भारतकोश
संग्रह पर लौटें

वैयाकरण सिद्धान्त कौमुदी (भट्टोजि दीक्षित - बालमनोरमा व तत्त्वबोधिनी टीका सम्पूर्ण पूर्वार्ध)

Vaiyakarana Siddhanta Kaumudi of Bhattoji Dikshita with Commentary

भट्टोजि दीक्षित (टीकाकार: वासुदेव दीक्षित एवं ज्ञानेन्द्र सरस्वती) द्वारा

DevanagariHindipublished835 पृष्ठ

( १४४ ) सिद्धान्तकौमुद्याम्- वक्तव्यम् * ॥ सुकेशमानिनी ॥ जातेश्च ।६।३।४१ ॥ जातेः परो यः स्त्रीप्रत्ययस्तदन्तं न पुंवत् ॥ शूद्राभार्यः । ब्राह्मणीभार्यः ॥ सौत्रस्यैवायं निषेधः । तेन हस्तिनीनां समूहो हास्ति- कमित्यत्र 'भस्याढे-'इति तु भवत्येव ॥ संख्येयाऽव्ययासन्नादूराधिकसंख्याः संख्येये ।२।२।२५ ॥ संख्येयार्थया संख्ययाऽव्ययादयः समस्यन्ते स बहुव्रीहिः ॥ दशानां समीपे ये सन्ति ते उपदशाः । नव एकादश वेत्यर्थः ॥ 'बहुव्रीहौ संख्येये' इति वक्ष्यमाणो डच् ॥ ति विंशतेर्डिति ।६।४।१४२ ॥ विंशतेर्भस्य तिशब्दस्य लोपः स्याड्डिति ॥ आसन्नविंशाः । विंशतेरासन्ना इत्यर्थः ॥ अदूरत्रिंशाः । अधिकचत्वारिंशाः । द्वौ वा त्रयो वा द्वित्राः । द्विरा- वृत्ता दश द्विदशाः

व्रीह्यवयवस्य सहस्य सः स्याद्वा ॥ पुत्रेण सह सपुत्रः सहपुत्रो वा आगतः ॥ तुल्ययोगवचनं प्रायिकम् । सकर्मकः । सलोमकः ॥ प्रकृत्याशिषि ।६।३।८३ ॥ सहशब्दः प्रकृत्या स्यादा- शिषि ॥ स्वस्ति राज्ञे सहपुत्राय सहामात्याय ॥ अगोवत्सहलेष्विति वाच्यम् * ॥ सगवे । सवत्साय । सहलाय ॥ बहुव्रीहौ संख्येये डजबहुगणात् ।५।४।७३ ॥ संख्येये यो बहुव्रीहिस्तस्माड्डच् स्यात् ॥ उपदशाः ॥ अबहुगणात्किम् ? उपबहवः । उपगणाः । अत्र स्वरे विशेषः ॥ संख्यायास्तत्पुरुषस्य वाच्यः * ॥ निर्गतानि त्रिंशतो निर्त्रिंशानि वर्षाणि चैत्रस्य । निर्गतत्रिंशतोऽङ्गुलिभ्यो निर्त्रिंशः खड्गः ॥ बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गा- त्षच् ।५।४।११३ ॥ व्यत्ययेन षष्ठी । स्वाङ्गवाचिसक्थ्यक्ष्यन्ताद्बहुव्रीहेः षच् स्यात् ॥ दीर्घे सक्थिनी यस्य स दीर्घसक्थः । जलजाक्षी ॥ स्वाङ्गात्किम् ? दीर्घसक्थि शकटम् । स्थूलाक्षा वेणुयष्टिः । अक्ष्णोऽदर्शनादित्यच् ॥ अङ्गुलेर्दारुणि ।५।४।११४ ॥ अङ्गुल्यन्ता- द्वहुव्रीहेः षच् स्याद्दारुण्यर्थे ॥ पञ्चाङ्गुलयो यस्य तत्पञ्चाङ्गुलं दारु । अङ्गुलिसदृशा- वयवं धान्यादिविक्षेपणकाष्ठमुच्यते ॥ बहुव्रीहेः किम् ? द्वे अङ्गुली प्रमाणमस्या द्व्यङ्गुला यष्टिः । तद्धितार्थे तत्पुरुषे 'तत्पुरुषस्याङ्गुलेरित्थच् ॥ दारुणि किम् ? पञ्चाङ्गुलिर्हस्तः ॥ द्वित्रिभ्यां ष मूर्ध्नः ।५।४।११५ ॥ आभ्यां मूर्ध्नः षः स्याद्बहुव्रीहौ ॥ द्विमूर्धः । त्रिमूर्धः । नेतुर्नक्षत्रेऽब्वक्तव्यः * ॥ मृगो नेता यासां ताः मृगनेत्रा रात्रयः । पुष्यनेत्राः ॥ अन्तर्बहिर्भ्यां च लोम्नः ।५।४।११७ ॥ आभ्यां लोम्नोऽप्स्याद्बहुव्रीहौ ॥ अन्त- र्लोमः । बहिर्लोमः ॥ अच् नासिकायाः संज्ञायां नसं चास्थूलात् ।५।४।११८ ॥ नासिकान्ताद्बहुव्रीहेरच् स्यात् नासिकाशब्दश्च नसं प्राप्नोति नतु स्थूलपूर्वात् ॥ पूर्व- पदात्संज्ञायामगः ।८।४।३ ॥ पूर्वपदस्थान्निमित्तात्परस्य नँस्य णः स्यात्संज्ञायां न तु गकारव्यवधाने ॥ द्रुरिव नासिकाऽस्य द्रुणसः ॥ अगः किम् ? ऋचामयनं ऋगयनम् । १ 'सह सादृश्यसंबन्धयौगपद्यसमृद्धिषु । साकल्ये विद्यमाने च' इति कोशोक्तेष्वर्थेषु यौगपद्य एव बहुव्रीहि- विधानाद् एककाल एकक्रियान्वयित्वमेव यौगपद्यं तुल्ययोगपर्यायं सकर्मक इत्यादौ न संभवति धातुकर्मणोरे- कक्रियान्वयित्वाभावादत आह-तुल्ययोगेति । प्रायिकमिति । तेन क्वचिद्विद्यमानार्थकस्यापि समासो भवत्येवेत्युदाहरति-सकर्मक इति । विद्यमानकर्मक इत्यर्थः ॥ विद्यमानार्थकसहशब्देन सामानाधिकरणेन 'अनेकमन्यपदार्थे' इति समासेन प्रायिकत्वकथनं चिन्त्यप्रयोजनम् ॥ 'वोपसर्जनस्य' इत्यत्र प्रतिपदोक्तपरिभाषा तु नैव प्रवर्तते 'सपूर्वस्य' 'सपूर्वायाः' इत्यादिनिर्देशात् ॥ २ स्वरे विशेष इति ॥ डचि सति 'चितः इत्यन्तोदात्तत्वं स्यात्, असति पूर्वपदप्रकृतिस्वरो भवतीति भावः ॥ ३ पञ्चम्यर्थे सप्तमी । नक्षत्रशब्दस्य तद्विशेषपरत्वं व्याख्यानात् । पञ्चम्या 'तस्मादित्युत्तरस्य' इति 'उत्तरपदोपस्थितौ' 'नक्षत्रविशेषवाचकादनन्तरो- त्तरो यो नेतृशब्दः तदन्ताद् बहुव्रीहेरप् स्यात् इत्यर्थः ॥ ४ 'तस्मादित्युत्तरस्य' इति परिभाषया उत्तर- पदोपस्थानेन 'स्थूलभिन्नादनन्तरोत्तरो यो नासिकाशब्दस्तदन्तात्' इत्यर्थफलितमाह-नतु स्थूलपूर्वादिति ॥ ५ यत् प्रति पूर्वपदम् तत्तस्य नेत्य चेत् तर्हि संज्ञायामेव' इति नियमेन तद्धितनकारस्य 'खारपायणः' इत्यत्र णत्वं भवत्येव ॥ ६ संज्ञायामिति । णत्वेन चेत् संज्ञा रूढ्यर्थो गम्यत इत्यर्थः । 'संज्ञाशब्दा अनादिप्रयु- क्तनियतानुपूर्वाका एव सिद्धाः तत्रेदानं कस्तद्विपरीतं प्रयोक्तुमर्हति' इत्यभियुक्ताः ॥ रघुनाथादिशब्देषु तु संज्ञाभङ्गभयादेव न णत्वम् ॥ १०

“अणुपगयनादिभ्य' इति निपातनात् णत्वाभावमाश्रित्य अग इति प्रत्याख्यातं भाष्ये ॥ अस्थूलात्किम् ? स्थूलनासिकः ॥ खुरखराभ्यां [ वा ] नँस् * ॥ खुरणाः । खरणाः ॥ [ पक्षे अजपीष्यते * ॥ खुरणसः । खरणसः ॥ ] उपसर्गाच्च । ५।४।११९ ॥ प्रादेर्यो नासिकाशब्दस्तदन्ताद्वहुव्रीहेरच् नासिकाया नसादेशश्च । असंज्ञार्थं वचनम् । उन्नता नासिका यस्य स उन्नसः ॥ उपसर्गादनोत्परः । ८।४।२८ ॥ इति सूत्रम् ॥ तद्भङ्क्त्वा भाष्यकार आह—‘उपसर्गाद्बहुळम्’ उपसर्गात्स्थानिमित्तात्परस्य नँसो नस्य णः स्याद्बहुळम् । प्रणसः ॥ वेग्रों वक्तव्यः * ॥ विगता नासिकाऽस्य विग्रः ॥ ख्यश्च * ॥ विख्यः । कथं तर्हि 'विनसा हतबान्धवेति भट्टिः ? विर्गतया नासिकयोपलक्षितेति व्याख्येयम् ॥ सुप्रतसुश्वसुदिवशा- रिकुक्षचतुरश्रैणीपदाजपद्मोष्ठपदाः । ५।४।१२० ॥ एते बहुव्रीहावच्प्रत्ययान्ता निपा- त्यन्ते । शोभनं प्रातरस्य सुप्रतः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारिरेव कुक्षिरस्य शारिकुक्षः । चतस्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणी- पदः । अजपदः । प्रोष्ठो गौः तस्येव पादावस्य प्रोष्ठपदः ॥ नञ्दुःसुभ्यो हलि सक्थ्यो- रन्यतरस्याम् । ५।४।१२१ ॥ अच् स्यात् । अह्लः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् ॥ शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥ नित्यमसिच् प्रजा- मेधयोः । ५।४।१२२ ॥ नञ्दुःसुभ्य इत्येव ॥ अप्रजाः । दुष्प्रजाः । सुप्रजाः । अमेधाः । दुर्मेधाः । सुमेधाः ॥ धर्मादनिच्केवलात् । ५।४।१२४ ॥ केवलात्पूर्वपदात्परो यो धर्मश- ब्दस्तदन्ताद्वहुव्रीहेरनिच् स्यात् ॥ कल्याणधर्मा ॥ केवलात्किम् ? परमः स्वो धर्मो यस्येति

