सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 21, कुल 837 में से
संदर्भ में पढ़ें१८ सात्वतसंहिता संक्षेपतो व्यूहवादस्यैतत् स्वरूपम्—सृष्टिकाले वासुदेवोऽव्यक्तां प्रकृतिमेव न सृजति, किन्तु प्रकृत्या सार्धं सङ्कर्षणाख्यस्य विशिष्टजीवस्यापि रचनां करोति । तस्य सङ्कर्षणस्य प्रकृत्या संयोगे सति मनस उत्पत्तिर्जायते, यत् सांख्यस्य बुद्धिस्थानापन्न- त्वेन ज्ञातुं शक्यते । एवं तस्मिन्नेव काले तस्य प्रतिरूपभूतस्य प्रद्युम्नस्योत्पत्ति- र्भवति । प्रद्युम्नत एव मनःसंयोगे सति सांख्याभिमतस्याहङ्कारस्योत्पत्तिर्जायते । एवं तस्मिन् क्षण एव तस्य तृतीयप्रतिरूपभूतस्यानिरुद्धस्य प्रादुर्भावो भवति । अनिरुद्धत एव सांख्यसम्मतस्याहङ्कारस्य संयोगे सति महाभूतानामेवं तेषां गुणानामाविर्भावो भवति । तस्मिन्नेव क्षणे विविधानि तत्त्वान्यादाय पृथिव्यादिनिर्माणक्षमस्य ब्रह्मणः प्रादुर्भावो भवति । ईश्वरस्य षड्गुणाः पूर्वमेव वर्णिताः । तेषु गुणेषु गुणद्वयस्य प्राधान्ये सति त्रित्वसंख्याविशिष्टस्य व्यूहस्य रचना भवति । उदाहरणं यथा— सङ्कर्षणे ज्ञानस्य बलस्य चाधिक्यं भवति, प्रद्युम्ने ऐश्वर्यस्य वीर्यस्य चाधिक्यमस्ति, अनिरुद्धे शक्तितेजसोराधिक्यं भवति । एवं क्रमशॊ यथापूर्वं वर्णनानुसारं व्यूहरचना सम्पादिता भवति । अयमेव चतुर्व्यूहवादः । श्रीशङ्कराचार्येण शारीरकभाष्ये (२।२।४२-४५) अस्य खण्डनं कृतम् । किन्तु रामानुजाचार्यस्य एतद्विषयकं मण्डनमपि मननीयम् । सृष्टौ शुद्धाध्वा अथ च विशाखयूपविमर्शः श्रियः सिसृक्षया चत्वारो भगवद्व्यूहा आविर्भूताः, ते यथा—वासुदेवः, सङ्कर्षणः, प्रद्युम्नः, अनिरुद्धः । एते व्यूहा जगद्व्यापारकरणार्थं चतुर्व्यूहोपासन- निरतानां योगिनां ध्यानालम्बनार्थं चाविर्भूय ध्यानसौकर्याय रूपचतुष्केण प्रकाशन्ते । यथा— तुर्यस्थानम् —|— व्यूहचतुष्कं रेखारूपेणापि न दृश्यम् । सुषुप्तिस्थानम् —|— व्यूहचतुष्कं रेखारूपेण दृश्यम् । स्वप्नस्थानम् —|— व्यूहचतुष्कं अत्यन्तमलिनरूपम् । जाग्रत्स्थानम् —|— व्यूहचतुष्कं स्पष्टरूपम् । इदं च ध्वजस्तम्भाकारं रूपं विशाखयूपनाम्ना प्रथितम् । पूजितस्तम्भाभिप्रायेण यूपशब्दप्रयोगः । एभ्यो व्यूहेभ्यो द्वादश देवा व्यूहान्तरनाम्ना आविर्भूताः । यथा— वासुदेवात् केशवनारायणमाधवाः । सङ्कर्षणात् गोविन्दविष्णुमधुसूदनाः । प्रद्युम्नात् त्रिविक्रमवामनश्रीधराः । अनिरुद्धात् हृषीकेशपद्मनाभदामोदराः । शुद्धाध्वगता एते सर्वेऽपि देवा अप्राकृतलोके विराजन्ते, शुद्धसत्त्वमयाश्च । पूर्वोक्तात् विशाखयूपात् पद्मनाभादयोऽष्टत्रिंशत् विभवदेवा आविर्भूताः । एभ्यो विभवेभ्यो विभवान्तरनामानः बहवोऽवतारा बादरायणादिरूपेणास्मिन् लोके भवन्ति । पूर्वोक्तात् विशाखयूपादेवाचार्चारूपा देवा आविर्भूय देवालयेषु सम्पूजिता विराजन्ते ।