ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 15, कुल 91 में से
संदर्भ में पढ़ें१२ ऋतुसंहारे दिनकरपरितापक्षीणतोयाः समन्ता- द्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः॥२२॥ पटुतरेति ॥ पटुतरोऽतिसमर्थो यो दवो दावस्तस्य दाहो- च्छुष्काः दहनोच्छुष्काः सस्यप्ररोहाः सस्याङ्कुरा येषु ते तथोक्ताः। परुषो निष्ठुरो यः पवनो वायुस्तस्य वेगेनोत्क्षिप्ता- न्यूर्ध्वक्षिप्तानि संशुष्कानि पर्णानि पत्राणि येषु ते तथोक्ताः। समन्तादितस्ततो दिनकरस्य परितापेनातपेन क्षीणानि तोयानि येषु ते तथोक्ताः। उच्चैरुच्चप्रदेशतो वीक्ष्यमाणा अवलोक्यमाना वनान्ता अरण्यप्रान्ता भयं विदधतीत्यर्थः । मालिनीवृत्तमेतत् । तल्लक्षणं तु—'ननमयययुतेयं मालिनी भोगिलोकैः' इति ॥ श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् । भ्रमति गवययूथः सर्वतस्तोयमिच्छ- ञ्छरभकुलमजिह्मं प्रोद्धरत्यम्बु कूपात्॥२३॥ श्वसितीति ॥ शीर्णानि गलितानि पर्णानि पत्राणि यस्य स तादृशो यो द्रुमो वृक्षस्तत्र तिष्ठतीति स तथो- क्तो विहगवर्गः पक्षिसमुदायः श्वसिति श्वासोच्छ्वासं करोति । क्लान्तं म्लानं कपिकुलं वानरसमूहोऽद्रेः पर्वतस्य निकुञ्जं लतागृहम् । 'निकुञ्जकुञ्जौ वा क्लीबे' इत्यमरः । उपयाति गच्छतीत्यर्थः । गवया गोसदृशमृगविशेषास्तेषां यूथः समुदायस्तोयं जलमिच्छन्सर्वत इतस्ततो भ्रमति । अजि- ह्ममकुटिलं शरभानां कुलं शरभा अष्टापदपक्षिविशेषास्तेषां १. 'परितापात्.' २. 'निकुञ्जे.'