ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 4, कुल 91 में से
संदर्भ में पढ़ेंश्रीः। ऋतुसंहारम्। चन्द्रिकया समेतम्। प्रथमः सर्गः। यः समस्तविदुषां शिरोमणिर्येन राजति सभा विपश्चिताम्। तं महीश्वरकृताङ्घ्रिवन्दनं नीलकण्ठपितरं नमाम्यहम् ॥ शृङ्गारैकप्रधानं यदृर्तुसंहारनामकम् । काव्यं तत्कालिदासीयं व्याख्यास्येऽहं यथामति ॥ अप्रचारतमोमग्ना कालिदासकृतिर्यतः। क्रियतेऽतश्चन्द्रिकेयं विबुधानन्ददायिनी ॥ अथ तत्रभवान्कालिदासनामा कविश्चिकीर्षितस्य ग्र- न्थस्य निर्विघ्नपरिसमाप्त्यर्थम् ‘आशीर्नमस्क्रिया वस्तु- निर्देशो वापि तन्मुखम्’ इत्याशीराद्यन्यतमस्य मङ्गलत्वेन तदन्यतरद्वस्तुनिर्देशरूपं मङ्गलमाचरन्नादौ ग्रीष्मकालवर्ण- नरूपां कथां प्रियायै कश्चिन्नायकः प्रस्तौति— प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः सदावगाहक्षतवारिसंचयः। दिनान्तरम्योऽभ्युपशान्तमन्मथो निदाघकालोऽयमुपागतः प्रिये ॥ १ ॥ प्रचण्डेति॥ प्रचण्ड उग्रः सूर्यो दिवाकरो यस्मिन्स तथोक्तः। १. ‘क्षम.’ २. ‘समुपागतः.’