१ एवं च प्रागयनम् ऋग्भवनम् इत्यादीनां सत्त्वे 'अविहितलक्षणो णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः' इति भाष्योक्तेः क्षुभ्नादित्वं कल्पनीयं येनारम्भप्रत्याख्यानयोः फलभेदो न स्यादिति भाष्याशयः ॥ २ केवलादेशवि- धानं प्रत्ययनिवृत्त्यर्थमिति बोध्यम् ॥ 'निर्दिष्टस्यान्यस्यादेशा भवन्ति' इति न तदन्तस्य सर्वस्यादेश इति भावः ॥ ३ भाष्ये तु वार्तिके वाशब्दो न दृश्यते इति अजन्तोदाहरणे अपि न दृश्येते इति बोध्यम् ॥ ४ "बर्हि- र्धिनुस्वभावाम्बत्वस्वाङ्गादिस्वरनत्वेषु वचनप्रामाण्यात् सिद्धम्” इति "गतिश्च" इति सूत्रवार्ति- केनोपसर्गग्रहणं स्वसंज्ञिप्रादिवोधकमेवेति बोध्यते इत्याह-प्रादेरिति ॥ ५ ‘प्रणो नय’ ‘प्रनः पूषा’ इत्यादावव्याप्त्यतिव्याप्तिपरिहाराय 'अनोत्परः' इति पदं त्यक्त्वा 'बहुळम्' इत्येतत् तत्स्थाने दत्त्वा' इत्यर्थः । ६ उक्तवार्तिकप्रामाण्येनात्राप्युपसर्गपदं प्रादिपरमेवेति न विस्मर्त्तव्यम् ॥ ७ 'नस्' इत्येतदत्र सूत्रे 'नश्च धातुस्थोरुषुभ्यः' इति पूर्वसूत्रे च तन्त्रेण नासिकाशब्दादेशस्यास्मच्छब्दादेशस्य चानुकरणमिति बोध्यम् ॥ ८ 'हतबान्धवा' इति प्रथमान्तसमभिव्याहाराद् 'विनसा' इति प्रथमान्तमुचितम्—तत्र समासान्तादेशौ बाधित्वा ग्रादेशेन ख्यादेशेन वा भवितव्यमिति शङ्कते—कथं तर्हीति ॥ ९ नायं बहुव्रीहिः येनोक्तादेशापत्तिः स्यात् । किंतु 'प्रादयो गताद्यर्थे' इति तत्पुरुषे 'इत्थंभूतलक्षणे च' इति तृतीयान्तमेतत् । तत्र 'पद्दन्०' इति नासिकाया नस् इति समाधानम् ॥ १० अच्प्रत्ययमात्रं निपात्यते । सुप्रतादिषु त्रिषु 'अव्ययानां भमात्रे' इति टिलोपः, शारिकुक्षाद्योर्द्वयोः 'यस्येति च' इतीकारलोपः । एणीपदादिषु 'पादः पद्' इति पद्भावः सिद्ध एवेति बोध्यम् ॥ ११ पञ्चम्यर्थे षष्ठीति बोध्यम् ॥ १२ 'शक्त्योः' इति केचित्पठन्ति' इति काशिका ॥ 'शुक्त्योः' इति केचित्पठन्ति' इति पदमञ्जरी ॥ परंतु 'अशक्तः' इति शक्तशब्देन 'अशुक्तः' इति शुक्तशब्दे- नापि सिद्धौ व्यर्थ एव तथा पाठ इति ध्येयम् ॥

त्रिपदे बहुव्रीहौ मा भूत् । स्वशब्दो हीह न केवलं पूर्वपदं किंतु मध्यमत्वादापेक्षिकम् ॥ संदिग्धसाध्यधर्मेत्यादौ तु कर्मधारयपूर्वपदो बहुव्रीहिः एवं तु परस्वधर्मेत्यपि साध्येव निवृत्ति- धर्मा अनुच्छित्तिधर्मेत्यादिवत् । पूर्वपदं तु बहुव्रीहिणाऽक्षिप्यते ॥ जम्भा सुहरिततृणसोमेभ्यः ।५।४।१२५ ॥ जम्भेति कृतसमासान्तं निपात्यते ॥ 'जम्भो भक्ष्ये दन्ते च' । शोभनो जम्भोऽस्य सुजम्भा । हरितजम्भा तृणं भक्ष्यं यस्य तृणमिव दन्ता यस्येति वा तृणजम्भा । सोमजम्भा ॥ स्वादिभ्यः किम् ? पतित्जम्भा ॥ दक्षिणेर्मा लुब्धयोगे ।५।४।१२६ ॥ दक्षिणे ईर्मं व्रणं यस्य दक्षिणेर्मा मृगः । व्याधेन कृतव्रण इत्यर्थः ॥ इच् कर्मव्यतिहारे । ५।४।१२७ ॥ कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः ॥ केशाकेशि । मुस- लामुसलि ॥ ^Aद्विदण्डादिभ्यश्च ।५।४।१२८ ॥ तादर्थ्ये चतुर्थ्येषा । एषां सिद्धयर्थ- मिच् प्रत्ययः स्यात् ॥ द्वौ दण्डौ यस्मिन्प्रहरणे तद् द्विदण्डि प्रहरणम् । द्विमुसलि । उभा- हस्ति । उभयाहस्ति ॥ प्रसंभ्यां जानुनोर्ज्ञुः ।५।४।१२९ ॥ आभ्यां परयोर्जानुशब्दयो- र्जुरादेशः स्याद्बहुव्रीहौ ॥ प्रगते जानुनी यस्य प्रज्ञुः । संज्ञुः ॥ ऊर्ध्वाद्दिभाषा ।५।४। १३० ॥ ऊर्ध्वज्ञुः । ऊर्ध्वजानुः ॥ धनुषश्च ।५।४।१३२ ॥ धनुरन्तस्य बहुव्रीहेरनङादेशः स्यात् ॥ शार्ङ्गधन्वा ॥ वा संज्ञायाम् ।५।४।१३३ ॥ शतधन्वा । शतधनुः ॥ जायाया निङ् ।५।४।१३४ ॥ जायान्तस्य बहुव्रीहेर्निङादेशः स्यात् ॥ लोपो व्योर्वलि ।६।१।६६ ॥


A द्विदण्डि, द्विमुसलि, उभाञ्जलि, उभयाञ्जलि, उभादन्ति, उभयादन्ति, उभाहस्ति, उभयाहस्ति, उभाकर्णि, उभयाकर्णि, उभापाणि, उभयापाणि, उभाबाहु, उभयाबाहु, एकपदि, प्रोष्ठपदि, आश्वपदि, सपदि, निकुच्यकर्णि, संहतपुच्छि, अन्तेवासि । इति द्विदण्ड्यादिः ॥


१ 'राजाहःसखिभ्यः' इत्यादाविव 'धर्मादनिच्' इत्येवेष्टसिद्धावपि धर्मशब्दे यदुत्तरत्वमपेक्ष्यते तत्र पूर्वस्मिन् केवलत्वं सजातीयान्यरहितत्वेन नियतत्वं परत्वसामानाधिकरणत्वमेव यदा भवेत् तदैव धर्म- शब्दान्ताद् अनिच् स्याद् इति बोधयितुं 'केवलात्' इति पदम् । तथा च 'केवलात्' इति पञ्चम्या 'तस्मा- दित्युत्तरस्य' इति परिभाषया उत्तरपदोपस्थितौ उत्तरत्वस्य पूर्वसापेक्षत्वादेव 'पूर्वात्' इत्यस्याक्षेपः । तथा च परत्वसामानाधिकरणपूर्वत्वविशिष्टान् उत्तरो यो धर्मशब्दः तदन्तबहुव्रीहियोग्यालौकिकप्रक्रियावाक्यस्या- न्तावयवोऽनिच् स्यादिति सूत्रार्थसंपत्तौ केवलपदव्यावर्त्यव्यावृत्तिरीतिमुपपादयति—स्वशब्दो हीति । केवलं पूर्वपदं नियतपूर्वत्वविशिष्टपदम् इत्यर्थः ॥ मध्यमत्वात् परत्वसामानाधिकरणत्वात् आपेक्षिकं वैवक्षिकमित्यर्थः ॥ २ अनेकपदानामेव बहुव्रीह्यङ्गीकारात् 'धर्मशब्दान्ताद् बहुव्रीहेः' इत्यर्थे तदैव धर्मशब्दोऽन्ते भवति यदि किंचिदन्यत् पदं पूर्वमपि भवेदिति भावः ॥ ३ समासान्तमिति । अनिच्प्रत्ययान्तमिति भावः ॥ ४ प्रकृतानुपयुक्तत्वादैत्यविशेषजम्बीरौ द्वावर्थौ न निर्दिष्टौ ॥ ५ 'अनिच्प्रत्ययान्त एवेति बोध्यम् ॥ ६ प्रसमुत्तरजानुशब्दकबहुव्रीहौ जानुशब्दस्य ज्ञुरादेश इत्यर्थः ॥ “जानुनोरिति द्विवचनमर्थगतं द्वित्व- मारोप्य पञ्चमीभ्रमनिवृत्तये” ॥ 'उपज्ञु बाधो नमसा सदेम' इत्यत्र वेदे तु 'तत्त्वा यामि' इत्यत्र चालोप इव मध्यस्थाकारलोपेन वैदिकेन कथमसाधुत्वमिति भावः ॥

