ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 5, कुल 91 में से
संदर्भ में पढ़ेंस्पृहणीयो वाञ्छनीयश्चन्द्रमाश्चन्द्रो यस्मिन्स तथोक्तः। 'हिमां- शुश्चन्द्रमाश्चन्द्रः' इत्यमरः। सदा नि-रन्तरमवगाहेन निम- ज्जनपूर्वकस्नानैः क्षतः क्षीणो वारिसंचयो जलसमूहो यस्मिन्स तथोक्तः। दिनान्तः संध्याकालो रम्यो रमणीयो यस्मिन्स तथोक्तः। दिवसे सूर्यसत्वादौष्ण्यजनितमाकुलत्वं चन्द्रो- दयादिना च शीतलत्वात्तस्य रम्यत्वम्। अभि समन्तादुप- शान्तो मन्मथः कंदर्पो यस्मिन्स तथोक्तः। 'वसन्ते द्विगुणः कामः' इति वसन्तापगमे कामोपशान्तिः। अयं निदाघकालो ग्रीष्मकाल उपागतः संप्राप्तः हे प्रिये। वंशस्थवृत्तमेतत्— 'जतौ तु वंशस्थमुदीरितं जरौ' इति लक्षणात्॥ निशाः शशाङ्कक्षतनीलराजयः क्वचिद्विचित्रं जलयन्त्रमन्दिरम्। मणिप्रकाराः सरसं च चन्दनं शुचौ प्रिये यान्ति जनस्य सेव्यताम्॥ २॥ निशा इति॥ हे प्रिये, क्वचिच्छशाङ्केन चन्द्रमसा कर्त्रा क्षता दूरीकृता नीलराजयस्तमःपङ्क्तयो यासां ता- स्तथोक्ता निशा रात्रयः। 'निशा निशीथिनी रात्रिः' इत्यमरः। क्वचिद्विचित्रं जलयन्त्रेण युक्तं मन्दिरं गृहम्। क्वचिन्मणिप्रकारा मणिविशेषाश्चन्द्रकान्तादयः। क्वचित्स- रसं सान्द्रं चन्दनं च शुचौ ग्रीष्मकाले जनस्य लोकस्य से- व्यतामुपभोगविषयतां यान्तीति वचनविपरिणामेनान्वयः॥ सुवासितं हर्म्यतलं मनोहरं प्रियामुखोच्छ्वासविकम्पितं मधु। १. 'विकल्पितम्.'