्मे कृतादिषु' इत्यमरः । युगवद् व्यायतौ दीर्घौ बाहू यस्य सः । अंसावस्य स्त इत्यंसलो बलवान् मांसलश्चेति वृत्तिकारः । 'बलवान्मांसलोंऽसलः' इत्यमरः । 'वत्सांसाभ्यां कामबले' इति लच्प्रत्ययः । कपाटवक्षाः परिणद्धकन्धरो विशालग्रीवः । 'परिणाहो विशालता' इत्यमरः । रघुर्वपुषः प्रकर्षादाधिक्याद्यौवनकृताद् गुरुं पितरमजयत् । तथाऽपि विनयात् नम्रत्वे नीचैरल्पकोऽदृश्य । अनेनानौद्धत्यं च विवक्षितम् ।
भाषार्थ—युवा, जूआ की तरह लम्बी भुजावाले, बली किवाड़ के समान चौड़ी छाती वाले और चौड़े कन्धे वाले रघुने शरीर की उत्कृष्टता से पिता को जीत लिया, तो भी वे नम्रता से छोटे दिखाई पड़ते थे । ३४ ॥
सम्प्रति तस्य यौवराज्यमाह—
ततः प्रजानां चिरमात्मना धृतां नितान्तगुर्वी लघयिष्यता धुरम् ।
निसर्गसंस्कारविनीत इत्यसौ नृपेण चक्रे युवराजशब्दभाक् ॥ ३५ ॥
अन्वयः—ततः आत्मना चिरं धृतां नितान्तगुर्वी प्रजानां धुरं लघयिष्यता नृपेण 'असौ निसर्गसंस्कारविनीतः' इति युवराजशब्दभाक् चक्रे ।
तत इति । तत आत्मना चिरं धृतां नितान्तगुर्वीम् । 'वोतो गुणवचनात्' इति ङीष् । प्रजानां धुरं पालनप्रयासं लघयिष्यता लघुं करिष्यता । 'तत्करोति तदाचष्टे' इति लघुशब्दाण्णिच् ततो 'लृटः सद्वा' इति शतृप्रत्ययः । नृपेण दिलीपेनासौ रघुनिसर्गेण स्वभावेन, संस्कारेण शास्त्राभ्यासजनितवासनया च विनीतो नम्र इति हेतोः । युवराज इति शब्दं भजतीति तथोक्तः । 'भजो ण्विः' इति ण्विप्रत्ययः । चक्रे कृतः । “द्विविधो विनयः स्वाभाविकः कृत्रिमश्च" इति कोटिल्यः । तदुभयसम्पन्नत्वात्पुत्रं युवराजं चकारेत्यर्थः । अत्र कामन्दक - “विनयोपग्रहान्मूर्ये कुर्वीत्र नृपतिः सुतान् । अविनीतकुमारं हि कुलमाशु विशीर्यते ।। विनीतमौरसं पुत्रं यौवराज्येऽभिषेचयेत् ।"

Page 151Permalink

६२ रघुवंशमहाकाव्ये

**भाषार्थ—**तब स्वयं बहुत दिनों से धारण किए हुए महान् प्रजापालन के भार को हल्का करने की इच्छा करते हुए दिलीप ने 'यह रघु स्वभाव और शास्त्राभ्याससे नम्र है, ऐसा समझकर उसे युवराज पद से विभूषित किया ॥ ३५ ॥

नरेन्द्रमूलायतनादनन्तरं तदास्पदं श्रीर्युवराजसंज्ञितम् ।
अगच्छदंशेन गुणाभिलाषिणी नवावतारं कमलादिवोत्पलम् ॥ ३६ ॥

**अन्वयः—**गुणाभिलाषिणी श्रीः नरेन्द्रमूलायतनात् अनन्तरं युवराजसंज्ञितं तदास्पदम् कमलात् (श्रीः) नवावतारम् उत्पलम् इव अंशेन अगच्छत् ।

नरेन्द्रति । गुणान्विनयादीन्सौरभ्यादींश्चाभिलषतीति गुणाभिलाषिणी राज्यलक्ष्मीः पद्माश्चया च नरेन्द्रो दिलीप एव मूलायतनं प्रधानस्थानं तस्मात् । अपादातात् । अनन्तरं सन्निहितम् । युवराज इति संज्ञाऽस्य सञ्जाता युवराजसंज्ञितम् । तारकादित्वादितच्प्रत्ययः । आत्मनः पदं स्थानमास्पदम् । 'आस्पदं प्रतिष्ठायाम्' इति निपातः । स रघुरित्यास्पदं तदास्पदम् । कमलाच्चिरोत्पन्नात् नवावतारमचिरोत्पन्नमुत्पलमिव । अंशेनार्यगच्छत् । स्त्रियो हि यूनि रज्यन्त इति भावः ।

**भाषार्थ—**गुणों की इच्छा रखने वाली राजलक्ष्मी राजा रूपी मुख्य स्थान से समीपस्थ युवराज पदवी वाले रघु रूपी अपने स्थान को अंश से पुराने कमल से नये खिले हुए कमल के समान गयी ॥ ३६ ॥

विभावसुः सारथिनेव वायुना घनव्यपायेन गभस्तिमानिव ।
बभूव तेनातितरां सुदुःसहः कटप्रभेदेन करीव पार्थिवः ॥ ३७ ॥

**अन्वयः—**सारथिना वायुना विभावसुः इव, घनव्यपायेन गभस्तिमान् इव, कटप्रभेदेन करी इव, तेन पार्थिवः अतितरां सुदुःसहः बभूव ।

विभावसुरिति । सारथिना सहायभूतेन । एतद्विशेषणमुत्तरवाक्येष्वप्यनुकर्षणीयम् । वायुना विभावसुर्वह्निरिव । 'सूर्यवह्नी विभावसू' इत्यमरः । घनव्यपायेन शरत्समयेन सारथिना गभस्तिमान्सूर्य इव । कटो गण्डः । 'गण्डः कटो मदो दानम्' इत्यमरः । तस्य प्रभेदः स्फुटनम् । मदोदय इत्यर्थः । तेन करीव पार्थिवो दिलीपस्तेन रघुणाऽऽतितरामत्यन्तं सुदुःसहः सुष्ठ्वसह्यो वभूव ।

**भाषार्थ—**सहायक वायु से अग्निसमान, शरत्काल में सूर्य के समान, गण्डस्थल के मद से हाथी के समान राजा दिलीप अपने को अजेय समझने लगे ॥ ३७ ॥

नियुज्य तं होमतुरङ्गरक्षणे धनुर्धरं राजसुतैरनुद्रुतम् ।
अपूर्णमेकेन शतक्रतूपमः शतं क्रतूनामपविघ्नमप सः ॥ ३८ ॥

Page 152Permalink

तृतीयः सर्गः [६३]

अन्वयः—शतक्रतूपमः स राजसुतैः अनुद्रुतं धनुर्धरं तं होमतुरङ्गरक्षणे नियुज्य एकेन अपूर्णं क्रतूनां शतम् अपविघ्नम् ( यथा स्यात् तथा ) आप ।

नियुज्येति । शतक्रतुरिन्द्र उपमा यस्य स शतक्रतूपमः स दिलीपः । "शतं वै तुल्या राजपुत्रा देवा आशापालाः" इत्यादि श्रुत्या । राजसुतैरनुद्रुतमनुगतं धनुर्धरं तं रघुं होमतुरङ्गाणां रक्षणे नियुज्य । एकेन क्रतुनाऽपूर्णमेकोनं क्रतूनामश्वमेधानां शतमपविघ्नमपगतविघ्नं यथा तथाऽऽप ।

भाषार्थ—इन्द्रतुल्य उस राजा दिलीप ने राजकुमारों के साथ धनुर्धारी उस युवराज को यज्ञ के घोड़े की रक्षा करने में नियुक्त कर एक कम सौ अर्थात् निन्यानवे यज्ञों को निर्विघ्न समाप्त किया ॥ ३८ ॥


ततः परं तेन मखाय यज्वना तुरङ्गमुत्सृष्टमनर्गलं पुनः ।
धनुभृतामग्रत एव रक्षिणां जहार शक्रः किल गूढविग्रहः ॥ ३९ ॥

अन्वयः—ततः परं यज्वना तेन पुनः मखाय उत्सृष्टं अनर्गलं तुरङ्गं शक्रः गूढविग्रहः ( सन् ) धनुभृतां रक्षिणाम् अग्रतः एव जहार किल ।

