वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)
Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary
भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा
पृष्ठ 195, कुल 835 में से
संदर्भ में पढ़ें( १४४ ) सिद्धान्तकौमुद्याम्- वक्तव्यम् * ॥ सुकेशमानिनी ॥ जातेश्च ।६।३।४१ ॥ जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् ॥ शूद्राभार्यः । ब्राह्मणीभार्यः ॥ सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्ति- कमित्यत्र 'भस्याढे-'इति तु भवत्येव ॥ संख्येयाऽव्ययासन्नादूराधिकसंख्याः संख्येये ।२।२।२५ ॥ संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः ॥ दशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः ॥ 'बहुव्रीहौ संख्येये' इति वक्ष्यमाणो डच् ॥ ति विंशतेर्डिति ।६।४।१४२ ॥ विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति ॥ आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः ॥ अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । द्विरा- वृत्ता दश द्विदशाः