वेकारयकारयोर्लोपः स्याद्वलि ॥ पुंवद्भावः । युवतिर्जाया यस्य युवजानिः । गन्धस्ये- दुत्पूतिसुसुरभिभ्यः ।५।४।१३५ ॥ एभ्यो गन्धस्य इकारोऽन्तादेशः स्यात् ॥ उद्गन्धिः । पूतिगन्धिः । सुगन्धिः । सुरभिगन्धिः ॥ गन्धस्येत्त्वे तदेकान्तग्रहणम् * ॥ एकान्त एक- देश इव अविभागेन लक्ष्यमाण इत्यर्थः । सुगन्धि पुष्पं सलिलं च । सुगन्धिर्वायुः ॥ नेह- शोभना गन्धाः द्रव्याण्यस्य सुगन्ध आपणिकः ॥ अल्पाख्यायाम् ।५।४।१३६ ॥ सूपस्य गन्धो लेशो यस्मिंस्तत् सूपगन्धि भोजनम् । घृतगन्धि । 'गन्धो गन्धक आमोदे लेशे संबन्धगर्वयोरिति विश्वः ॥ उपमानाच्च ५।४।१३७ ॥ पद्मस्येव गन्धोऽस्य पद्मगन्धि ॥ पादस्य लोपोऽहस्त्यादिभ्यः ^A ।५।४।१३८ ॥ हस्त्यादिवर्जितादुपमानात्परस्य पादश- ब्दस्य लोपः स्याद्बहुव्रीहौ ॥ स्थानिद्वारेणायं समासान्तः । व्याघ्रस्येव पादावस्य व्याघ्रपात् ॥ अहस्त्यादिभ्यः किम् ? हस्तिपादः । कुसूलपादः ॥ ^Bकुम्भपदीषु च ५।४।१३९ ॥ कुम्भ- पदादिषु पादस्य लोपो ङीप् च निपात्यते स्त्रियाम् ॥ पादः पत् ॥ कुम्भपदी ॥ स्त्रियां किम् ? कुम्भपादः ॥ संख्यासुपूर्वस्य ।५।४।१४० ॥ पादस्य लोपः स्यात्समासान्तो बहुव्रीहौ ॥ द्विपात् । सुपात् ॥ वयसि दन्तस्य दतृ ।५।४।१४१ ॥ संख्यासुपूर्वस्य दन्तस्य दतृ इत्यादेशः स्याद्वयसि ॥ द्विदन् । चतुर्दन् । षट् दन्ता अस्य षोर्डन् । सुदन् । सुदती ॥ वयसि किम् ? द्विदन्तः करी । सुदन्तः ॥ स्त्रियां संज्ञायाम् । ५।४। १४३ ॥ दन्तस्य दतृ स्यात्समासान्तो बहुव्रीहौ ॥ अयोदती । फालदती ॥ संज्ञायां किम् ? सम- दन्ती ॥ विभाषा श्यावारोकाभ्याम् ।५।४।१४४ ॥ दन्तस्य दतृ वा बहुव्रीहौ ॥ श्याव- दन् । श्यावदन्तः । अरोकदन् । अरोकदन्तः ॥ अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च ।५।४।


A हस्तिन्, कुद्दाल, अश्व, कशिक, कुह्रत, कटोल, कटोलक, गण्डोल, गण्डोलक, कण्डोल, कण्डोलक, अज, कपोल, जाल, गण्ड, महेला, दासी, गणिका, कुसूल । इति हस्त्यादिः ॥ B कुम्भपदी, एकपदी, जालपदी, मुनिपदी, शूलपदी, गुणपदी, शतपदी, सूत्रपदी, गोधापदी, कलशीपदी, चिपदी, द्विपदी, त्रिपदी, षट्पदी, दासीपदी, तृणपदी, शितपदी, विष्णुपदी, सुपदी, निष्पदी, आर्द्रपदी, कुणिपदी, कृष्णपदी, शुचि- पदी, द्रोणीपदी, द्रुपदी, सूकरपदी, शकृत्पदी, अष्टापदी, स्थूणापदी, आपदी, सूचीपदी । इति कुम्भपद्यादिः ॥


१ यद्यपि भाष्ये 'अनारम्भो वा पुनर्बलोपस्य न्याय्यः' इत्युक्त्वा 'कथमस्रेमाणं जीरदानु- रिति' इति शङ्कायाः 'अस्रेमाणं जीरदानुरिति छान्दसाद्वर्णलोपात् सिद्धम्' इति समा- धानेन वकारप्रत्याख्यानमेव लभ्यते तथापि 'व्यङ्ग्लोपवचनं च' इत्यत्र वकारग्रहणादपि सूत्रकृता वकार उपात्त एवेति यथान्याससूत्रानुसारेणैव व्याचष्टे-वकारयकारयोरिति ॥ २ पूर्वोत्तरयोर्डित्त्वसामर्थ्येना- देशांत्वनिश्चयेऽस्येकारस्य प्रत्ययत्वे 'यस्येति च' इत्यकारलोपेनेष्टसिद्धावपि लोपविधाने गौरवापत्त्या प्रक्रम- भङ्गापत्त्या चास्यादेशत्वमेवाङ्गीकृतं लाघवात् । तदा 'आदेः परस्य' इति तु न प्रवर्तते 'समासान्ताः' इत्यधि- कारैकवाक्यत्वात् ॥ ३ बहुव्रीह्यर्थान्यपदार्थे इत्यादिः ॥ ४ 'गन्धस्तु सौरभे नृत्ये गन्धकेऽगर्वलेशयोः । स एव द्रव्यवचनो बहुत्वे पुंसि च स्मृतः ॥' इति कोशाद्बहुवचनान्तो गन्धशब्दः ॥ ५ लोपस्याभावरूपत्वेन कथमवयवतेत्यत आह-स्थानिद्वारेणेति ॥ स्थानिगतमवयवत्वं लोपे आरोप्यते इति भावः ॥ ६ 'षष उत्वं दतृदशसुत्तरपदादेः ष्टुत्वं च' इति उत्वष्टुत्वे ॥

बहुव्रीहिसमासप्रकरणम् । ( १४९ ) १४५ ॥ एभ्यो दन्तस्य दत् वा ॥ कुड्‌मलाग्रदन् । कुड्‌मलाग्रदन्तः ॥ ककुदस्या- वस्थायां लोपः ।५।४।१४६ ॥ अजातककुत् । पूर्णककुत् ॥ त्रिककुत्पर्वते ।५।४। १४७ ॥ त्रीणि ककुदान्यस्य त्रिककुत् । संज्ञाया पर्वतविशेषस्य । त्रिककुदोऽन्यः ॥ उद्दिभ्यां काकुदस्य ।५।४।१४८ ॥ लोपः स्यात् ॥ उत्काकुत् । विकाकुत् । काकुदं तालु ॥ पूर्णाद्विभाषा । ५ । ४ । १४९ ॥ पूर्णकाकुत् । पूर्णकाकुदः ॥ सुहृद्दुर्हृदौ मित्रामित्रयोः ।५।४।१५० ॥ सुदुर्भ्यां हृदयस्य हृद्भावो निपात्यते ॥ सुहृन्मित्रम् । दुर्हृद- मित्रः । अन्यत्र सुहृदयः । दुर्हृदयः ॥ उरः^Aप्रभृतिभ्यः कप् ।५।४।१५१॥ व्यूढोरस्कः । प्रियसर्पिष्कः । इह पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीरिति एकवचनान्तानि पठ्यन्ते । द्विव- चनबहुवचनान्तेभ्यस्तु ‘शेषाद्विभाषेति विकल्पेन कप्-द्विपुमान् । द्विपुंस्कः ॥ अर्थान्नञः*॥ अनर्थकम् ॥ नञः किम् ? अपार्थम् । अपार्थकम् ॥ इनः स्त्रियाम् ।५।४।१५२ ॥ बहुदण्डिका नगरी ॥ अनिनस्मन्ग्रहणान्यर्थवता चानर्थकेन च तदन्तविधिं प्रयोजयन्ति ॥ बहुवाग्ग्मिका ॥ स्त्रियां किम् ? बहुदण्डी बहुदण्डिको ग्रामः ॥ शेषाद्विभाषा ।५।४।१५४॥ अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कप् वा स्यात् ॥ महायशस्कः । महायशाः ॥ अनु- क्तेत्यादि किम् ? व्याघ्रपात् । सुगन्धिः । प्रियपथः ॥ शेषाधिकारस्थात्किम् ? उपबहवः । उत्तरपूर्वा । सपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः ॥ आपोऽन्यतरस्याम् ।७।४।१५ ॥ कप्याबन्तस्य ह्रस्वो वा स्यात् ॥ बहुमालाकः । बहुमालकः । कबभावे बहुमालः ॥ न संज्ञायाम् ।५।४।१५५ ॥ शेषादिति प्राप्तः कप् न स्यात्संज्ञायाम् ॥ विश्वे देवा अस्य विश्व- देवः ॥ ईयसश्च ।५।४।१५६ ॥ ईय्सन्तोत्तरपदान्न कप् ॥ बहवः श्रेयांसोऽस्य बहुश्रेयान् ॥ गोस्त्रियोरिति ह्रस्वे प्राप्ते-॥ ईयसो बहुव्रीहेर्नेति वाच्यम् * ॥ बह्वयः श्रेयस्योऽस्य बहुश्रे- यसी ॥ बहुव्रीहेः किम् ? अतिश्रेयसिः ॥ वन्दिते भ्रातुः ।५।४।१५७ ॥ ^३पूजितेऽर्थे यो भ्रातृशब्दस्तदन्तान्न कप् स्यात् ॥ प्रशस्तो भ्राता यस्य प्रशस्तभ्राता । 'न पूजनादिति निषे- धस्तु ‘बहुव्रीहौ सक्थ्यक्ष्णोरित्यतः प्रागेवेति वक्ष्यते ॥ वन्दिते किम् ? मूर्खभ्रातृकः ॥ नाडी- तन्त्र्योः स्वाङ्गे ।५।४।१५९ ॥ स्वाङ्गे यौ नाडीतन्त्रीशब्दौ तदन्तात्कप् न स्यात् । बहु- नाडिः कायः । बहुतन्त्रीर्ग्रीवा । तन्त्रीधमनी । स्त्रीप्रत्ययान्तत्वाभावाद्ध्रस्वो न ॥ स्वाङ्गे किम् ? बहुनाडीकः स्तम्भः । बहुतन्त्रीका वीणा ॥ निष्प्रवाणिश्च ।५।४।१६० ॥ कबभावोऽत्र निपात्यते ॥ प्रपूर्वाद्वयतेर्ल्युट् । प्रवाणी तन्तुवायशलाका । निर्गता प्रवाण्यस्य निष्प्रवाणिः पटः । समाप्तवान् । नव इत्यर्थः ॥ सप्तमीविशेषणे बहुव्रीहौ ।२।२।३५ ॥ सप्तम्यन्तं विशेषणं A उरस्, सर्पिस्, उपानह्, पुमान्, अनड्वान्, पयः, नौः, लक्ष्मीः, दधि, मधु,शालि,अर्थान्नञः। इत्युरःप्रभृतयः॥ १ ‘संख्याव्यया-’ इत्यादि सूत्रेषु भाष्ये ‘कबभावार्थम्’ इति वार्तिकेन ध्वनितोऽयमर्थ इति बोध्यम् ॥ २ सकृदुच्चरितशब्देनार्थद्वयबोधनस्यैव तन्त्रत्वमिति भावः ३ पूजितेऽर्थे इति । ‘वर्तमानात्परः’ इति शेषः ॥ ४ ‘न पूजनात्’ इत्यनेनैव निषेधे सिद्धे व्यर्थमिदमितिशङ्कामपनुदति-न पूजनादितीति ॥

