भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 17, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 17

१४ सात्त्वतसंहिता रात्रस्य नामान्तरम् । कियान् प्राचीनो 'भागवतसम्प्रदाय' इति विषयस्यावश्यक- सामग्र्यभावाद् निश्चितरूपेण विवेचनं दुस्तरं वर्तते, तथापि यथोपलब्धसामग्रीमेवोररी- कृत्य किञ्चित् प्रकाश्यते— १. सर्वप्रथममस्य विवेचनं महाभारतस्य नारायणीयोपाख्याने लभ्यते । २. पाणिनीयाष्टाध्यायीभाष्यप्रणेत्रा भगवता पतञ्जलिनाऽपि कृष्णरूपावतीर्णस्य विष्णोः कंसवधबलिबन्धननामकयोर्नाटकयोरुल्लेखः कृतः, येन दैत्यराजबलेः पातालप्रेषणस्य कंसवधस्यापि च पुष्टिर्जायते । यथा—'अयःशूलदण्डाजिनाभ्यां ठक्ठञौ' (५।२।७६) इति सूत्रे भाष्ये शैवभागवतसम्प्रदाययोश्चर्चा अकारि, यथा—'किञ्च, योऽये शूलेनान्विच्छति स आयःशूलिकः । किञ्चातः शिवभागवतेऽपि प्राप्नोति, एवं तर्ह्युत्तरपदलोपोऽत्र द्रष्टव्यः' इति । विदुषां मतानुसारेण पतञ्जलेराविर्भावकालः विक्रमसंवत्सरपूर्वतृतीयशतकमस्ति। एतेनेदमपि सिद्ध्यति यत् तृतीये शतके भागवतसम्प्रदायाभ्युदयः संजातः । ३. महाभारतस्य शान्तिपर्वानुसारमिदं सिद्ध्यति यदयं सात्त्वतोऽथवा भागवतो धर्मो वासुदेवेन कृष्णेनार्जुनं प्रत्युपदिष्टः । अतो भागवतधर्मस्याद्योपदेशके कृष्णे भगवति वासुदेव ऐतिहासिक दृष्ट्या विचारणमस्योद्भवविकासादिज्ञानप्रकाशनाय संगतं प्रतीयते । ४. वैदिकसाहित्ये संहितासु, ब्राह्मणग्रन्थेषु, उपनिषत्सु वा वासुदेवस्यो- ल्लेखो नोपलभ्यते । किन्तु तैत्तिरीयारण्यकदशमप्रपाठकेऽयं विष्णुवदेव व्यव- हृतोऽस्ति । डॉ० राजेन्द्रलालमित्रमतेऽस्य रचना पश्चादभूत्, अतो वासुदेवोल्लेख- सम्बन्धिवर्णनमिदं परिशिष्टमेवास्ति । वासुदेववर्णनञ्च तत्रैवं प्रकारेणास्ति, यथा— 'नारायणाय विद्महे, वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोदयात्' इति । भारतीयदार्शनिकसम्प्रदायानां लब्धप्रतिष्ठान्वेषका डॉ० कीथमहोदया आरण्य- करचनासमयः ई०पूर्वं तृतीयं शतकमिति स्वीकुर्वते । अतस्तृतीयशतकावधि विष्णु- वासुदेवयोरैक्यं प्रतीयते । महाभारतस्य विविधस्थलेषु प्रयुक्तोऽयं वासुदेवशब्दो विष्णुशब्देनाधिकं साम्यं भजति । तत्रैकस्थले उद्घोषितमस्ति यद् मया लोकोत्तर- ज्योतिषा तथा सर्वं कर्तुं पटीयस्या मम मायाख्यया शक्त्या चराचरं सञ्छादितमस्ति । यथा— वसनात् सर्वभूतानां वसुत्वादेव योनितः । वासुदेवस्ततो .... .... ... .... .... ॥ इत्यादौ महाभारतस्य तस्मिन्नेव प्रसङ्गे इदमपि वर्णितं यदहं रविरश्मिरूपे निखिलं जगत् संछादयामि, तथाऽहमेव सर्वप्राणिनामधिवासत्वाद् वासुदेवोऽस्मि ।