तत इति । ततः परमेकोनशतक्रतुप्राप्त्यनन्तरं यज्वना विधिनेष्टवता तेन दिलीपेन पुनः पुनरपि मखाय मखं कर्तुम् । 'क्रियार्थोपपदस्य-' इत्यादिना चतुर्थी । उत्सृष्टं मुक्तमनर्गलमप्रतिबन्धनम् । अव्याहतस्वैरमतिमित्यर्थः । 'अपर्यावर्तयन्तोऽश्वमनुचरन्ति' इत्यापस्तम्बस्मरणात् । तुरङ्गं धनुभृतां रक्षिणां रक्षकाणामग्रत एव शक्रो गूढविग्रहः सन् । जहार किल । किलेत्यैतिह्ये ।

भाषार्थ—उसके बाद यज्ञ करने वाले उस राजा दिलीप के, फिर यज्ञ के लिए छोड़े गए अप्रतिहतगति घोड़े को इन्द्रने छिप कर धनुर्धारी रक्षकोंके सामने ही हरण कर लिया ॥ ३९ ॥


विषादलुप्तप्रतिपत्तिविस्मितं कुमारसैन्यं सपदि स्थितं च तत् ।
वशिष्ठधेनुश्च यदृच्छयाऽऽगता श्रुतप्रभावा ददृशेऽथ नन्दिनी ॥ ४० ॥

अन्वयः—तत् कुमारसैन्यं सपदि विषादलुप्तप्रतिपत्ति विस्मितम् ( सत् ) स्थितम् च । अथ च श्रुतप्रभावा यदृच्छया आगता । नन्दिनी (नाम) वसिष्ठधेनुर्ददृशे ।

विषादेति । तत्कुमारस्य सैन्यं सेना सपदि । विषाद इष्टनाशकृतो मनोभङ्गः । तदुक्तम्—"विषादश्चेतसो भङ्ग उपायाभावनाशयोः" इति । तेन लुप्ता प्रतिपत्तिः कर्त्तव्यज्ञानं यस्य तत्तथोक्तम् । विस्मितमश्वनाशस्याकस्मिकत्वादाश्चर्याविष्टं सत् । स्थितं तस्थौ । अथ श्रुतप्रभावा यदृच्छया स्वेच्छयाऽऽगता रघोः । स्वप्रसादलब्धत्वा-

Page 153Permalink

६४ रघुवंशमहाकाव्ये

दनुजिघृक्षयेति भावः । नन्दिनी नाम वसिष्ठधेनुश्च ददृशे । द्वौ चकारावविलम्ब- सूचको । भाषार्थ—एकाएक मनोरथ के भङ्ग होने से किंकर्त्तव्यविमूढ होकर वह कुमार की सेना चकित होकर खड़ी रही । तब सुने हुए प्रभावशाली, अपनी इच्छा से आई हुई नन्दिनी नामक वसिष्ठ की गो दिखाई पड़ी ॥ ४० ॥

तदङ्गनिष्यन्दजलेन लोचने प्रमृज्य पुण्येन पुरस्कृतः सताम् ।
अतीन्द्रियेष्वप्युपपन्नदर्शनो बभूव भावेषु दिलीपनन्दनः ॥ ४१ ॥

अन्वयः—सतां पुरस्कृतः दिलीपनन्दनः पुण्येन तदङ्गनिष्यन्दजलेन लोचने प्रमृज्य अतीन्द्रियेषु भावेषु अपि उपपन्नदर्शनः बभूव ।

तदङ्गेति । सतां पुरस्कृतः पूजितो दिलीपनन्दनो रघुः पुण्येन तस्या नन्दिन्या यदङ्गं तस्य निस्यन्दो द्रवः स एव जलम् । सूत्रमित्यर्थः । तेन लोचने प्रमृज्य शोध यित्वा । अतीन्द्रियेष्विन्द्रियाण्यतिक्रान्तेषु । 'अत्यादयः क्रान्ताद्यर्थे द्वितीया' इति समासः । द्विगुप्राप्तापन्नालम्पूर्वगतिसमासेषु परवल्लिङ्गताप्रतिषेधाद्विशेष्यनिघ्न- त्वम् । भावेष्वपि वस्तुषूपपन्नदर्शनः सम्पन्नसाक्षात्कारशक्तिर्बभूव ।

भाषार्थ—सज्जनों से सम्मानित दिलीपकुमार रघु, उसके अङ्ग से निकले पवित्र मूत्र से आँखों को धोकर, अतीन्द्रिय पदार्थों को भी देखने वाले हो गये ।

स पूर्वतः पर्वतपक्षशातनं ददर्श देवं नरदेवसम्भवः ।
पुनः पुनः सूतनिषिद्धचापलं हरन्तमश्वं रथरश्मिसंयतम् ॥ ४२ ॥

अन्वयः—नरदेवसम्भवः स पुनः पुनः सूतनिषिद्धचापलं रथरश्मिसंयतं अश्वं हरन्तं पर्वतपक्षशातनं देवं पूर्वतः ददर्श ।

स इति । नरदेवसम्भवः स रघुः पुनः पुनः सूतेन निषिद्धचापलं निवारितौ- द्धत्यं रथस्य रश्मिभिः प्रग्रहैः । 'किरणप्रग्रहौ रश्मी' इत्यमरः । संयतं बद्धमश्वं हरन्तं पर्वतपक्षाणां शातनं छेदकं देवमिन्द्रं पूर्वतः पूर्वस्यां दिशि ददर्श ।

भाषार्थ—राजा दिलीप के पुत्र उस रघु ने बार बार सारथि द्वारा रोके गये चपलता वाले और रथकी रस्सी में बंधे हुए घोड़े को हर कर ले जाते हुए, पहाड़ों के पंख काटने वाले इन्द्र को पूर्व दिशा में देखा ॥ ४२ ॥

शतैस्तमक्ष्णामनिमेषवृत्तिभिर्हरिं विदित्वा हरिभिश्च वाजिभिः ।
अवोचदेनं गगनस्पृशा रघुः स्वरेण धीरेण निवर्तयन्निव ॥ ४३ ॥

अन्वयः—रघुः तं अनिमेषवृत्तिभिः अक्ष्णां शतैः च हरिभिः वाजिभिः तं हरिं विदित्वा एनं गगनस्पृशा धीरेण स्वरेण ( एव ) निवर्तयन् इव इवोचत् ।

तृतीयः सर्गः

Page 154Permalink

तृतीयः सर्गः ६५

शतैरिति । रघुस्तमश्वत्तह्रारमनिमेषवृत्तिभिर्निमेषव्यापारशून्यैरक्ष्णां शतैर्हरि- भिर्हरिद्वर्णैः। 'हरिर्वाच्यवदाख्यातः हरित्कपिलवर्णयोः' इति विश्वः। एनमिन्द्रं गगन- स्पृशा व्योमव्यापिना धीरेण गम्भीरेण स्वरेण ध्वनिनैव निवर्तयन्नित्रावोचत् । भाषार्थ—रघु ने पलक न गिराने वाली सैकड़ों आंखों से हरे रंग के घोड़ों से उन्हें इन्द्र समझ कर उनको आकाशस्पर्शी गम्भीर आवाज से लौटाते हुए की तरह पुकारा ॥ ४३ ॥

मखांशभाजां प्रथमो मनीषिभिस्त्वमेव देवेन्द्र ! सदा निगद्यसे । अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ॥ ४४ ॥ अन्वयः—हे देवेन्द्र ! मनीषिभिः त्वम् एव मखांशभाजां प्रथम इति सदा निगद्यसे ( तथापि स त्वम् ) अजस्रदीक्षाप्रयतस्य मद्गुरोः क्रियाविघाताय कथं प्रवर्तसे ?

