सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 22, कुल 837 में से
संदर्भ में पढ़ेंप्राक्कथनम् १९ एते विभवादयो देवाः प्राकृतलोके कृतावतरणाः, शुद्धसत्त्वमयाश्च । अत एवायं क्रमः शुद्धाध्वेत्युच्यते । अशुद्धाध्वा— पूर्वनिर्दिष्टया देव्याः सिसृक्षयैवाशुद्धाध्वाविर्भावः । यथा—षाड्गुण्ये ज्ञानं सत्त्वात्मना, ऐश्वर्यं रजोरूपेण, शक्तिः तमोरूपेण च परिणम्य त्रैगुप्यरूपमवापुः । ततो देव्याः श्रिय एव रजोगुणप्रधाना महालक्ष्मीः, तमोगुणप्रधाना महामाया, सत्त्वगुणप्रधाना महाविद्या चाविर्बभूवुः । ततः प्रद्युम्नांशात् महालक्ष्म्यां मानसः धाता श्रीश्च, सङ्कर्षणांशात् महामायायां मानसः रुद्रः त्रयी च, अनिरुद्धांशात् महाविद्यायां मानसः केशवः गौरी चेति संजाताः । एतत् प्रथमं पर्व । ततो धाता त्रय्या सह संभूय अण्डमजीजनत् । रुद्रः गौर्या सह संभूय तत् अभिनत् । केशवः श्रिया सह संभूयाण्डमध्यस्थं प्रधानमरक्षत् । ततः केशवः प्रधानं सलिलीकृत्य तत्र श्रिया सहाशयिष्ट । एतत् द्वितीयं पर्व । सलिले शयानस्य केशवस्य नाभेः कालमयं कमलं समभवत् । तस्मिन् नाभिकमले त्रय्या सह धाता पुनः प्रादुर्बभूव । नाभिकमलं त्रयी धाता चेति त्रयमपि मिलित्वा तामसो महान् जातः । महतोऽहंकारः संजातः । स चाहंकारस्त्रिविधः— सात्त्विकः राजसः, तामसश्चेति । सात्त्विकात् पञ्च ज्ञानेन्द्रियाणि, राजसात् पञ्च कर्मेन्द्रियाणि, उभयस्मान्मनश्च संजातानि । तामसात् शब्दतन्मात्रम्, तस्मात् शब्दः स्पर्शतन्मात्रं च, ततः स्पर्शः रूपतन्मात्रं च, ततो रूपं रसतन्मात्रं च, ततो रसः गन्धतन्मात्रं च, ततो गन्ध इत्युत्पद्यन्ते । महान्तमारभ्य गन्धान्तं संभूयाण्डमभवत् । तस्मात् चतुर्मुखः प्रजापतिर्जज्ञे । प्रजापतेर्मनवः । मनुभ्यो मानवादयः चेतना अचेतनाश्च समजायन्त । एतत् तृतीयं पर्व । एतानि त्रीण्यपि पर्वाणि त्रिगुणमयानि । अत एवायं क्रमोऽशुद्धाध्वेत्युच्यते । सात्त्वतसंहितायाः मुख्यविषयाः— प्रथमे परिच्छेदे प्रश्नप्रतिवचनम्, द्वितीये परिच्छेदे तुरीयव्यूहसमाराधनम्, तृतीये परिच्छेदे सुषुप्तिव्यूहसमाराधनम्, चतुर्थे परिच्छेदे स्वप्नव्यूहविधानम्, पञ्चमे परिच्छेदे जाग्रद्व्यूहसमाराधनम्, षष्ठे परिच्छेदे चातुरात्म्यबाह्याराधनम्, सप्तमे परिच्छेदे अमन्त्रकव्रतविधिः, अष्टमे परिच्छेदे समन्त्रकव्रतविधिः, नवमे परिच्छेदे विभवदेवतान्तर्यागविधिः, दशमे परिच्छेदे विभवदेवताबहिर्यागविधिः, एकादशे परिच्छेदे मण्डलकूण्डललक्षणविधानम्, द्वादशे परिच्छेदे विभवदेवताध्यानम्, त्रयोदशे परिच्छेदे भूषणास्त्रदेवताध्यानम्, चतुर्दशे परिच्छेदे पवित्रारोपणविधिः, पञ्चदशे परिच्छेदे पवित्रस्नपनविधिः, षोडशे परिच्छेदे त्रिविधदीक्षाविधानम्, सप्तदशे परिच्छेदे वैभवीयनृसिंहकल्पः, अष्टादशे परिच्छेदे अधिवासदीक्षाविधिः, एकोनविंशे परिच्छेदे दीक्षाविधिः, विंशे परिच्छेदे अभिषेकविधिः, एकविंशे परिच्छेदे समयविधिः, द्वाविंशे