सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 19, कुल 837 में से
संदर्भ में पढ़ें१६ सात्त्वतसंहिता ऽस्ति यद् यदुकुले अंशनाम्नी एका व्यक्तिरभूद् यस्याः सुतः सात्त्वतसंज्ञया प्रख्यातः, तथा तेनैव कारणेन सात्त्वते तद्वंशीयाः सात्त्वतपदवाच्या अभूवन् । भागवतमहापुराणेनाऽपि सात्त्वतैर्वासुदेवस्य परमेश्वररूपेण पूजनं सिद्ध्यति । भागवते वासुदेवः सत्त्वतर्षभाख्ययाऽपि ख्यातः । सात्त्वतशब्दप्रयोग ऐतरेयब्राह्मणेऽ- प्युपलभ्यते, यथा— 'एतस्यां दक्षिणस्यां दिशि ये के च सात्त्वता राजानो भोग्यायैव तेऽभिषिच्यन्ते भोगेत्येनानभिषिक्तान् आचक्षते' इति । डॉ० भण्डारकरमहोदयाः सात्त्वतशब्दं वृष्णिवंशपर्यायस्वरूपमेव स्वीकुर्वन्ति । 'वैष्णविज्म एण्ड शैविज्म' नाम्नि ग्रन्थे तेषामिदं मतमस्ति यत् सात्त्वतानां वृष्णि- वंशसम्बद्ध एकोऽन्य एव सम्प्रदाय आसीद् यस्मिन् वासुदेवप्रद्युम्नसंकर्षणानिरुद्धाः प्रादुरभवन् । तेषु वासुदेवं जनाः परमात्मबुद्ध्या पूजयन्ति स्म । सात्वतसंहिताविमर्शः सात्त्वतधर्मः सूर्यद्वारा प्रवर्तित इति महाभारते प्रतिपादितमस्ति । शतपथब्राह्मणे (१३।५।४।२१) सात्त्वतशब्दोऽपि वार्ष्णेयशब्द इव प्रयुक्तः । पाराशरभट्टेन (विष्णु- सहस्रनामभाष्ये) सात्त्वतशब्दो भागवतस्य पर्यायरूपेण स्वीकृतः । यथा— 'सातयति सुखयति आश्रितानिति सातः परमात्मा, स एषामस्तीति वा सात्त्वताः सात्त्वन्तो वा महाभागवताः' इति । एवं सात्त्वतवार्ष्णेययोरुभयोः शब्दयोः प्राचीनत्वं तथा समर्थताऽपि प्रमाणी- भवतः । महाभारतस्य नारायणीयाख्याने यत्र वासुदेवधर्मो व्याख्यातस्तत्र कथितं यत् सङ्कर्षणो वासुदेवस्यापरं रूपं तथा सर्वजनप्रतिनिधित्वञ्च प्रतिपादयति । सङ्कर्षणाद् अर्थात् मनसः प्रद्युम्नस्योत्पत्तिर्जायते, प्रद्युम्नादनिरुद्धोऽहङ्कारस्वरूपः प्रादुर्भवति । इमे चत्वारो वासुदेवप्रतिमाभूताः सन्ति । देवादिकं निखिलं जगद् नारायणादुत्पन्नं भूत्वा पुनर्नारायण एव लीयते । अनेन प्रकारेण वासुदेवनारायणशब्दयोर्बहुविधं साम्यं सिद्ध्यति । कतिपयैरुल्लेखैः प्रमाणीभवति यत् ख्रिष्टाब्दात् पूर्वं द्वितीये शतके वासुदेवातिरिक्तं सङ्कर्षणबलदेवावप्युपास्यभूतावास्ताम् । इदं दृढीकर्तुं २।२।३४ पाणिनीयसूत्रे भाष्यं द्रष्टव्यमस्ति । किन्तु महाभारतस्य नारायणीयाख्यानके वासुदेवः परमात्मरूपे सङ्कर्षणो जीवरूपे वर्णितः । तत्त्वतो विचारे कृते इदं स्पष्टं प्रतीयते यद् वासुदेवसङ्कर्षणयोः पूज्यत्व एवास्माभिः सर्वप्रथमं पाञ्चरात्राणां व्यूहवादस्य बीजभूतं तत्त्वं समवलोक्यते । भागवतधर्मस्य सात्त्वतधर्मस्य पाञ्चरात्रधर्मस्य वा आदिनाम वासुदेवधर्मो- ऽथवा वासुदेवोपासना आसीत् । तृतीये शतके भागवतसंज्ञा तु प्रसिद्धप्राया एवासीत् । ख्रिष्टाब्दस्य पूर्वाभ्यां तृतीयचतुर्थशतकाभ्यां प्रथमशतकावधि वासुदेवो- पासनाया विविधानि प्रमाणानि पुरातत्त्वप्राचीनसाहित्यादिषूपलभ्यन्ते ।