मखांशेति । हे देवेन्द्र ! मनीषिभिस्त्वमेव मखांशभाजां यज्ञभागभुजां प्रथम सदा निगद्यसे कथ्यसे । तथाऽप्यजस्रदीक्षायां प्रयतस्य मद्गुरोः क्रियाविघाताय । ऋतुविघाताय । क्रियां विहन्तुमित्यर्थः । 'तुमर्थाच्च भाववचनात्' इति चतुर्थी । कथं प्रवर्तसे ? । भाषार्थ—हे देवराज इन्द्र ! विद्वानों द्वारा आप यज्ञ के भाग को ग्रहण करने वालों में प्रधान माने गए हैं। तब निरन्तर यज्ञ में प्रवृत्त मेरे पिता के कर्म को बिगाड़ने के लिए आप क्यों प्रवृत्त हो रहे हैं ॥ ४४ ॥

त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु दिव्यचक्षुषा । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ ४५ ॥ अन्वयः—त्रिलोकनाथेन दिव्यचक्षुषा त्वया मखद्विषः सदा ननु नियम्याः । स त्वं धर्मचारिणां कर्मसु स्वयम् अन्तरायः भवसि चेत् विधिः च्युतः ।

त्रिलोकेति । त्रयाणां लोकानां नाथस्त्रिलोकनाथः । 'तद्धितार्थोत्तरपदसमाहारे इत्यनेनोत्तरपदसमासः । तेन त्रैलोक्यनियामकेन । दिव्यचक्षुषाऽतीन्द्रियार्थदर्शिना त्वया मखद्विषः ऋतुविघातकाः सदा नियम्या ननु शिक्ष्याः खलु । स त्वं धर्म- चारिणां कर्मसु ऋतुषु स्वयमन्तरायो विघ्नो भवसि चेत् । विधिरनुष्ठानं च्युतः क्षतः । लोके सत्कर्मकथंवास्तमियादित्यर्थः । भाषार्थ—तीनों लोकोंके अधीश्वर, दिव्यनेत्र आपको यज्ञविध्वंस करनेवालों को सदा दण्ड देना चाहिये । यदि आपही धर्मपरायण मनुष्यों के याज्ञादि कर्मों में स्वयं विघ्न रूप से उपस्थित हो रहे हैं तो पुण्यकर्म नष्ट हुआ ही है ॥४५॥

Page 155Permalink

६६ रघुवंशमहाकाव्ये

तदङ्गमग्र्यं मघवन्महाक्रतोरमुं तुरङ्गं प्रतिमोक्तुमर्हसि ।
पथः श्रुतेर्दर्शयितार ईश्वरा मलीमसामाददते न पद्धतिम् ॥ ४६ ॥

अन्वयः—हे मघवन् ! तत् महाक्रतोः अग्र्यम् अङ्गम् अमुम् तुरङ्गम प्रतिमोक्तुम् । ( हि ) श्रुतेः पथः दर्शयितारः ईश्वरा मलीमसाम् पद्धति न आददते ।

तदङ्गमिति। हे मघवन् ! तत्तस्मात्कारणान्महाक्रतोरश्वमेधस्याग्र्यं श्रेष्ठमंगं साधनममुं तुरंगं प्रतिमोक्तुं प्रतिदातुमर्हसि । तथाहि । श्रुतेः पथः दर्शयितारः सन्मार्गप्रदर्शका ईश्वरा महान्तो मलीमसां मलिनां पद्धतिं मार्गं नाददते न स्वीकुर्वते । असन्मार्गं नावलम्बन्त इत्यर्थः । 'मलीमसंत तु मलिनं कच्छरं मलदूषितम्' इत्यमरः ।

भाषार्थ—इस लिए हे देवराज ! अश्वमेध के मुख्य साधनभूत इस घोड़े को छोड़ दीजिए; क्योंकि वे मार्ग प्रदर्शक बड़े लोग कुमार्ग नहीं चलते ॥४६॥

इति प्रगल्भं रघुणा समीरितं वचो निशम्याधिपतिर्दिवौकसाम् ।
निवर्तयामास रथं सविस्मयः प्रचक्रमे च प्रतिवक्तुमुत्तरम् ॥ ४७ ॥

अन्वयः—इति रघुणा समीरितं प्रगल्भं वचः निशम्य दिवौकसाम् अधिपतिः सविस्मयः ( सन् ) रथं निवर्तयामास, उत्तरं च प्रतिवक्तुं प्रचक्रमे ।

इतीति । इति रघुणा समीरितं प्रगल्भं वच निशम्याकर्ण्य । दिवौकसः स्वर्गौकसः । 'दिवं स्वर्गोऽन्तरिक्षे च' इति विश्वः । तेषामधिपतिर्देवेन्द्रो रघुप्रभावात्सविस्मयः सन् । रथं निवर्तयास । उत्तरं च प्रतिवक्तुं प्रचक्रमे ।

भाषार्थ—इस प्रकार रघु के कहे हुए धृष्टतायुक्त वचन को सुनकर इन्द्र ने चकित होकर रथ लौटा दिया और उत्तर देना आरम्भ किया ।

यदात्थ राजन्यकुमार ! तत्तथा यशस्तु रक्ष्यं परतो यशोधनैः ।
जगत्प्रकाशं तदशेषमिज्यया भवद्गुरुर्लङ्घयितुं ममोद्यतः ॥ ४८ ॥

अन्वयः—हे राजन्यकुमार ! यत् आत्थ तत् तथा । यशोधनैः तु परतः यशः रक्ष्यम्, भवद्गुरुः जगत्प्रकाशं अशेषं मम् तत् (यशः) इज्यया लङ्घयितुम् उद्यतः ।

यदिति । हे राजन्यकुमार ! क्षत्रियकुमार ! 'मूर्धाभिषिक्तो राजन्यो बाहुजः क्षत्रियो विराट्' इत्यमरः । यद्वाक्यमात्थ ब्रवीषि । 'ब्रुवः पञ्चानामादित आहो ब्रुवः' इत्यनेनाहादेशः । तत्तथा सत्यम् । किन्तु यशोधनैरस्मादृशैः परतः शत्रुतो यशो रक्ष्यम् । ततः किमत आह—भवद्गुरुस्त्वत्पिता जगत्प्रकाशं लोकप्रसिद्धमशेषं सर्वं मम् तद्यश इज्यया यागेन लङ्घयितुं तिरस्कर्तुमुद्यत उद्युक्तः ।

भाषार्थ—हे राजकुमार ! आप जो कहते हो वह ठीक है, परन्तु हमारे ऐसे यशस्वियोंको शत्रुओं से कीर्ति की रक्षा करनी चाहिए । समस्त भुवनों में प्रसिद्ध मेरे उस यश को आपके पिता यज्ञ द्वारा उल्लङ्घन करने के लिए उद्यत हैं ॥४८॥

तृतीयः सर्गः ९७

Page 156Permalink

तृतीयः सर्गः ९७

किं तद्यश इत्याह— हरिर्यथैकः पुरुषोत्तमः स्मृतो महेश्वरस्त्र्यम्बक एव नापरः । तथा विदुर्मां मुनयः शतक्रतुं द्वितीयगामी नहि शब्द एष नः ॥ ४९ ॥

अन्वयः—यथा हरिः एकः (एव) पुरुषोत्तमः स्मृतः, (यथा च) त्र्यम्बकः महेश्वरः एव (स्मृतः), अपरः न, तथा मुनयः मां शतक्रतुं विदुः, नः एष शब्दः द्वितीयगामी न हि ।

हरिरिति । पुरुषेषूत्तम इति सप्तमीसमासः । 'न निर्धारणे' इति षष्ठीसमास-निषेधात् । कर्मधारये तु 'सन्महत्परमोत्कृष्टाः पूज्यमानैः' इत्युत्तमपुरुष इति स्यात् । यथा हरिर्विष्णुरेक एव पुरुषोत्तमः स्मृतः । यथा च त्र्यम्बकः शिव एक एव महेश्वरः स्मृतः । नापरोऽपरः पुमान्न । तथा मां मुनयः शतक्रतुं विदुर्विदन्ति । 'विदो लटो वा' इति झेरुषादेश । नोऽस्माकम् । हरिहरयोर्मम चेत्यर्थः । एष त्रितयोऽपि शब्दो द्वितीयगामी नहि । द्वितीयाप्रकरणे गम्यादीनामुपसङ्ख्यानात्समासः ।

भाषार्थ—जिस प्रकार भगवान् विष्णु ही एक पुरुषोत्तम कहे गये हैं शिव ही महेश्वर कहे गए हैं और दूसरे नहीं; उसी प्रकार मुनि लोग मुझे शतक्रतु जानते हैं। हम लोगों के ये शब्द दूसरे व्यक्ति को प्राप्तव्य नहीं हैं ॥ ४९ ॥

अतोऽयमश्वः कपिलानुकारिणा पितुस्त्वदीयस्य मयाऽपहारितः । अलं प्रयत्नेन तवात्र मा निधाः पदं पदव्यां सगरस्य सन्ततेः ॥ ५० ॥

अन्वयः—अतः त्वदीयस्य पितुः अयम् अश्वः कपिलानुकारिणा मया अपहारितः । अत्र तव प्रयत्नेन अलम् । सगरस्य सन्ततेः पदव्यां पदं मा निधाः ।

अत इति । यतोऽहमेव शतक्रतुरतस्त्वदीयस्य पितुरयं शततमोऽश्वः कपिलानुकारिणा कपिलमुनितुल्येन मयाऽपहारितोऽपहृतः । अपहारित इति स्वार्थे णिच् । तवात्राश्वे प्रतत्नेनालम् । प्रयत्नो मा कारीत्यर्थः । निषेधस्य निषेधं प्रति करणत्वात् तृतीया । सगरस्य राज्ञः सन्ततेः सन्तानस्य पदव्यां पदं मा निधाः न निधेहि । निपूर्वाद्धातोर्लङ् । 'न माङ्योगे' इत्यडागमप्रतिषेधः । महदास्कन्दनं ते विनाशमूलं भवेदिति भावः ।

