सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 14, कुल 837 में से
संदर्भ में पढ़ेंप्राक्कथनम् यतो वासुदेवेऽभिप्रद्युम्नमन्तः समाकर्षयच्चानिरुद्धं निरोद्धुम्। ततश्चाख्यया चाति सङ्कर्षणो य- स्तमीशं फणीशं गुरुं शेषमीडे॥ पाञ्चरात्रागमविमर्शः भागवतस्याथवा सात्त्वतधर्मस्यातिविकसितं रूपं 'पाञ्चरात्रधर्म' एवोपलभ्यते, यः ख्रिष्टाब्दात् पूर्वं तृतीयशतकात् प्रचलित आसीत्। महाभारतस्य नारायणीयोपाख्याने (शान्तिपर्वणि) सर्वप्रथममस्य सिद्धान्तानां वर्णनं लभ्यते। महर्षिनारदो यदा पाञ्चरात्रतत्त्वजिज्ञासुरभवत्, तदा श्वेतद्वीपं गत्वा नारायणर्षेरस्य ज्ञानमवाप, तथा स एवास्य प्रचारमकरोत्। एवमस्यादिप्रवर्तको नारायणर्षिरिव ज्ञायते। पाञ्चरात्रीयग्रन्थेष्विमं वेदसम्मतं साधयितुं विविधास्तर्काः संस्थापिताः। सम्बन्धमप्यस्य वेदस्यैकया शाखयाऽस्ति। 'एष ऐकायनो वेदः प्रख्यातः सर्वतो भुवि' (१।४३) इत्यनेन ईश्वरसंहिताया वचनेनाप्यस्य पुष्टिः कृता। दशमशतकोत्पन्नेनोत्पलाचार्येणाऽपि स्पन्दप्रदीपिकायां पाञ्चरात्रसंहिता तथा पाञ्चरात्रोपनिषदं विविधान्युदाहरणान्युपनिबद्धानि। 'पाञ्चरात्रश्रुतिः', 'पाञ्चरात्रसंहिता' तथा 'पाञ्चरात्रोपनिषद्' इत्येवं त्रयो विभागा दशमशतकावधि सञ्जाता आसन्। श्रुतिष्वपि पाञ्चरात्रागममुख्यसिद्धान्ताः प्रतिपादिताः शतपथब्राह्मणे (१३।६।१) पाञ्चरात्रसत्रस्योल्लेखः प्राप्यते। यस्याऽनुसारं समस्तप्राणिष्वाधिपत्यस्थापनाय नारायणेन पञ्चदिनाभ्यन्तरे इदं सम्पादितम्। वेदान्तदेशिकप्रणीतपाञ्चरात्ररक्षायाम्, एवं भट्टारकवेदोत्तमविरचिततन्त्रशुद्धाख्ये ग्रन्थरत्ने पाञ्चरात्रधर्मस्य तलस्पर्शिनी मीमांसा समुपलभ्यते। पञ्चरात्राणां विषये तेषां प्रामाणिकता तत्रभवता रामानुजा- चार्येण वेदवदेव स्वीकृता। यथा— सांख्यं योगः पाञ्चरात्रं वेदाः पाशुपतं तथा। आत्मप्रमाणान्येतानि न हन्तव्यानि हेतुभिः॥ पाञ्चरात्रशब्दस्य व्याख्याप्रसङ्गे नानामतानि संलक्ष्यन्ते। महाभारतस्य शान्ति- पर्वणि तस्य 'महोपनिषत्' इति संज्ञा दृश्यते। तदनुसारेण तस्य गायनं नारायणेनैव