च बहुव्रीहौ पूर्वं प्रयोज्यम् ॥ कण्ठेकालः । अत एव ज्ञापकाद्व्यधिकरणपदो बहुव्रीहिः ॥ चित्रगुः॥ सर्वनामसंख्ययोरुपसंख्यानम् * ॥ सर्वश्वेतः । द्विशुक्लः ॥ मिथोऽनयोः २ समासे संख्या- पूर्वम् । शब्दपरविप्रतिषेधात् ॥ द्व्यन्यः ॥ संख्याया अल्पीयस्याः * ॥ द्वित्राः ॥ द्वन्द्वेऽपि । द्वादश ॥ वा प्रियस्य * ॥ गुडप्रियः । प्रियगुडः ॥ गड्डादेः परा सप्तमी * ॥ गडु- कण्ठः ॥ क्वचिन्न–प्रहेगण्डुः ॥ निष्ठा । २।२।३६ ॥ निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् ॥ कृतकृत्यः ॥ जातिकालसुखादिभ्यः परा निष्ठा वाच्या * ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥ ^Aवाहिताग्न्यादिषु । २।२।३७ ॥ आहिताग्निः । अग्न्याहितः । आकृतिगणोऽयम् ॥ प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ * ॥ अस्युद्यतः ।

दन्तानां राजानो राजदन्ताः ॥ ^Aधर्मादिष्वनियमः * ॥ अर्थधर्मौ । धर्मार्थौ । दम्पती । जम्पती । जायापती । जायाशब्दस्य जम्भावो दम्भावश्च वा निपात्येते ३ । आकृतिगणोऽयम् ४ ॥ द्वन्द्वे घि । २।२।३२ ॥ द्वन्द्वे घिसंज्ञं पूर्वं स्यात् । हरिश्च हरश्च हरिहरौ ॥ अनेकप्राप्ता- वेकत्र नियमोऽनियमः शेषे * ॥ हरिगुरुहराः । हरिहरगुरवः ॥ अजाद्यद- न्तम् । २।२।३३ ॥ इदं द्वन्द्वे पूर्वं स्यात् । ईशकृष्णौ ॥ बहुष्वनियमः । अश्वस्थेन्द्राः । इन्द्राश्वरथाः ॥ घ्यन्तादजाद्यदन्तं विप्रतिषेधेन ॥ इन्द्राग्नी ॥ अल्पाच्तरम् । २।२।३४॥ ५ शिवकेशवौ ॥ ऋतुनक्षत्राणां समाक्षराणामानुपूर्व्येण * ॥ हेमन्तशिशिरवसन्ताः । कृत्ति- कारोहिण्यौ । समाक्षराणां किम् ? ग्रीष्मवसन्तौ ॥ लघ्वक्षरं पूर्वम्* ॥ कुशकाशम् ॥ अभ्यर्हितं च * ॥ तापसपर्वतौ ॥ वर्णानामानुपूर्व्येण * ॥ ब्राह्मणक्षत्रियविट्शूद्राः ॥ भ्रातुर्ज्यायसः* ॥ युधिष्ठिरार्जुनौ ॥ द्वन्द्वश्च प्राणितूर्यसेनाङ्गानाम् ।२।४।२ ॥ एषां द्वन्द्व एकवत्स्यात् ॥ पाणिपादम् । मार्दङ्गिकपाणविकम् ॥ रथिकाश्वारोहम् ॥ समाहारस्यैकत्वादेकत्वे सिद्धे निय- A धर्मादिषूभयम् * अर्थधर्मौ, धर्मार्थौ, अर्थशब्दौ, शब्दार्थौ, अर्थकामौ, कामार्थौ, वैकारिमतम्, गोज- वाजम्, गोपालधानीपुलासम्, पूलासककरण्डम्, स्थूलपूलासम्, स्थलपूलासम्, उशीरबीजम्, सिद्धास्थम्, चित्रास्वाती, भार्यापती, दम्पती, जम्पती, जायापती, पुत्रपती, पुत्रपशू, केशश्मश्रू, शिरोबीजम्, शिरोजानु, सर्पिर्मधुनी, मधुसर्पिषी, आद्यन्तौ, अन्तादी, गुणवृद्धी, वृद्धिगुणौ । आकृतिगणोऽयं राजदन्तादिः ॥ १ ‘राजदन्तास्तु चत्वारो दशनानां पुरःस्थिताः’ इति त्रिकाण्डशेषः ॥ हैमे तु-‘राजदन्तौ तु मध्यस्थावुपरिश्रेणिकौ क्वचित् ॥’ इत्युपलभ्यते ॥ २ “अल्पाच्तरम्” इति सूत्रभाष्यनिर्दिष्टं ‘धर्मादिषूभयम्’ इति वार्तिकं राजदन्तान्तर्गतसूत्रं मत्वा तदर्थमाह-धर्मादिष्वनियम इति ॥ ३ निपात्यत इति । राजदन्तादिगणे पाठेनेति शेखरकृत् ॥ धर्मादिगणे पाठेनेति दाधिमथाः ॥ ४ अयमिति । राजदन्तादिरित्यर्थ इति शेखरकृत् ॥ धर्मादिरित्यर्थ इति दाधिमथाः ॥ ५ अल्पाच्तरम् । ‘ऐऔच्’ इति सूत्रे निर्देशादेवेत्संज्ञकचकारस्य कुत्वस्थानित्वाभावनिपातनमिव ष्टुत्वनि- मित्त्वाभावनिपातनमप्येतन्निर्देशादेव निश्चीयते । अत एव ‘अच्त्वम्’ ‘अनच्त्वम्’ ‘अकच्स्वरौ’ इत्यादयो भाष्यप्रयोगाः ‘अच्ंसंधिः’ इत्यादयोपि प्रयोगाः ॥ एवं च ‘अक्षु’ ‘एक्षु’ इत्यत्र भाष्यप्रयोगे तु कुत्वं कैश्चित्पण्डितप्रकाण्डैः शोधितमेव भवेदिति दाधिमथानां निश्चयः ॥ ६ ननु समाहारे द्वन्द्वे समाहार- स्यैकत्वादेवैकवद्भावे सिद्धे इदं प्रपञ्चार्थं व्यर्थमिति शङ्कायामाह-नियमार्थमिति । ‘प्राण्यङ्गादीनामेव समाहारः’ इति विपरीतनियमस्तु न ‘संज्ञापरिभाषम्’ इत्यसिद्ध्यापत्तेः ॥ ‘तिष्यपुनर्वस्वोः-’ इति सूत्रे बहुवचनग्रहणात् । तद्धि ‘तिष्यपुनर्वसु’ इति समाहारैकवचनस्य मा भूत् इति कृतम् इति मनोरमाशयश्चिन्त्यः । उक्तविपरीत-- नियमे ‘तिष्यपुनर्वसु’ इत्यत्रैकवद्भावो भवति न वा । भवति चेदिष्ट्यापत्तिरेव । न भवति चेत्, कुतो न भवति प्राण्यङ्गादिष्वप्राणिजातेरप्यन्तर्भावात्प्राप्तेरव्याहतत्वात् ॥ तेन प्राण्यङ्गादीनामितरेतरयोगे द्वन्द्वो नैव भवतीति ॥ एवं च ‘जातिरप्राणिनाम्’ इत्येकवद्भावनियमेन बहुवचनस्यासंभवात् ‘तिष्यपुनर्वस्वोः-’ इति सूत्रे बहुवचनग्रह- णमनर्थकं सत् “सर्वो द्वन्द्वो विभाषयैकवद्भवति” इति परिभाषां ज्ञापयति तद्धटकसर्वशब्दस्य ‘प्राणितूर्यसेनाङ्गद्वन्द्वव्यतिरिक्तपरत्वं च । तथा चोक्तं “विभाषा वृक्ष-” इति सूत्रे भाष्ये-‘तत्तर्हि न वक्त- व्यम्’ इति शङ्कायाम् ‘वक्तव्यं च । किं प्रयोजनम् ? पूर्वत्र नित्यार्थम्, उत्तरत्र व्यभिचारा- र्थम्” इति व्याख्यातं चैतत्प्रदीपे-पूर्वत्रेति । ‘प्राण्यङ्गादीनां समाहार एवं’ इत्येवमर्थमित्यर्थः ॥ उद्योते- व्यभिचारार्थमिति । नित्यैकवद्भावस्य व्यभिचारार्थमित्यर्थः ॥ एवं च ‘जातिरप्राणिनाम्’ इत्येकवद्भावस्य वैकल्पिकत्वाद् बहुवचने तस्य द्विवचनं विधीयत इति तिष्यपुनर्वसू तिष्यपुनर्वसु सिद्धमिति बोध्यम् ॥