भाषार्थ—अतः कपिल मुनि का अनुकरण करनेवाले मैंने तुम्हारे पिता के घोड़े को चुरा लिया है। इस सम्बन्ध में तुम्हारा प्रयत्न निष्फल है। सगर के पुत्रों के मार्ग में पैर न रखो ॥ ५० ॥

ततः प्रहस्यापभयः पुरन्दरं पुनर्वभाषे तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ ५१ ॥ ७ २० सम्पू०

Page 157Permalink

१८ रघुवंशमहाकाव्ये

अन्वयः—ततः तुरगस्य रक्षिता प्रहस्य अपभयः (सन्) पुनः पुरन्दरम् बभाषे। यदि एष ते सर्गः, शस्त्रं गृहाण। भवान् रघुम् अनिर्जित्य कृती न खलु।

तत इति। ततस्तुरगस्य रक्षिता रघुः प्रहस्य प्रहासं कृत्वा। अपभयो निर्भीकः सन्। पुनः पुरन्दरं बभाषे। किमिति ? हे देवेन्द्र ! यद्येषोऽश्वामोचनरूपस्ते तव सर्गो निश्चयः। 'सर्गः स्वभावनिर्मोक्षनिश्चयाध्यायसृष्टिषु' इत्यमरः। तर्हि शस्त्रं गृहाण। भवान् रघुं मामनिर्जित्य कृतमनेनेति कृती। कृतकृत्यो न खलु। 'इष्टादिभ्यश्च' इतीनिप्रत्ययः। रघुमित्यनेनात्मनो दुर्जयत्वं सूचितम्।

भाषार्थ—तब अश्वरक्षक रघु ने हँस कर, निर्भय हो पुनः इन्द्र से कहा—अगर आपका यही निश्चय है तो शस्त्र उठाइए, आप मुझको जीते बिना सफल नहीं हो सकते ॥ ५१ ॥

स एवमुक्त्वा मघवन्तमुन्मुखः करिष्यमाणः सशरं शरासनम्।
अतिष्ठदालीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः ॥ ५२ ॥

अन्वयः—उन्मुखः मघवन्तम् एवम् उक्त्वा शरासनं सशरं करिष्यमाणः सः आलीढविशेषशोभिना वपुःप्रकर्षेण विडम्बितेश्वरः (सन्) अतिष्ठत्।

स इति। स रघुरुन्मुखः सन् मघवन्तमिन्द्रमेवमुक्त्वा शरासनं चापं सशरं करिष्यमाणः। आलीढेनालीढाख्येन स्थानभेदेन विशेषशोभिनाऽतिशयशोभिना वपुः-प्रकर्षेण देहोन्नत्येन विडम्बितेश्वरोऽनुसृतपिनाकी सन्। अतिष्ठत्। अलीढलक्षणमाह यादवः—'स्थानानि धन्विनां पञ्च तत्र वैशाखमस्त्रियाम्। त्रिवितस्त्यन्तरो पादौ मण्डलं तोरणाकृति ॥ अन्वर्थं स्यात्समपदमालीढं तु ततोऽग्रतः। दक्षिणे वाममाकुञ्च्य प्रत्यालीढं विपर्ययः ॥'' इति॥

भाषार्थ—यों इन्द्र से कह ऊपर मुँह किए धनुष पर बाण चढ़ाये रघु आलीढ नामक आसन विशेष से शोभित शरीर के औन्नत्य से त्रिपुरसंहार के अवसर पर युद्ध के लिए सन्नद्ध भगवान् शंकर के समान खड़े हो गये ॥ ५२ ॥

रघोरवष्टम्भमयेन पत्रिणा हृदि क्षतो गोत्रभिदप्यमर्षणः।
नवाम्बुदानीकमुहूर्त्तलाञ्छने धनुष्यमोघं समधत्त सायकम् ॥ ५३ ॥

अन्वयः—रघोः अवष्टम्भमयेन पत्रिणा हृदि क्षतः अमर्षणः गोत्रभित् अपि नवाम्बुदानीकमुहूर्त्तलाञ्छने धनुषि अमोघं अस्त्रं समधत्त।

रघोरिति। रघोरवष्टम्भमयं स्तम्भरूपेण। 'अवष्टम्भः सुवर्णे च स्तम्भप्रारम्भयोरपि' इति विश्वः। पत्रिणा बाणेन हृदि हृदये क्षतो विद्धः। अत एवामर्षणोऽसहनः। क्रुद्ध इत्यर्थः। गोत्रभिदिन्द्रोऽपि। 'सम्भावनीये चौरेऽपि गोत्रः क्षोणीधरे

तृतीयः सर्गः ६६

Page 158Permalink

तृतीयः सर्गः ६६

मतः' इति विश्वः । नवाम्बुदानानीकस्य वृन्दस्य मुहुर्त्तं क्षणमात्रं लाञ्छने चिह्नभूते धनुषि । दिव्ये धनुषीत्यर्थः । अमोघमवन्ध्यं सायकं बाणं समधत्त संहितवान् ।

**भाषार्थ—**रघु के स्तम्भरूपी बाण से हृदय पर आघात खाकर इन्द्र ने भी नये मेघों के समान वर्ण वाले धनुष पर अव्यर्थ बाण को चढ़ाया ॥ ५३ ॥

दिलीपसूनोः स बृहद्भुजान्तरं प्रविश्य भीमासुरशोणितोचितः ।
पपावनास्वादितपूर्वमाशुगः कुतूहलेनेव मनुष्यशोणितम् ॥ ५४ ॥

**अन्वयः—**भीमासुरशोणितोचितः सः आशुगः दिलीपसूनोः बृहत् भुजान्तरं प्रविश्य, अनास्वादितपूर्वं मनुष्यशोणितं कुतूहलेन इव पपौ ।

दिलीप इति । भीमानां भयङ्कराणामसुराणां शोणिते रुधिर उचितः परि- चितः स इन्द्रमुक्त आशुगः सायको दिलीपसूनोः रघोर्बृहद्विशालं भुजान्तरं वक्षः प्रविश्य । अनास्वादितपूर्वं पूर्वमनास्वादितम् । सुप्सुपेति समासः । मनुष्यशोणितं कुतूहलेनेव पपौ ।

**भाषार्थ—**भयंकर दैत्यों के रुधिर से परिचित उस बाण ने रघु के विशाल हृदय में घुस कर, पहिले न चखे हुए मनुष्य के खून को कौतुक से पीया ॥५४॥

हरेः कुमारोऽपि कुमारविक्रमः सुरद्विपास्फालनकर्कशाङ्गुलौ ।
भुजे शचीपत्रविशेषकाङ्किते स्वनामचिह्नं निचखान सायकम् ॥ ५५ ॥

**अन्वयः—**कुमारविक्रमः कुमारः अपि सुरद्विपास्फालनकर्कशाङ्गुलौ शची- पत्रविशेषकाङ्किते हरेः भुजे स्वनामचिह्नं सायकं निचखान ।

हरेरिति । कुमारस्य स्कन्दस्य विक्रम इव विक्रमो यस्य स तथोक्तः । 'सप्तम्युपमानपूर्वपदस्य—' इत्यादिना समासः । कुमारोऽपि रघुरपि सुरद्विपस्यै- रावतस्यास्फालनेन कर्कशा अङ्गुलयो यस्य स तस्मिन् । शच्याः पत्रविशेषकैर- ङ्किते शचीपत्रविशेषकाङ्किते हरेरिन्द्रस्य-भुजे स्वनामचिह्नं स्वनामाङ्कितं सायकं निचखान निखातवान् । निष्कण्टकराज्यमाप्तस्यायं महानभिभव इति भावः ।

**भाषार्थ—**स्कन्दतुल्य पराक्रमी रघु ने भी ऐरावत के चलाने से कर्कश अङ्गुलियों वाली, इन्द्राणी के तिलक विशेष से भूषित इन्द्र की भुजा पर अपने नाम के निशान वाला बाण मारा ॥ ५५ ॥

जहार चान्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजम् ।
चुकोप तस्मै स भृशं सुरश्रियः प्रसह्य केशव्यपरोपणादिव ॥ ५६ ॥

Page 159Permalink

१०० रघुवंशमहाकाव्ये

अन्वयः—अन्येन मयूरपत्रिणा शरेण शक्रस्य महाशनिध्वजं जहार, सः सुरश्रियः प्रसह्य-केशव्यपरोपणात् इव, तस्मै भृशं चुकोप ।

