ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)
Ritusamharam of Kalidasa with Hindi Commentary
महाकवि कालिदास द्वारा
पृष्ठ 9, कुल 91 में से
संदर्भ में पढ़ेंहर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्य भृशम- त्यन्तमुत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव ल- ज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति। नूनमिति वितर्के॥ असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही। न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः॥ १०॥ असह्येति॥ प्रियावियोगः कान्तावियोगः स एवानलो- ऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्त- थोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो वातो वायुस्तेनोद्धतमूर्द्धक्षिप्तं रेणुमण्डलं यस्याः सा तथो- क्ता। प्रचण्ड उग्रो यः सूर्यस्य तरणेरातप उष्णं तेन तापिता संतापिता मही पृथ्वी द्रष्टुमपि न शक्यते। गन्तुं न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः॥ मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कताल्वः। वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः॥ ११॥ मृगा इति॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतप उष्णं तेन तापिताः संतापिताः। महत्या तृषा पिपासया परिशुष्काः संशुष्कास्तालवो तेषां ते तथोक्ता मृगा हरिणा १. 'वातोद्धत.'