सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)
Satvata Samhita of Pancharatra Agama with Commentary
भगवान् सङ्कर्षण / महर्षि नारद द्वारा
पृष्ठ 438, कुल 837 में से
संदर्भ में पढ़ेंसप्तदशः परिच्छेदः ३७९ बीजं नाभितृतीयं यत् तदधः पञ्चमारगम् ॥ १८७ ॥ शिरसाऽरान्तपूर्वेण युक्तं बाह्याद् दशादिना । तदन्तस्थं न्यसेद् बीजं नाभितुर्यासनस्थितम् ॥ १८८ ॥ नाभिसप्तमगर्भेऽथ विन्यसेत् कमलं तु तत् । बीजं पुष्टिपदोपेतं कुरुवीप्सासमन्वितम् ॥ १८९ ॥ लिखेत् प्रणवपूर्वं तु बहिरष्टासु दिक्षु वै । संवेष्ट्य रक्तसूत्रेण मधुतोयघटे न्यसेत् ॥ १९० ॥ निधाय पूर्ववत् कुर्याद् दिग्बन्धं हृदयादिकैः । अस्त्रेण तु विदिग्बन्धं नेत्रेणोर्ध्वमधस्तथा ॥ १९१ ॥ ततो विद्रुमसंकाशं मन्त्रमावाह्य संयजेत् । अथो मन्त्रगणं सर्वं लोके शास्त्रान्तसंयुतम् ॥ १९२ ॥ रक्तैरकण्टकैर्हृद्यैरर्चनं कुसुमैर्हितम् । राजमुद्गैस्तु नैवेद्यं युक्तमत्र गुलोदनम् ॥ १९३ ॥ गुलरञ्जितभक्ष्याणि कुर्यान्नानाविधानि वै । सम्भवे सति वै रक्तं सर्वं कार्यमसम्भवे ॥ १९४ ॥ रञ्जयेत् कुङ्कुमाद्येन केनचिद् रक्तधातुना । सर्वं जपावसानं तु कृत्वा होमं समाचरेत् ॥ १९५ ॥ घृतैस्तिलैस्तु पूर्वोक्तैः शर्कराबदरान्वितैः । दत्त्वा पूर्णाहुतिं कुर्यात् सेचनं शर्कराम्भसा ॥ १९६ ॥ पूर्ववन्मन्त्रनाथस्य साध्यगर्भीकृतस्य च । ततः पूर्वोक्तविधिना बलिकर्म समाचरेत् ॥ १९७ ॥ सप्तरात्रं त्रिरात्रं वा पुष्टिरुत्पद्यते महत् । प्रभावान्मन्त्रराज्यस्य विधिनानेन सर्वदा ॥ १९८ ॥ अथ पौष्टिकविधिमाह—पौष्टिकं च निबोधतु इत्यारभ्य विधिनानेन सर्वदे- त्यन्तम् । नाम = साध्यनामधेयम् । पूर्ववत् पद्मगर्भस्थं लिखेत्, कर्णिकामध्ये लिखे- दित्यर्थः । नेमेरेकोनविंशाख्यवर्णस्य बकारस्य नाभितृतीयं बीजं लकारं पञ्चमारगम् उकारमरान्तपूर्वेणानुस्वारेण बाह्याद् दशादिना टकारेणेत्यर्थः । नाभितुर्यासनस्थितं पूर्ववद् वकारस्योपरि स्थितं बीजं नृसिंहबीजं तदन्तस्थं न्यसेत्, कर्णिकामध्ये विलिखेदित्यर्थः । नाभिसप्तमगर्भे = सकारगर्भे इत्यर्थः । बीजं = नृसिंहबीजम् । पुष्टिपदोपेतं कुरुवीप्सासमन्वितं 'पुष्टिं कुरु कुरु' इत्यनेनान्वितमित्यर्थः । तथा च प्रयोगः—कुङ्कुमक्षोदमिश्रेण कुसुम्भरजसा पूर्ववन्मण्डलमालिख्य रक्त- चन्द्रकभूषितं कृत्वां कुम्भस्थापनादिकं सर्वं पूर्ववत् कृत्वोपकुम्भाष्टकं तु नीवारतण्डुलै-