जहारेति । अन्येन मयूरपत्रिणा मयूरपत्रवता शरेण शक्रस्येन्द्रस्य महाशनिध्वजं महान्तमशनिरूपं ध्वजं जहार चिच्छेद च । स शक्रः । सुरश्रियः प्रसह्य बलात्कृत्य केशानां व्यपरोणादवतारणाच्छेदनादिव । तस्मै रघुवे भृशमत्यर्थं चुकोप । तं हन्तुमियेयेत्यर्थः । 'क्रुधद्रुहेर्ष्या—' इत्यनेन सम्प्रदानाच्चतुर्थी ।

भाषार्थ—दूसरे मोरपंख वाले बाण से इन्द्र की बड़ी वज्रध्वजा को काट दिया। इन्द्र, देवताओं की लक्ष्मी के जबर्दस्ती केश कट जाने के समान, उस रघु पर बहुत कुपित हुए ॥ ५६ ॥

तयोरुपान्तस्थितसिद्धसैनिकं गरुत्मदाशीविषभीमदर्शनैः ।
बभूव युद्धं तुमुलं जयैषिणोरधोमुखैरूर्ध्वमुखैश्च पत्रिभिः ॥ ५७ ॥

अन्वयः—जयैषिणोः तयोः गरुत्मदाशीविषभीमदर्शनैः अधोमुखैः ऊर्ध्वमुखैः च पत्रिभिः उपान्तस्थितसिद्धसैनिकं तुमुलं युद्धं बभूव ।

तयोरिति । जयैषिणोरन्योन्यजयकाङ्क्षिणोस्तयोरिन्द्ररध्वोः । गरुत्मन्तः पक्षवन्तः । 'गरुत्पक्षच्छदाः पत्रम्' इत्यमरः । आशीविषाः आशिषि दंष्ट्रायां विषं येषां ते आशीविषाः सर्पाः । पृषोदरादित्वात्साधुः । 'स्त्री त्वाशीर्हिताशंसाऽहिदंष्ट्रयोः' इत्यमरः । इव भीमदर्शनाः । सपक्षाः सर्पा इव द्रष्टॄणां भयावहा इत्यर्थः । तैरधोमुखैरूर्ध्वमुखैश्च । धन्विनोरुपर्यधोदेशावस्थितत्वादिति भावः । पत्रिभिर्बाणैरुपान्तस्थितास्तटस्थाः सिद्धा देवा इन्द्रस्य सैनिकाश्च रघोर्यस्मिंस्तत्तथोक्तं तुमुलं संकुलं युद्धं बभूव ।

भाषार्थ—विजयેચ્છु उन दोनों के पंख वाले सांपों के समान देखने में भयानक ( इन्द्र के ) अधोमुख और ( रघु के ) ऊर्ध्वमुख बाणों से देवता और सैनिकों के देखते-देखते घमासान युद्ध हुआ ॥ ५७ ॥

अतिप्रबन्धप्रहितास्रवृष्टिभिस्तमाश्रयं दुष्प्रसहस्य तेजसः ।
शशाक निर्वापयितुं न वासवः स्वतश्च्युतं वह्निमिवान्द्भिभरम्बुद ॥ ५८ ॥

अन्वयः—वासवः अतिप्रबन्धप्रहितास्रवृष्टिभिः दुष्प्रसहस्य तेजसः आश्रयं तम् अम्बुदः अद्भिः स्वतः च्युतं वह्नि इव निर्वापयितुं न शशाक ।

अतिप्रबन्धेति । वासवेोऽतिप्रबन्धेनातिसातत्येन प्रहिताभिः प्रयुक्ताभिरस्रवृष्टिभिर्दुष्प्रसहस्य दुःखेन प्रसहात इति दुष्प्रसहं तस्य । दुःखेनाप्यसह्यस्येत्यर्थः । तेजसः प्रतापस्याश्रयं तं रघुम् । अम्बुदोऽद्भिः स्वतश्च्युतं निर्गतं वह्निमिव । निर्वापयितुं न शशाक । रघोरपि लोकपालात्मकस्येन्द्रांशसम्भवादिति भावः ।

तृतीयः सर्गः १०१

Page 160Permalink

तृतीयः सर्गः १०१

भाषार्थं—इन्द्र अत्यन्त प्रयत्न से प्रयुक्त अस्त्रों की वर्षा से असह्य तेज के आधार उस रघु को शान्त करने में समर्थ नहीं हो सके, जिस प्रकार मेघ अपने से निकली हुई तडित रूप अग्नि को स्वयं शान्त करने में असमर्थ होता है ॥५८॥

ततः प्रकोष्ठे हरिचन्दनाङ्किते प्रमथ्यमानार्णवधीरनादिनीम् ।
रघुः शशाङ्कार्द्धमुखेन पत्रिणा शरासनज्यामलुनाद्विडौजसः ॥ ५६ ॥

अन्वयः—ततः रघुः हरिचन्दनाङ्किते प्रकोष्ठे प्रमथ्यमानार्णवधीरनादिनीं विडोजसः, शरासनज्यां शशाङ्कार्धमुखेन पत्रिणा अलुनात् ।

तत इति । ततो रघुर्हरिचन्दनाङ्किते प्रकोष्ठे मणिबन्धे प्रमथ्यमानार्णवधीरनादिनीं प्रमथ्यमानार्णव इव धीरं गम्भीरं नदतीति तां तथोक्ताम् । वेवेष्टि व्याप्नोतीति विड् । व्यापकमोजो यस्य स तस्य विडौजस इन्द्रस्य । पृषोदरादित्वात्साधुः । शरासनज्यां धनुर्मोर्वीम् । शशाङ्कस्यार्द्धंः खण्ड इव मुखं फलं यस्य तेन पत्रिणाऽलुनादच्छिनत् ।

भाषार्थं—तब रघु ने हरिचन्दन से चिह्नित पहुँचे में, मथे जाते हुए समुद्र के समान गम्भीर ध्वनि वाली इन्द्र के धनुष की प्रत्यञ्चा ( डोरी ) को अर्द्ध चन्द्र तुल्य बाण से काट दिया ॥ ५९ ॥

स चापमुत्सृज्य विवृद्धमत्सरः प्रणाशनाय प्रबलस्य विद्विषः ।
महीध्रपक्षव्यपरोपणोचितं स्फुरत्प्रभामण्डलमस्त्रमाददे ॥ ६० ॥

अन्वयः—विवृद्धमत्सरः स चापम् उत्सृज्य प्रबलस्य विद्विषः प्रणाशनाय महीध्रपक्षव्यपरोपणोचितम्, स्फुरत्प्रभामण्डलम् अस्त्रम् आददे ।

स इति । विवृद्धमत्सरः प्रवृद्धवैरः इन्द्रश्चापमुत्सृज्य प्रबलस्य विद्विषः शत्रोः प्रणाशनाय वधाय । महीं धारयन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कः प्रत्ययः । तेषां पक्षव्यपरोपणे पक्षच्छेद उचितं स्फुरत्प्रभामण्डलमस्त्रं वज्रायुधमाददे जग्राह ।

भाषार्थं—धनुष की डोरी कट जाने से क्रुद्ध इन्द्र ने धनुष फेंककर प्रबल वैरी के वध के लिए पहाड़ों के पंख काटने में कुशल चमकता हुआ वज्र उठा लिया ।

रघुर्भृशं वक्षसि तेन ताडितः पपात भूमौ सह सैनिकाश्रुभिः ।
निमेषमात्रादवधूय तद्व्यथां सहोत्थितः सैनिकहर्षनिःस्वनैः ॥ ६१ ॥

अन्वयः—रघुः तेन भृशं वक्षसि ताडितः ( सन् ) सैनिकाश्रुभिः सह भूमौ पपात, निमेषमात्रात् तद्व्यथाम् अवधूय सैनिकहर्षनिःस्वनै सह उत्थितः ।

रघुरिति । रघुस्तेन वज्रेण भृशमत्यर्थं वक्षसि ताडितो हतः सन् । सैनिका-

Page 161Permalink
१०२रघुवंशमहाकाव्ये

नामश्रुभिः सह भूमौ पपात । तस्मिन्पतिते ते रुरुदुरित्यर्थः । निमेषमात्रात्तद्व्यथं दुःखमवधूय तिरस्कृत्य सैनिकानां हर्षेण ये निःस्वनाः श्वेड़ास्तैः सहोत्थितश्च । तस्मिन्नुत्थिते हर्षात् सिंहनादांश्चक्रुरित्यर्थः ।

