ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 6, कुल 91 में से
संदर्भ में पढ़ेंप्रथमः सर्गः । ३ सुतन्त्रिगीतं मदनस्य दीपनं शुचौ निशीथेऽनुभवन्ति कामिनः ॥ ३ ॥ सुवासितमिति ॥ कामिनो विलासिनः शुचौ ग्रीष्मकाले निशीथेऽर्धरात्रे । 'अर्धरात्रनिशीथौ द्वौ' इत्यमरः । सुवासितं सुगन्धजलसेकादिना सुगन्धीकृतं मनोहरं सुन्दरं हर्म्यतलं प्रासादतलम् । प्रियामुखस्य कान्तावदनस्यो- च्छ्वासेन विकम्पितं मधु । मदनस्य कंदर्पस्य दीपनमु- द्दीपकं सुतन्त्रिणा गीतं गानं च । 'गीतं गानमिमे समे' इत्यमरः । अनुभवन्त्यास्वादयन्तीत्यर्थः । एतेनापि ग्री- ष्मकालस्य कामिनां मनोहरत्वमुक्तम् ॥ नितम्बबिम्बैः संदुकूलमेखलैः स्तनैः सहाराभरणैः सचन्दनैः । शिरोरुहैः स्नानकषायवासितैः स्त्रियो निदाघं शमयन्ति कामिनाम् ॥ ४ ॥ नितम्बेति ॥ स्त्रियो विलासिन्यो दुकूलानि वस्त्राणि मे- खला रसनाश्च ताभिः सहितानि तैस्तथोक्तैर्नितम्बबिम्बैः क- टिपश्चाद्भागैः । 'पश्चान्नितम्बः स्त्रीकट्याः' इत्यमरः । हारा- आभरणानि च तैः सहितास्तैस्तथोक्तैः सचन्दनैश्चन्दन- लिप्तैः स्तनैः । स्नाने स्नानकाले यः कषायो लापितसुगन्धि- द्रव्यस्तेन वासिताः संजातवासास्तैस्तथोक्तैः शिरोरुहैः केशैः कामिनां निदाघमूष्माणं शमयन्ति दूरीकुर्वन्तीत्यर्थः ॥ नितान्तलाक्षारसरागरञ्जितै- र्नितम्बिनीनां चरणैः सनूपुरैः । १. 'सुदुकूल.' २. 'लोहितैः.'