मार्थं प्रकरणम्—प्राण्यङ्गादीनां समाहार एव यथा स्यात् ॥ अनुवादे चरणानाम् ।२।४।३ ॥ चरणानां द्वन्द्व एकवत्स्यात्सिद्धस्योपन्यासे ॥ स्थेणोर्लुङीति वक्तव्यम्* ॥ उद्- गात्कठकालापम् । प्रत्यष्ठात्कठकौथुमम् ॥ अध्वर्युकतुरनपुंसकम् ।२।४।४ ॥ यजुर्वेदे विहितो यः क्रतुस्तद्वाचिनामनपुंसकलिङ्गानां द्वन्द्व एकवत्स्यात् ॥ अर्काश्वमेधम् ॥ अध्वर्युकतुः किम् ? इषुवज्रौ सामवेदे विहितौ ॥ अनपुंसकं किम् ? राजसूयवाजपेये । अर्धर्चादौ ॥ अध्ययनतोऽविप्रकृष्टाख्यानाम् ।२।४।५ ॥ अध्ययनेन प्रत्यासन्ना आख्या येषां तेषां द्वन्द्व एकवत् ॥ पदक्रमकम् ॥ जातिरप्राणिनाम् ।२।४।६ ॥ प्राणिवर्जजातिवा- चिनां द्वन्द्व एकवत् ॥ धानाशष्कुलि ॥ प्राणिनां तु विट्शूद्राः ॥ द्रव्यजातीयानामेव । नेह— रूपरसौ । गमनाकुञ्चने ॥ जातिप्राधान्य एवायमेकवद्भावः । द्रव्यविशेषविवक्षायां तु बदराम- लकानि ॥ विशिष्टलिङ्गो नदीदेशोऽग्रामाः ।२।४।७ ॥ ग्रामवर्जनदीदेशवाचिनां भिन्नलि- ङ्गानां समाहारे द्वन्द्व एकवत्स्यात् ॥ उद्ग्यश्च इरावती च च उद्ग्येरावती । गङ्गा च शोणश्च गङ्गाशोणम् । कुरवश्च कुरुक्षेत्रं च कुरुकुरुक्षेत्रम् ॥ भिन्नलिङ्गानां किम् ? गङ्गायमुने । मद्रके- कयाः ॥ अग्रामाः किम् ? जाम्बवं नगरम् । शाल्किनी ग्रामः । जाम्बवशालूकिन्यौ ॥ क्षुद्रजन्तवः ।२।४।८ ॥ एषां समाहारे द्वन्द्व एकवत्स्यात् ॥ यूकालिक्षम् ॥ आनकुलात्क्षुद्र- जन्तवः ॥ येषां च विरोधः शाश्वतिकः ।२।४।९ ॥ एषां प्राग्वत् ॥ अहिनकुलम् ॥ गोव्याघ्रम् । काकोलूकमित्यादौ परत्वाद् 'विभाषा वृक्षमृगेति प्राप्तं चकारेण बाध्यते ॥ शूद्रा- णामनिरवसितानाम् ।२।४।१० ॥ अबहिष्कृतानां शूद्राणां प्राग्वत् ॥ तक्षायस्कारम् । पात्राद्बहिष्कृतानां तु चण्डालमृतपाः ॥ गवाश्वप्रभृतीनि च ।२।४।११ ॥ यथोच्चारितानि साधूनि स्युः ॥ गवाश्वम् । दासीदासमित्यादि ॥ विभाषा वृक्षमृगतृणधान्यव्यञ्जनपशुशकु- न्यश्ववडवपूर्वापराधरोत्तराणाम् ।२।४।१२ ॥ वृक्षादीनां सप्तानां द्वन्द्वः अश्ववडवेत्यादि द्वन्द्वत्रयं च प्राग्वद्वा । वृक्षादौ विशेषाणामेव ग्रहणम् । प्लक्षन्यग्रोधम् । प्लक्षन्यग्रोधाः । रुरु-

A गवाश्वम्, गवाविकम्, गवैडकम्, अजाविकम्, अजैडकम्, कुब्जवामनम्, कुब्जकिरातम्, पुत्रपौत्रम्, श्वचण्डालम्, स्त्रीकुमारम्, दासीमाणवकम्, शाटीपटीकम्, शाटीप्रच्छदम्, शाटीपट्टीकम्, उष्ट्रखरम्, उष्ट्रशशम्, मूत्रशकृत्, मूत्रपुरीषम्, यकृन्मेदः, मांसशोणितम्, दर्भशरम्, दर्भपूतकम्, अर्जुनशिरीषम्, अर्जुनपुरुषम्, तृणोलपम्, दासीदासम्, कुटीकुटम्, भागवतीभागवतम् । एते गवाश्वप्रभृतयः ॥

१ सिद्धस्येति किम् ? उद्गुः कठकालापाः प्रत्यष्ठुः कठकौथुमाः ॥ २ “आपोमयः प्राणः” इति श्रुतेर- द्भिर्विनाम्लायमानप्राणानां लोकप्रसिद्ध्या जङ्गमानां मनुष्यादीनामेव प्राणित्वमिति नक्षत्राणां न प्राणित्वमिति 'तिष्यपुनर्वसू' इत्यत्रैकवद्भावः सिध्यतीति भावः ॥ ३ द्रव्येति । 'अप्राणिनाम्' इति पर्युदासाल्लब्ध- मिदमिति भावः ॥ ४ तज्जात्याश्रयसकलव्यक्तिबोधनमेव जातिप्राधान्यम् ॥ ५ तज्जात्याश्रयकियद्व्य- क्तिबोधनेच्छैव द्रव्यविशेषविवक्षा ॥ ६ 'क्षुद्रजन्तुरनस्थिः स्यादथवा क्षुद्र एव यः । शतं वा प्रसूतौ येषां केचिदानकुलावधि' ॥ ७ “सिद्धविशेषाणां वृक्षाद्यर्थम्” इति 'स्वं रूपम्' इति सूत्रवार्तिकं स्मारयन्नाह- विशेषाणामेवेति ॥

पृषतम् । रुरुपृषताः । कुशकाशम् । कुशकाशाः । व्रीहियवम् । व्रीहियवाः । दधिघृतम् । दधिघृते । गोमहिषम् । गोमहिषाः । शुकवकम् । शुकवकाः । अश्ववडवम् । अश्ववडवौ । पूर्वापरम् । पूर्वापरे । अधरोत्तरम् । अधरोत्तरे ॥ फलसेनावनस्पतिमृगशकुनिक्षुद्रजन्तुधा- न्यतृणानां बहुप्रकृतिरेव द्वन्द्व एकवदिति वाच्यम् * ॥ बदराणि चामलकानि च बद- रामलकम् । जातिरप्राणिनामित्येकवद्भावः । नेह-बदरामलके । रथिकाश्वारोहौ । प्लक्षन्यग्रोधौ । इत्यादि ॥ ²विभाषावृक्षेति सूत्रे येऽप्राणिनस्तेषां ग्रहणं 'जातिरप्राणिनामिति नित्ये प्राप्ते विक- ल्पार्थम् ॥ ³पशुग्रहणं हस्त्यश्वादिषु सेनाङ्गत्वान्नित्ये⁴ प्राप्ते ॥ 'मृगाणां मृगैरेव शकुनीनां तैरेवो- भयत्र द्वन्द्वः । अन्यैस्तु सहेतरेतरयोग एव' इति नियमार्थं मृगशकुनिग्रहंणम्⁵ ॥ एवं ⁶पूर्वापर- मधरोत्तरमित्यपि ॥ अश्ववडवग्रहणं तु पक्षे नपुंसकत्वार्थम् । अन्यथा परत्वात् 'पूर्ववदश्ववडवा- विति स्यात् ॥ विप्रतिषिद्धं चानधिकरणवाचि । २।४।१३ ॥ विरुद्धार्थानामद्रव्यवाचिनां द्वन्द्व एकवद्वा स्यात् ॥ शीतोष्णम् । शीतोष्णे । ⁷वैकल्पिकः समाहारद्वन्द्वः 'चार्थे द्वन्द्वः' इति सूत्रेण प्राप्तः स विरुद्धार्थानां यदि भवति, तर्हि अद्रव्यवाचिनामेवेति नियमार्थमिदम् । तेन द्रव्यवाचिनामितरेतरयोग एव । शीतोष्णे उदके स्तः ॥ ⁸'विप्रतिषिद्धं किम् ? नन्दकपाञ्चजन्यौ । इह पाक्षिकः समाहारद्वन्द्वो भवत्येव ॥ न ^Aदधिपयआदीनि । २।४।१४ ॥ एतानि नैकवत्स्युः । दधिपयसी । इध्माबर्हिषी । निपातनाद्दीर्घः । ऋक्सामे । वाङ्मनसे ॥ अधिकरणैतावत्त्वे च । २।४।१५॥ द्रव्यसंख्यावगमे एकवदेवेति नियमो न स्यात् ॥ दश दन्तोष्ठाः ॥ विभाषा समीपे । २।४।१६॥ अधिकरणैतावत्त्वस्य सामीप्येन परिच्छेदे समाहार एवेत्येवंरूपो नियमो वा स्यात् ॥ A दधिपयसी, सर्पिर्मधुनी, मधुसर्पिषी, ब्रह्मप्रजापती, शिववैश्रवणौ, स्कन्दविशाखौ, परिव्राजककौशिकौ प्रवर्योगपसदौ, शुक्लकृष्णौ, इध्माबर्हिषी, दीक्षातपसी, अध्ययनतपसी, उलूखलमुसले, आद्यवसाने, श्रद्धामेधे, ऋक्सामे, वाङ्मनसे । इति दधिपयआदयः ॥ १ एकवद्भावे नियमार्थं वार्तिकमाह-फलसेनेति ॥ २ 'विभाषावृक्ष-' इति सूत्रे 'फलसेना-' इति वार्तिके च निर्दिष्टप्रयोजनमाह-विभाषा वृक्षेति सूत्र इति ॥ अप्राणिनः वृक्षतृणधान्यव्यञ्जनानि ॥ ३ हस्त्यश्वादिषु सेनाङ्गत्वादिति । 'एकेभैकरथा त्र्यश्वा पत्तिः पञ्चपदातिका' इति पत्तिपरिग- णितपील्वादीनां लक्षणलक्षितपत्तितो यथाक्रमं त्रिगुणतया ×३=सेनामुख ×३= गुल्म ×३= गण ×३= वाहिनी ×३= पृतना ×३= चमू ×३= अनीकिनीसंज्ञाः सेना भवन्ति । अनीकिन्या दशगुणत्वे अक्षौ- हिणीसंज्ञा सेना भवति । तत्र हस्तिरथाश्वानां केवलानामनुपपत्त्या पीलुवानरथवानचर्माधाराः स्वारा मुख्ययो- द्धारश्च यद्यपि गृह्यन्ते तथापि पीलुवानादीनां तदधीनवृत्तित्वाद् मुख्यतया हस्त्यादय एव सेनाङ्गत्वेन गृह्यन्ते । तथा चेदं प्रयोजननिरूपणं सूत्रवार्तिकयोरेकवाक्यतया सेनापशुग्रहणपरं बोध्यम् । अत एव क्षुद्रपशुग्रहणचारितार्थ्यस्य 'महाजोरभ्रम्' इत्यत्र भाष्ये वर्णितस्य नासामञ्जस्यम् ॥ ४ नित्ये प्राप्त इति । विकल्पार्थम् इति शेषः ॥ ५ मृगशकुनिग्रहणमिति । मृगग्रहणं वार्तिके, शकुनिग्रहणं सूत्रे वार्तिके चेति बोध्यम् ॥ 'चार्थे द्वन्द्वः' इत्येव समाहारद्वन्द्वेनैकवद्भावसिद्धौ इति शेषः ॥ ६ पूर्वापरशब्दयोरधरोत्तरशब्दयोश्च परस्परं यथानिर्दिष्टयोरेव समाहारद्वन्द्वः अन्यैस्त्वितरेतरयोग एवेति भावः ॥ ७ 'चार्थे द्वन्द्वः' इति सूत्रेण प्राप्तो यो वैकल्पिकः समाहारद्वन्द्वः, स इत्यन्वयः ॥ ८ 'चार्थे द्वन्द्वः' इति सूत्रेण प्राप्तो वैकल्पिकः समाहारद्वन्द्वोऽद्रव्यवाचिनामेव' इति नियमाङ्गीकारे 'नन्दकपाञ्चजन्यौ' इत्यत्र द्रव्यवाचित्वेन नैव स्याद् अतो 'विप्रतिषिद्धम्' इतीति भावः ॥