**भाषार्थं—**रघु उस वज्र से छाती में चोट लगने से सैनिकों के रुदन के साथ पृथ्वी पर गिर गए, किन्तु क्षण भर में उस पीड़ा को दूर कर सैनिकों के हर्षनाद के साथ उठ कर खड़े हो गए ॥ ६१ ॥

तथाऽपि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरमस्य तस्थुषः ।
तुतोष वीर्यातिशयेन वृत्रहा पदं हि सर्वत्रगुणैर्निधीयते ॥ ६२ ॥

**अन्वयः—**तथापि शस्त्रव्यवहारनिष्ठुरे विपक्षभावे चिरं तस्थुषः अस्य वीर्यातिशयेन वृत्रहा तुतोष, हि गुणैः सर्वत्र पदं निधीयते ।

तथाऽपीति । तथाऽपि वज्रपातेऽपि शस्त्राणामायुधानां व्यवहारेण व्यापारेण निष्ठुरे क्रूरे विपक्षभावे शात्रवे चिरं तस्थुषः स्थितवतोऽस्य रघोर्वीर्यातिशयेन वृत्रं हतवानिति वृत्रहा । 'ब्रह्मभ्रूणवृत्रेषु क्विप्' । तुतोष । स्वयं वीर एव वीरं जानातीति भावः । कथं शत्रोः सन्तोषोऽत आह—गुणैः सर्वत्र शत्रुमित्रोदासीनेषु पदमङ्घ्रिर्निधीयते । गुणैः सर्वत्र संक्रम्यत इत्यर्थः । गुणाः शत्रूनप्यावर्जयन्तीति भावः ।

**भाषार्थ—**वज्रप्रहार पर भी शस्त्रचलाने में निष्ठुर शत्रुभाव में बहुत समय तक स्थित इस रघु के बल की अधिकता से इन्द्र सन्तुष्ट हो गये, क्योंकि गुणों से ही सर्वत्र प्रतिष्ठा होती है ॥ ६२ ॥

असङ्गमद्रिष्वपि सारवत्तया न मे त्वदन्येन विसोढमायुधम् ।
अवेहि मां प्रीतमुते तुरंगमात्किमच्छसीति स्फुटमाह वासवः ॥ ६३ ॥

अन्वयः—'सारवत्तया अद्रिषु अपि असङ्गं मे आयुधं त्वदन्येन न विसोढम्, मां प्रीतम् अवेहि, तुरङ्गमात् ऋते किम् इच्छसि' इति वासवः स्फुटम् आह ।

असङ्गम्रिति । सारवत्तयाऽद्रिष्वप्यसङ्गमप्रतिबन्धं मे आयुधं वज्रं त्वदन्येन न विसोढम् । अतो मां प्रीतं सन्तुष्टमवेहि । तुरङ्गमादृते तुरङ्गं वर्जयित्वा । 'अन्यारादि'ति पञ्चमी । किमिच्छसीति स्फुटं वासव आह । तुरङ्गमादन्यद्देयं नास्तीति भावः

भाषार्थ—'बल में पर्वतों में भी न रुकनेवाले मेरे वज्र को तुम्हारे अतिरिक्त और किसी ने नहीं सहन किया, अतः मुझे सन्तुष्ट समझो, घोड़े के अतिरिक्त क्या चाहते हो ?' इन्द्र ने स्पष्ट कहा ॥ ६३ ॥

ततो निषङ्गादसमग्रमुद्धृतं सुवर्णपुंङ्खद्युतिरञ्जिताङ्गुलिम् ।
नरेन्द्रसूनुः प्रितसंहरन्निषुं प्रियंवदः प्रत्यवदत्सुरेश्वरम् ॥ ६४ ॥

तृतीयः सर्गः १०३

Page 162Permalink

तृतीयः सर्गः १०३

अन्वयः—ततः निषङ्गात् असमग्रम् उद्धृतं सुवर्णपुङ्खद्युतिरञ्जितांगुलिम् इषुं प्रतिसंहरन् प्रियंवदः नरेन्द्रसूनुः सुरेश्वरं प्रत्यवदत् ।

तत इति । ततो निषङ्गात्तूणीरादसमग्रं यथा तथोद्धृतं सुवर्णपुङ्खद्युतिभी रञ्जिता अंगुलयो येन तमिषुं प्रतिसंहरन्निवर्तयन् । नाप्रहरन्तं प्रहरेदिति निषेधादिति भावः । प्रियं वदतीति प्रियंवदः । 'प्रियवशे वदः' इति खच्प्रत्ययः । 'अरुर्द्विषद' इति मुमागमः । नरेन्द्रसूनू रघुः सुरेश्वरं प्रत्यवदत् । न तु प्राहरदिति भावः ।

भाषार्थ—तरकस से पूरा न निकाले हुए, अँगुलियों को रंग देनेवाली सुनहरे मूल भाग की कान्ति से युक्त बाण को तरकस में रख मधुरभाषी रघु ने इन्द्र से कहा ॥ ६४ ॥

अमोच्यमश्वं यदि मन्यसे प्रभो ततः समाप्ते विधिनैव कर्मणि ।
अजस्रदीक्षाप्रयतः स मद्गुरुः क्रतोरशेषेण फलेन युज्यताम् ॥ ६५ ॥

अन्वयः—हे प्रभो ! अश्वम् अमोच्यं मन्यसे यदि ततः अजस्रदीक्षाप्रयतः स मद्गुरुः विधिना एव कर्मणि समाप्ते (सति) क्रतोः अशेषेण फलेन युज्यताम् ।

अमोच्यमिति । हे प्रभो इन्द्र ! अश्वममोच्यं मन्यसे यदि ततस्तर्ह्यजस्रदीक्षायां प्रयतः स मद्गुरुर्मम पिता विधिनैव कर्मणि समाप्ते सति क्रतोर्यत्फलं तेन फलेनाशेषेण कृत्स्नेन युज्यतां युक्तोऽस्तु । अश्वमेधफललाभे किमश्वेनेति भावः ।

भाषार्थ—हे इन्द्र ! यदि आप इस घोड़े को अत्याज्य समझते हैं तो निरन्तर यज्ञ दीक्षा में तत्पर वे मेरे पिता विधिपूर्वक किये गये कर्म की समाप्ति होने पर अश्वमेध यज्ञ के पूरे फल से युक्त हों ॥ ६५ ॥

यथा च वृत्तान्तमिमं सदोगतस्त्रिलोचनैकांशतया दुरासदः ।
तवैव संदेशहराद्विशांपतिः शृणोति लोकेश तथा विधीयताम् ॥ ६६ ॥

अन्वयः—हे लोकेश ! सदोगतः त्रिलोचनैकांशतया दुरासदः विशांपतिः च इमं वृत्तान्तं यथा तव एव संदेशहरात् शृणोति तथा विधीयताम् ।

यथेति । सदोगतः सदो गृहं गतस्त्रिलोचनस्येश्वरस्यैकांशतयाऽष्टानामन्यतममूर्तित्वात् । दुरासदोऽस्मादृशैर्दुष्प्राप्यो विशांपतिर्यथेमं वृत्तान्तं तव सन्देशहराद्दूताद्गिरादेव शृणोति च । हे लोकेशेन्द्र ! तथा विधीयताम् ।

भाषार्थ—हे लोकपाल ! सभा में स्थित शिवजी के एक अंश होने से दुष्प्राप्य मेरे पिता जिस तरह इस समाचार को आप के ही दूत से सुनें वैसा आप करें ॥ ६६ ॥

तथेति कामं प्रतिशुश्रुवान् रघोर्यथाऽऽगतं मातलिसारथिर्ययौ ।
नृपस्य नातिप्रमनाः सदोगृहं सुदक्षिणासूनुरपि न्यवर्तत ॥ ६७ ॥

Page 163Permalink

१०४ | रघुवंशमहाकाव्ये

अन्वयः—मातलिसारथिः 'तथा' इति रघोः कामं प्रतिशुश्रुवान्, यथागतं ययौ; सुदक्षिणासूनुः अपि नातिप्रमनाः नृपस्य सदोगृहं न्यवर्तत।

तथेतीति। मातलिसारथिरिन्द्रो रघोः सम्बन्धिनं कामं मनोरथं तथेति तथास्त्विति प्रतिशुश्रुवान्। 'भाषायां सदसश्रुवः' इति क्वसुप्रत्ययः। यथाऽऽगतं ययौ सुदक्षिणासूनू रघुरपि नातिप्रमना विजयलाभेऽप्यश्वनाशान्नातीव तुष्टः सन्। नञर्थस्य सुप्सुपेति समासः। नृपस्य सदोगृहं प्रति न्यवर्त्तत।

