भारतकोश
श्रीरामचरितमानस

श्रीरामचरितमानस

Shri Ramcharitmanas

गोस्वामी तुलसीदास द्वारा

स्रोत: Gita Press Gorakhpur · Gita Press Gorakhpur (उद्गम)

DevanagariHindipublished1,058 पृष्ठ

पृष्ठ 16, कुल 1058 में से

संदर्भ में पढ़ें
पृष्ठ 16

[१४]

अथ प्रधानपूजा च कर्तव्या विधिपूर्वकम्। पुष्पाञ्जलिं गृहीत्वा तु ध्यानं कुर्यात्परस्य च ॥ ८ ॥ रक्ताम्भोजदलाभिरामनयनं पीताम्बरालङ्कृतं श्यामाङ्गं द्विभुजं प्रसन्नवदनं श्रीसीतया शोभितम्। कारुण्यामृतसागरं प्रियगणैर्भ्रात्रादिभिर्भावं वन्दे विष्णुशिवादिसेव्यमनिशं भक्तेष्टसिद्धिप्रदम् ॥ ९ ॥ आगच्छ जानकीनाथ जानक्या सह राघव। गृहाण मम पूजां च वायुपुत्रादिभिर्युतः ॥ १० ॥

इत्यावाहनम्

सुवर्णरचितं राम दिव्यास्तरणशोभितम्। आसनं हि मया दत्तं गृहाण मणिचित्रितम् ॥ ११ ॥

इति षोडशोपचारैः पूजयेत्

ॐ अस्य श्रीमन्मानसरामायणश्रीरामचरितस्य श्रीशिवकाकभुशुण्डियाज्ञवल्क्यगोस्वामितुलसीदासा ऋषयः श्रीसीतारामो देवता श्रीरामनाम बीजं भवरोगहरी भक्तिः शक्तिः मम नियन्त्रिताशेषविघ्नतया श्रीसीतारामप्रीतिपूर्वकसकलमनोरथसिद्ध्यर्थं पाठे विनियोगः।

अथ आचमनम्

श्रीसीतारामाभ्यां नमः। श्रीरामचन्द्राय नमः। श्रीरामभद्राय नमः। इति मन्त्रत्रितयेन आचमनं कुर्यात्। श्रीयुगलबीजमन्त्रेण प्राणायामं कुर्यात्॥

अथ करन्यासः

जग मंगल गुनग्राम राम के। दानि मुक्ति धन धरम धाम के॥ अङ्गुष्ठाभ्यां नमः।

राम राम कहि जे जमुहाहीं। तिन्हहि न पाप पुंज समुहाहीं॥ तर्जनीभ्यां नमः।

राम सकल नामन्ह तें अधिका। होउ नाथ अघ खग गन बधिका॥ मध्यमाभ्यां नमः।

उमा दारु जोषित की नाई। सबहि नचावत रामु गोसाई॥ अनामिकाभ्यां नमः।

सनमुख होइ जीव मोहि जबहीं। जन्म कोटि अघ नासहि तबहीं॥ कनिष्ठिकाभ्यां नमः।