उपदशं दन्तोष्ठम् । उपदशाः दन्तोष्ठाः ॥ आनङ् ऋतो द्वन्द्वे । ६।३।२५ ॥ विद्यायोनिसंब- न्धवाचिनामृदन्तानां द्वन्द्वे आनङ् स्यादुत्तरपदे परे ॥ होतापोतारौ । होतृपोतृनेष्टोद्गातारः । मातापितरौ ॥ 'पुत्रेऽन्यतरस्यामित्यतो मण्डूकप्लुत्या पुत्रे इत्यनुवृत्तेः पितापुत्रौ ॥ देवता- द्वन्द्वे च । ६।३।२६ ॥ इहोत्तरपदे परे आनङ् ॥ मित्रावरुणौ ॥ वायुशब्दप्रयोगे प्रति- षेधः * ॥ अग्निवायू । वाय्वग्नी ॥ पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यस्य परिग्रहार्थम् । तेन ब्रह्मप्र- जापती इत्यादी नानङ् । एतद्धि नैकहविर्भागित्वेन श्रुतं, नापि लोके प्रसिद्धं साहचर्यम् ॥ ईदग्नेः सोमवरुणयोः । ६।३।२७ ॥ देवताद्वन्द्वे इत्येव ॥ अग्नेस्तुत्स्तोमसोमाः । ८।३। ८२ ॥ अग्नेः परेषांमेषां सस्य षः स्यात्समासे ॥ [ अग्निष्टुत् । अग्निष्टोमः ॥ ] अग्नीषोमौ । अग्नीवरुणौ ॥ इद्वृद्धौ । ६।३।२८ ॥ वृद्धिमत्युत्तरपदे अग्नेरिदादेशः स्याद्देवताद्वन्द्वे ॥ अग्न्यम- रुतौ देवते अस्य आग्निमारुतं कर्म । अग्नीवरुणौ देवते अस्य आग्निवारुणम् । 'देवताद्वन्द्वे चेत्युभयपदवृद्धिः । अलौकिके वाक्ये आनङ्मीत्त्वं च बाधित्वा इत् ॥ वृद्धौ किम् ? आग्नेन्द्रः । नेन्द्रस्य परस्येत्युत्तरपदवृद्धिप्रतिषेधः ॥ विष्णौ न * ॥ आग्नावैष्णवम् ॥ दिवो द्यावा । ६।३। २९ ॥ देवताद्वन्द्वे उत्तरपदे ॥ द्यावाभूमी । द्यावाक्षामे ॥ दिवस्च पृथिव्याम् । ६।३। ३० ॥ दिव इत्येव । चाद् द्यावा । आदेशे अकारोच्चारणं सकारस्य रुत्वं मा भूदित्येतदर्थम् । द्यौश्च पृथिवी च दिवस्पृथिव्यौ । द्यावापृथिव्यौ ॥ छन्दसि दृष्टानुविधिः ॥ द्यावा चिदस्मै पृथिवी । दिवस्पृथिव्योररतिरित्पन्न पदकारा विसर्गं पठन्ति ॥ उषासोषसः । ६।३।३१ ॥ उषस्शब्दस्योषासादेशो देवताद्वन्द्वे ॥ उषासासूर्यम् ॥ मातरपितरावुदीचाम् । ६।३।३२ ॥ मातरपितरौ ॥ उदीचां किम् ? मातापितरौ ॥ द्वन्द्वाच्चुदषहान्तात्समाहारे । ५।४। १०६ ॥ चवर्गान्ताद्दषहान्ताच्च द्वन्द्वादच् स्यात्समाहारे ॥ वाक् च त्वक् च वाक्त्वचम् । त्वक्स्रजम् । शमीदृषदम् । वाक्त्विषम् । छत्रोपानहम् ॥ समाहारे किम् ? प्रावृट्शरदौ ॥ इति द्वन्द्वप्रकरणम् । अथैकशेषप्रकरणम् । सरूपाणाम् । रामौ । रामाः ॥ विरूपाणामपि समानार्थानाम् * ॥ वक्रदण्डश्च कुटिल- दण्डश्च वक्रदण्डौ । कुटिलदण्डौ ॥ वृद्धो यूना तल्लक्षणश्चेदेव विशेषः । १।२।६५ ॥ १ ऋदन्तानामिति । 'ऋतो विद्यायोनिसंबन्धेभ्यः ' इत्यतः 'ऋतः ' इत्यनुवर्तमाने पुनर् 'ऋतः' इत्युपादानसामर्थ्याद् अवधारणप्रतीत्या 'ऋदन्तानामेव द्वन्द्वे ' इत्यर्थो बोध्यः । तेन पितृपितामहादौ नैवा- नङ् ॥ २ पुत्र इत्यनुवृत्तेरिति । 'ऋदन्तस्य पुत्रे आनङ् ' इत्यर्थाङ्गीकारेण तातपुत्रावित्यादौ नानङ् ३ षत्वोदाहरणत्वेनानयोरपि निर्देशोऽत्र ॥ ४ अन्तरङ्गत्वल्लौकिकविग्रहवाक्य इव जातम् आनङम् ईत्त्वं च को वारयेद् अत आह-अलौकिक इति । उपसंजनिष्यमाणनिमित्तोप्यवाद उपसंजातनिमित्तम- प्युत्सर्गं बाधते ' इति न्यायादिकारः स्वनििमित्तवृद्धेरुपसंजनिष्यमाणत्वेन उपसंजातद्वन्द्वरूपनिमित्तमपि आनङम् ईत्त्वं च बाधते इति भावः ॥ ५ मध्ये 'चिदस्मै ' इति पददानेन सूचिते समासाभावेपि द्यावादेशदर्शनाद् वेदे द्यावादेशे नैव द्वन्द्रापेक्षेति भावः ॥ लोके विसर्गस्थानिरुत्वबाधकत्वनेपि पदपाठे विसर्गदर्शनेन रुत्वं भवत्येवेति भावः ॥

एकशेषप्रकरणम् । ( १५६ )

यूना सहोक्तौ गोत्रं शिष्यते गोत्रयुवप्रत्ययमात्रकृतं चेत्तयोः कृत्स्नं वैरूप्यं स्यात् । गार्ग्यश्च गार्ग्यायणश्च गार्ग्यौ ॥ वृद्धः किम् ? गर्गगार्ग्यायणौ ॥ यूना किम् ? गर्गगार्ग्यौ ॥ तल्लक्षणः किम् ? भागवित्तिभौगवित्तिकी ॥ कृत्स्नं किम् ? गार्ग्यवात्स्यायनौ ॥ स्त्री पुंवच्च ।१।२।६६ ॥ यूना सहोक्तौ वृद्धा स्त्री शिष्यते, तदर्थश्च पुंवत् ॥ गार्गी च गार्ग्यायणौ च गर्गाः । अस्त्रिया- मित्यनुवर्तमाने 'यञञोश्चेति लुक् ॥ दाक्षी च दाक्षायणश्च दाक्षी ॥ पुमान् स्त्रिया ।१।२। ६७ ॥ स्त्रिया सहोक्तौ पुमान् शिष्यते तल्लक्षण एव विशेषश्चेत् ॥ हंसी च हंसश्च हंसौ ॥ भ्रातृपुत्रौ स्वसृदुहितृभ्याम् ।१।२।६८ ॥ भ्राता च स्वसा च भ्रातरौ । पुत्रश्च दुहिता च पुत्रौ ॥ नपुंसकमनपुंसकेनैकवच्चास्यान्यतरस्याम् ।१।२।६९ ॥ अक्लीबेन सहोक्तौ क्लीबं शिष्यते, तच्च वा एकवत्स्यात्तल्लक्षण एव विशेषश्चेत् ॥ शुक्लः पटः । शुक्ला शाटी । शुक्लं वस्त्रम्—तदिदं शुक्लम्, तानीमानि शुक्लानि ॥ पिता मात्रा । १ । २ । ७० ॥ मात्रा सहोक्तौ पिता वा शिष्यते ॥ माता च पिता च पितरौ । मातापितरौ ॥ श्वशुरः श्वश्र्वा । १।२।७१ ॥ श्वश्र्वा सहोक्तौ श्वशुरो वा शिष्यते तल्लक्षण एव विशेषश्चेत् ॥ श्वश्रूश्च श्वशुरश्च श्वशुरौ । श्वश्रूश्वशुरौ ॥ ^Aत्यदादीनि सर्वैर्नित्यम् ।१।२।७२ ॥ सर्वैः सहोक्तौ त्यदादीनि नित्यं शिष्यन्ते ॥ स च देवदत्तश्च तौ ॥ त्यदादीनां मिथः सहोक्तौ यत्परं तच्छिष्यते* ॥ स च यश्च यौ ॥ पूर्वशेषोऽपि दृश्यते इति भाष्यम् ॥ स च यश्च तौ ॥ त्यदादितः शेषे पुंनपुंसकतो लिङ्गवचनानि * सा च देवदत्तश्च तौ । तच्च देवदत्तश्च यज्ञदत्ता च तानि ॥ पुंनपुंसकयोस्तु परत्वान्नपुंसकं शिष्यते । तच्च देवदत्तश्च ते ॥ अद्वन्द्वतत्पुरुषविशेषणानामिति