भाषार्थ—इन्द्र रघु से वैसा ही होगा ऐसी प्रतिज्ञा कर जिधर से आये थे उसी मार्ग से गये। रघु भी अनमना हो राजा दिलीप की सभा की ओर लौटे।

तमभ्यनन्दत्प्रथमं प्रबोधितः प्रजेश्वरः शासनहारिणा हरेः।
परामृशन्हर्षजडेन पाणिना तदीयम् अङ्गं कुलिशव्रणाङ्कितम् ॥ ६८ ॥

अन्वयः—हरे शासनहारिणा प्रथमं प्रबोधितः प्रजेश्वरः तदीयं कुलिशव्रणाङ्कितम् अङ्गं हर्षजडेन पाणिना परामृशन् तम् अभ्यनन्दत्।

तमिति। हरेरिन्द्रस्य शासनहारिणा पुरुषेण प्रथमं प्रबोधितो ज्ञापितः। वृत्तान्तमिति शेषः। प्रजेश्वरो दिलीपो हर्षजडेन हर्षशिशिरेण पाणिना कुलिशव्रणाङ्कितम्। तस्य रघोर्गिदं तदीयम्। अङ्गं शरीरं परामृशंस्तं रघुमभ्यनन्दत्।

भाषार्थ—इन्द्र दूत से पहिले ही जाने हुए राजा दिलीप ने उस रघु के वज्राङ्कित शरीर को हर्ष से कांपते हुए हाथ से छूकर उनकी प्रशंसा की।

इति क्षितीशो नवतिं नवाधिकां महाक्रतूनां महनीयशासनः।
समारुरुक्षुर्दिवमायुषः क्षये ततान सोपानपरम्परामिव ॥ ६९ ॥

अन्वयः—महनीयशासनः क्षितीशः इति महाक्रतूनां नवाधिकां नवतिं आयुषः क्षये दिवं समारुरुक्षुः सोपानपरम्परां इव ततान।

इतीति। महनीयशासनः पूजनीयाज्ञः क्षितीश इत्यनेन प्रकारेण 'इति हेतुप्रकरणप्रकारादिसमाप्तिषु' इत्यमरः। महाक्रतूनामश्वमेधानां नवभिरधिकां नवतिमेकोनशतमायुषः क्षये सति दिवं स्वर्गं समारुरुक्षुरारोढुमिच्छुः सोपानानां परम्परां पंक्तिमिव ततान।

भावार्थ—इस प्रकार आदरणीय आज्ञा वाले पृथ्वीपति दिलीप ने जीवन समाप्त होने पर स्वर्ग में चढ़ने की अभिलाषा से नौ अधिक नब्बे (९९) अश्वमेध यज्ञ की सीढ़ियों की कतार के समान रचना की ॥ ६९ ॥

अथ स विषयव्यावृत्तात्मा यथाविधि सूनवे
नृपतिककुदं दत्त्वा यूने सितातपवारणम्।

Page 164Permalink

चतुर्थः सर्गं १०५

मुनिवनतरुच्छायां देव्या तया सह शिश्रिये ।
गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम् ॥ ७० ॥

अन्वयः—अथ विषयव्यावृत्तात्मा सः यथाविधि यूने सूनवे नृपतिककुदं सितातपवारणं दत्त्वा तया देव्या सह मुनिवनतरुच्छायां शिश्रिये हि गलितवयसाम् इक्ष्वाकूणां इदं कुलव्रतम् ।

अथेति । अथ विषयेभ्यो व्यावृत्तात्मा निवृत्तचित्तः स दिलीपो यथाविधि यथाशास्त्रं यूने सूनवे नृपतिककुदं राजचिह्नम् । 'ककुद्वत्ककुदं श्रेष्ठे वृषाङ्के राजलक्ष्मणि' इति विश्वः । सितातपवारणं श्वेतच्छत्रं दत्त्वा तया देव्या सुदक्षिणया सह मुनिवनतरोश्छायां शिश्रिये श्रितवान् । वानप्रस्थाश्रमं स्वीकृतवानित्यर्थः । तथाहि । गलितवयसां वृद्धानामिक्ष्वाकूणामिक्ष्वाकोगोत्रापत्यानाम् । तद्राजसंज्ञकत्वादणो लुक् । इदं वनगमनं कुलव्रतम् । देव्या सहेत्यनेन सपत्नीकवानप्रस्थाश्रमपक्ष उक्तः । तथा च याज्ञवल्क्यः—"सुतविन्यस्तपत्नीकस्तया वाऽनुंगतो वनम् । वानप्रस्थो ब्रह्मचारी साग्निः सोपासनो व्रजेत्" इति हरिणीवृत्तमेतत् । तदुक्तम्—"रसयुगहयैन्सौ म्रौ स्लो गो यदा हरिणी तदा" इति ।

भाषार्थ - इसके बाद विषयों से विरक्त होकर वे वृद्ध राजा दिलीप युवक पुत्र रघु को नियमानुसार श्वेतच्छत्रादि राज्यचिह्न दे रानी के साथ तपोवन चले गये, क्योंकि वृद्ध इक्ष्वाकुओं की यही कुलपरम्परा थी ॥ ७० ॥

त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्रिलिखित चन्द्रकला टीका में तृतीय सर्ग समाप्त ।


चतुर्थः सर्गः

अथ प्राप्तराज्यस्य राज्ञो रघोः कीदृशी शोभाऽऽसीदिति तामेवाह—

स राज्यं गुरुणा दत्तं प्रतिपद्याधिकं बभौ ।
दिनान्ते निहितं तेजः सवित्रेव हुताशनः ॥ १ ॥

अन्वयः—स गुरुणा दत्तं राज्यं दिनान्ते सवित्रा निहितं तेजः हुताशन इव प्रतिपद्य अधिकं बभौ ।

स इति । स रघुर्गुरुणा पित्रा दत्तं राज्यं राज्ञः कर्म प्रजापरिपालनात्मकम् । पुरोहितादित्वाद्यक् । प्रतिपद्य प्राप्य । दिनान्ते सायंकाले सवित्रा सूर्येण निहितं

Page 165Permalink

१०६ रघुवंशमहाकाव्ये

तेजः प्रतिपद्य हुताशनोऽग्निरिव । अधिकं बभौ । "सौरं तेजः सायमग्निं संक्रामते । आदित्यो वा अस्तं सन्नग्निमनुप्रविशति । अग्निं वा आदित्यः सायं प्रविशति" ऐत्यादिश्रुतिः प्रमाणम् ।

भावार्थ— वे रघु पिता द्वारा दिए हुए राज्य को पाकर सायंकाल में सूर्य से स्थापित तेज को पाए हुए अग्नि के समान अधिक शोभित हुए ॥ १ ॥

अथ रघो राज्येऽवस्थानं श्रुत्वा शत्रूणां हृदि सन्तापाधिक्यं बभूवेत्याह—

दिलीपानन्तरं राज्ये तं निशम्य प्रतिष्ठितम् ।
पूर्वं प्रधूमितो राज्ञां हृदयेऽग्निरिवोत्थितः ॥ २ ॥

अन्वयः— दिलीपानन्तरं राज्ये प्रतिष्ठितं तं निशम्य राज्ञां हृदये पूर्वं प्रधूमितः अग्निः उत्थितः इव ।

दिलीपेति । दिलीपानन्तरं राज्ये प्रतिष्ठितमवस्थितं तं रघुं निशम्याकर्ण्य पूर्वं दिलीपकाले राज्ञां हृदये प्रकर्षेण धूमोऽस्य सञ्जातः प्रधूमितोऽग्निः सन्तापाग्निरुत्थित इव प्रज्वलित इव । पूर्वेभ्योऽधिकसन्तापोऽभूदित्यर्थः । राजकर्तृकस्यापि निशमनस्याग्नावुपचारान्न समानकर्तृकत्वविरोधः ।

भावार्थ— राजा दिलीप के बाद राज्य पर बैठे हुए उस रघु को सुनकर राजाओं के हृदय मे जलती हुई सन्तापाग्नि मानो धधकने लगी । २ ॥

अथ रघुं राज्येऽवस्थितं दृष्ट्वा सर्वा अपि प्रजाः प्रसन्ना बभूवुरित्याह—

पुरुहूतध्वजस्येव तस्योन्नयनपङ्क्तयः ।
नवाभ्युत्थानदर्शिन्यो ननन्दुः सप्रजाः प्रजाः ॥ ३ ॥

अन्वयः— पुरुहूतध्वजस्य इव तस्य नवाभ्युत्थानदर्शिन्यः उन्नयनपङ्क्तयः सप्रजाः प्रजाः ननन्दुः ।

