सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 20, कुल 837 में से
संदर्भ में पढ़ेंप्राक्कथनम् १७ अर्हतां सलाकापुरुषेषु वासुदेवबलदेवावपि स्तः, तथा अरिष्टनेमिवासुदेव- सम्बन्धिन्यश्चर्चाः प्राचीनजैनसाहित्ये भृशमुपलभ्यन्ते। बौद्धजातके (घटमहामग्गादौ) वासुदेवकथा वर्णिता। बौद्धसाहित्यस्य चुल्लनिर्देशग्रन्थे आजीवकनिगण्ठजटिलवासुदेवादिभिः श्रावकैः सह वसुदेवपूजकानां वासुदेवानाम्प्युल्लेखो लभ्यते। यस्याधारेणास्य सम्प्रदायस्य स्थितिः ख्रिष्टाब्दात् पूर्वं तृतीये चतुर्थे वा शतक आसीदिति निश्चीयते। ख्रिष्टाब्दात् शतद्वयवर्षपूर्वं बेसनगरे (भिलसा) स्थितस्यैकस्य शिलालेखस्यानुसारं विक्टोरियायां राजदूतेन हेलियोटोरसेन देवाधिदेववासुदेवप्रतिष्ठायामेकं गरुडस्तम्भं निरमायि। स आत्मानं भागवतसंज्ञया समलङ्करोति स्म। ख्रिष्टाब्दात् पूर्वं प्रथमे शतके नानाघाटीयगुहाभिलेखेऽन्यदेवैः सह सङ्कर्षण- वासुदेवयोरप्युल्लेखो लभ्यते। अस्यैव शतकस्यैकः शिलालेखो घोसुण्डी (चित्तौड़) नामके स्थाने प्राप्यते, यस्मिन्नश्वमेधवेलायामितिहासप्रसिद्धकण्ववंशीयनृपतिना वासु- देवसङ्कर्षणयोर्देवायतननिर्माणाय पूजाशिलाप्राकाररचनाया अप्युल्लेखोऽस्ति। एवं ज्ञायते यदयं सम्प्रदायोऽतीव प्राचीनः, तथा स एव कालक्रमेणानेकदृष्टिभिरवलोकितः। पाञ्चरात्रसंहितासु ज्ञान-योग-क्रिया-चर्याख्यानां चतुर्णां विषयाणां विस्तृतं तात्त्विकं च वर्णनं विद्यते। पाञ्चरात्रीयसंहितासु दार्शनिकतत्त्वानि सूक्ष्ममीमांसया सम्यक्प्रकारेण प्रमाणप्रतिपन्नरीत्या प्रकटीकृतानि। तासु जीवब्रह्मरहस्योद्घाटनम्, एवमखण्डब्रह्माण्डोत्पत्तिविमर्शौ ज्ञानपदेनोदीरिते (ईश्वरसंहिता २.५६)। योगस्तु व्यावहारिकसैद्धान्तिकधरातले मुक्तिसाधकानां कर्मणां विवेचनमेवमनुगमनमेव। देवा- लयनिर्माणमचेतनमूर्तिप्राणप्रतिष्ठाविधानमेवं मूर्तिसम्बन्धिन्य उक्तयः संहितासु क्रिया- विवेचनक्रमे उट्टङ्कितानि। चर्याविवेचनप्रसङ्गे वैष्णवागमेष्वधिकतरा दत्तचित्ता दृश्यते। तदेश्वरस्य षड्गुणानां चर्चा वर्तते। ज्ञान-शक्ति-ऐश्वर्य-बल-वीर्य-तेजसां तस्य निर्गुणस्यापीश्वरस्य षड्गुणानां तत्र विवेचनं कृतम्, यैर्गुणैस्तस्मिन् सगुणता समागच्छति। एषां गुणानां स्थाने स्थाने सर्वत्रैव व्याख्या अतितार्किकरीत्या कृता आगमाचार्यैः। व्यूहवादः पाञ्चरात्रस्य प्रधानतया दार्शनिकस्वरूपनिर्देशकस्य व्यूहवादस्यापि विवेचनं प्रसङ्गतः समीचीनं प्रतिभाति। गीतायां वासुदेवस्य अष्टधा प्रकृतिपर्यालोचनप्रसङ्गे पञ्चतत्त्वविवेचनकाले मनोबुद्धिजीवाहङ्काराणां चर्चा विद्यते। 'भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च' इत्यादि। कालक्रमेण जीवमनोऽहङ्काराणां सङ्कर्षणप्रद्युम्ना- निरुद्धा इति नामान्तराण्याभवन्। व्यूहवादस्य 'जनार्दनस्त्वात्मचतुर्थ एव' इति कथयित्वा पतञ्जलिनापि सम्भवतोऽस्य चर्चा विहितेत्यनुमीयते। किन्तु विषयेऽस्मिन् महान् विवादः। सा० सं० - 2