A त्यदादिः सर्वाद्यन्तर्गणः ॥ १ भागवित्तिशब्दाद् गोत्र इञ् । तदन्ताद् यूनि कुत्सने च ‘वृद्धाद्वक् सौवीरेषु बहुलम्’ इति ठकि जाते भागवित्तिकाशब्दे यूनोर्थाद् अधिकयोः सौवीरकुत्सार्थयोरपि प्रतीत्या गोत्रयुवमात्रकृतस्य वैलक्षण्यस्याभावा- नैव भवत्यत्रैकशेष इति भावः ॥ २ अत्र कृत्स्नं वैरूप्यं गोत्रयुवप्रत्ययमात्रकृतं न किंतु ‘गर्ग-वत्स’ इति प्रकृतिकृतमप्यस्तीति नैकशेषो भवतीति भावः ॥ ३ पुंवद्भावफलं दर्शयति-अस्त्रियामितीति ॥ ४ पुंवत्त्वेन ‘इतो मनुष्यजातेः’ इति ङीषोऽप्राप्तेः ह्रस्वान्ताद् दाक्षिशब्दाद् औङि ‘दीर्घाज्जसि च’ इति निषेधस्याप्राप्त्या ‘प्रथमयोः’ इति पूर्वसवर्णदीर्घो भवतीति भावः ॥ ५ एवं च देवदत्तश्च त्वं चेति सहवि- वक्षायां ‘युवां गच्छथः’ चैत्रश्च अहं चेति सहविवक्षायाम् ‘आवां गच्छावः’ इत्येवं पुरुषव्यवस्था सिद्धा भवति ॥ ६ एवं च स च त्वं चेति सहविवक्षायां ‘युवां गच्छथ

( १५६ ) सिद्धान्तकौमुद्याम्- वक्तव्यम् ॥ कुक्कुटमयूर्याविमे । मयूरीकुक्कुटाविमौ । तच्च सा च अर्धपिप्पल्यौ ते । ग्राम्यपशुसङ्घेष्वतरुणेषु स्त्री ।१।२।७३ ॥ एषु सहविवक्षायां स्त्री शिष्यते ॥ पुमान् स्त्रियेत्यस्यापवादः ॥ गाव इमाः ॥ ग्राम्येति किम् ? रुरव इमे ॥ पशुग्रहणं किम् ? ब्राह्मणाः ॥ सङ्घेषु किम् ? एतौ गावौ ॥ अतरुणेषु किम् ? वत्सा इमे ॥ अनेकशफेष्विति वाच्यम् ॥ अश्वा इमे ॥ इह सर्वत्र एकशेषे कृतेऽनेकसुबन्ताभावाद्द्वन्द्वो न । तेन शिरसी शिरांसीत्यादौ “समासस्येत्यन्तोदात्तः प्राण्यङ्गत्वादेकवद्भावश्च न । पन्थानौ पन्थान इत्यादौ समासान्तो न ॥ इत्येकशेषप्रकरणम् । अथ सर्वसमासशेषप्रकरणम् । कृत्तद्धितसमासैकशेषसनाद्यन्तधातुरूपाः पञ्च वृत्तयः । परार्थाभि

समासान्तप्रकरणम् । ( १५७ ) सुपां सुपा तिङा नाम्ना धातुनाऽथ तिङां तिङा । सुबन्तेनेति विज्ञेयः समासः षड्विधो बुधैः ॥ १ ॥ सुपां सुपा, राजपुरुषः । तिङा, पर्यभूषयत् । नाम्ना, कुम्भकारः धातुना, कटप्रूः ३। अजस्रम् । तिङां तिङा, पिबतखादता । खादतमोदता । तिङां सुपा, कृन्तविचक्षणेति यस्यां क्रियायां सा कृन्तविचक्षणा । एहीडादयोऽन्यपदार्थे इति मयूरव्यंसकादौ पाठात्समासः ॥ इति सर्वसमासशेषप्रकरणम् । अथ समासान्तप्रकरणम् । ऋक्पूरब्धूःपथामानक्षे ।५।४।७४ ॥ अ॑ अनक्षे इति छेदः । ऋगाद्यन्तस्य समासस्य अप्रत्ययोऽन्तावयवः स्यात् अक्षे या धूस्तदन्तस्य तु न । अर्धर्चः ॥ अनुक्तवद्बह्वृचावध्येतयैव ॥ नेह–

ऋक्सामे । वाङ्मनसे । अक्षिणी च भ्रुवौ च अक्षिभ्रुवम् । दाराश्च गावश्च दारगवम् । ऊरू च अष्ठीवन्तौ च ऊर्वष्ठीवम्—निपातनाट्टिलोपः । पदष्ठीवम्—निपातनात्पादशब्दस्य पद्भावः । नक्तं च दिवा च 'नक्तन्दिवम्' । रात्रौ च दिवा च 'रात्रिन्दिवम्' रात्रेर्मान्तत्वं निपात्यते । अहनि च दिवा च 'अहर्दिवम्' वीप्सायां द्वन्द्वो निपात्यते । अहन्यहनीत्यर्थः ॥ सरजसमिति साकल्येऽव्ययीभावः । बहुव्रीहौ तु सरजः पङ्कजम् ॥ निश्चितं श्रेयो निःश्रेयसम् । तत्पुरुष एव । नेह—निःश्रेयान् पुरुषः । पुरुषस्यायुः पुरुषायुषम् ॥ ततो द्विगुः । द्व्यायुषम् । त्र्यायु- षम् ॥ ततो द्वन्द्वः । ऋग्यजुषम् ॥ ततस्त्रयः कर्मधारयाः । जातोक्षः । महोक्षः । वृद्धोक्षः ॥ शुनः समीपम् उपशुनम् । टिलोपाभावः संप्रसारणं च निपात्यते ॥ गोष्ठे¹ श्वा गोष्ठश्वः ॥ ब्रह्महस्तिभ्यां वर्चसः ।५।४।७८ ॥ अच् स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् ॥ पत्य- राजभ्यां चेति वक्तव्यम् * ॥ पत्यवर्चसम् । राजवर्चसम् ॥ अवसमन्धेभ्यस्तमसः ।५।४।७९ ॥ अवतमसम् । संतमसम् । अन्धयतीत्यन्धं पचाद्यच् । अन्धं तमः अन्धतमसम् ॥ श्वसोवसीयइश्रेयसः ।५।४।८० ॥ वसुशब्दः प्रशस्तवाची तत ईयसुनि वसीयः । श्वस्- शब्द उत्तरपदार्थप्रशंसामाशीर्विषयतामाह । मयूरव्यंसकादित्वात्समासः । श्वोवसीयसम् । श्वःश्रेयसं ते भूयात् ॥ अन्ववतप्ताद्रहसः ।५।४।८१ ॥ अनुरहसम् । अवरहसम् । तप्तर- हसम् ॥ प्रतेरुरसः सप्तमीस्थात् ।५।४।८२ ॥ उरसि इति प्रत्युरसम् । विभक्त्यर्थेऽव्ययी- भावः ॥ अनुगवमायामे ।५।४।८३ ॥ एतन्निपात्यते दीर्घत्वे ॥ अनुगवं यानम् । 'यस्य चायामः' इति समासः ॥ द्विसतावा त्रिसतावा वेदिः ।५।४।८४ ॥ अच्प्रत्ययष्टिलोपः समासश्च निपात्यते ॥ यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाऽश्वमेधादौ तत्रेदं निपात- नम् ॥ वेदिरिति किम् ? द्विसतावती त्रिसतावती रज्जुः ॥ उपसर्गादध्वनः ।५।४।८५ ॥ प्रगतोऽध्वानं प्राध्वो रथः ॥ न पूजनात् ।५।४।६९ ॥ पूजनार्थात्परेभ्यः समासान्ता न स्युः ॥ सुराजा । अतिराजा ॥ स्वतिभ्यामेवै³* ॥ नेह—परमराजः ॥ पूजनात्किम् ? गाम- तिक्लान्तो ऽतिगवः ॥ ⁴बहुव्रीहौ सक्थ्यक्ष्णोरित्यतः प्रागेवायं निषेधः । नेह—सुसक्थः । स्वक्षः ॥ किमः क्षेपे ।५।४।७० ॥ क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ता न स्युः ॥ कुत्सितो राजा किराजा । किंसखा । किंगौः ॥ क्षेपे किम् ? किंराजः । किंसखः । किंगवः ॥ नञस्त- त्पुरुषात् ।५।४।७१ ॥ समासान्तो न ॥ अराजा । असखा ॥ तत्पुरुषात्किम् ? अधुरं शक- टम् ॥ पथो विभाषा ।५।४।७२ ॥ नञ्पूर्वात्पथो वा समासान्तः ॥ अपथम् । अपन्थाः ॥ तत्पुरुषादित्येव—अपथो देशः । ⁵अपथं वर्तते ॥ इति समासान्तप्रकरणम् । १ 'ततोऽव्ययीभावः' इति भाष्यं निगमयति—शुनः समीपमिति ॥ २ 'ततः सप्तमीसमासः' इति भाष्यं निगमयति—गोष्ठे श्वेति ॥ ३ 'पूजायां स्वतिग्रहणम्' इति वार्तिकफलितमाह—स्वतिभ्यामिति ॥ ४ 'प्राग्बहुव्रीहिग्रहणं च' इति वार्तिकार्थमाह—बहुव्रीहाविति ॥ ५ अपथं वनमित्यत्र शेषः ॥ यद्वा अत्यये ध्वंसे नञोऽव्ययीभावः ॥

