भारतकोश
सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

पृष्ठ 435, कुल 837 में से

संदर्भ में पढ़ें
पृष्ठ 435

शान्तये बलिमन्त्राणामस्त्रमन्त्रेण पातयेत् । इति शान्तिविधानं च पौष्टिकं च निबोधतु ॥ १८१ ॥ पूर्वं शान्तिविधिमाह—ज्ञात्वेत्यारभ्य इति शान्तिविधानं चेत्यन्तम् । शशिना = कर्पूरेण । नाम = साध्यनामधेयमित्यर्थः । साध्यनामधेयप्रकारः पारमेश्वरे प्रतिपादितः— साध्यनामस्वरूपं तु व्यापकं वक्ष्यते पुनः ॥ तारान्ते बीजशक्तिश्च देवतं तस्य चेत् ततः । शान्तिं पुष्टिं च वश्यं च विजयं चैवमादिकम् ॥ द्वितीयान्तं समुच्चार्य कुरुवीप्सान्वितं ततः । यच्छ-यच्छ-पदान्तं वा प्राक्स्थितैः प्रणवान्तिमैः ॥ अङ्गयैदवसाने च साध्यलक्षणमीरितम् ॥ —(२४।११६-११९) इति । सान्तर्गतं = सकारान्तर्गतमित्यर्थः । अरान्तोपगतेन बीजेन, अमुस्वारेणेत्यर्थः । नाभितुर्यं वकारम्, तच्चतुर्थान्तं नाभिचतुर्थान्तम्, वकारान्तमिति यावत् । मन्त्रेशं श्रीनृसिंहबीजम् । नेमिनवमं = टकारमित्यर्थः । तथा च प्रयोगः—आदौ स्वशरीरोत्थैर्लौकिकैर्लक्षणैः प्राप्तेन स्वप्नयोगेन च जीवितस्य संस्थितिं ज्ञात्वा सर्वशल्यविनिर्मुक्तं शोभनं स्थानमासाद्य केवले(न) शरजालेन सवस्त्रेण वा समाच्छादितं यागगेहं परिकल्प्य तत्र मध्ये वेदिकायां चन्दनचूर्णमिश्रेण कर्पूरसहितेन सुगन्धशालिचूर्णेन— चतुरश्रं चतुर्द्वारं मार्गपीठाब्जभूषितम् ॥ त्रिनाभिनेमिषडरं चक्रं तु कमलाद् बहिः । (१७।४९-५०) इत्युक्तलक्ष(ण णं) मण्डलमालिख्य नि(पु र्वणं) सलक्षणं गालितोद(कं क)- पूर्णं हेमरत्नसर्वौषधिपल्लवदूर्वाफलपूरितं सुधूपिताहतशुक्लवस्त्रपरिवेष्टितं महाकु(म्भ म्भं) मण्डलस्य बहिः पूर्वभागे आधारचक्रिकोपरि संस्थाप्य तत्परितोऽष्टदिक्ष्वपि तथाविधं कलशाष्टकं विन्यस्य सुधान्चन्दनलिप्ताङ्गं तण्डुलपूरितं शुक्लकौशेय परिवेष्टितकण्ठं शुक्लपुष्पमालिकाअलङ्कृतं मुक्ताफलोदरं बीजपूरितशरावपिहितमुप- कुम्भाष्ट (क कं) दिक्कलशानामुपरि विन्यस्य यागगेहं श्वेतचामरसंयुक्तसितदुकूल- वितानकैरलङ्कृत्याच्छिद्रेण दृढेन सितेन सूत्रेण कलशाष्टकं कण्ठदेशान्तं सप्तवारं परितः संवेष्टयेत् । एवं सर्वोपकरणानि सम्पाद्य यथाविधि स्नात्वा मन्त्रन्या, सादिकं कृत्वा हरिद्रोदकविमिश्रितेन चन्दनेन दूर्वाङ्कुरेण लेखिन्या सुलक्षणे भूर्जपत्रमध्ये सकारान्तर्गतं साध्यनाम विलिख्य, तद्बहिः सकर्णिकमष्टपत्रं कमलं विलिख्य पत्राष्टकेऽधोवक्त्रं वकारं विलिख्य तदन्तः प्रणवनमःसम्पुटितं वकारान्वितं नृसिंहबीजं विलिख्य कमलाद् बहिरूर्ध्वमुखमधोमुखं च संख्याहीनं टङ्कारमूर्मिकारूपेण परितः संलिख्य तद्यन्त्रं सितसूत्रेण संवेष्ट्यार्घ्यकुम्भे निधाय मण्डलाग्रे शालिचूर्णपरिकल्पिते स्थण्डिले तं कुम्भं निधाय, मण्डले स्वहृदयान्मन्त्रनाथमावाह्य, तत्र श्वेतैरुपचारैरभ्यर्च्य,