पुरुहूतेति । पुरुहूतध्वजः । इन्द्रध्वजः । स किल राजभिर्वृष्ट्यर्थं पूज्यत इत्युक्तं भविष्योत्तरे—"एवं यः कुरुते यात्रामिन्द्रकेतोर्युधिष्ठिर ! । पर्जन्यः कामवर्षी स्यात्तस्य राज्ये न संशयः ।" इति । "चतुरस्रं ध्वजाकारं राजद्वारे प्रतिष्ठितम् । आहुः शक्रध्वजं नाम पौरलोकसुखावहम् ॥" इति । पुरुहूतध्वजस्येव तस्य रघोर्नवाभ्युत्थानमभ्युन्नतिमभ्युदयं च पश्यन्तीति नवाभ्युत्थानदर्शिन्यः । ऊर्ध्वं प्रस्थिता उल्लसिताश्च नयनपङ्क्तयो यासां ताः सप्रजाः ससन्तानाः प्रजा जनाः । 'प्रजास्यात्सन्ततौ जने' इत्युभयत्राप्यमरः । ननन्दुः ।

भावार्थ— इन्द्र की पताका की तरह रघु के नवीन वैभव को देखने वाली, सन्तान सहित प्रजायें आनन्दित हुईं ॥ ३ ॥

Page 166Permalink

चतुर्थः सर्गः १०७

अथ रघुणा सिंहासनारोहणक्षणे एव शत्रुमण्डलमपि पदाक्रान्तमित्याह— सममेव समाक्रान्तं द्वयं द्विरदगामिना । तेन सिंहासनं पित्र्यमखिलं चारिमण्डलम् ॥ ४ ॥

**अन्वयः—**द्विरदगामिना तेन समम् एव द्वयं समाक्रान्तं पित्र्यं सिंहासनम् अखिलं अरिमण्डलं च ।

सममिति । द्विरद इव द्विरदैश्च गच्छतीति द्विरदगामी तेन । ‘कर्तर्युपमाने’ इति ‘सुप्यजातो’ इति च णिनिः । तेन रघुणा समं युगपदेव द्वयं समाक्रान्तमधिष्ठितम् । किं तद् द्वयम् । पितुरागतं पित्र्यम् । ‘पितुर्यत्’ इति यत्प्रत्ययः । सिंहासनम् अखिलमरीणां मण्डलं राष्ट्रं च ।

**भाषार्थ—**उस गजगामी रघु ने एक ही साथ पिता से प्राप्त सिंहासन और सम्पूर्ण शत्रुमण्डल दोनों को आक्रान्त किया ॥ ४ ॥

छायामण्डललक्ष्येण तमदृश्या किल स्वयम् । पद्मा पद्मातपत्रेण भेजे साम्राज्यदीक्षितम् ॥ ५ ॥

**अन्वयः—**स्वयम् अदृश्या पद्मा छायामण्डललक्ष्येण पद्मातपत्रेण साम्राज्यदीक्षितं तं भेजे किल ।

छायेति । अत्र रघोस्तेजोविशेषेण स्वयं सन्निहितया लक्ष्म्या छत्रधारणं कृतमित्युत्प्रेक्षते । पद्मा लक्ष्मीः । ‘लक्ष्मीः पद्मालया पद्माः कमला श्रीर्हरिप्रिया’ इत्यमरः । सा स्वयमदृश्या किल । किलेति सम्भावनायाम् । सती । छायामण्डललक्ष्येण कान्तिपुञ्जानुमेयेन न तु स्वरूपतो दृश्येन । छायामण्डलमित्यनेनातपज्ञानं लक्ष्यते । ‘छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः’ इत्युभयत्राप्यमरः । पद्मातपत्रेण पद्ममेवातपत्रं तेन कारणभूतेन साम्राज्यदीक्षितं साम्राज्ये साम्राज्यकर्मणि मण्डलाधिपत्ये दीक्षितमभिषिक्तं तं भेजे । अन्यथा कथमेतादृशी कान्तिसम्पत्तिरिति भावः ।

**भाषार्थ—**स्वयं अप्रकट हुई लक्ष्मी, कान्तिमण्डल से अनुमित कमलरूपी छत्र से साम्राज्य पर अभिषिक्त रघु की सेवा करने लगी ॥ ५ ॥

परिकल्पितसान्निध्या काले काले च बन्दिषु । स्तुत्यं स्तुतिभिरर्थ्याभिरुपतस्थे सरस्वती ॥ ६ ॥

**अन्वयः—**सरस्वती च काले काले वन्दिषु परिकल्पितसान्निध्या स्तुत्यं ( तम् ) अर्थ्याभिः स्तुतिभिः उपतस्थे ।

परिकल्पितेति । सरस्वती च काले काले सर्वेष्वपि योग्यकालेषु । ‘नित्यवी-

Page 167Permalink

१०८ रघुवंशमहाकाव्ये

प्सयोः' इति वीप्सायां द्विवचनम् । वन्दिषु परिकल्पितसान्निध्या कृतसन्निधाना सती स्तुत्यं स्तोत्राहं तं रघुम् । अर्ध्याभिरर्थादनपेताभिः । 'धर्मंपथ्यर्थ०' इति यत्प्रत्ययः । स्तुतिभिः स्तोत्रैरुपतस्थे । देवताबुद्ध्या पूजितवतीत्यर्थः ! देवतात्वं च ( ना विष्णुः पृथिवीपतिः ) इति वा लोकपालात्मकत्वादित्यनुसंधेयम् । एवं च सति 'उपाद्देव' इति वक्तव्यादात्मनेपदं सिध्यति ।

भाषार्थ—और सरस्वती देवी ने समय-समय पर स्तुतिपाठकों की समीप- वर्त्तिनी होकर स्तवनीय उस राजा का अर्थवती स्तुतियों से पूजन किया ॥ ६ ॥

मनुप्रभृतिभिर्मान्यैर्भुक्ता यद्यपि राजभिः ।
तथाऽप्यनन्यपूर्वेव तस्मिन्नासीद्वसुन्धरा ॥ ७ ॥

अन्वयः—वसुन्धरा यद्यपि मनुप्रभृतिभिः मान्यैः राजभिः भुक्ताः, तथापि तस्मिन् अनन्यपूर्वा इव आसीत् ।

मनुप्रभृतिभिरिति । वसुन्धरा मनुप्रभृतिभिर्मन्वादिभिर्मान्यैः पूज्यै राजभिर्भु- क्ता यद्यपि । भुक्तैवेत्यर्थः । यद्यपीत्यवधारणे । 'अप्यर्थे यदि वाऽर्थे स्यात्' इति केशवः । तथाऽपि । तस्मिन् राज्ञि । अन्यः पूर्वो यस्याः साऽन्यपूर्वा अन्यपूर्वा न भवतीत्यनन्यपूर्वा अनन्योपभुक्तैवासीत् । तत्प्रथमपतिकेवानुरक्तवतीत्यर्थः ।

भाषार्थ—भारत वसुन्धरा यद्यपि मनु आदि माननीय राजाओं से भोगी गयी थी, तथापि उस रघु में दूसरे से न भोगी गई कामिनी की तरह अनुरक्त हुई ॥७॥

स हि सर्वस्य लोकस्य युक्तदण्डतया मनः ।
आददे नातिशीतोष्णो नभस्वानिव दक्षिणः ॥ ८ ॥

अन्वयः—स हि युक्तदण्डतया सर्वस्य लोकस्य मनः नातिशीतोष्णः दक्षिणः नभस्वान् इव आददे ।

स इति । हि यस्मात्कारणात्स रघुर्युक्तदण्डतया यथाऽपराधदण्डतया सर्वस्य लोकस्य मन आददे जहार । क इव । अतिशीतोऽत्युष्णो वा न भवतीति नातिशी- तोष्णः । नञर्थस्य नशब्दस्य 'सुप्सुपे'ति समासः । दक्षिणो दक्षिणदिग्भवो नभस्वा- न्वायुरिव । मलयानल इवेत्यर्थः । युक्तदण्डतयेत्यत्र कामन्दकः—"उद्वेजयति ती- क्ष्णेन मृदुना परिभूयते । दण्डेन नृपतिस्तस्माद्युक्तदण्डः प्रशस्यते" । इति ।

भाषार्थ—क्योंकि अपराध के अनुसार दण्ड देने से रघु ने सब लोगों के मन को न अधिक ठंडे न गरम दक्षिण पवन के समान हरण कर लिया ॥ ८ ॥

मन्दोत्कण्ठाः कृतास्तेन गुणाधिकतया गुरौ ।
फलेन सहकारस्य पुष्पोद्गम इव प्रजाः ॥ ६ ॥