अलुक्समासप्रकरणम् । (१९९) अथालुक्समासप्रकरणम् । अलुगुत्तरपदे । ६।३।१ ॥ अलुगधिकारः प्रागानङः, उत्तरपदाधिकारस्त्वापादसमाप्तेः ॥ पञ्चम्याः A स्तोकादिभ्यः । ६।३।२ ॥ एभ्यः पञ्चम्या अलुक् स्यादुत्तरपदे । स्तोका- न्मुक्तः । एवमन्तिकार्थदूरार्थकृच्छ्रेभ्यः ॥ उत्तरपदे किम् ? निष्क्रान्तः स्तोकान्निस्तोकः ॥ ब्राह्मणाच्छंसिन उपसंख्यानम् * ॥ ब्राह्मणे विहितानि शस्त्राणि उपचाराद् ब्राह्मणानि तानि शंसतीति ब्राह्मणाच्छंसी ऋत्विग्विशेषः । द्वितीयार्थे पञ्चम्युपसंख्यानादेव ॥ ओजः- सहोऽम्भस्तमसस्तृतीयायाः । ६।३।३ ॥ ओजसाकृतमित्यादि ॥ अञ्जस उपसंख्यानम्

  • ॥ अञ्जसाकृतम् । आर्जवेन कृतमित्यर्थः ॥ पुंनानुजो जनुषान्ध इति च * ॥ यस्या- ग्रजः पुमान् स पुंसानुजः । जन

लोमा ॥ अमूर्धमस्तकात्किम् ? मूर्धशिखः ॥ मस्तक‌शिखः ॥ अकामे किम् ? मुखे कामोऽस्य मुखकामः ॥ बन्धे च विभाषा ६।३।१३ ॥ हलदन्तात्सप्तम्या अलुक् ॥ हस्तेबन्धः । हस्तबन्धः ॥ हलदन्तेति किम् ? गुप्तिबन्धः ॥ तत्पुरुषे कृति बहुलम् ६।३।१४ ॥ स्तम्बेरमः । कर्णेजपः ॥ क्वचिन्न-कुरुचरः ॥ प्रावृट्शरत्कालदिवां जे ६।३।१५ ॥ प्रावृषिजः । शरदिजः । कालेजः । दिविजः । पूर्वस्यायं प्रपञ्चः ॥ विभाषा वर्षक्षरशरवरात् ६।३।१६ ॥ एभ्यः सप्तम्या अलुक् जे ॥ वर्षेजः । वर्षजः । क्षरेजः । क्षरजः । शरेजः । शरजः । वरेजः । वरजः ॥ घकालतनेषु कालनाम्नः ६।३।१७ ॥ सप्तम्या विभाषाऽलुक् स्यात् ॥ घे-पूर्वाह्णेतरे । पूर्वाह्णतरे । पूर्वाह्णेतमे । पूर्वाह्णतमे । काले-पूर्वाह्णेकाले । पूर्वाह्

स्वसृपत्योः ६।३।२४ ऋदन्तात्षष्ठ्या अलुग् वा स्वसृपत्योः परयोः ॥ मातुःपितुर्भ्या- मन्यतरस्याम् ।८।३।८५ ॥ आभ्यां स्वसुः सस्य षो वा स्यात् समासे ॥ मातुःष्वसा । मातुःस्वसा । पितुःष्वसा । पितुःस्वसा ॥ लुक्पक्षे तु-॥ मातृपितृभ्यां स्वसा ।८।३।८४ ॥ आभ्यां परस्य स्वसुः सस्य षः स्यात्समासे । मातृष्वसा पितृष्वसा ॥ असमासे तु मातुः स्वसा । पितुः स्वसा ॥ इत्यलुक्समासप्रकरणम् । अथ समासाश्रयविधिप्रकरणम् । घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योऽनेकाचो ह्रस्वः ।६।३।४३ ॥ भाषितपुं- स्काद्यो ङी तदन्तस्यानेकाचो ह्रस्वः स्यात् घरूपकल्पप्रत्ययेषु परेषु चेलडादिषु चोत्तरपदेषु ॥ ब्राह्मणितरा । ब्राह्मणितमा । ब्राह्मणिरूपा । ब्राह्मणिकल्पा । ब्राह्मणिचेली । ब्राह्मणिब्रुवा । ब्राह्मणिगोत्रेत्यादि ॥ ब्रूञः पचाद्यचि वच्यादेशगुणयोरभावो निपात्यते । चेलडादीनि वृत्तिविषये कुत्सनवाचीनि तैः 'कुत्सितानि कुत्सनैरीति समासः ॥ ङ्यः किम् ? दत्ततरा ॥ भाषित- पुंस्कात्किम् ? आमलकीतरा । कुवलीतरा ॥ नद्याः शेषस्यान्यतरस्याम् । ६।३।४४ ॥ अङ्यन्तन्नद्या ङ्यन्तस्यैकाचश्च घादिषु ह्रस्वो वा स्यात् ॥ ब्रह्मबन्धुतरा । ब्रह्मबन्धूत्तरा । स्त्रितरा । स्त्रीतरा ॥ कृन्नद्या न * ॥ लक्ष्मीतरा ॥ उगितश्च ।६।३।४५ ॥ उगितः परा या नदी तदन्तस्य घादिषु ह्रस्वो वा स्यात् ॥ विदुषितरा । ह्रस्वाभावपक्षे तु १तसिलादिष्विति पुंवत्-विद्वत्तरा । वृत्त्यादिषु विदुषीतरैत्यप्युदाहृतं तन्निर्मूलम् ॥ हृदयस्य हल्लेखयदण्- लासेषु ।६।३।५० ॥ हृदयं लिखतीति हल्लेखः । हृदयस्य प्रियं हृद्यम् । हृदयस्येदं हार्दम् । हल्लासः ॥ लेखेत्यैणन्तस्य ग्रहणम् । घञि तु हृदयलेखः । लेखग्रहणमेव २ज्ञापकम्- उत्तरपदाधिकारे ३तदन्तविधिर्नास्तीति ॥ वा शोकष्यञ्रोगेषु ।६।३।५१ ॥ हृच्छोकः । हृदयशोकः । सौहार्द्यम् । सौहृदय्यम् । हृद्रोगः । हृदयरोगः । ४हृदयशब्दपर्यायो हृच्छब्दोऽ- प्यस्ति । तेन सिद्धे प्रपञ्चार्थमिदम् ॥ पादस्य पदाज्यातिगोपहतेषु । ६ । ३ । ५२ ॥ एषूत्तरपदेषु पादस्य पद् इत्यदन्त आदेशः स्यात् । पादाभ्यामजतीति पदाजिः । पदातिः । 'अज्यतिभ्याम्' 'पादे चेतीण् प्रत्ययः । अजेर्व्यभावो निपातनात् ॥ ५पद्गः । पदोपहतः ॥ पद्यत्यतदर्थे ।६।३।५३॥ पादस्य पत्स्यादतदर्थे यति परे ॥ पादौ विध्यन्ति पद्याः शर्कराः ॥ अतदर्थे किम् ? पादार्थमुदकं पाद्यम् 'पादार्घाभ्यां चेति यत् ॥ इके चरतावुपसंख्यानम्*॥ पादाभ्यां चरति पदिकः । पर्णादित्वात् ष्ठन् ॥ हिमकाषिहतिषु च । ६।३।५४॥ पद्भि- १ अप्रवर्तमानस्य ह्रस्वस्य पुंवत्त्वबाधकत्वासंभवादिति शेषः ॥ २ ज्ञापकपरभाष्यप्रामाण्यादिति भावः ॥ ३ तेन 'कुमारीगौरितरा' इत्यत्र तरबन्ते परे ह्रस्वो नेति भावः ॥ ४ 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्येवमिति भावः ॥ ५ 'पादः पद‌ङ्घ्रिश्चरणोऽस्त्रियाम्' 'पदं व्यवसितत्राणस्थानलक्ष्मांध्रिवस्तुषु' इत्यमरे पाद्-पद-पद्-इत्येवं त्रिधोपलम्भात्प्रपञ्चार्थमेवेति बोध्यम् ॥ ११

( १६२ ) सिद्धान्तकौमुद्याम्- मम् । पत्काषी पद्धतिः ॥ ऋचः शे । ६।३।५५ ॥ ऋचः पादस्य पत्स्याच्छे परे ॥ गायत्री पच्छः शंसति । पादंपादमित्यर्थः ॥ ऋचः किम् ? पादशः कार्षापणं ददाति ॥ वा घोष- मिश्रशब्देषु । ६।३।५६ ॥ पादस्य पत् ॥ पद्घोषः । पादघोषः । पद्मिश्रः । पादमिश्रः । पच्छब्दः । पादशब्दः ॥ निष्के चेति वाच्यम् * ॥ पन्निष्कः । पादनिष्कः ॥ उदक- स्योदः संज्ञायाम् । ६।३।५७ ॥ उदमेघः ॥ उत्तरपदस्य चेति वक्तव्य * ॥ क्षीरोदः ॥ पेषंवासवाहनाधिषु च । ७।३।५८ ॥ उदपेषं पिनष्टि । उदवासः । उदवाहनः । उद- धिर्घटः । समुद्रे तु पूर्वेण सिद्धम् ॥ एकहेलादौ पूरयितव्येऽन्यतरस्याम् । ६।३।५९ ॥ उदकुम्भः । उदककुम्भः ॥ एकेति

समासाश्रयविधिप्रकरणम् । ( १६३ ) पुत्रः ॥ बन्धुनि बहुव्रीहौ । ६।१।१४ ॥ बन्धुशब्दे उत्तरपदे ष्यङः संप्रसारणं स्याद्बहु- व्रीहौ ॥ कारीषगन्ध्या बन्धुरस्येति कारीषगन्धीबन्धुः ॥ बहुव्रीहाविति किम् ? कारीषगन्ध्याया बन्धुः कारीषगन्ध्याबन्धुः । क्लीवनिर्देशस्तु शब्दस्वरूपापेक्षया ॥ मातज्मातृकमातृषु वा * ॥ कारीषगन्धीमातः । कारीषगन्ध्यामातः । कारीषगन्धीमातृकः । कारीषगन्ध्यामातृकः । कारी- षगन्धीमाता । कारीषगन्ध्यामाता । अस्मादेव निपातनान्मातृशब्दस्य मातजादेशः कव्वि- कल्पश्च । बहुव्रीहावेवेदम् । नेह-कारीषगन्ध्याया माता कारीषगन्ध्यामाता । चित्त्वसाम- र्थ्याच्चित्स्वरो बहुव्रीहिस्वरं बाधते इष्टकेषीकामालानां चिततूलभारिषु । ६।३। ६६ ॥ इष्टकादीनां तदन्तानां च