भारतकोश
ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या)

Ritusamharam of Kalidasa with Hindi Commentary

महाकवि कालिदास द्वारा

DevanagariHindipublished91 पृष्ठ

पृष्ठ 9, कुल 91 में से

संदर्भ में पढ़ें
पृष्ठ 9

हर्म्येषु प्रासादेषु योषितां स्त्रीणां सुखेन प्रसुप्तानि निद्रितानि मुखानि वदनानि चिरं चिरकालं विलोक्यावलोक्य भृशम- त्यन्तमुत्सुक उत्कण्ठितः सन्निशाक्षये रात्रिक्षये ह्रियेव ल- ज्जयेव पाण्डुतां पाण्डुरतां याति गच्छति। नूनमिति वितर्के॥ असह्यवातोद्धतरेणुमण्डला प्रचण्डसूर्यातपतापिता मही। न शक्यते द्रष्टुमपि प्रवासिभिः प्रियावियोगानलदग्धमानसैः॥ १०॥ असह्येति॥ प्रियावियोगः कान्तावियोगः स एवानलो- ऽग्निस्तेन दग्धं भस्मीभूतं मानसमन्तःकरणं येषां तैस्त- थोक्तैः प्रवासिभिर्विदेशवासिभिरसह्यः सोढुमशक्यो यो वातो वायुस्तेनोद्धतमूर्द्धक्षिप्तं रेणुमण्डलं यस्याः सा तथो- क्ता। प्रचण्ड उग्रो यः सूर्यस्य तरणेरातप उष्णं तेन तापिता संतापिता मही पृथ्वी द्रष्टुमपि न शक्यते। गन्तुं न शक्यत इत्यत्र किं वक्तव्यमित्यर्थः॥ मृगाः प्रचण्डातपतापिता भृशं तृषा महत्या परिशुष्कताल्वः। वनान्तरे तोयमिति प्रधाविता निरीक्ष्य भिन्नाञ्जनसंनिभं नभः॥ ११॥ मृगा इति॥ भृशमत्यन्तं प्रचण्डस्तीक्ष्णतरो य आतप उष्णं तेन तापिताः संतापिताः। महत्या तृषा पिपासया परिशुष्काः संशुष्कास्तालवो तेषां ते तथोक्ता मृगा हरिणा १. 'वातोद्धत.'

ऋतुसंहारम् (महाकवि कालिदास - षड्ऋतु काव्य सान्वय हिन्दी व्याख्या) · पृष्ठ 9, कुल 91 में से · BharatKosha